क्अ इइ,१५०।४-१६ रो इइइ,३३४-३३५ किमर्थम् निष्पूर्वात् चिनोतेः अप् विधीयते न अचा एव सिद्धम् । न हि अस्ति विशेषः निष्पूर्वात् चिनोतेः अपः वा अचः वा । तत् एव रूपम् सः एव स्वरः । न सिध्यति । हस्तादाने चेः घञ् प्राप्तः । तद्बाधनार्थम् । अतः उत्तरम् पठति । अब्विधौ निश्चिग्रहणम् अनर्थकम् स्तेयस्य घञ्विधौ प्रतिषेधात् । अब्विधौ निश्चिग्रहणम् अनर्थकम् । किम् कारणम् । स्तेयस्य घञ्विधौ प्रतिषेधात् । स्तेयस्य घञ्विधौ प्रतिषेधः उच्यते । निष्पूर्वः चिनोतिः स्तेये वर्तते । अस्तेयार्थम् तर्हि इदम् वक्तव्यम् । निष्पूर्वात् चिनोतेः अस्तेये यथा स्यात् । अस्तेयार्थम् इति चेत् न अनिष्टत्वात् । अस्तेयार्थम् इति चेत् तत् न । किम् कारणम् । अनिष्टत्वात् । न निष्पूर्वात् चिनोतेः अस्तेये अप् इष्यते । किम् तर्हि घञ् एव इष्यते । एवम् तर्हि सिद्धे सति यत् निष्पूर्वात् चिनोतेः अपम् शास्ति तत् ज्ञापयति आचार्यः यत् तत् अन्तः थाथघञ्क्ताजबितृकाणाम् इति तत् निष्पूर्वात् चिनोतेः न भवति इति । किम् एतस्य ज्ञापने प्रयोजनम् । निश्चयः । एषः स्वरः सिद्धः भवति ।
KA II,150.4-16 Ro III,334-335 kimartham niṣpūrvāt cinoteḥ ap vidhīyate na acā eva siddham . na hi asti viśeṣaḥ niṣpūrvāt cinoteḥ apaḥ vā acaḥ vā . tat eva rūpam saḥ eva svaraḥ . na sidhyati . hastādāne ceḥ ghañ prāptaḥ . tadbādhanārtham . ataḥ uttaram paṭhati . abvidhau niścigrahaṇam anarthakam steyasya ghañvidhau pratiṣedhāt . abvidhau niścigrahaṇam anarthakam . kim kāraṇam . steyasya ghañvidhau pratiṣedhāt . steyasya ghañvidhau pratiṣedhaḥ ucyate . niṣpūrvaḥ cinotiḥ steye vartate . asteyārtham tarhi idam vaktavyam . niṣpūrvāt cinoteḥ asteye yathā syāt . asteyārtham iti cet na aniṣṭatvāt . asteyārtham iti cet tat na . kim kāraṇam . aniṣṭatvāt . na niṣpūrvāt cinoteḥ asteye ap iṣyate . kim tarhi ghañ eva iṣyate . evam tarhi siddhe sati yat niṣpūrvāt cinoteḥ apam śāsti tat jñāpayati ācāryaḥ yat tat antaḥ thāthaghañktājabitṛkāṇām iti tat niṣpūrvāt cinoteḥ na bhavati iti . kim etasya jñāpane prayojanam . niścayaḥ . eṣaḥ svaraḥ siddhaḥ bhavati .
Sanskrit only: no published translation is held for this verse.