क्अ इइ,१७२।६-१३ रो इइइ,३७६-३७७ इह कस्मात् न भवति : पूर्वम् भुङ्क्ते पश्चात् व्रजति । स्वशब्देन उक्तत्वात् न भवति । न तर्हि इदानीम् इदम् भवति : पूर्वम् भुक्त्वा ततः व्रजति इति । न एतत् क्रियापौर्वकाल्यम् । किम् तर्हि । कर्तृपौर्वकाल्यम् । पूर्वम् हि असौ भुक्त्वा अन्येभ्यः भोक्तृभ्यः ततः पश्चात् व्रजति अन्येभ्यः व्रजितृभ्यः । इह कस्मात् न भवति : आस्यते भोक्तुम् इति । कुतः कस्मात् न भवति । किम् आसेः आहोस्वित् भुजेः । भुजेः कस्मात् न भवति । अपूर्वकालत्वात् । आसेः तर्हि कस्मात् न भवति । यस्मात् अत्र लट् भवति । एतत् अत्र प्रष्टव्यम् । लट् अत्र कथम् भवति इति । लट् च अत्र वासरूपेण भविष्यति ।
KA II,172.6-13 Ro III,376-377 iha kasmāt na bhavati : pūrvam bhuṅkte paścāt vrajati . svaśabdena uktatvāt na bhavati . na tarhi idānīm idam bhavati : pūrvam bhuktvā tataḥ vrajati iti . na etat kriyāpaurvakālyam . kim tarhi . kartṛpaurvakālyam . pūrvam hi asau bhuktvā anyebhyaḥ bhoktṛbhyaḥ tataḥ paścāt vrajati anyebhyaḥ vrajitṛbhyaḥ . iha kasmāt na bhavati : āsyate bhoktum iti . kutaḥ kasmāt na bhavati . kim āseḥ āhosvit bhujeḥ . bhujeḥ kasmāt na bhavati . apūrvakālatvāt . āseḥ tarhi kasmāt na bhavati . yasmāt atra laṭ bhavati . etat atra praṣṭavyam . laṭ atra katham bhavati iti . laṭ ca atra vāsarūpeṇa bhaviṣyati .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१७२।१४-१७३।१० रो इइइ,३७७-३७८ समानकर्तृकयोः इति बहुषु अप्राप्तिः । समानकर्तृकयोः इति बहुषु क्त्वा न प्राप्नोति । स्नात्वा भुक्त्वा पीत्वा व्रजति इति । किम् पुन कारणम् न सिध्यति । द्विवचननिर्देशात् । द्विवचनेन अयम् निर्देशः क्रियते । तेन द्वयोः एव पौर्वकाल्ये स्यात् । बहूनाम् न स्यात् । सिद्धम् तु क्रियाप्रधनत्वात् । सिद्धम् एतत् । कथम् । क्रियाप्रधनत्वात् । क्रियाप्रधानः अयम् निर्देशः । न अत्र निर्देशः तन्त्रम् । कथम् पुनः तेन एव नाम निर्देशः क्रियते तत् च अतन्त्रम् स्यात् । तत्कारी च भवान् तद्द्वेषी च । नान्तरीयकत्वात् अत्र द्विवचनेन निर्देशः क्रियते । अवश्यम् कया चित् विभक्त्या केन चित् वचनेन निर्देशः कर्तव्यः । तत् यथा कः चित् अन्नार्थी शालिकलापम् सतुषम् सपलालम् आहरति नान्तरीयकत्वात् । सः यावत् आदेयम् तावत् आदाय तुषपलालानि उत्सृजति । तथा कः चित् मांसार्थी मत्स्यान् सशकलान् सकण्टकान् आहरति नान्तरीयकत्वात् । सः यावत् आदेयम् तावत् आदाय शकलकण्टकान् उत्सृजति । एवम् इह अपि नान्तरीयकत्वात् द्विवचनेन निर्देशः क्रियते । न हि अत्र निर्देशः तन्त्रम् । एवम् अपि लोकविज्ञानात् न सिध्यति । तत् यथा । लोके ब्राह्मणानाम् पूर्वम् आनीयताम् इति उक्ते सर्वपूर्वः आनीयते । एवम् इह अपि सर्वपूर्वायाः क्रियायाः प्राप्नोति । अनन्त्यवचनात् तु सिद्धम् । समानकर्तृकयोः अनन्त्यस्य इति वक्तव्यम् । सिध्यति । सूत्रम् तर्हि भिद्यते । यथान्यासम् एव अस्तु । ननु च उक्तम् समानकर्तृकयोः इति बहुषु अप्राप्तिः इति । परिहृतम् एतत् सिद्धम् तु क्रियाप्रधनत्वात् इति । ननु च उक्तम् एवम् अपि लोकविज्ञानात् न सिध्यति इति । न एषः दोषः सर्वेषाम् अत्र व्रजिक्रियाम् प्रति पौर्वकाल्यम् । स्नात्वा व्रजति भुक्त्वा व्रजति पीत्वा व्रजति इति । एवम् च कृत्वा प्रयोगः अनियतः भवति । स्नात्वा भुक्त्व पीत्वा व्रजति । पीत्वा स्नात्वा भुत्वा व्रजति इति ।
KA II,172.14-173.10 Ro III,377-378 samānakartṛkayoḥ iti bahuṣu aprāptiḥ . samānakartṛkayoḥ iti bahuṣu ktvā na prāpnoti . snātvā bhuktvā pītvā vrajati iti . kim puna kāraṇam na sidhyati . dvivacananirdeśāt . dvivacanena ayam nirdeśaḥ kriyate . tena dvayoḥ eva paurvakālye syāt . bahūnām na syāt . siddham tu kriyāpradhanatvāt . siddham etat . katham . kriyāpradhanatvāt . kriyāpradhānaḥ ayam nirdeśaḥ . na atra nirdeśaḥ tantram . katham punaḥ tena eva nāma nirdeśaḥ kriyate tat ca atantram syāt . tatkārī ca bhavān taddveṣī ca . nāntarīyakatvāt atra dvivacanena nirdeśaḥ kriyate . avaśyam kayā cit vibhaktyā kena cit vacanena nirdeśaḥ kartavyaḥ . tat yathā kaḥ cit annārthī śālikalāpam satuṣam sapalālam āharati nāntarīyakatvāt . saḥ yāvat ādeyam tāvat ādāya tuṣapalālāni utsṛjati . tathā kaḥ cit māṃsārthī matsyān saśakalān sakaṇṭakān āharati nāntarīyakatvāt . saḥ yāvat ādeyam tāvat ādāya śakalakaṇṭakān utsṛjati . evam iha api nāntarīyakatvāt dvivacanena nirdeśaḥ kriyate . na hi atra nirdeśaḥ tantram . evam api lokavijñānāt na sidhyati . tat yathā . loke brāhmaṇānām pūrvam ānīyatām iti ukte sarvapūrvaḥ ānīyate . evam iha api sarvapūrvāyāḥ kriyāyāḥ prāpnoti . anantyavacanāt tu siddham . samānakartṛkayoḥ anantyasya iti vaktavyam . sidhyati . sūtram tarhi bhidyate . yathānyāsam eva astu . nanu ca uktam samānakartṛkayoḥ iti bahuṣu aprāptiḥ iti . parihṛtam etat siddham tu kriyāpradhanatvāt iti . nanu ca uktam evam api lokavijñānāt na sidhyati iti . na eṣaḥ doṣaḥ sarveṣām atra vrajikriyām prati paurvakālyam . snātvā vrajati bhuktvā vrajati pītvā vrajati iti . evam ca kṛtvā prayogaḥ aniyataḥ bhavati . snātvā bhuktva pītvā vrajati . pītvā snātvā bhutvā vrajati iti .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१७३।११-१६ रो इइइ,३७९ व्यादाय स्वपिति इति उपसङ्ख्यानम् अपूर्वकालत्वात् । व्यादाय स्वपिति इति उपसङ्ख्यानम् कर्तव्यम् । किम् पुनः कारणम् न सिध्यति । अपूर्वकालत्वात् । पूर्वम् हि असौ स्वपिति पश्चात् व्याददाति । न वा स्वप्नस्य अवकालत्वात् । न वा कर्तव्यम् । किम् कारणम् । स्वप्नस्य अवकालत्वात् । अवरकालः स्वप्नः । अवश्यम् असौ व्यादाय मुहुर्तम् अपि स्वपिति ।
KA II,173.11-16 Ro III,379 vyādāya svapiti iti upasaṅkhyānam apūrvakālatvāt . vyādāya svapiti iti upasaṅkhyānam kartavyam . kim punaḥ kāraṇam na sidhyati . apūrvakālatvāt . pūrvam hi asau svapiti paścāt vyādadāti . na vā svapnasya avakālatvāt . na vā kartavyam . kim kāraṇam . svapnasya avakālatvāt . avarakālaḥ svapnaḥ . avaśyam asau vyādāya muhurtam api svapiti .
Sanskrit only: no published translation is held for this verse.