क्अ इइ,१७२।६-१३ रो इइइ,३७६-३७७ इह कस्मात् न भवति : पूर्वम् भुङ्क्ते पश्चात् व्रजति । स्वशब्देन उक्तत्वात् न भवति । न तर्हि इदानीम् इदम् भवति : पूर्वम् भुक्त्वा ततः व्रजति इति । न एतत् क्रियापौर्वकाल्यम् । किम् तर्हि । कर्तृपौर्वकाल्यम् । पूर्वम् हि असौ भुक्त्वा अन्येभ्यः भोक्तृभ्यः ततः पश्चात् व्रजति अन्येभ्यः व्रजितृभ्यः । इह कस्मात् न भवति : आस्यते भोक्तुम् इति । कुतः कस्मात् न भवति । किम् आसेः आहोस्वित् भुजेः । भुजेः कस्मात् न भवति । अपूर्वकालत्वात् । आसेः तर्हि कस्मात् न भवति । यस्मात् अत्र लट् भवति । एतत् अत्र प्रष्टव्यम् । लट् अत्र कथम् भवति इति । लट् च अत्र वासरूपेण भविष्यति ।
KA II,172.6-13 Ro III,376-377 iha kasmāt na bhavati : pūrvam bhuṅkte paścāt vrajati . svaśabdena uktatvāt na bhavati . na tarhi idānīm idam bhavati : pūrvam bhuktvā tataḥ vrajati iti . na etat kriyāpaurvakālyam . kim tarhi . kartṛpaurvakālyam . pūrvam hi asau bhuktvā anyebhyaḥ bhoktṛbhyaḥ tataḥ paścāt vrajati anyebhyaḥ vrajitṛbhyaḥ . iha kasmāt na bhavati : āsyate bhoktum iti . kutaḥ kasmāt na bhavati . kim āseḥ āhosvit bhujeḥ . bhujeḥ kasmāt na bhavati . apūrvakālatvāt . āseḥ tarhi kasmāt na bhavati . yasmāt atra laṭ bhavati . etat atra praṣṭavyam . laṭ atra katham bhavati iti . laṭ ca atra vāsarūpeṇa bhaviṣyati .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.