Library·Patanjali: Vyakaranamahabhasya·4·4.1·4.1.1

Patanjali: Vyakaranamahabhasya 4.1.1

क्अ इइ,१८९।२-१९१।७ रो इइइ,४१९-४२८ ङ्याप्प्रातिपदिकग्रहणम् किमर्थम् । ङ्याप्प्रातिपदिकात् यथा स्युः । धातोः मा भूवन् इति । न एतत् अस्ति प्रयोजनम् । धातोः तव्यादयः विधीयन्ते । ते अपवादत्वात् बाधकाः भविष्यन्ति । तिङन्तात् तर्हि मा भूवन् इति । एकत्वादिषु अर्थेषु स्वादयः विधीयन्ते । ते च अत्र तिङा उक्ताः एकत्वादयः इति कृत्वा उक्तार्थत्वान् न भविष्यन्ति । टाबादयः तर्हि तिङन्तात् मा भूवन् इति । स्त्रियाम् टाबादयः विधीयन्ते । न च तिङन्तस्य स्त्रीत्वेन योगः अस्ति । अणादयः तर्हि तिङन्तात् मा भूवन् इति । अपत्यादिष्व् अर्थेषु अणादयः विधीयन्ते । न च तिङन्तस्य अपत्यादिभिः योगः अस्ति । अथ अपि कथम् चित् योगः स्यात् एवम् अपि न दोषः । आचार्यप्रवृत्तिः ज्ञापयति न तिङन्तात् अणादयः भवन्ति इति यत् अयम् क्व चित् तद्धितविधौ तिङ्ग्रहणम् करोति । अतिशायने तमबिष्ठनौ तिङः च इति । अतः उत्तरम् पठति । ङ्याप्प्रातिपदिकग्रहणम् अङ्गभपदसञ्ज्ञार्थम् । ङ्याप्प्रातिपदिकग्रहणम् क्रियते अङ्गभपदसञ्ज्ञार्थम् । अङ्गभपदसञ्ज्ञाः ङ्याप्प्रातिपदिकस्य यथा स्युः इति । क्व पुनः इह अङ्गभपदसञ्ज्ञार्थेन ङ्याप्प्रातिपदिकग्रहणेन अर्थः । टाबादिषु । न एतत् अस्ति प्रयोजनम् । ग्रहणवद्भ्यः टाबादयः विधीयन्ते । उगितः ङीप् भवति अतः टाप् भवति इति । यत् तत् शब्दस्वरूपम् गृह्यते तस्मात् तदुत्पत्तिः । तस्य एताः सञ्ज्ञाः भविष्यन्ति । अथ अपि कः चित् अग्रहणः एवम् अपि अदोषः । स्त्रियाम् टाबादयः विधीयन्ते । यत् तत् शब्दस्वरूपम् स्त्रियाम् वर्तते तस्मात् तदुत्पत्तिः । तस्य एताः सञ्ज्ञाः भविष्यन्ति । अणादिषु तर्हि । अणादयः अपि ग्रहणवद्भ्यः टाबादयः विधीयन्ते । गर्गादिभ्यः यञ् नडादिभ्यः फक् इति । यत् तत् शब्दस्वरूपम् गृह्यते तस्मात् तदुत्पत्तिः । तस्य एताः सञ्ज्ञाः भविष्यन्ति । अथ अपि कः चित् अग्रहणः एवम् अपि अदोषः । अपत्यादिषु अर्थेषु अणादयः विधीयन्ते । यत् तत् शब्दस्वरूपम् अपत्यादिषु अर्थेषु वर्तते तस्मात् तदुत्पत्तिः । तस्य एताः सञ्ज्ञाः भविष्यन्ति । स्वार्थिकेषु तर्हि । स्वार्थिकाः अपि ग्रहणवद्भ्यः विधीयन्ते । यावादिभ्यः कन् प्रज्ञाइद्भ्यः अण् इति । यत् तत् शब्दस्वरूपम् गृह्यते तस्मात् तदुत्पत्तिः । तस्य एताः सञ्ज्ञाः भविष्यन्ति । यः तर्हि अग्रहणः शुक्लतरः कृष्णतरः इति । अत्र अपि न यावत् शुक्लः तावत् शुक्लतरः । प्रकृष्टः शुक्लः शुक्लतरः । यत् तत् शब्दस्वरूपम् प्रकृष्टे वर्तते तस्मात् तदुत्पत्तिः । तस्य एताः सञ्ज्ञाः भविष्यन्ति । स्वादिषु तर्हि । एकत्वादिषु अर्थेषु स्वादयः विधीयन्ते । यत् तत् शब्दस्वरूपम् एकत्वादिषु अर्थेषु वर्तते तस्मात् तदुत्पत्तिः । तस्य एताः सञ्ज्ञाः भविष्यन्ति । कथम् पुनः इह उच्यमानाः स्वादयः एकत्वादिषु अर्थेषु शक्या विज्ञातुम् । एकवाक्यत्वात् । एकम् वाक्यम् तत् च इदम् च । यदि एकम् वाक्यम् तत् च इदम् च किमर्थम् नानादेशस्थम् क्रियते । कौशलमात्रम् एतत् आचार्यः दर्शयति यत् एकम् वाक्यम् सत् नानादेशस्थम् करोति । अन्यत् अपि सङ्ग्रहीष्यामि इति । यच्छयोः च लुगर्थम् । यच्छयोः तर्हि लुगर्थम् ङ्याप्प्रातिपदिकग्रहणम् क्रियते । कंसीयपरशव्ययोः यञञौ लुक् च इति ङ्याप्प्रातिपदिकात् परस्य लुक् यथा स्यात् । अक्रियमाणे हि ङ्याप्प्रातिपदिकग्रहणे प्रकृतेः अपि लुक् प्रसज्येत । एतत् अपि न अस्ति प्रयोजनम् । यथा परिभाषितम् प्रत्ययस्य लुक्श्लुलुपः भवन्ति इति प्रत्ययस्य भविष्यति । एवम् अपि उकारसकारयोः प्रसज्येत । कमेः सः कंसः परान् श्र्णाति इति परशुः इति । उणादयः अव्युत्पन्नानि प्रातिपदिकानि । वृद्धावृद्धावर्णस्वरद्व्यज्लक्षणे च प्रत्ययविधौ तत्सम्प्रत्ययार्थम् । वृद्धावृद्धावर्णस्वरद्व्यज्लक्षणे तर्हि प्रत्ययविधौ तत्सम्प्रत्ययार्थम् ङ्याप्प्रातिपदिकग्रहणम् क्रियते । वृद्धात् अवृद्धात् अवर्णान्टात् अनुदात्तादेः द्व्यचः इति एतानि प्रातिपदिकविशेषणानि यथा स्युः इति । अथ अक्रियमाणे ङ्याप्प्रातिपदिकग्रहणे कस्य एतानि विशेषणानि स्युः । समर्थविशेषणानि । तत्र कः दोषः । उदीचाम् वृद्धात् अगोत्रात् इह च प्रसज्येत ज्ञानाम् ब्राह्मणानाम् अपत्यम् इति । एतत् हि समर्थम् वृद्धम् । इह च न स्यात् ज्ञयोः ब्राह्मणयोः अपत्यम् इति । एतत् हि समर्थम् अवृद्धम् । वृद्ध। अवृद्ध । प्राचाम् अवृद्धात् फिन् बहुलम् इह च प्रसज्येत ज्ञयोः ब्राह्मणयोः अपत्यम् इति । एतत् हि समर्थम् अवृद्धम् । इह च न स्यात् ज्ञानाम् ब्राह्मणानाम् अपत्यम् इति । एतत् हि समर्थम् वृद्धम् । अवृद्ध । अवर्ण । अत इञ् भवति इह

KA II,189.2-191.7 Ro III,419-428 ṅyāpprātipadikagrahaṇam kimartham . ṅyāpprātipadikāt yathā syuḥ . dhātoḥ mā bhūvan iti . na etat asti prayojanam . dhātoḥ tavyādayaḥ vidhīyante . te apavādatvāt bādhakāḥ bhaviṣyanti . tiṅantāt tarhi mā bhūvan iti . ekatvādiṣu artheṣu svādayaḥ vidhīyante . te ca atra tiṅā uktāḥ ekatvādayaḥ iti kṛtvā uktārthatvān na bhaviṣyanti . ṭābādayaḥ tarhi tiṅantāt mā bhūvan iti . striyām ṭābādayaḥ vidhīyante . na ca tiṅantasya strītvena yogaḥ asti . aṇādayaḥ tarhi tiṅantāt mā bhūvan iti . apatyādiṣv artheṣu aṇādayaḥ vidhīyante . na ca tiṅantasya apatyādibhiḥ yogaḥ asti . atha api katham cit yogaḥ syāt evam api na doṣaḥ . ācāryapravṛttiḥ jñāpayati na tiṅantāt aṇādayaḥ bhavanti iti yat ayam kva cit taddhitavidhau tiṅgrahaṇam karoti . atiśāyane tamabiṣṭhanau tiṅaḥ ca iti . ataḥ uttaram paṭhati . ṅyāpprātipadikagrahaṇam aṅgabhapadasañjñārtham . ṅyāpprātipadikagrahaṇam kriyate aṅgabhapadasañjñārtham . aṅgabhapadasañjñāḥ ṅyāpprātipadikasya yathā syuḥ iti . kva punaḥ iha aṅgabhapadasañjñārthena ṅyāpprātipadikagrahaṇena arthaḥ . ṭābādiṣu . na etat asti prayojanam . grahaṇavadbhyaḥ ṭābādayaḥ vidhīyante . ugitaḥ ṅīp bhavati ataḥ ṭāp bhavati iti . yat tat śabdasvarūpam gṛhyate tasmāt tadutpattiḥ . tasya etāḥ sañjñāḥ bhaviṣyanti . atha api kaḥ cit agrahaṇaḥ evam api adoṣaḥ . striyām ṭābādayaḥ vidhīyante . yat tat śabdasvarūpam striyām vartate tasmāt tadutpattiḥ . tasya etāḥ sañjñāḥ bhaviṣyanti . aṇādiṣu tarhi . aṇādayaḥ api grahaṇavadbhyaḥ ṭābādayaḥ vidhīyante . gargādibhyaḥ yañ naḍādibhyaḥ phak iti . yat tat śabdasvarūpam gṛhyate tasmāt tadutpattiḥ . tasya etāḥ sañjñāḥ bhaviṣyanti . atha api kaḥ cit agrahaṇaḥ evam api adoṣaḥ . apatyādiṣu artheṣu aṇādayaḥ vidhīyante . yat tat śabdasvarūpam apatyādiṣu artheṣu vartate tasmāt tadutpattiḥ . tasya etāḥ sañjñāḥ bhaviṣyanti . svārthikeṣu tarhi . svārthikāḥ api grahaṇavadbhyaḥ vidhīyante . yāvādibhyaḥ kan prajñāidbhyaḥ aṇ iti . yat tat śabdasvarūpam gṛhyate tasmāt tadutpattiḥ . tasya etāḥ sañjñāḥ bhaviṣyanti . yaḥ tarhi agrahaṇaḥ śuklataraḥ kṛṣṇataraḥ iti . atra api na yāvat śuklaḥ tāvat śuklataraḥ . prakṛṣṭaḥ śuklaḥ śuklataraḥ . yat tat śabdasvarūpam prakṛṣṭe vartate tasmāt tadutpattiḥ . tasya etāḥ sañjñāḥ bhaviṣyanti . svādiṣu tarhi . ekatvādiṣu artheṣu svādayaḥ vidhīyante . yat tat śabdasvarūpam ekatvādiṣu artheṣu vartate tasmāt tadutpattiḥ . tasya etāḥ sañjñāḥ bhaviṣyanti . katham punaḥ iha ucyamānāḥ svādayaḥ ekatvādiṣu artheṣu śakyā vijñātum . ekavākyatvāt . ekam vākyam tat ca idam ca . yadi ekam vākyam tat ca idam ca kimartham nānādeśastham kriyate . kauśalamātram etat ācāryaḥ darśayati yat ekam vākyam sat nānādeśastham karoti . anyat api saṅgrahīṣyāmi iti . yacchayoḥ ca lugartham . yacchayoḥ tarhi lugartham ṅyāpprātipadikagrahaṇam kriyate . kaṃsīyaparaśavyayoḥ yañañau luk ca iti ṅyāpprātipadikāt parasya luk yathā syāt . akriyamāṇe hi ṅyāpprātipadikagrahaṇe prakṛteḥ api luk prasajyeta . etat api na asti prayojanam . yathā paribhāṣitam pratyayasya lukślulupaḥ bhavanti iti pratyayasya bhaviṣyati . evam api ukārasakārayoḥ prasajyeta . kameḥ saḥ kaṃsaḥ parān śrṇāti iti paraśuḥ iti . uṇādayaḥ avyutpannāni prātipadikāni . vṛddhāvṛddhāvarṇasvaradvyajlakṣaṇe ca pratyayavidhau tatsampratyayārtham . vṛddhāvṛddhāvarṇasvaradvyajlakṣaṇe tarhi pratyayavidhau tatsampratyayārtham ṅyāpprātipadikagrahaṇam kriyate . vṛddhāt avṛddhāt avarṇānṭāt anudāttādeḥ dvyacaḥ iti etāni prātipadikaviśeṣaṇāni yathā syuḥ iti . atha akriyamāṇe ṅyāpprātipadikagrahaṇe kasya etāni viśeṣaṇāni syuḥ . samarthaviśeṣaṇāni . tatra kaḥ doṣaḥ . udīcām vṛddhāt agotrāt iha ca prasajyeta jñānām brāhmaṇānām apatyam iti . etat hi samartham vṛddham . iha ca na syāt jñayoḥ brāhmaṇayoḥ apatyam iti . etat hi samartham avṛddham . vṛddha. avṛddha . prācām avṛddhāt phin bahulam iha ca prasajyeta jñayoḥ brāhmaṇayoḥ apatyam iti . etat hi samartham avṛddham . iha ca na syāt jñānām brāhmaṇānām apatyam iti . etat hi samartham vṛddham . avṛddha . avarṇa . ata iñ bhavati iha

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१९१।१२-१९५।२३ रो इइइ,४२८-४३८ अथ ङ्याब्ग्रहणम् किमर्थम् न प्रातिपदिकात् इति एव सिद्धम् । न सिध्यति । अप्रत्ययः इति प्रातिपदिकसञ्ज्ञायाः प्रतिषेधः प्राप्नोति । यदि एषः ङ्याब्ग्रहणे हेतुः त्यूग्रहणम् अपि कर्तव्यम् । तौ अपि हि प्रत्ययौ । तिग्रहणे तावत् वार्त्तम् । तद्धितः प्रातिपदिकम् इति प्रातिपदिकसञ्ज्ञा भविष्यति । ऊग्रहणे च अपि वार्त्तम् । उवर्णान्तात् ऊङ् विधीयते । तत्र एकादेशः । एकादेशे कृते अन्तादिवद्भावात् प्रातिपदिकसञ्ज्ञा भविष्यति । यदि एषः ऊङः अग्रहणे हेतुः आब्ग्रहणम् अपि न कर्तव्यम् । आप् अपि हि अकारान्तात् विधीयते । तत्र एकादेशः । एकादेशे कृते अन्तादिवद्भावात् प्रातिपदिकसञ्ज्ञा भविष्यति । यः तर्हि अनकारान्तात् । क्रुञ्चा उष्णिहा देवविशा इति । अत्र अपि अकारान्तात् वृत्तिः लक्ष्यते । क्रुञ्चान् आलभेत । उष्णिहककुभौ । देवविशम् च मनुष्यविशम् च इति । इह तावत् उष्णिहककुभौ इति । आपः एव एतत् औत्तरपदिकम् ह्रस्वत्वम् । इह खलु अपि देवविशम् च मनुष्यविशम् च इति । न अस्ति विशेषः अकारान्तात् उत्पत्तौ सत्याम् व्यञ्जनान्तात् वा इति । यत् तावत् उच्यते इह तावत् उष्णिहककुभौ इति । आपः एव एतत् औत्तरपदिकम् ह्रस्वत्वम् इति । सञ्ज्ञाच्छन्दसोः इति एवम् तत् । न च एषा सञ्ज्ञा न अपि इदम् छन्दः । यत् अपि उच्यते इह खलु अपि देवविशम् च मनुष्यविशम् च इति । न अस्ति विशेषः अकारान्तात् उत्पत्तौ सत्याम् व्यञ्जनान्तात् वा इति । स्वरे विशेषः । यदि अत्र व्यञ्जनान्तात् उत्पत्तिः स्यात् देवविशम् इति एवम् स्वरः प्रसज्येत । देवविशम् इति च इष्यते । तस्मात् कः एषः एवम्विषयः । इदम् तर्हि पादः अन्यतरस्याम् टाप् ऋचि इति । ऋचि इति उच्यते । तत्र छान्दसत्वात् भविष्यति । ऋचि इति न इदम् छन्दः विवक्षितम् काठकम् कापालकम् अमुदकम् पैप्पलादकम् वा । किम् तर्हि । प्रत्ययार्थविशेषणम् एतत् । ऋक् चेत् प्रत्ययार्थः भवति इति । एतत् अपि न अस्ति प्रयोजनम् पदशब्दः पादशब्दसमानार्थः अकारान्तः छन्दसि दृश्यते । तस्याः सप्ताक्षरम् एकम् पदम् एअकः पादः इति अर्थः । तस्मात् उत्पत्तिः भविष्यति । इदम् तर्हि डाप् उभाभ्याम् अन्यतरस्याम् इति । बहुराजा बहुराजे बहुराजाः । ङ्याब्ग्रहणम् अनर्थकम् प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणात् । ङ्याब्ग्रहणम् अनर्थकम् । किम् कारणम् । प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणात् । प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणम् भवति इति एषा परिभाषा कर्तव्या । कः पुनः विशेषः एषा वा परिभाषा क्रियते आब्ग्रहणम् वा । अवश्यम् एषा परिभाषा कर्तव्या । बहूनि एतस्याः परिभाषायाः प्रयोजनानि । कानि । प्रयोजनम् सर्वनामस्वरसमासतद्धितविधिलुगलुगर्थम् । सर्वनामविधिः प्रयोजनम् । सर्वनाम्नः सुट् इह एव स्यात् तेषाम् येषाम् । तासाम् यासाम् इति अत्र न स्यात् । न एतत् अस्ति प्रयोजनम् । अवर्णान्तात् टाप् विधीयते । तत्र एकादेशः । एकादेशे कृते अन्तादिवद्भावात् सुट् भविष्यति । इदम् तर्हि प्रयोजनम् । सर्वनाम्नः तृतीया च इह एव स्यात् भवता हेतुना भवतः हेतोः इति । भवत्या हेतुना भवत्याः हेतोः इति अत्र न स्यात् । सर्वनाम । स्वर । कुशूलकूपकुम्भशालम् बिले इह एव स्यात् कुशूलबिलम् । कुशूलीबिलम् इति अत्र न स्यात् । स्वर । समास । द्वितीया श्रितादिभिः सह समस्यते इह एव स्यात् कष्टम् श्रितः कष्टश्रितः । कष्टम् श्रिता कष्टश्रिता इति अत्र न स्यात् । एतत् अपि न अस्ति प्रयोजनम् । श्रितशब्दः अकारान्तः । तत्र एकादेशः । एकादेशे कृते अन्तादिवद्भावात् भविष्यति । इदम् तर्हि । पूर्वसदृश इति इह एव स्यात् पित्रा सदृशः पितृसदृशः । पित्रा सदृशी पितृसदृशी इति अत्र न स्यात् । समासः । तद्धितविधि । अचित्तहिअस्तिधेनोः ठक् इह एव स्यात् हस्तिनाम् समूहः हास्तिकम् । हस्तिनीनाम् समूहः हास्तिकम् इति

KA II,191.12-195.23 Ro III,428-438 atha ṅyābgrahaṇam kimartham na prātipadikāt iti eva siddham . na sidhyati . apratyayaḥ iti prātipadikasañjñāyāḥ pratiṣedhaḥ prāpnoti . yadi eṣaḥ ṅyābgrahaṇe hetuḥ tyūgrahaṇam api kartavyam . tau api hi pratyayau . tigrahaṇe tāvat vārttam . taddhitaḥ prātipadikam iti prātipadikasañjñā bhaviṣyati . ūgrahaṇe ca api vārttam . uvarṇāntāt ūṅ vidhīyate . tatra ekādeśaḥ . ekādeśe kṛte antādivadbhāvāt prātipadikasañjñā bhaviṣyati . yadi eṣaḥ ūṅaḥ agrahaṇe hetuḥ ābgrahaṇam api na kartavyam . āp api hi akārāntāt vidhīyate . tatra ekādeśaḥ . ekādeśe kṛte antādivadbhāvāt prātipadikasañjñā bhaviṣyati . yaḥ tarhi anakārāntāt . kruñcā uṣṇihā devaviśā iti . atra api akārāntāt vṛttiḥ lakṣyate . kruñcān ālabheta . uṣṇihakakubhau . devaviśam ca manuṣyaviśam ca iti . iha tāvat uṣṇihakakubhau iti . āpaḥ eva etat auttarapadikam hrasvatvam . iha khalu api devaviśam ca manuṣyaviśam ca iti . na asti viśeṣaḥ akārāntāt utpattau satyām vyañjanāntāt vā iti . yat tāvat ucyate iha tāvat uṣṇihakakubhau iti . āpaḥ eva etat auttarapadikam hrasvatvam iti . sañjñācchandasoḥ iti evam tat . na ca eṣā sañjñā na api idam chandaḥ . yat api ucyate iha khalu api devaviśam ca manuṣyaviśam ca iti . na asti viśeṣaḥ akārāntāt utpattau satyām vyañjanāntāt vā iti . svare viśeṣaḥ . yadi atra vyañjanāntāt utpattiḥ syāt devaviśam iti evam svaraḥ prasajyeta . devaviśam iti ca iṣyate . tasmāt kaḥ eṣaḥ evamviṣayaḥ . idam tarhi pādaḥ anyatarasyām ṭāp ṛci iti . ṛci iti ucyate . tatra chāndasatvāt bhaviṣyati . ṛci iti na idam chandaḥ vivakṣitam kāṭhakam kāpālakam amudakam paippalādakam vā . kim tarhi . pratyayārthaviśeṣaṇam etat . ṛk cet pratyayārthaḥ bhavati iti . etat api na asti prayojanam padaśabdaḥ pādaśabdasamānārthaḥ akārāntaḥ chandasi dṛśyate . tasyāḥ saptākṣaram ekam padam eakaḥ pādaḥ iti arthaḥ . tasmāt utpattiḥ bhaviṣyati . idam tarhi ḍāp ubhābhyām anyatarasyām iti . bahurājā bahurāje bahurājāḥ . ṅyābgrahaṇam anarthakam prātipadikagrahaṇe liṅgaviśiṣṭasya api grahaṇāt . ṅyābgrahaṇam anarthakam . kim kāraṇam . prātipadikagrahaṇe liṅgaviśiṣṭasya api grahaṇāt . prātipadikagrahaṇe liṅgaviśiṣṭasya api grahaṇam bhavati iti eṣā paribhāṣā kartavyā . kaḥ punaḥ viśeṣaḥ eṣā vā paribhāṣā kriyate ābgrahaṇam vā . avaśyam eṣā paribhāṣā kartavyā . bahūni etasyāḥ paribhāṣāyāḥ prayojanāni . kāni . prayojanam sarvanāmasvarasamāsataddhitavidhilugalugartham . sarvanāmavidhiḥ prayojanam . sarvanāmnaḥ suṭ iha eva syāt teṣām yeṣām . tāsām yāsām iti atra na syāt . na etat asti prayojanam . avarṇāntāt ṭāp vidhīyate . tatra ekādeśaḥ . ekādeśe kṛte antādivadbhāvāt suṭ bhaviṣyati . idam tarhi prayojanam . sarvanāmnaḥ tṛtīyā ca iha eva syāt bhavatā hetunā bhavataḥ hetoḥ iti . bhavatyā hetunā bhavatyāḥ hetoḥ iti atra na syāt . sarvanāma . svara . kuśūlakūpakumbhaśālam bile iha eva syāt kuśūlabilam . kuśūlībilam iti atra na syāt . svara . samāsa . dvitīyā śritādibhiḥ saha samasyate iha eva syāt kaṣṭam śritaḥ kaṣṭaśritaḥ . kaṣṭam śritā kaṣṭaśritā iti atra na syāt . etat api na asti prayojanam . śritaśabdaḥ akārāntaḥ . tatra ekādeśaḥ . ekādeśe kṛte antādivadbhāvāt bhaviṣyati . idam tarhi . pūrvasadṛśa iti iha eva syāt pitrā sadṛśaḥ pitṛsadṛśaḥ . pitrā sadṛśī pitṛsadṛśī iti atra na syāt . samāsaḥ . taddhitavidhi . acittahiastidhenoḥ ṭhak iha eva syāt hastinām samūhaḥ hāstikam . hastinīnām samūhaḥ hāstikam iti

Sanskrit only: no published translation is held for this verse.