क्अ इइ,२०४।१०-२२ रो इइइ,४६८-४६९ किमर्थम् उभाभ्याम् इति उच्यते । उभाभ्याम् योगाभ्याम् डाप् यथा स्यात् मनन्तात् अनन्तात् च बहुव्रीहेः । न एतत् अस्ति प्रयोजनम् । प्रकृतम् उभयम् अनुवर्तते । अथ अन्यतरस्याङ्ग्रहणम् किमर्थम् । अन्यतरस्याम् डाप् यथा स्यात् । डापा मुक्ते प्रतिषेधः अपि यथा स्यात् इति । न एतत् अस्ति प्रयोजनम् । इह डाप् अपि उच्यते प्रतिषेधः अपि । तौ उभौ वचनात् भविष्यतः । इदम् तर्हि प्रयोजनम् । डाप्प्रतिषेधाभ्याम् मुक्ते ङीप् अपि यथा स्यात् । सिद्धः अत्र ङीप् अनः उपधालोपिनः अन्यतरस्याम् इति । अथ तत् अन्यतरस्याङ्ग्रहणम् शक्यम् अकर्तुम् । बाढम् शक्यम् । कथम् । इह डाप् अपि उच्यते प्रतिषेधः अपि ङीप् अपि । तत् सर्वम् वचनात् भविष्यति । न एवम् शक्यम् विज्ञातुम् । अक्रियमाणे हि तत्र अन्यतरस्याङ्ग्रहणे अनवकाशः ङीप् डाप्प्रतिषेधौ बाधेत । डाप्प्रतिषेधौ अपि अनवकाशौ । तौ वचनात् भविष्यतः । सावकाशौ डाप्प्रतिषेधौ । कः अवकाशः । सुपर्वा चारुपर्वा इति । तस्मात् तत् अन्यतरस्याङ्ग्रहणम् कर्तव्यम् । इदम् तु खलु अन्यतरस्याङ्ग्रहणम् शक्यम् अकर्तुम् । इदम् अपि अवश्यम् कर्तव्यम् । किम् प्रयोजनम् । डाप्प्रतिषेधाभ्याम् मुक्ते ङीब्रौ यथा स्याताम् इति । रविधाने बहुव्रीहेः उपसङ्ख्यानम् चोदितम् । तत् न वक्तव्यम् भवति ।
KA II,204.10-22 Ro III,468-469 kimartham ubhābhyām iti ucyate . ubhābhyām yogābhyām ḍāp yathā syāt manantāt anantāt ca bahuvrīheḥ . na etat asti prayojanam . prakṛtam ubhayam anuvartate . atha anyatarasyāṅgrahaṇam kimartham . anyatarasyām ḍāp yathā syāt . ḍāpā mukte pratiṣedhaḥ api yathā syāt iti . na etat asti prayojanam . iha ḍāp api ucyate pratiṣedhaḥ api . tau ubhau vacanāt bhaviṣyataḥ . idam tarhi prayojanam . ḍāppratiṣedhābhyām mukte ṅīp api yathā syāt . siddhaḥ atra ṅīp anaḥ upadhālopinaḥ anyatarasyām iti . atha tat anyatarasyāṅgrahaṇam śakyam akartum . bāḍham śakyam . katham . iha ḍāp api ucyate pratiṣedhaḥ api ṅīp api . tat sarvam vacanāt bhaviṣyati . na evam śakyam vijñātum . akriyamāṇe hi tatra anyatarasyāṅgrahaṇe anavakāśaḥ ṅīp ḍāppratiṣedhau bādheta . ḍāppratiṣedhau api anavakāśau . tau vacanāt bhaviṣyataḥ . sāvakāśau ḍāppratiṣedhau . kaḥ avakāśaḥ . suparvā cāruparvā iti . tasmāt tat anyatarasyāṅgrahaṇam kartavyam . idam tu khalu anyatarasyāṅgrahaṇam śakyam akartum . idam api avaśyam kartavyam . kim prayojanam . ḍāppratiṣedhābhyām mukte ṅībrau yathā syātām iti . ravidhāne bahuvrīheḥ upasaṅkhyānam coditam . tat na vaktavyam bhavati .
Sanskrit only: no published translation is held for this verse.