क्अ इइ,२६०।२-६ रो इइइ,६०६ व्यन्वचनम् अनर्थकम् प्रत्ययार्थाभावात् । व्यन्वचनम् अनर्थकम् । किम् कारणम् । प्रत्ययार्थाभावात् । किम् इदम् प्रत्ययार्थाभावात् इति । अपत्यार्थाभावात् । अपत्यम् इति वर्तते अनपत्ये च अपि सपत्ने भ्रातृव्यशब्दः वर्तते । पाप्मना भ्रातृव्येण इति । अस्तु तावत् अपत्यम् सपत्नः च तत्र भ्रातृव्यः इति । कथम् पाप्मना भ्रातृव्येण इति । उपमानात् सिद्धम् । भ्रातृव्यः इव भ्रातृव्यः ।
KA II,260.2-6 Ro III,606 vyanvacanam anarthakam pratyayārthābhāvāt . vyanvacanam anarthakam . kim kāraṇam . pratyayārthābhāvāt . kim idam pratyayārthābhāvāt iti . apatyārthābhāvāt . apatyam iti vartate anapatye ca api sapatne bhrātṛvyaśabdaḥ vartate . pāpmanā bhrātṛvyeṇa iti . astu tāvat apatyam sapatnaḥ ca tatra bhrātṛvyaḥ iti . katham pāpmanā bhrātṛvyeṇa iti . upamānāt siddham . bhrātṛvyaḥ iva bhrātṛvyaḥ .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.