क्अ इइ,२१३।१५-२१४।८ रो इइइ,४९०-४९१ अन्तर्वत् पतिवत् इति गर्भभर्तृसंयोगे । अन्तर्वत् पतिवत् इति गर्भभर्तृसंयोगे इति वक्तव्यम् । इह मा भूत् । प्रथते त्वया पतिमती पृथिवी इति । अथ अन्तःशब्दस्य अगर्भसंयोगे किम् प्रत्युदाह्रियते । अन्तः अस्याम् शालायाम् अस्ति इति । किम् पुनः कारणम् वाक्यम् एव प्रत्युदाह्रियते न पुनः मतुप् । अस्तिसामानाधिकरण्ये मतुप् विधीयते । न च अत्र अस्तिसामानाधिकरण्यम् । इह अपि तर्हि न प्राप्नोति । अन्तर्वत्नी इति । एवम् तर्हि अन्तर्वत्पतिवतोः तु मतुब्वत्वे निपातनात् । अन्तर्वत् इति मतुप् निपात्यते । वत्वम् सिद्धम् । पतिवत् इति वत्वम् निपात्यते । मतुप् सिद्धः । किम् अविशेषेण । न इति आह । गर्भिण्याम् जीवपत्याम् च । एतस्मिन् विषये । वा च छन्दसि नुक् भवेत् । वा च छन्दसि नुक् वक्तव्यः । सा अन्तर्वती देवान् उपैत् । सा अन्तर्वत्नी देवान् उपैत् । पतिवती तरुणवत्सा । पतिवत्नी तरुणवत्सा ।
KA II,213.15-214.8 Ro III,490-491 antarvat pativat iti garbhabhartṛsaṃyoge . antarvat pativat iti garbhabhartṛsaṃyoge iti vaktavyam . iha mā bhūt . prathate tvayā patimatī pṛthivī iti . atha antaḥśabdasya agarbhasaṃyoge kim pratyudāhriyate . antaḥ asyām śālāyām asti iti . kim punaḥ kāraṇam vākyam eva pratyudāhriyate na punaḥ matup . astisāmānādhikaraṇye matup vidhīyate . na ca atra astisāmānādhikaraṇyam . iha api tarhi na prāpnoti . antarvatnī iti . evam tarhi antarvatpativatoḥ tu matubvatve nipātanāt . antarvat iti matup nipātyate . vatvam siddham . pativat iti vatvam nipātyate . matup siddhaḥ . kim aviśeṣeṇa . na iti āha . garbhiṇyām jīvapatyām ca . etasmin viṣaye . vā ca chandasi nuk bhavet . vā ca chandasi nuk vaktavyaḥ . sā antarvatī devān upait . sā antarvatnī devān upait . pativatī taruṇavatsā . pativatnī taruṇavatsā .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.