क्अ इइ,२२२।८-१८ रो इइइ,५१३-५१३ स्वाङ्गात् च उपसर्जनात् इति उच्यते । किम् स्वाङ्गम् नाम । अद्रवम् मूर्तिमत् स्वाङ्गम् प्राणिस्थम् अविकारजम् अतत्स्थम् तत्र दृष्टम् च तस्य चेत् तत् तथा युतम् । अप्राणिनः अपि स्वाङ्गम् । अद्रवम् इति किमर्थम् । बहुलोहिता । न एतत् अस्ति । बह्वचः न इति प्रतिषेधः भविष्यति । इदम् तर्हि बहुकफा । मूर्तिमत् इति किमर्थम् । बहुबुद्धिः बहुमनाः । न एतत् अस्ति । अतः इति वर्तते । इदम् तर्हि । बहुज्ञाना । प्राणिस्थम् इति किमर्थम् । श्लक्ष्णमुखा शाला । अविकारजम् इति किमर्थम् । बहुगडुः बहुपटिका । न एतत् अस्ति । इह तावत् बहुगडुः इति अतः इति वर्तते । बहुपटिका इति बह्वचः न इति प्रतिषेधः भविष्यति । इदम् तर्हि बहुशोफा । अतत्स्थम् तत्र दृष्टम् च । अप्राणिस्थम् प्राणिनि दृष्टम् च स्वाङ्गसञ्ज्ञम् भवति । दीर्घकेशी रथ्या इति । तस्य चेत् तत् तथा युतम् अप्राणिनः अपि स्वाङ्गसञ्ज्ञम् भवति । दीर्घनासिकी अर्चा तुङ्गनासिकी अर्चा ।
KA II,222.8-18 Ro III,513-513 svāṅgāt ca upasarjanāt iti ucyate . kim svāṅgam nāma . adravam mūrtimat svāṅgam prāṇistham avikārajam atatstham tatra dṛṣṭam ca tasya cet tat tathā yutam . aprāṇinaḥ api svāṅgam . adravam iti kimartham . bahulohitā . na etat asti . bahvacaḥ na iti pratiṣedhaḥ bhaviṣyati . idam tarhi bahukaphā . mūrtimat iti kimartham . bahubuddhiḥ bahumanāḥ . na etat asti . ataḥ iti vartate . idam tarhi . bahujñānā . prāṇistham iti kimartham . ślakṣṇamukhā śālā . avikārajam iti kimartham . bahugaḍuḥ bahupaṭikā . na etat asti . iha tāvat bahugaḍuḥ iti ataḥ iti vartate . bahupaṭikā iti bahvacaḥ na iti pratiṣedhaḥ bhaviṣyati . idam tarhi bahuśophā . atatstham tatra dṛṣṭam ca . aprāṇistham prāṇini dṛṣṭam ca svāṅgasañjñam bhavati . dīrghakeśī rathyā iti . tasya cet tat tathā yutam aprāṇinaḥ api svāṅgasañjñam bhavati . dīrghanāsikī arcā tuṅganāsikī arcā .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.