क्अ इइ,२२२।१९-२२३।२३ रो इइइ,५१४-५१६ अथ उपसर्जनग्रहणम् किमर्थम् । इह मा भूत् । शिखा । उपसर्जनग्रहणम् अनर्थकम् बहुव्रीह्यधिकारात् । उपसर्जनग्रहणम् अनर्थकम् । किम् कारणम् । बहुव्रीह्यधिकारात् । बहुव्रीहेः इति वर्तते । क्व प्रकृतम् । बहुव्रीहेः च अन्तोदात्तात् इति । बह्वजर्थम् तर्हि उपसर्जनग्रहणम् कर्तव्यम् । बह्वचः न इति प्रतिषेधम् वक्ष्यति । तत् बह्वज्ग्रहणम् उपसर्जनविशेषणम् यथा विज्ञायेत । बह्वचः उपसर्जनात् न इति । अथ अक्रियमाणे उपसर्जनग्रहणे कस्य बह्वज्ग्रहणम् विशेषणम् स्यात् । बहुर्वीहेः इति वर्तते । बहुव्रीहिविशेषणम् विज्ञायेत । अस्ति च इदानीम् कः चित् अबह्वच् बहुव्रीहिः यदर्थः विधिः स्यात् । अस्ति इति आह : स्वडा स्वडी इति । बह्वजर्थम् इति चेत् स्वाङ्गग्रहणात् सिद्धम् । स्वाङ्गग्रहणम् क्रियते । तत् बह्वज्ग्रहणेन विशेषयिष्यामः । स्वाङ्गात् बह्वचः न इति । एवम् तर्हि अन्तोदादात्तात् इति वर्तते । अन्तोदात्तार्थः अयम् आरम्भः । अन्तोदात्तार्थम् इति चेत् सहादिकृतत्वात् सिद्धम् । यत् अयम् सहनञ्विद्यमानपूर्वात् च इति प्रत्षेधम् शास्ति तत् ज्ञापयति आचार्यः अन्तोदात्तात् अपि भवति इति । स्वाङ्गसमुदायप्रतिषेधार्थम् तु । स्वाङ्गसमुदायप्रतिषेधार्थम् तर्हि उपसर्जनग्रहणम् कर्तव्यम् । श्वाङ्गात् यथा स्यात् । स्वाङ्गसमुदायात् मा भूत् । कल्याणपाणिपादा । अथ क्रियमाणे अपि उपसर्जनग्रहणे कस्मात् एव अत्र न भवति । स्वाङ्गम् हि एतत् उपसर्जनम् । न स्वाङ्गसमुदायः स्वाङ्गग्रहणेन गृह्यते यथा जनपदसमुदायः जनपदग्रहणेन न गृह्यते । काशिकोसलीया इति जनपदतदवध्योः इति वुञ् न भवति । एतत् अपि न अस्ति प्रयोजनम् । अस्वाङ्गपूर्वपदात् इति वर्तते । तेन स्वाङ्गम् विशेषयिष्यामः । अस्वाङ्गपूर्वपदात् परम् यत् स्वाङ्गम् तदन्तात् बहुव्रीहेः इति । यत् च अत्र अस्वाङ्गपूर्वपदात् परम् न तदन्तः बहुव्रीहिः यदन्तः च बहुव्रीहिः न तत् अस्वाङ्गपूर्वपदात् परम् स्वाङ्गम् । ननु च तत् पूर्वस्मिन् योगे बहुव्रीहिविशेषणम् । न इति आह । पूर्वपदविशेषणम् । न स्वाङ्गम् अस्वाङ्गम् पूर्वम् पदम् पूर्वपदम् अस्वाङ्गम् पूर्वपदम् अस्वाङ्गपूर्वपदम् अस्वाङ्गपूर्वपदात् इति । यदि एवम् पूर्वस्मिन् योगे बहुव्रीहिः अविशेषितः भवति । बहुव्रीहिः च विशेषितः । कथम् । क्तात् इति वर्तते । तेन बहुव्रीहिम् विशेषयिष्यामः । अस्वाङ्गात् पूर्वपदात् परम् यत् क्तान्तम् तदन्तात् बहुव्रीहेः इति । इदम् तर्हि प्रयोजनम् । बहुव्रीहेः इति वर्तते उपसर्जनमात्रात् यथा स्यात् । निष्केशी यूका । अतिकेशी माला ।
KA II,222.19-223.23 Ro III,514-516 atha upasarjanagrahaṇam kimartham . iha mā bhūt . śikhā . upasarjanagrahaṇam anarthakam bahuvrīhyadhikārāt . upasarjanagrahaṇam anarthakam . kim kāraṇam . bahuvrīhyadhikārāt . bahuvrīheḥ iti vartate . kva prakṛtam . bahuvrīheḥ ca antodāttāt iti . bahvajartham tarhi upasarjanagrahaṇam kartavyam . bahvacaḥ na iti pratiṣedham vakṣyati . tat bahvajgrahaṇam upasarjanaviśeṣaṇam yathā vijñāyeta . bahvacaḥ upasarjanāt na iti . atha akriyamāṇe upasarjanagrahaṇe kasya bahvajgrahaṇam viśeṣaṇam syāt . bahurvīheḥ iti vartate . bahuvrīhiviśeṣaṇam vijñāyeta . asti ca idānīm kaḥ cit abahvac bahuvrīhiḥ yadarthaḥ vidhiḥ syāt . asti iti āha : svaḍā svaḍī iti . bahvajartham iti cet svāṅgagrahaṇāt siddham . svāṅgagrahaṇam kriyate . tat bahvajgrahaṇena viśeṣayiṣyāmaḥ . svāṅgāt bahvacaḥ na iti . evam tarhi antodādāttāt iti vartate . antodāttārthaḥ ayam ārambhaḥ . antodāttārtham iti cet sahādikṛtatvāt siddham . yat ayam sahanañvidyamānapūrvāt ca iti pratṣedham śāsti tat jñāpayati ācāryaḥ antodāttāt api bhavati iti . svāṅgasamudāyapratiṣedhārtham tu . svāṅgasamudāyapratiṣedhārtham tarhi upasarjanagrahaṇam kartavyam . śvāṅgāt yathā syāt . svāṅgasamudāyāt mā bhūt . kalyāṇapāṇipādā . atha kriyamāṇe api upasarjanagrahaṇe kasmāt eva atra na bhavati . svāṅgam hi etat upasarjanam . na svāṅgasamudāyaḥ svāṅgagrahaṇena gṛhyate yathā janapadasamudāyaḥ janapadagrahaṇena na gṛhyate . kāśikosalīyā iti janapadatadavadhyoḥ iti vuñ na bhavati . etat api na asti prayojanam . asvāṅgapūrvapadāt iti vartate . tena svāṅgam viśeṣayiṣyāmaḥ . asvāṅgapūrvapadāt param yat svāṅgam tadantāt bahuvrīheḥ iti . yat ca atra asvāṅgapūrvapadāt param na tadantaḥ bahuvrīhiḥ yadantaḥ ca bahuvrīhiḥ na tat asvāṅgapūrvapadāt param svāṅgam . nanu ca tat pūrvasmin yoge bahuvrīhiviśeṣaṇam . na iti āha . pūrvapadaviśeṣaṇam . na svāṅgam asvāṅgam pūrvam padam pūrvapadam asvāṅgam pūrvapadam asvāṅgapūrvapadam asvāṅgapūrvapadāt iti . yadi evam pūrvasmin yoge bahuvrīhiḥ aviśeṣitaḥ bhavati . bahuvrīhiḥ ca viśeṣitaḥ . katham . ktāt iti vartate . tena bahuvrīhim viśeṣayiṣyāmaḥ . asvāṅgāt pūrvapadāt param yat ktāntam tadantāt bahuvrīheḥ iti . idam tarhi prayojanam . bahuvrīheḥ iti vartate upasarjanamātrāt yathā syāt . niṣkeśī yūkā . atikeśī mālā .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.