Library·Patanjali: Vyakaranamahabhasya·4·4.1·4.1.85

Patanjali: Vyakaranamahabhasya 4.1.85

क्अ इइ,२३६।१०-२३७।८ रो इइइ,५४७-५४९ वाङ्मतिपितृमताम् छन्दसि उपसङ्ख्यानम् । वाङ्मतिपितृमताम् छन्दसि उपसङ्ख्यानम् कर्तव्यम् । वाक् । वाच्यः । वाक् । मति । मात्यः । मति । पितृमत् । पैतृमत्यः । पृथिव्याः ञाञौ । पृथिव्याः ञाञौ वक्तव्यौ । पार्थिवा पार्थिवी । देवस्य यञञौ । देवस्य यञञौ वक्तव्यौ । दैव्यम् दैवम् ।बहिषः टिलोपः च यञ् च । बहिषः टिलोपः च यञ् च वक्तव्यः । बहिर्भवः बाह्यः । ईकक् च । ईकक् च वक्तव्यः । बाहीकः । ईकञ् छन्दसि । ईकञ् छन्दसि वक्तव्यः । बाहीकम् अस्तु भद्रम् वः । स्थाम्नः अकारः । स्थाम्नः अकारः वक्तव्यः । अश्वत्थामः । लोम्नः अपत्येषु बहुषु । लोम्नः अपत्येषु बहुषु अकारः वक्तव्यः ।उडुलोमाः शरलोमाः । बहुषु इति किमर्थम् । औडलोमिः शारलोमिः । सर्वत्र गोः अजादिप्रसङ्गे यत् । सर्वत्र गोः अजादिप्रसङ्गे यत् वक्तव्यः । गवि भवम् गव्यम् । गोः इदम् गव्यम् । गोः स्वम् गव्यम् । गौः देवता अस्य स्थालीपाकस्य गव्यः स्थालीपाकः ।

KA II,236.10-237.8 Ro III,547-549 vāṅmatipitṛmatām chandasi upasaṅkhyānam . vāṅmatipitṛmatām chandasi upasaṅkhyānam kartavyam . vāk . vācyaḥ . vāk . mati . mātyaḥ . mati . pitṛmat . paitṛmatyaḥ . pṛthivyāḥ ñāñau . pṛthivyāḥ ñāñau vaktavyau . pārthivā pārthivī . devasya yañañau . devasya yañañau vaktavyau . daivyam daivam .bahiṣaḥ ṭilopaḥ ca yañ ca . bahiṣaḥ ṭilopaḥ ca yañ ca vaktavyaḥ . bahirbhavaḥ bāhyaḥ . īkak ca . īkak ca vaktavyaḥ . bāhīkaḥ . īkañ chandasi . īkañ chandasi vaktavyaḥ . bāhīkam astu bhadram vaḥ . sthāmnaḥ akāraḥ . sthāmnaḥ akāraḥ vaktavyaḥ . aśvatthāmaḥ . lomnaḥ apatyeṣu bahuṣu . lomnaḥ apatyeṣu bahuṣu akāraḥ vaktavyaḥ .uḍulomāḥ śaralomāḥ . bahuṣu iti kimartham . auḍalomiḥ śāralomiḥ . sarvatra goḥ ajādiprasaṅge yat . sarvatra goḥ ajādiprasaṅge yat vaktavyaḥ . gavi bhavam gavyam . goḥ idam gavyam . goḥ svam gavyam . gauḥ devatā asya sthālīpākasya gavyaḥ sthālīpākaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२३७।९-१७ रो इइइ,५४९ ण्यादयः अर्थविशेषलक्षणात् अणपवादात् पूर्वविप्रतिषेद्धम् । ण्यादयः अर्थविशेषलक्षणात् अणपवादात् भवन्ति पूर्वविप्रतिषेधेन । ण्यादीनाम् अवकाशः । दितिः देवता अस्य दैत्यः । अथविशेषलक्षणस्य अणपवादस्य अवकाशः । दुलेः अपत्यम् दौलेयः बालेयः । इह उभयम् प्राप्नोति । दितेः अपत्यम् दैत्यः । अपरस्य अथविशेषलक्षणस्य अणपवादस्य अवकाशः । अचित्तहस्तिधेनोः ठक् । आपूपिकम् शाष्कुलिकम् । ण्यादीनाम् अवकाशः । बार्हस्पत्यम् प्राजापत्यम् । इह उभयम् प्राप्नोति । वनस्पतीनाम् समूहः वानस्पत्यम् । ण्यादयः भवन्ति पूर्वविप्रतिषेधेन । सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः । न वक्तव्यः । इष्टवाचीपरशब्दः । विप्रतिषेधे यत् इष्टम् तत् भवति । दितिवनस्पतिभ्याम् अपत्यसमूहयोः ।

KA II,237.9-17 Ro III,549 ṇyādayaḥ arthaviśeṣalakṣaṇāt aṇapavādāt pūrvavipratiṣeddham . ṇyādayaḥ arthaviśeṣalakṣaṇāt aṇapavādāt bhavanti pūrvavipratiṣedhena . ṇyādīnām avakāśaḥ . ditiḥ devatā asya daityaḥ . athaviśeṣalakṣaṇasya aṇapavādasya avakāśaḥ . duleḥ apatyam dauleyaḥ bāleyaḥ . iha ubhayam prāpnoti . diteḥ apatyam daityaḥ . aparasya athaviśeṣalakṣaṇasya aṇapavādasya avakāśaḥ . acittahastidhenoḥ ṭhak . āpūpikam śāṣkulikam . ṇyādīnām avakāśaḥ . bārhaspatyam prājāpatyam . iha ubhayam prāpnoti . vanaspatīnām samūhaḥ vānaspatyam . ṇyādayaḥ bhavanti pūrvavipratiṣedhena . saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ . na vaktavyaḥ . iṣṭavācīparaśabdaḥ . vipratiṣedhe yat iṣṭam tat bhavati . ditivanaspatibhyām apatyasamūhayoḥ .

Sanskrit only: no published translation is held for this verse.