Library·Patanjali: Vyakaranamahabhasya·4·4.1·4.1.92

Patanjali: Vyakaranamahabhasya 4.1.92

क्अ इइ,२४५।२-१५ रो इइइ,५६९-५७० तस्य इदम् इति अपत्ये अपि । तस्य इदम् इति अपत्ये अपि अण् सिद्धः । तस्येदंविशेषाः हि एते अपत्यम् समूहः विकारः तस्य निवासः इति । किम् अर्थम् तर्हि इदम् उच्यते । बाधनार्थम् कृतम् भवेत् । ये तस्य बाधकाः तद्बाधनार्थम् । कथम् पुनः अशैषिकः शैषिकम् बाधेत । उत्सर्गः शेषः एव असौ । यः हि उत्सर्गः सः अपि शेषः एव । अथ एतस्मिन् बाधकबाधने सति किम् प्रयोजनम् । वृद्धानि अस्य प्रयोजनम् । वृद्धानि प्रयोजयन्ति । भानोः अपत्यम् भानवः । श्यामगोः अपत्यम् श्यामगवः । कथम् पुनः इच्छता अपि अपवादः प्राप्नुवन् शक्यः बाधितुम् । तस्यग्रहणसामर्थ्यात् । किम् इदम् भवान् अध्यारुह्य तस्यग्रहणस्य एव प्रयोजनम् आह न पुनः सर्वस्य एव योगस्य । अवश्यम् उत्तराथम् अर्थनिर्देशः कर्तव्यः । समर्थविभक्तिः अपि तर्हि अवश्यम् उत्तरार्थम् प्रतिनिर्देष्टव्या । एवम् तर्हि योगविभागकरणसामर्थ्यात् । इतरथा हि तस्य अपत्यम् अतः इञ् भवति इति एव ब्रूयात् ।

KA II,245.2-15 Ro III,569-570 tasya idam iti apatye api . tasya idam iti apatye api aṇ siddhaḥ . tasyedaṃviśeṣāḥ hi ete apatyam samūhaḥ vikāraḥ tasya nivāsaḥ iti . kim artham tarhi idam ucyate . bādhanārtham kṛtam bhavet . ye tasya bādhakāḥ tadbādhanārtham . katham punaḥ aśaiṣikaḥ śaiṣikam bādheta . utsargaḥ śeṣaḥ eva asau . yaḥ hi utsargaḥ saḥ api śeṣaḥ eva . atha etasmin bādhakabādhane sati kim prayojanam . vṛddhāni asya prayojanam . vṛddhāni prayojayanti . bhānoḥ apatyam bhānavaḥ . śyāmagoḥ apatyam śyāmagavaḥ . katham punaḥ icchatā api apavādaḥ prāpnuvan śakyaḥ bādhitum . tasyagrahaṇasāmarthyāt . kim idam bhavān adhyāruhya tasyagrahaṇasya eva prayojanam āha na punaḥ sarvasya eva yogasya . avaśyam uttarātham arthanirdeśaḥ kartavyaḥ . samarthavibhaktiḥ api tarhi avaśyam uttarārtham pratinirdeṣṭavyā . evam tarhi yogavibhāgakaraṇasāmarthyāt . itarathā hi tasya apatyam ataḥ iñ bhavati iti eva brūyāt .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,२४५।१६-२४६।२७ रो इइइ,५७१-५७३ पुंलिङ्गेन अयम् निर्देशः क्रियते एकवचनान्तेन च । तेन पुंलिङ्गात् एव उत्पत्तिः स्यात् एकवचनान्तात् च । स्त्रीनपुंसकलिङ्गात् द्विवचनबहुवचनान्तात् च इदम् न स्यात् । तद्धितार्थनिर्देशे लिङ्गवचनम् अप्रमाणम् तस्य अविवक्षितत्वात् । तद्धितार्थनिर्देशे लिङ्गवचनम् अप्रमाणम् । किम् कारणम् । तस्य अविवक्षितत्वात् । न अत्र निर्देशः तन्त्रम् । कथम् पुनः तेन एव च नाम निर्देशः क्रियते तत् च अतन्त्रम् स्यात् । तत्कारी च भवान् तद्द्वेषी च । नान्तरीयकत्वात् अत्र पुंलिङ्गेन निर्देशः क्रियते एकवचनान्तेन च। अवश्यम् कया चित् विभक्त्या केन चित् वचनेन निर्देशः कर्तव्य इति । तत् यथा । कः चित् अन्नार्थी शालिकलापम् सपलालम् सतुषम् आहरति नान्तयीयकत्वात् । सः यावत् आदेयम् तावत् आदाय तुषपलालानि उत्सृजति । तथा कः चित् मांसार्थी मत्स्यान् सकण्टकान् सशकलान् आहरति नान्तयीयकत्वात् । सः यावत् आदेयम् तावत् आदाय शकलकण्टकान् उत्सृजति । एवम् इह अपि नान्तरीयकत्वात् पुंलिङ्गेन निर्देशः क्रियते एकवचनान्तेन च। न हि अत्र निर्देशः तन्त्रम् । सर्वनामनिर्देशे विशेषासम्प्रत्ययः सामान्यनिर्देशात् । सर्वनामनिर्देशे विशेषस्य असम्प्रत्ययः । किम् कारणम् । सामान्यनिर्देशात् । सर्वनाम्ना अयम् निर्देशः क्रियते । सरनाम च सामान्यवाचि । तेन सामान्यवाचिनः एव उत्पत्तिः स्यात् । विशेषवाचिनः न स्यात् । सामान्यचोदनाः तु विशेषेषु । सामान्यचोदनाः तु विशेषेषु अवतिष्ठन्ते । तत् यथा : गौः अनूबध्यः अजः अग्नीषोमीयः इति आकृतौ चोदितायाम् द्रव्ये आरम्भणालम्भनप्रोक्षणविशसनादीनि क्रियन्ते । विषमः उपन्यासः । अस्ति कारणम् येन एतत् एवम् भवति । किम् कारणम् । असम्भवात् । आकृतौ आरम्भणादीनाम् सम्भवः न अस्ति इति कृत्वा आकृतिसहचरिते द्रव्ये आरम्भणादीनि क्रियन्ते । इदम् अपि एवञ्जातीयकम् एव । असम्भवात् सामान्यवाचिनः उत्पत्तौ विशेषवाचिनः उत्पत्तिः भविष्यति । अपत्याभिधाने स्त्रीपुंलिङ्गस्य अप्रसिद्धिः नपुंसकत्वात् । अपत्याभिधाने स्त्रीपुंलिङ्गस्य अप्रसिद्धिः । किम् कारणम् । नपुंसकलिङ्गत्वात् । अपत्यम् नपुंसकलिङ्गम् । तेन नपुंसकलिङ्गस्य एव अभिधानम् स्यात् । स्त्रीपुंलिङ्गस्य न स्यात् । ननु च इदम् पुरस्तात् एव चोदितम् परिहृतम् च । उत्पत्तिः तत्र चोद्यते । इह पुनः उत्पन्नेन अभिधानम् चोद्यते । सिद्धम् तु प्रजनस्य विवक्षितत्वात् । सिद्धम् एतत् । कथम् । प्रजनस्य विवक्षितत्वात् । प्रजनः अत्र विवक्षितः सः च सर्वलिङ्गः । किम् पुनः कारणम् समानायाम् प्रवृत्तौ अपत्यम् नपुंसकलिङ्गम् प्रजनः सर्वलिङ्गः । एकार्थे शब्दान्यत्वात् दृष्टम् लिङ्गान्यत्वम् । एकार्थे शब्दान्यत्वात् लिङ्गान्यत्वम् दृश्यते । तत् यथा पुष्यः तारकाः नक्षत्रम् । गेहम् कुटी मठः इति । अवयवान्यत्वात् च । अवयवान्यत्वात् च लिङ्गान्यत्वम् दृश्यते । तत् यथा कुटी कुटीरः शमी शमीरः शुण्डा शुण्डारः । अवयवान्यत्वात् किल लिङ्गान्यत्वम् स्यात् किम् पुनः यत्र शब्दान्यत्वम् अपि ।

KA II,245.16-246.27 Ro III,571-573 puṃliṅgena ayam nirdeśaḥ kriyate ekavacanāntena ca . tena puṃliṅgāt eva utpattiḥ syāt ekavacanāntāt ca . strīnapuṃsakaliṅgāt dvivacanabahuvacanāntāt ca idam na syāt . taddhitārthanirdeśe liṅgavacanam apramāṇam tasya avivakṣitatvāt . taddhitārthanirdeśe liṅgavacanam apramāṇam . kim kāraṇam . tasya avivakṣitatvāt . na atra nirdeśaḥ tantram . katham punaḥ tena eva ca nāma nirdeśaḥ kriyate tat ca atantram syāt . tatkārī ca bhavān taddveṣī ca . nāntarīyakatvāt atra puṃliṅgena nirdeśaḥ kriyate ekavacanāntena ca. avaśyam kayā cit vibhaktyā kena cit vacanena nirdeśaḥ kartavya iti . tat yathā . kaḥ cit annārthī śālikalāpam sapalālam satuṣam āharati nāntayīyakatvāt . saḥ yāvat ādeyam tāvat ādāya tuṣapalālāni utsṛjati . tathā kaḥ cit māṃsārthī matsyān sakaṇṭakān saśakalān āharati nāntayīyakatvāt . saḥ yāvat ādeyam tāvat ādāya śakalakaṇṭakān utsṛjati . evam iha api nāntarīyakatvāt puṃliṅgena nirdeśaḥ kriyate ekavacanāntena ca. na hi atra nirdeśaḥ tantram . sarvanāmanirdeśe viśeṣāsampratyayaḥ sāmānyanirdeśāt . sarvanāmanirdeśe viśeṣasya asampratyayaḥ . kim kāraṇam . sāmānyanirdeśāt . sarvanāmnā ayam nirdeśaḥ kriyate . saranāma ca sāmānyavāci . tena sāmānyavācinaḥ eva utpattiḥ syāt . viśeṣavācinaḥ na syāt . sāmānyacodanāḥ tu viśeṣeṣu . sāmānyacodanāḥ tu viśeṣeṣu avatiṣṭhante . tat yathā : gauḥ anūbadhyaḥ ajaḥ agnīṣomīyaḥ iti ākṛtau coditāyām dravye ārambhaṇālambhanaprokṣaṇaviśasanādīni kriyante . viṣamaḥ upanyāsaḥ . asti kāraṇam yena etat evam bhavati . kim kāraṇam . asambhavāt . ākṛtau ārambhaṇādīnām sambhavaḥ na asti iti kṛtvā ākṛtisahacarite dravye ārambhaṇādīni kriyante . idam api evañjātīyakam eva . asambhavāt sāmānyavācinaḥ utpattau viśeṣavācinaḥ utpattiḥ bhaviṣyati . apatyābhidhāne strīpuṃliṅgasya aprasiddhiḥ napuṃsakatvāt . apatyābhidhāne strīpuṃliṅgasya aprasiddhiḥ . kim kāraṇam . napuṃsakaliṅgatvāt . apatyam napuṃsakaliṅgam . tena napuṃsakaliṅgasya eva abhidhānam syāt . strīpuṃliṅgasya na syāt . nanu ca idam purastāt eva coditam parihṛtam ca . utpattiḥ tatra codyate . iha punaḥ utpannena abhidhānam codyate . siddham tu prajanasya vivakṣitatvāt . siddham etat . katham . prajanasya vivakṣitatvāt . prajanaḥ atra vivakṣitaḥ saḥ ca sarvaliṅgaḥ . kim punaḥ kāraṇam samānāyām pravṛttau apatyam napuṃsakaliṅgam prajanaḥ sarvaliṅgaḥ . ekārthe śabdānyatvāt dṛṣṭam liṅgānyatvam . ekārthe śabdānyatvāt liṅgānyatvam dṛśyate . tat yathā puṣyaḥ tārakāḥ nakṣatram . geham kuṭī maṭhaḥ iti . avayavānyatvāt ca . avayavānyatvāt ca liṅgānyatvam dṛśyate . tat yathā kuṭī kuṭīraḥ śamī śamīraḥ śuṇḍā śuṇḍāraḥ . avayavānyatvāt kila liṅgānyatvam syāt kim punaḥ yatra śabdānyatvam api .

Sanskrit only: no published translation is held for this verse.