क्अ इइ,२४७।२-२५१।११ रो इइइ,५७४-५९० किमर्थम् इदम् उच्यते । उत्पादयितारम् प्रति अपत्ययोगात् तस्य च विवक्षितत्वात् एकवचनम् गोत्रे । उत्पादयिता उत्पादयिता अपत्येन युज्यते । तस्य च विवक्षितत्वात् । उत्पादयितुः सः च अभिसम्बन्धः विवक्षितः । उत्पादयितारम् प्रति अपत्ययोगात् तस्य च अभिसम्बन्धस्य विवक्षितत्वात् उत्पादयितुः उत्पादयितुः अपत्याभिधाने अनेकः प्रत्ययः प्राप्नोति । इष्यते च एकः एव स्यात् इति । तत् च अन्तरेण यत्नम् न सिध्यति इति एकवचनम् गोत्रे । एवमर्थम् इदम् उच्यते । कथम् पुनः ज्ञायते उत्पादयिता उत्पादयिता अपत्येन युज्यते इति । एवम् हि दृश्यते लोके । पितामहस्य उत्सङ्गे दारकम् आसीनम् कः चित् पृच्छति कस्य अयम् इति । सः आह देवदत्तस्य यज्ञदत्तस्य वा इति । उत्पादयितारम् व्यपदिशति न आत्मानम् । अस्ति प्रयोजनम् एतत् । किम् तर्हि इति । तत्र प्रत्ययान्तात् गोत्रे प्रतिषेधः गोत्रे नियतत्वात् । तत्र प्रत्ययान्तात् गोत्रे प्रतिषेधः वक्तव्यः । औपगवस्य अपत्यम् इति । किम् कारणम् । गोत्रे नियतत्वात् । गोत्रे हि अयम् नियमः क्रियते । तेन यः च असौ यथाजातीयकः च गोत्रप्रत्ययः प्राप्नोति सः एकः स्यात् । कः च प्राप्नोति । यः प्रत्ययान्तात् । परमप्रकृतेः च उत्पत्तिः । परमप्रकृतेः च उत्पत्तिः वक्तव्या । अयोगात् हि न प्राप्नोति । एतयोः च एव परिहारः पठिष्यति हि आचार्यः यूनि च अन्तर्हिते अप्राप्तिः इति तस्य च यथा तत्प्रत्ययान्तम् । यथा तत् एव विकारावयवप्रत्ययान्तम् द्वितीयम् च तृतीयम् च विकारम् सङ्क्रामति एवम् इह अपि तत् एव अपत्यप्रत्ययान्तम् द्वितीयम् च तृतीयम् च अपत्यम् सङ्क्रमिष्यति । भवेत् सिद्धम् औपगवस्य अपत्यम् औपगवः यत्र सः एव अनन्तरः इष्यते सः एव गोत्रे । इदम् तु खलु न सिध्यति गर्गस्य अपत्यम् गार्ग्यः इति । अत्र हि अन्यः अनन्तरः इष्यते अन्यः गोत्रे । स्त्रियाम् च अनियमः । स्त्रियाम् च युवत्याम् नियमः न प्राप्नोति । औपगवी माणवकी । नियमात् हि स्त्री पर्युदस्यते एकः गोत्रे गोत्रात् यूनि अस्त्रियाम् इति । कतरस्मिन् पक्षे अयम् दोषः । उत्पादयितरि अपत्ययुक्ते । उत्पादयितरि तावत् अपत्ययुक्ते न दोषः । उत्पादयितरि हि अपत्ययुक्ते न सर्वतः उत्पत्त्या भवितव्यम् । तत्र नियमः न उपपद्यते । असति नियमे न एषः दोषः । सर्वेषु तर्हि अपत्ययुक्तेषु अयम् दोषः । सर्वेषु हि अपत्ययुक्तेषु सर्वतः उत्पत्त्या भवितव्यम् । तत्र नियमः उपपन्नः भवति । सति नियमे एषः दोषः । उत्पादयितरि च अपत्ययुक्ते स्त्रिया युवत्या अभिधानम् न प्राप्नोति । किम् कारणम् । गोत्रसञ्ज्ञा युवसञाम् बाधते । गोत्रात् यूनि च अस्त्रियाम् प्रत्ययः विधीयते । यूनि च अन्तर्हिते अप्राप्तिः । यूनि च अन्तर्हिते नियमस्य अप्राप्तिः । गार्ग्यायणस्य अपत्यम् इति । कतरस्मिन् पक्षे अयम् दोषः । सर्वेषु अपत्ययुक्तेषु । सर्वेषु अपत्ययुक्तेषु तावत् न दोषः । सर्वेषु हि अपत्ययुक्तेषु सर्वतः उत्पत्त्या भवतिव्यम् । तत्र नियमः उपपन्नः भवति । सति नियमे न एषः दोषः । उत्पादयितरि तर्हि अपत्ययुक्ते अयम् दोषः । उत्पादयितरि हि अपत्ययुक्ते परमप्रकृतेः अनन्तरात् गोत्रात् च अयोगात् न प्राप्नोति । यूनः च न प्राप्नोति । किम् कारणम् । गोत्रात् इति नियमात् । सन्तु तर्हि कथम् पुनः ज्ञायते सर्वे अपत्ययुक्ताः इति । एवम् हि याज्ञिकाः पठन्ति । दशपुरुषानूकम् यस्य गृहे शूद्राः न विद्येरन् सः सोमम् पिबेत् इति । यदि च सर्वे अपत्ययुक्ताः भवन्ति ततः एतत् उपपन्नम् भवति । कथम् यत् उक्तम् पितामहस्य उत्सङ्गे दारकम् आसीनम् कः चित् पृच्छति कस्य अयम् इति । सः आह देवदत्तस्य यज्ञदत्तस्य वा इति । उत्पादयितारम् व्यपदिशति न आत्मानम् इति । उत्पत्तिः तस्य विवक्षिता । सर्वेषाम् न इदम् अपत्यम् । देवदत्तः तु अस्य उत्पादयिता इति । अथ सर्वेषु अपत्ययुक्तेषु किम् अनेन क्रियते एकः गोत्रे इति । सर्वेषाम् अपत्ययोगात् प्रत्ययान्तात् गोत्रे प्रतिषेधार्थम् एकः गोत्रे । सर्वेषाम् अपत्ययोगात् प्रत्ययान्तात् गोत्रे प्रतिषेधार्थम् एकः गोत्रे इति उच्यते । अस्ति प्रयोजनम् एतत् । किम् तर्हि इति । न तु ज्ञायते कः एकः भवति यः वा परमप्रकृतेः यः वा अनन्तरात् इति । नियमानुपपत्तिः च । नियमः च न उपपद्यते । किम् कारणम् । न हि एकस्मिन् अपत्ये अनेकप्रत्ययप्राप्तिः । न हि एकस्मिन् अपत्ये अनेकप्रत्ययः प्राप्नोति । किम् तर्हि । अपत्यान्तरे शब्दान्तरात् प्रत्ययान्तरप्राप्तिः । अपत्यान्तरे अपत्यान्तर शब्दान्तरात् शब्दान्तरात् प्रत्ययान्तरम् प्रत्ययान्तरम् प्राप्नोति । फकन्तात् इञ् इञन्तात् फक् इति फगिञोः दाशतयी प्रत्ययमाला प्राप्नोति । कतरस्मिन् पक्षे अयम् दोषः । सर्वेषु अपत्ययुक्तेषु । सर्वेषु अपत्ययुक्तेषु तावत् न दोषः । सर्वेषु हि अपत्ययुक्तेषु सर्वतः उत्पत्त्या भवतिव्यम् । तत्र नियमः उपपन्नः भवति । सति नियमे न एषः दोषः ।
KA II,247.2-251.11 Ro III,574-590 kimartham idam ucyate . utpādayitāram prati apatyayogāt tasya ca vivakṣitatvāt ekavacanam gotre . utpādayitā utpādayitā apatyena yujyate . tasya ca vivakṣitatvāt . utpādayituḥ saḥ ca abhisambandhaḥ vivakṣitaḥ . utpādayitāram prati apatyayogāt tasya ca abhisambandhasya vivakṣitatvāt utpādayituḥ utpādayituḥ apatyābhidhāne anekaḥ pratyayaḥ prāpnoti . iṣyate ca ekaḥ eva syāt iti . tat ca antareṇa yatnam na sidhyati iti ekavacanam gotre . evamartham idam ucyate . katham punaḥ jñāyate utpādayitā utpādayitā apatyena yujyate iti . evam hi dṛśyate loke . pitāmahasya utsaṅge dārakam āsīnam kaḥ cit pṛcchati kasya ayam iti . saḥ āha devadattasya yajñadattasya vā iti . utpādayitāram vyapadiśati na ātmānam . asti prayojanam etat . kim tarhi iti . tatra pratyayāntāt gotre pratiṣedhaḥ gotre niyatatvāt . tatra pratyayāntāt gotre pratiṣedhaḥ vaktavyaḥ . aupagavasya apatyam iti . kim kāraṇam . gotre niyatatvāt . gotre hi ayam niyamaḥ kriyate . tena yaḥ ca asau yathājātīyakaḥ ca gotrapratyayaḥ prāpnoti saḥ ekaḥ syāt . kaḥ ca prāpnoti . yaḥ pratyayāntāt . paramaprakṛteḥ ca utpattiḥ . paramaprakṛteḥ ca utpattiḥ vaktavyā . ayogāt hi na prāpnoti . etayoḥ ca eva parihāraḥ paṭhiṣyati hi ācāryaḥ yūni ca antarhite aprāptiḥ iti tasya ca yathā tatpratyayāntam . yathā tat eva vikārāvayavapratyayāntam dvitīyam ca tṛtīyam ca vikāram saṅkrāmati evam iha api tat eva apatyapratyayāntam dvitīyam ca tṛtīyam ca apatyam saṅkramiṣyati . bhavet siddham aupagavasya apatyam aupagavaḥ yatra saḥ eva anantaraḥ iṣyate saḥ eva gotre . idam tu khalu na sidhyati gargasya apatyam gārgyaḥ iti . atra hi anyaḥ anantaraḥ iṣyate anyaḥ gotre . striyām ca aniyamaḥ . striyām ca yuvatyām niyamaḥ na prāpnoti . aupagavī māṇavakī . niyamāt hi strī paryudasyate ekaḥ gotre gotrāt yūni astriyām iti . katarasmin pakṣe ayam doṣaḥ . utpādayitari apatyayukte . utpādayitari tāvat apatyayukte na doṣaḥ . utpādayitari hi apatyayukte na sarvataḥ utpattyā bhavitavyam . tatra niyamaḥ na upapadyate . asati niyame na eṣaḥ doṣaḥ . sarveṣu tarhi apatyayukteṣu ayam doṣaḥ . sarveṣu hi apatyayukteṣu sarvataḥ utpattyā bhavitavyam . tatra niyamaḥ upapannaḥ bhavati . sati niyame eṣaḥ doṣaḥ . utpādayitari ca apatyayukte striyā yuvatyā abhidhānam na prāpnoti . kim kāraṇam . gotrasañjñā yuvasañām bādhate . gotrāt yūni ca astriyām pratyayaḥ vidhīyate . yūni ca antarhite aprāptiḥ . yūni ca antarhite niyamasya aprāptiḥ . gārgyāyaṇasya apatyam iti . katarasmin pakṣe ayam doṣaḥ . sarveṣu apatyayukteṣu . sarveṣu apatyayukteṣu tāvat na doṣaḥ . sarveṣu hi apatyayukteṣu sarvataḥ utpattyā bhavativyam . tatra niyamaḥ upapannaḥ bhavati . sati niyame na eṣaḥ doṣaḥ . utpādayitari tarhi apatyayukte ayam doṣaḥ . utpādayitari hi apatyayukte paramaprakṛteḥ anantarāt gotrāt ca ayogāt na prāpnoti . yūnaḥ ca na prāpnoti . kim kāraṇam . gotrāt iti niyamāt . santu tarhi katham punaḥ jñāyate sarve apatyayuktāḥ iti . evam hi yājñikāḥ paṭhanti . daśapuruṣānūkam yasya gṛhe śūdrāḥ na vidyeran saḥ somam pibet iti . yadi ca sarve apatyayuktāḥ bhavanti tataḥ etat upapannam bhavati . katham yat uktam pitāmahasya utsaṅge dārakam āsīnam kaḥ cit pṛcchati kasya ayam iti . saḥ āha devadattasya yajñadattasya vā iti . utpādayitāram vyapadiśati na ātmānam iti . utpattiḥ tasya vivakṣitā . sarveṣām na idam apatyam . devadattaḥ tu asya utpādayitā iti . atha sarveṣu apatyayukteṣu kim anena kriyate ekaḥ gotre iti . sarveṣām apatyayogāt pratyayāntāt gotre pratiṣedhārtham ekaḥ gotre . sarveṣām apatyayogāt pratyayāntāt gotre pratiṣedhārtham ekaḥ gotre iti ucyate . asti prayojanam etat . kim tarhi iti . na tu jñāyate kaḥ ekaḥ bhavati yaḥ vā paramaprakṛteḥ yaḥ vā anantarāt iti . niyamānupapattiḥ ca . niyamaḥ ca na upapadyate . kim kāraṇam . na hi ekasmin apatye anekapratyayaprāptiḥ . na hi ekasmin apatye anekapratyayaḥ prāpnoti . kim tarhi . apatyāntare śabdāntarāt pratyayāntaraprāptiḥ . apatyāntare apatyāntara śabdāntarāt śabdāntarāt pratyayāntaram pratyayāntaram prāpnoti . phakantāt iñ iñantāt phak iti phagiñoḥ dāśatayī pratyayamālā prāpnoti . katarasmin pakṣe ayam doṣaḥ . sarveṣu apatyayukteṣu . sarveṣu apatyayukteṣu tāvat na doṣaḥ . sarveṣu hi apatyayukteṣu sarvataḥ utpattyā bhavativyam . tatra niyamaḥ upapannaḥ bhavati . sati niyame na eṣaḥ doṣaḥ .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.