क्अ इइ,२९२।४-१४ रो इइइ,६७१-६७२ अमनुष्ये इति किमर्थम् । राङ्कवकः मनुष्यः । रङ्कोः अमनुष्यग्रहणानर्थक्यम् मनुष्यतत्स्थयोः वुञ्विधानात् । रङ्कोः अमनुष्यग्रहणम् अनर्थकम् । किम् कारणम् । मनुष्यतत्स्थयोः वुञ्विधानात् । अयम् मनुष्ये मनुष्यतत्स्थे च वुञ् विधीयते । सः बाधकः भविष्यति । एवम् तर्हि ज्ञापयति आचार्यः अमनुष्ये मनुष्यस्थे ष्फगणौ भवतः इति । अमनुष्ये मनुष्यस्थे ष्फगणोः ज्ञापकम् इति चेत् न अनिष्टत्वात् । अमनुष्ये मनुष्यस्थे ष्फगणोः ज्ञापकम् इति चेत् तत् न । किम् कारणम् । अनिष्टत्वात् । न हि अमनुष्ये मनुष्यस्थे ष्फगणौ इष्येते । किम् तर्हि । वुञ् एव इष्यते । अण्ग्रहनम् च कच्छादिभ्यः अण्वचनात् । अण्ग्रहनम् च अनर्थकम् । किम् कारणम् । कच्छादिभ्यः अण्वचनात् । कच्छादिपाठात् अत्र अण् भविष्यति ।
KA II,292.4-14 Ro III,671-672 amanuṣye iti kimartham . rāṅkavakaḥ manuṣyaḥ . raṅkoḥ amanuṣyagrahaṇānarthakyam manuṣyatatsthayoḥ vuñvidhānāt . raṅkoḥ amanuṣyagrahaṇam anarthakam . kim kāraṇam . manuṣyatatsthayoḥ vuñvidhānāt . ayam manuṣye manuṣyatatsthe ca vuñ vidhīyate . saḥ bādhakaḥ bhaviṣyati . evam tarhi jñāpayati ācāryaḥ amanuṣye manuṣyasthe ṣphagaṇau bhavataḥ iti . amanuṣye manuṣyasthe ṣphagaṇoḥ jñāpakam iti cet na aniṣṭatvāt . amanuṣye manuṣyasthe ṣphagaṇoḥ jñāpakam iti cet tat na . kim kāraṇam . aniṣṭatvāt . na hi amanuṣye manuṣyasthe ṣphagaṇau iṣyete . kim tarhi . vuñ eva iṣyate . aṇgrahanam ca kacchādibhyaḥ aṇvacanāt . aṇgrahanam ca anarthakam . kim kāraṇam . kacchādibhyaḥ aṇvacanāt . kacchādipāṭhāt atra aṇ bhaviṣyati .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.