क्अ इइ,२७०।१३-२७८।१० रो इइइ,६४०-६४१ पितृव्यमातुल इति किम् निपात्यते । पितृमातृभ्याम् भ्रातरि व्यड्डुलचौ । पितृमातृभ्याम् भ्रातरि व्यड्डुलचौ प्रत्ययौ निपात्येते । पितुः भ्राता पितृव्यः । मातुः भ्राता मातुलः । मातामहपितामहेति किम् निपात्यते । मातृपितृभ्याम् पितरि डामहच् । मातृपितृभ्याम् पितरि डामहच्प्रत्ययः निपात्यते । मातुः पिता मातामहः । पितुः पिता पितामहः । मातरि षित् च । षित् च वक्तव्यः । मातामही पितामही । महः वा छन्दसि आनङः अवग्रहदर्शनात् । महः वा पुनः एषः भविष्यति छन्दसि आनङः अवग्रहदर्शनात् । छन्दसि आनङः अवग्रहः दृश्यते । पिता-महः इति । अवेः दुग्धे सोढदूसमरीसचः । अवेः दुग्धे सोढदूसमरीसचः इति एते प्रत्ययाः वक्तव्याः । अविसोढम् अविदूसम् अविमरीसम् । तिलात् निष्फलात् पिञ्जपेजौ । तिलात् निष्फलात् पिञ्जपेजौ वक्तव्यौ । तिलपिञ्जः तिलपेजः । पिञ्जः छन्दसि डित् च । पिञ्जः छन्दसि डित् च वक्तव्यः । तिलपिञ्जम् दण्डानतम् ।
KA II,270.13-278.10 Ro III,640-641 pitṛvyamātula iti kim nipātyate . pitṛmātṛbhyām bhrātari vyaḍḍulacau . pitṛmātṛbhyām bhrātari vyaḍḍulacau pratyayau nipātyete . pituḥ bhrātā pitṛvyaḥ . mātuḥ bhrātā mātulaḥ . mātāmahapitāmaheti kim nipātyate . mātṛpitṛbhyām pitari ḍāmahac . mātṛpitṛbhyām pitari ḍāmahacpratyayaḥ nipātyate . mātuḥ pitā mātāmahaḥ . pituḥ pitā pitāmahaḥ . mātari ṣit ca . ṣit ca vaktavyaḥ . mātāmahī pitāmahī . mahaḥ vā chandasi ānaṅaḥ avagrahadarśanāt . mahaḥ vā punaḥ eṣaḥ bhaviṣyati chandasi ānaṅaḥ avagrahadarśanāt . chandasi ānaṅaḥ avagrahaḥ dṛśyate . pitā-mahaḥ iti . aveḥ dugdhe soḍhadūsamarīsacaḥ . aveḥ dugdhe soḍhadūsamarīsacaḥ iti ete pratyayāḥ vaktavyāḥ . avisoḍham avidūsam avimarīsam . tilāt niṣphalāt piñjapejau . tilāt niṣphalāt piñjapejau vaktavyau . tilapiñjaḥ tilapejaḥ . piñjaḥ chandasi ḍit ca . piñjaḥ chandasi ḍit ca vaktavyaḥ . tilapiñjam daṇḍānatam .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.