क्अ इइ,२७३।७-२३ रो इइइ,६३३-६३४ दृष्टम् साम कलेः ढक् । दृष्टम् साम इति अत्र कलेः ढक् वक्तव्यः । कलिना दृष्टम् साम कालेयम् साम गीयते । अपरः आह : सर्वत्र अग्निकलिभ्याम् ढक् । सर्वत्र अग्निकलिभ्याम् ढक् वक्तव्यः । अग्निना दृष्टम् साम आग्नेयम् । अग्नौ भवम् आग्नेयम् । अग्नेः आगतम् आग्नेयम् । अग्नेः स्वम् आग्नेयम् । अग्निः देवता अस्य आग्नेयम् । कलिना दृष्टम् साम कालेयम् । कलेः आगतम् कालेयम् । कलौ भवम् कालेयम् । कलेः स्वम् कालेयम् । कलिः देवता अस्य कालेयः चरुः । दृष्टे सामनि जाते च अपि अण् डित् द्विः वा विधीयते । दृष्टे सामनि जाते च अपि अण् डित् द्विः वा वक्तव्यः । उशनसा दृष्टम् साम औशनसम् औशनम् । शतभिषजि जातः शातभिषजः शातभिषः । तीयात् ईकक् । तीयात् ईकक् वक्तव्यः । द्वैतीयिकः तार्तीयिकः । न विद्यायाः । विद्यायाः न भवति इति वक्तव्यम् । द्वितीया विद्या तृतीया विद्या इति एव । गोत्रात् अङ्कवत् इष्यते । औपगवकम् । दृष्टे सामनि जाते च अपि अण् डित् द्विः वा विधीयते । तीयात् ईकक् न विद्यायाः गोत्रात् अङ्कवत् इष्यते ।
KA II,273.7-23 Ro III,633-634 dṛṣṭam sāma kaleḥ ḍhak . dṛṣṭam sāma iti atra kaleḥ ḍhak vaktavyaḥ . kalinā dṛṣṭam sāma kāleyam sāma gīyate . aparaḥ āha : sarvatra agnikalibhyām ḍhak . sarvatra agnikalibhyām ḍhak vaktavyaḥ . agninā dṛṣṭam sāma āgneyam . agnau bhavam āgneyam . agneḥ āgatam āgneyam . agneḥ svam āgneyam . agniḥ devatā asya āgneyam . kalinā dṛṣṭam sāma kāleyam . kaleḥ āgatam kāleyam . kalau bhavam kāleyam . kaleḥ svam kāleyam . kaliḥ devatā asya kāleyaḥ caruḥ . dṛṣṭe sāmani jāte ca api aṇ ḍit dviḥ vā vidhīyate . dṛṣṭe sāmani jāte ca api aṇ ḍit dviḥ vā vaktavyaḥ . uśanasā dṛṣṭam sāma auśanasam auśanam . śatabhiṣaji jātaḥ śātabhiṣajaḥ śātabhiṣaḥ . tīyāt īkak . tīyāt īkak vaktavyaḥ . dvaitīyikaḥ tārtīyikaḥ . na vidyāyāḥ . vidyāyāḥ na bhavati iti vaktavyam . dvitīyā vidyā tṛtīyā vidyā iti eva . gotrāt aṅkavat iṣyate . aupagavakam . dṛṣṭe sāmani jāte ca api aṇ ḍit dviḥ vā vidhīyate . tīyāt īkak na vidyāyāḥ gotrāt aṅkavat iṣyate .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.