क्अ इइ,३०२।९-१६ रो इइइ,६९० आदेशवचने च । किम् । योगविभागः कर्तव्यः । तस्मिन् अणि युष्माकास्माकौ भवतः । यौष्माकः आस्माकः । ततः खञि । खञि च युष्माकास्माकौ भवतः । यौष्माकीणः आस्माकीनः । किमर्थः योगविभागः । समसङ्ख्याप्रतिषेधार्थः इति एव । तत्र पुनः खञ्ग्रहणम् । तत्र पुनः खञ्ग्रहणम् कर्तव्यम् । न हि अन्तरेण खञ्ग्रहणम् योगाङ्गम् उपजायते । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । एवम् वक्ष्यामि । तस्मिन् खञि युष्माकास्माकौ भवतः । ततः अणि च । अणि चयुष्माकास्माकौ भवतः इति ।
KA II,302.9-16 Ro III,690 ādeśavacane ca . kim . yogavibhāgaḥ kartavyaḥ . tasmin aṇi yuṣmākāsmākau bhavataḥ . yauṣmākaḥ āsmākaḥ . tataḥ khañi . khañi ca yuṣmākāsmākau bhavataḥ . yauṣmākīṇaḥ āsmākīnaḥ . kimarthaḥ yogavibhāgaḥ . samasaṅkhyāpratiṣedhārthaḥ iti eva . tatra punaḥ khañgrahaṇam . tatra punaḥ khañgrahaṇam kartavyam . na hi antareṇa khañgrahaṇam yogāṅgam upajāyate . tat tarhi vaktavyam . na vaktavyam . evam vakṣyāmi . tasmin khañi yuṣmākāsmākau bhavataḥ . tataḥ aṇi ca . aṇi cayuṣmākāsmākau bhavataḥ iti .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.