क्अ इइ,३०४।१६-१९ रो इइइ,६९४ चिरपरुत्परारिभ्यः त्नः वक्तव्यः । चिरत्नम् परुत्त्नम् परारित्नम् । प्रगस्य छन्दसि गलोपः च त्नः च वक्तव्यः । प्रत्नम् आत्मानम् । अग्रादिपश्चात् डिमुच् स्मृतः । अग्रिमम् आदिमम् पश्चिमम् । अन्तात् च इति वक्तव्यम् । अन्तिमम्।
KA II,304.16-19 Ro III,694 ciraparutparāribhyaḥ tnaḥ vaktavyaḥ . ciratnam paruttnam parāritnam . pragasya chandasi galopaḥ ca tnaḥ ca vaktavyaḥ . pratnam ātmānam . agrādipaścāt ḍimuc smṛtaḥ . agrimam ādimam paścimam . antāt ca iti vaktavyam . antimam.
Sanskrit only: no published translation is held for this verse.
क्अ इइ,३०४।२०-३०५।२० रो इइइ,६९५-६९६ अथ सायचिरयोः किम् निपात्यते । सायचिरयोः मकारान्तत्वम् प्रत्ययसन्नियुक्तम् । सायचिरयोः मकारान्तत्वम् प्रत्ययसन्नियोगेन निपात्यते । सायन्तनम् चिरन्तनम् । न एतत् अस्ति प्रयोजनम् । मकारान्तः सायंशब्दः । कथम् सायाह्नः । सायमः अह्ने मलोपः । सायमः अह्ने मलोपः वक्तव्यः । कथम् सायतरे । तरे च इति वक्तव्यम् । कथम् सायम् साये । वा सप्तम्याम् इति वक्तव्यम् । अथ प्राह्णप्रगयोः किम् निपात्यते । प्राह्णप्रग्योः एकारान्तत्वम् । प्राह्णप्रग्योः एकारान्तत्वम् निपात्यते । प्राह्णेतनम् प्रगेतनम् । न एतत् अस्ति प्रयोजनम् । सप्तम्याः अलुका अपि सिद्धम् । भवेत् सिद्धम् यदा सप्तमी । यदा तु अन्या विभक्तिः तदा न सिध्यति । तुटि उक्तम् । किम् उक्तम् । तुटि आदेशानुपपत्तिः अनादित्वात् इति । तुटि कृते अनादित्वात् आदेशः न प्राप्नोति । एवम् तर्हि पूर्वान्तः करिष्यते । पूर्वान्ते विसर्जनीयः । यदि पूर्वान्तः विसर्जनीयः वक्तव्यः । प्रातस्तनम् पुनस्तनम् । परादौ पुनः सति खरवसानयोः विसर्जनीयः इति विसर्जनीयः सिद्धः भवति । अस्तु तर्हि परादिः । ननु च उक्तम् तुटि कृते अनादित्वात् आदेशः न प्राप्नोति इति । सिद्धम् तु आदिष्टस्य तुड्वचनात् । सिद्धम् एतत् । कथम् । तुड् आदिष्टस्य इति वक्तव्यम् । अथ वा चेन सन्नियोगः करिष्यते । तुट् च । किम् च । यत् च अन्यत् प्राप्नोति । किम् च अन्यत् प्राप्नोति । आदेशः ।
KA II,304.20-305.20 Ro III,695-696 atha sāyacirayoḥ kim nipātyate . sāyacirayoḥ makārāntatvam pratyayasanniyuktam . sāyacirayoḥ makārāntatvam pratyayasanniyogena nipātyate . sāyantanam cirantanam . na etat asti prayojanam . makārāntaḥ sāyaṃśabdaḥ . katham sāyāhnaḥ . sāyamaḥ ahne malopaḥ . sāyamaḥ ahne malopaḥ vaktavyaḥ . katham sāyatare . tare ca iti vaktavyam . katham sāyam sāye . vā saptamyām iti vaktavyam . atha prāhṇapragayoḥ kim nipātyate . prāhṇapragyoḥ ekārāntatvam . prāhṇapragyoḥ ekārāntatvam nipātyate . prāhṇetanam pragetanam . na etat asti prayojanam . saptamyāḥ alukā api siddham . bhavet siddham yadā saptamī . yadā tu anyā vibhaktiḥ tadā na sidhyati . tuṭi uktam . kim uktam . tuṭi ādeśānupapattiḥ anāditvāt iti . tuṭi kṛte anāditvāt ādeśaḥ na prāpnoti . evam tarhi pūrvāntaḥ kariṣyate . pūrvānte visarjanīyaḥ . yadi pūrvāntaḥ visarjanīyaḥ vaktavyaḥ . prātastanam punastanam . parādau punaḥ sati kharavasānayoḥ visarjanīyaḥ iti visarjanīyaḥ siddhaḥ bhavati . astu tarhi parādiḥ . nanu ca uktam tuṭi kṛte anāditvāt ādeśaḥ na prāpnoti iti . siddham tu ādiṣṭasya tuḍvacanāt . siddham etat . katham . tuḍ ādiṣṭasya iti vaktavyam . atha vā cena sanniyogaḥ kariṣyate . tuṭ ca . kim ca . yat ca anyat prāpnoti . kim ca anyat prāpnoti . ādeśaḥ .
Sanskrit only: no published translation is held for this verse.