क्अ इइ।३४६।१०-१८ रो इव्।३१-३२ डतेः च इति वक्तव्यम् इह अपि यथा स्यात् । कतिभिः क्रीतम् कतिकम् । किम् पुनः कारणम् न सिध्यति । त्यन्तायाः न इति प्रतिषेधः प्राप्नोति । तिप्रतिषेधात् डतिग्रहणम् इति चेत् अर्थवद्ग्रहणात् सिद्धम् । अर्थवतः तिशब्दस्य ग्रहणम् न च डतेः तिशब्दः अर्थवान् । न एषा परिभाषा इह शक्या विज्ञातुम् । न हि केवलेन प्रत्ययेन अर्थः गम्यते । केन तर्हि । सप्रकृतिकेन । क्व तर्हि एषा परिभाषा भवति । यानि एतानि शब्दसङ्घातग्रहणानि । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । अर्थवद्ग्रहणात् सिद्धम् । ननु च उक्तम् न एषा परिभाषा इह शक्या विज्ञातुम् । न हि केवलेन प्रत्ययेन अर्थः गम्यते इति । केवलेन अपि प्रत्ययेन अर्थः गम्यते । कथम् । उक्तम् अन्वयव्यतिरेकाभ्याम् ।
KA II.346.10-18 Ro IV.31-32 ḍateḥ ca iti vaktavyam iha api yathā syāt . katibhiḥ krītam katikam . kim punaḥ kāraṇam na sidhyati . tyantāyāḥ na iti pratiṣedhaḥ prāpnoti . tipratiṣedhāt ḍatigrahaṇam iti cet arthavadgrahaṇāt siddham . arthavataḥ tiśabdasya grahaṇam na ca ḍateḥ tiśabdaḥ arthavān . na eṣā paribhāṣā iha śakyā vijñātum . na hi kevalena pratyayena arthaḥ gamyate . kena tarhi . saprakṛtikena . kva tarhi eṣā paribhāṣā bhavati . yāni etāni śabdasaṅghātagrahaṇāni . tat tarhi vaktavyam . na vaktavyam . arthavadgrahaṇāt siddham . nanu ca uktam na eṣā paribhāṣā iha śakyā vijñātum . na hi kevalena pratyayena arthaḥ gamyate iti . kevalena api pratyayena arthaḥ gamyate . katham . uktam anvayavyatirekābhyām .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.