क्अ इइ।३३७।१६-३७८।१७ रो इव्।११५-११८ प्रमाणे इति किमयम् प्रत्ययार्थः । प्रमाणम् प्रत्ययार्थः न । प्रमाणे इति न अयम् प्रत्ययार्थः । क्व तर्हि प्रत्ययाः भवन्ति । तद्वति । कुतः एतत् । अस्य इति वर्तनात् । अस्य इति वर्तते । क्व प्रकृतम् । तद् अस्य सञ्जातम् तारकादिभ्यः इतच् इति । प्रथमः च द्वितीयः च ऊर्ध्वमाने मतौ मम । ऊरुद्वयसम् । ऊरुदघ्नम् । प्रमाणे लः । प्रमाणे लः वक्तव्यः : शमः , दिष्टिः , वितस्तिः । द्विगोः नित्यम् । द्विगोः नित्यम् लः वक्तव्यः । द्विशतम् । त्रिशतम् । द्विदिष्टिः । त्रिदिष्टिः । द्विवितस्तिः । त्रिवितस्तिः । किमर्थम् इदम् उच्यते । संशये श्राविणम् वक्ष्यति यस्य अस्यम् पुरस्तात् अपकर्षः । डट् स्तोमे । डट् स्तोमे वक्तव्यः । पञ्चदशः स्तोमः । शच्शनोः डिनिः । शच्शनोः डिनिः वक्तव्यः । त्रिंशिनः मासाः । पञ्चदशिनः अर्धमासाः । विंशतेः च इति वक्तव्यम् । विंशिनः अङ्गिरसः । प्रमाणपरिमाणाभ्याम् सङ्ख्यायाः च संशये । मात्रच् वक्तव्यः । शममात्रम् । दिष्टिमात्रम् । वितस्तिमात्रम् । कुडवमात्रम् । पञ्चमात्राः । दशमात्राः । वत्वन्तात् स्वार्थे द्वयसज्मात्रचौ बहुलम् । वत्वन्तात् स्वार्थे द्वयसज्मात्रचौ बहुलम् वक्तव्यौ । तावत् एव तावद्द्वयसम् । तावन्मात्रम् । यावत् एव यावद्द्वयसम् । यावन्मात्रम् । [प्रमाणम् प्रत्ययार्थः न तद्वति अस्य इति वर्तनात् । प्रथमः च द्वितीयः च ऊर्ध्वमाने मतौ मम । प्रमाणे लः । द्विगोः नित्यम् । डट् स्तोमे । शच्शनोः डिनिः । प्रमाणपरिमाणाभ्याम् सङ्ख्यायाः च संशये (र् इव्।११८)]
KA II.337.16-378.17 Ro IV.115-118 pramāṇe iti kimayam pratyayārthaḥ . pramāṇam pratyayārthaḥ na . pramāṇe iti na ayam pratyayārthaḥ . kva tarhi pratyayāḥ bhavanti . tadvati . kutaḥ etat . asya iti vartanāt . asya iti vartate . kva prakṛtam . tad asya sañjātam tārakādibhyaḥ itac iti . prathamaḥ ca dvitīyaḥ ca ūrdhvamāne matau mama . ūrudvayasam . ūrudaghnam . pramāṇe laḥ . pramāṇe laḥ vaktavyaḥ : śamaḥ , diṣṭiḥ , vitastiḥ . dvigoḥ nityam . dvigoḥ nityam laḥ vaktavyaḥ . dviśatam . triśatam . dvidiṣṭiḥ . tridiṣṭiḥ . dvivitastiḥ . trivitastiḥ . kimartham idam ucyate . saṃśaye śrāviṇam vakṣyati yasya asyam purastāt apakarṣaḥ . ḍaṭ stome . ḍaṭ stome vaktavyaḥ . pañcadaśaḥ stomaḥ . śacśanoḥ ḍiniḥ . śacśanoḥ ḍiniḥ vaktavyaḥ . triṃśinaḥ māsāḥ . pañcadaśinaḥ ardhamāsāḥ . viṃśateḥ ca iti vaktavyam . viṃśinaḥ aṅgirasaḥ . pramāṇaparimāṇābhyām saṅkhyāyāḥ ca saṃśaye . mātrac vaktavyaḥ . śamamātram . diṣṭimātram . vitastimātram . kuḍavamātram . pañcamātrāḥ . daśamātrāḥ . vatvantāt svārthe dvayasajmātracau bahulam . vatvantāt svārthe dvayasajmātracau bahulam vaktavyau . tāvat eva tāvaddvayasam . tāvanmātram . yāvat eva yāvaddvayasam . yāvanmātram . [pramāṇam pratyayārthaḥ na tadvati asya iti vartanāt . prathamaḥ ca dvitīyaḥ ca ūrdhvamāne matau mama . pramāṇe laḥ . dvigoḥ nityam . ḍaṭ stome . śacśanoḥ ḍiniḥ . pramāṇaparimāṇābhyām saṅkhyāyāḥ ca saṃśaye (R IV.118)]
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.