क्अ इइ।३७७।६-१४ रो इव्।११५ इनच्पिटच्काः प्रत्ययाः वक्तव्याः चिकचिचिक् इति एते च प्रकृत्यादेशाः वक्तव्याः । चिकिनः । चिपिटः । चिक्कः । क्लिन्नस्य चिल्पिल् लः च अस्य चक्षुषी । क्लिन्नस्य चिल् पिल् इति एतौ प्रकृत्यादेशौ वक्तव्यौ लः च प्रत्ययः अस्य चक्षुषी इति एतस्मिन् अर्थे । क्लिन्ने अस्य चक्षुषी चिल्लः । पिल्लः । चुल् च वक्तव्यः । चुल्लः । यदि अस्य इति उच्यते चिल्ले चक्षुषी पिल्ले चक्षुषी इति न सिध्यति । तस्मान् न अर्थः अस्य ग्रहणे । कथम् चिल्लः पिल्लः इति । अकारः मत्वर्थीयः । चिल्ले अस्य स्तः चिल्लः । पिल्ले अस्य स्तः पिल्लः इति ।
KA II.377.6-14 Ro IV.115 inacpiṭackāḥ pratyayāḥ vaktavyāḥ cikacicik iti ete ca prakṛtyādeśāḥ vaktavyāḥ . cikinaḥ . cipiṭaḥ . cikkaḥ . klinnasya cilpil laḥ ca asya cakṣuṣī . klinnasya cil pil iti etau prakṛtyādeśau vaktavyau laḥ ca pratyayaḥ asya cakṣuṣī iti etasmin arthe . klinne asya cakṣuṣī cillaḥ . pillaḥ . cul ca vaktavyaḥ . cullaḥ . yadi asya iti ucyate cille cakṣuṣī pille cakṣuṣī iti na sidhyati . tasmān na arthaḥ asya grahaṇe . katham cillaḥ pillaḥ iti . akāraḥ matvarthīyaḥ . cille asya staḥ cillaḥ . pille asya staḥ pillaḥ iti .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.