क्अ इइ।३७९।१२-१५ रो इव्।१२०-१२१ बहुषु इति वक्तव्यम् । इह मा भूत् । कियान् । कियन्तौ । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । किम् इति एतत् परिप्रश्ने वर्तते परिप्रश्नः च अनिर्ज्ञाते अनिर्ज्ञातम् च बहुषु । द्व्येकयोः पुनः निर्ज्ञातम् । निर्ज्ञातत्वात् द्व्येकयोः परिप्रश्नः न भवति । परिप्रश्नाभावात् किम् एव तावत् न अस्ति कुतः प्रत्ययः ।
KA II.379.12-15 Ro IV.120-121 bahuṣu iti vaktavyam . iha mā bhūt . kiyān . kiyantau . tat tarhi vaktavyam . na vaktavyam . kim iti etat paripraśne vartate paripraśnaḥ ca anirjñāte anirjñātam ca bahuṣu . dvyekayoḥ punaḥ nirjñātam . nirjñātatvāt dvyekayoḥ paripraśnaḥ na bhavati . paripraśnābhāvāt kim eva tāvat na asti kutaḥ pratyayaḥ .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.