क्अ इइ।३८५।२२-३८६।१४ रो इव्।१३७-१४० छप्रकरणे अनेकपदात् अपि । छप्रकरणे अनेकपदात् अपि इति वक्तव्यम् । इह अपि यथा स्यात् : अस्यवामीयम् , कयाशुभीयम् । किम् पुनः कारणम् न सिध्यति । अप्रातिपदिकत्वात् । सिद्धम् तु प्रातिपदिकविज्ञानात् । सिद्धम् एतत् । कथम् । प्रातिपदिकविज्ञानात् । कथम् प्रातिपदिकविज्ञानम् । स्वम् रूपम् शब्दस्य अशब्दसञ्ज्ञा इति वचनात् । स्वम् रूपम् शब्दस्य अशब्दसञ्ज्ञा भवति इति । एवम् यः असौ आम्नाये अस्यवामशब्दः पठ्यते सः अस्य पदार्थः । किम् पुनः अन्ये आम्नायशब्दाः अन्ये इमे । ओम् इति आह । कुतः एतत् । आम्नायशब्दानाम् अन्यभाव्यम् स्वरवर्णानुपूर्वीदेशकालनियतत्वात् । स्वरः नियतः आम्नाये अस्यवामशब्दस्य । वर्णानुपूर्वी खलु अपि आम्नाये नियता अस्यवामशब्दस्य । देशः खलु अपि आम्नाये नियतः । श्मशाने न अध्येयम् । चतुष्पथे न अध्येयम् इति । कालः खलु अपि आम्नाये नियतः । न अमावास्यायाम् न चतुर्दशायाम् इति । पदैकदेशसुबलोपदर्शनात् च । पदैकदेशः खलु अपि आम्नाये दृश्यते । अस्यवामीयम् । ननु च एषः सुब्लोपः स्यात् । सुबलोपदर्शनात् च । सुबलोपः खलु अपि दृश्यते । अस्यवामीयम् इति । यदि तर्हि अन्ये आम्नायशब्दाः अन्ये इमे मत्वर्थः न उपपद्यते । अस्यवामशब्दः अस्मिन् अस्ति इति । न सञ्ज्ञा सञ्ज्ञिनम् व्यभिचरति ।
KA II.385.22-386.14 Ro IV.137-140 chaprakaraṇe anekapadāt api . chaprakaraṇe anekapadāt api iti vaktavyam . iha api yathā syāt : asyavāmīyam , kayāśubhīyam . kim punaḥ kāraṇam na sidhyati . aprātipadikatvāt . siddham tu prātipadikavijñānāt . siddham etat . katham . prātipadikavijñānāt . katham prātipadikavijñānam . svam rūpam śabdasya aśabdasañjñā iti vacanāt . svam rūpam śabdasya aśabdasañjñā bhavati iti . evam yaḥ asau āmnāye asyavāmaśabdaḥ paṭhyate saḥ asya padārthaḥ . kim punaḥ anye āmnāyaśabdāḥ anye ime . om iti āha . kutaḥ etat . āmnāyaśabdānām anyabhāvyam svaravarṇānupūrvīdeśakālaniyatatvāt . svaraḥ niyataḥ āmnāye asyavāmaśabdasya . varṇānupūrvī khalu api āmnāye niyatā asyavāmaśabdasya . deśaḥ khalu api āmnāye niyataḥ . śmaśāne na adhyeyam . catuṣpathe na adhyeyam iti . kālaḥ khalu api āmnāye niyataḥ . na amāvāsyāyām na caturdaśāyām iti . padaikadeśasubalopadarśanāt ca . padaikadeśaḥ khalu api āmnāye dṛśyate . asyavāmīyam . nanu ca eṣaḥ sublopaḥ syāt . subalopadarśanāt ca . subalopaḥ khalu api dṛśyate . asyavāmīyam iti . yadi tarhi anye āmnāyaśabdāḥ anye ime matvarthaḥ na upapadyate . asyavāmaśabdaḥ asmin asti iti . na sañjñā sañjñinam vyabhicarati .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.