क्अ इइ।४१८।६-२५ रो इव्।२१७-२२० स्त्रीलिङ्गेन निर्देशः क्रियते एकवचनान्तेन च । तेन स्त्रीलिङ्गात् एव उत्पत्तिः स्यात् एकवचनान्तात् च । पुन्नपुंसकलिङ्गात् द्विवचनबहुवचनान्तात् च न स्यात् । न एषः दोषः । न अयम् प्रत्ययार्थः । किम् तर्हि । प्रकृत्यर्थविशेषणम् एतत् । प्रशंसायाम् यत् प्रातिपदिकम् वर्तते तस्मात् रूपप् भवति । कस्मिन् अर्थे । स्वार्थे इति । स्वार्थिकाः च प्रकृतितः लिङ्गवचनानि अनुवर्तन्ते । प्रकृतेः लिङ्गवचनाभावात् तिङ्प्रकृतेः अम्भाववचनम् । प्रकृतेः लिङ्गवचनाभावात् तिङ्प्रकृतेः रूपपः अम्भावः वक्तव्यः । पचतिरूपम् । पचतोरूपम् । पचन्तिरूपम् इति । सिद्धम् तु क्रियाप्रधानत्वात् । सिद्धम् एतत् । कथम् । क्रियाप्रधानत्वात् । क्रियाप्रधानम् आख्यातम् एका च क्रिया । द्रव्यप्रधानम् नाम । कथम् पुनः ज्ञयते क्रियाप्रधानम् आख्यातम् भवति द्रव्यप्रधानम् नाम इति । यत् क्रियाम् पृष्टः तिङा आचष्टे । किम् देवदत्तः करोति । पचति इति । द्रव्यम् पृष्टः कृता आचष्टे । कतरः देवदत्तः । यः कारकः हारकः इति । यदि तर्हि एका क्रिया द्विवचनबहुवचनानि न सिद्यन्ति । पचतः । पचन्ति इति । न एतानि क्रियापेक्षाणि । किम् तर्हि साधनापेक्षाणि । इह अपि तर्हि प्राप्नुवन्ति । पचतिरूपम् । पचतोरूपम् । पचन्तिरूपम् इति । तिङा उक्तत्वात् तस्य अभिसम्बन्धस्य न भविष्यति । एकवचनम् अपि तर्हि न प्राप्नोति । समयात् भविष्यति । द्विवचनबहुवचनानि अपि तर्हि समयात् प्राप्नुवन्ति । एवम् तर्हि एकवचनम् उत्सर्गः करिष्यते । तस्य द्विबह्वोः द्विवचनबहुवचने अपवावौ भविष्यतः । एवम् अपि नपुंसकत्वम् वक्तव्यम् । न वक्तव्यम् । लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य ।
KA II.418.6-25 Ro IV.217-220 strīliṅgena nirdeśaḥ kriyate ekavacanāntena ca . tena strīliṅgāt eva utpattiḥ syāt ekavacanāntāt ca . punnapuṃsakaliṅgāt dvivacanabahuvacanāntāt ca na syāt . na eṣaḥ doṣaḥ . na ayam pratyayārthaḥ . kim tarhi . prakṛtyarthaviśeṣaṇam etat . praśaṃsāyām yat prātipadikam vartate tasmāt rūpap bhavati . kasmin arthe . svārthe iti . svārthikāḥ ca prakṛtitaḥ liṅgavacanāni anuvartante . prakṛteḥ liṅgavacanābhāvāt tiṅprakṛteḥ ambhāvavacanam . prakṛteḥ liṅgavacanābhāvāt tiṅprakṛteḥ rūpapaḥ ambhāvaḥ vaktavyaḥ . pacatirūpam . pacatorūpam . pacantirūpam iti . siddham tu kriyāpradhānatvāt . siddham etat . katham . kriyāpradhānatvāt . kriyāpradhānam ākhyātam ekā ca kriyā . dravyapradhānam nāma . katham punaḥ jñayate kriyāpradhānam ākhyātam bhavati dravyapradhānam nāma iti . yat kriyām pṛṣṭaḥ tiṅā ācaṣṭe . kim devadattaḥ karoti . pacati iti . dravyam pṛṣṭaḥ kṛtā ācaṣṭe . kataraḥ devadattaḥ . yaḥ kārakaḥ hārakaḥ iti . yadi tarhi ekā kriyā dvivacanabahuvacanāni na sidyanti . pacataḥ . pacanti iti . na etāni kriyāpekṣāṇi . kim tarhi sādhanāpekṣāṇi . iha api tarhi prāpnuvanti . pacatirūpam . pacatorūpam . pacantirūpam iti . tiṅā uktatvāt tasya abhisambandhasya na bhaviṣyati . ekavacanam api tarhi na prāpnoti . samayāt bhaviṣyati . dvivacanabahuvacanāni api tarhi samayāt prāpnuvanti . evam tarhi ekavacanam utsargaḥ kariṣyate . tasya dvibahvoḥ dvivacanabahuvacane apavāvau bhaviṣyataḥ . evam api napuṃsakatvam vaktavyam . na vaktavyam . liṅgam aśiṣyam lokāśrayatvāt liṅgasya .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.