क्अ इइ।४०२।२-१३ रो इव्।१७७-१७८ विभक्तित्वे किम् प्रयोजनम् । विभक्तित्वे प्रयोजनम् इत्प्रतिषेधः । इदानीम् । न विभक्तौ तुस्माः इति इत्प्रतिषेधः सिद्धः भवति । यदि एवम् किमः अत् क्व प्रेप्स्यन् दीप्यसे क्व अर्धमासाः । अत्र अपि प्राप्नोति । तौ च उक्तम् । किम् उक्तम् । विभक्तौ तवर्गप्रतिषेधः अतद्धिते इति । इदमः विभक्तिस्वरः च । इदमः विभक्तिस्वरः च प्रयोजनम् । इतः । इह । इदमः तृतीयादिः विभक्तिः उदात्ता भवति इति एषः स्वरः भवति । त्यदादिविधयः च । त्यदादिविधयः च प्रयोजनम् । यतः । यत्र । विभक्तौ इति त्यदादिविधयः सिद्धाः भवन्ति ।
KA II.402.2-13 Ro IV.177-178 vibhaktitve kim prayojanam . vibhaktitve prayojanam itpratiṣedhaḥ . idānīm . na vibhaktau tusmāḥ iti itpratiṣedhaḥ siddhaḥ bhavati . yadi evam kimaḥ at kva prepsyan dīpyase kva ardhamāsāḥ . atra api prāpnoti . tau ca uktam . kim uktam . vibhaktau tavargapratiṣedhaḥ ataddhite iti . idamaḥ vibhaktisvaraḥ ca . idamaḥ vibhaktisvaraḥ ca prayojanam . itaḥ . iha . idamaḥ tṛtīyādiḥ vibhaktiḥ udāttā bhavati iti eṣaḥ svaraḥ bhavati . tyadādividhayaḥ ca . tyadādividhayaḥ ca prayojanam . yataḥ . yatra . vibhaktau iti tyadādividhayaḥ siddhāḥ bhavanti .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।४०२।१५-२० रो इव्।१७८ बहुग्रहणे सङ्ख्याग्रहणम् । बहुग्रहणे सङ्ख्याग्रहणम् कर्तव्यम् । इह मा भूत् । बहौ । बहोः इति । अथ किमर्थम् किमः उपसङ्ख्यानम् क्रियते न सर्वनाम्नः इति एव सिद्धम् । द्व्यातिप्रतिषेधात् किमः उपसङ्ख्यानम् । द्व्यातिप्रतिषेधात् किमः उपसङ्ख्यानम् क्रियते । अद्व्यादिभ्यः इति प्रतिषेधे प्राप्ते किमः उपसङ्ख्यानम् क्रियते ।
KA II.402.15-20 Ro IV.178 bahugrahaṇe saṅkhyāgrahaṇam . bahugrahaṇe saṅkhyāgrahaṇam kartavyam . iha mā bhūt . bahau . bahoḥ iti . atha kimartham kimaḥ upasaṅkhyānam kriyate na sarvanāmnaḥ iti eva siddham . dvyātipratiṣedhāt kimaḥ upasaṅkhyānam . dvyātipratiṣedhāt kimaḥ upasaṅkhyānam kriyate . advyādibhyaḥ iti pratiṣedhe prāpte kimaḥ upasaṅkhyānam kriyate .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।४०३।२-१५ रो इव्।१७८-१७९ क्व अयम् नकारः श्रूयते । न क्व चित् श्रूयते । लोपः अस्य भवति नलोपः प्रातिपदिकान्तस्य इति । यदि न क्व चित् श्रूयते किमर्थम् उच्चार्यते । अनेकाल्शित् सर्वस्य इति सर्वादेशः यथा स्यात् । क्रियमाणे अपि नकारे सर्वादेशः न प्राप्नोति । किम् कारणम् । नलोपे कृते एकाल्त्वात् । इदम् इह सम्प्रधार्यम् । नलोपः क्रियताम् सर्वादेशः इति । किम् अत्र कर्तव्यम् । परत्वात् नलोपः । असिद्धः नलोपः । तस्य असिद्धत्वात् सर्वादेशः भवति । परिगणितेषु कार्येषु नलोपः असिद्धः न च इदम् तत्र परिगण्यते । एवम् तर्हि आनुपूर्व्या सिद्धम् एतत् । न अकृते सर्वादेशे प्रातिपदिकसञ्ज्ञा प्राप्नोति न च अकृतायाम् प्रातिपदिकसञ्ज्ञायाम् नलोपः प्राप्नोति । तत् आनुपूर्व्या सिद्धम् । न एतत् अस्ति प्रयोजनम् । अलः अन्त्यस्य विधयः भवन्ति इति अकारस्य अकारवचने प्रयोजनम् न अस्ति इति कृत्वा अन्तरेण नकारम् सर्वादेशः भविष्यति । अस्ति अन्यत् अकारस्य अकारवचने प्रयोजनम् । किम् । ये अन्ये अकारादेशाः प्राप्नुवन्ति तद्बाधनार्थम् । तत् यथा मः राजि समः क्वौ इति मकारस्य मकारवचनसामर्थ्यात् अनुस्वारादयः न भवन्ति । तस्मात् नकारः कर्तव्यः । न कर्तव्यः । क्रियते न्यासे एव ।प्रश्लिष्टनिर्देशः अयम् अ अ अ इति । सः अनेकाल्शित् सर्वस्य इति सर्वादेशः भविष्यति ।
KA II.403.2-15 Ro IV.178-179 kva ayam nakāraḥ śrūyate . na kva cit śrūyate . lopaḥ asya bhavati nalopaḥ prātipadikāntasya iti . yadi na kva cit śrūyate kimartham uccāryate . anekālśit sarvasya iti sarvādeśaḥ yathā syāt . kriyamāṇe api nakāre sarvādeśaḥ na prāpnoti . kim kāraṇam . nalope kṛte ekāltvāt . idam iha sampradhāryam . nalopaḥ kriyatām sarvādeśaḥ iti . kim atra kartavyam . paratvāt nalopaḥ . asiddhaḥ nalopaḥ . tasya asiddhatvāt sarvādeśaḥ bhavati . parigaṇiteṣu kāryeṣu nalopaḥ asiddhaḥ na ca idam tatra parigaṇyate . evam tarhi ānupūrvyā siddham etat . na akṛte sarvādeśe prātipadikasañjñā prāpnoti na ca akṛtāyām prātipadikasañjñāyām nalopaḥ prāpnoti . tat ānupūrvyā siddham . na etat asti prayojanam . alaḥ antyasya vidhayaḥ bhavanti iti akārasya akāravacane prayojanam na asti iti kṛtvā antareṇa nakāram sarvādeśaḥ bhaviṣyati . asti anyat akārasya akāravacane prayojanam . kim . ye anye akārādeśāḥ prāpnuvanti tadbādhanārtham . tat yathā maḥ rāji samaḥ kvau iti makārasya makāravacanasāmarthyāt anusvārādayaḥ na bhavanti . tasmāt nakāraḥ kartavyaḥ . na kartavyaḥ . kriyate nyāse eva .praśliṣṭanirdeśaḥ ayam a a a iti . saḥ anekālśit sarvasya iti sarvādeśaḥ bhaviṣyati .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।४०३।१६-२४ रो इव्।१८० एतदः इति योगविभागः । एतदः इति योगविभागः कर्तव्यः । एतदः एत इत् इति एतौ आदेशौ भवतः ततः अन् । अन् च भवति एतदः इति । केन विहितेन थकारे एतदः आदेशः उच्यते । एतदः च थमः उपसङ्ख्यानम् । एतदः च थमः उपसङ्ख्यानम् कर्तव्यम् । एतत्प्रकारम् इत्थम् । तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् । न कर्तव्यम् । एतत् ज्ञापयति भवति अत्र थमुः इति यत् अयम् थकारादौ आदेशम् शास्ति । कुतः नु खलु एतज्ज्ञापकात् अत्र थमुः भविष्यति । न पुनः यः एव असौ अविशेषविहितः थकारादिः तस्मिन् आदेशः स्यात् । इदमा थकारादिम् विशेषयिष्यामः । इदमः यः थकारादिः इति ।
KA II.403.16-24 Ro IV.180 etadaḥ iti yogavibhāgaḥ . etadaḥ iti yogavibhāgaḥ kartavyaḥ . etadaḥ eta it iti etau ādeśau bhavataḥ tataḥ an . an ca bhavati etadaḥ iti . kena vihitena thakāre etadaḥ ādeśaḥ ucyate . etadaḥ ca thamaḥ upasaṅkhyānam . etadaḥ ca thamaḥ upasaṅkhyānam kartavyam . etatprakāram ittham . tat tarhi upasaṅkhyānam kartavyam . na kartavyam . etat jñāpayati bhavati atra thamuḥ iti yat ayam thakārādau ādeśam śāsti . kutaḥ nu khalu etajjñāpakāt atra thamuḥ bhaviṣyati . na punaḥ yaḥ eva asau aviśeṣavihitaḥ thakārādiḥ tasmin ādeśaḥ syāt . idamā thakārādim viśeṣayiṣyāmaḥ . idamaḥ yaḥ thakārādiḥ iti .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।४०५।२-८ रो इव्।१८२-१८३ किमर्थम् तसेः तसिल् उच्यते । तसेः तसिल्वचनम् स्वरार्थम् । तसेः तसिल्वचनम् क्रियते स्वरार्थम् । लिति प्रत्ययात् पूर्वम् उदात्तम् भवति इति एषः स्वरः यथा स्यात् । ननु च अयम् तसिल् तसिम् बाधिष्यते । न सिध्यति । परत्वात् तसिः प्राप्नोति । तसिलः अवकाशः । ततः हीयते । ततः अवरोहति । तसेः अवकाशः । ग्रामतः आगच्छति । नगरतः आगच्छति । इह उभयम् प्राप्नोति । ततः आगच्छति । यतः आगच्छति । परत्वात् तसिः प्राप्नोति । तस्मात् सुष्थु उच्यते तसेः तसिल्वचनम् स्वरार्थम् इति ।
KA II.405.2-8 Ro IV.182-183 kimartham taseḥ tasil ucyate . taseḥ tasilvacanam svarārtham . taseḥ tasilvacanam kriyate svarārtham . liti pratyayāt pūrvam udāttam bhavati iti eṣaḥ svaraḥ yathā syāt . nanu ca ayam tasil tasim bādhiṣyate . na sidhyati . paratvāt tasiḥ prāpnoti . tasilaḥ avakāśaḥ . tataḥ hīyate . tataḥ avarohati . taseḥ avakāśaḥ . grāmataḥ āgacchati . nagarataḥ āgacchati . iha ubhayam prāpnoti . tataḥ āgacchati . yataḥ āgacchati . paratvāt tasiḥ prāpnoti . tasmāt suṣthu ucyate taseḥ tasilvacanam svarārtham iti .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।४०५।१०-१२ रो इव्।१८३ पर्यभिभ्याम् च इति यत् उच्यते तत् सर्वोभयार्थे द्रष्टव्यम् । यावत् सर्वतः तावत् परितः । यावत् उभयतः तावत् अभितः ।
KA II.405.10-12 Ro IV.183 paryabhibhyām ca iti yat ucyate tat sarvobhayārthe draṣṭavyam . yāvat sarvataḥ tāvat paritaḥ . yāvat ubhayataḥ tāvat abhitaḥ .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।४०५।१४-२२ रो इव्।१८३ इह कस्मात् न भवति । सः । तौ । ते । भवदादिभिः योगे इति वक्तव्यम् । के पुनः भवदादयः । भवान् । दीर्घायुः । देवानाम्प्रियः । आयुष्मान् इति । सः भवान् । तत्र भवान् । ततः भवान् । तम् भवन्तम् । तत्र भवन्तम् । ततः भवन्तम् । तेन भवता । तत्र भवता ततः भवता । तस्मै भवते । तत्र भवते । ततः भवते । तस्मात् भवतः । तत्र भवतः । ततः भवतः । तस्मिन् भवति । तत्र भवति । ततः भवति । सः दीर्घायुः । तत्र दीर्घायुः । ततः दीर्घायुः । तम् दीर्घायुषम् । तत्र दीर्घायुषम् । ततः दीर्घायुषम् । सः देवानाम्प्रियः । तत्र देवानाम्प्रियः । ततः देवानाम्प्रियः । तम् देवानाम्प्रियम् । तत्र देवानाम्प्रियम् । ततः देवानाम्प्रियम् । सः आयुष्मान् । तत्र आयुष्मान् । ततः आयुष्मान् । तम् आयुष्मन्तम् । तत्र आयुष्मन्तम् । ततः आयुष्मन्तम् ।
KA II.405.14-22 Ro IV.183 iha kasmāt na bhavati . saḥ . tau . te . bhavadādibhiḥ yoge iti vaktavyam . ke punaḥ bhavadādayaḥ . bhavān . dīrghāyuḥ . devānāmpriyaḥ . āyuṣmān iti . saḥ bhavān . tatra bhavān . tataḥ bhavān . tam bhavantam . tatra bhavantam . tataḥ bhavantam . tena bhavatā . tatra bhavatā tataḥ bhavatā . tasmai bhavate . tatra bhavate . tataḥ bhavate . tasmāt bhavataḥ . tatra bhavataḥ . tataḥ bhavataḥ . tasmin bhavati . tatra bhavati . tataḥ bhavati . saḥ dīrghāyuḥ . tatra dīrghāyuḥ . tataḥ dīrghāyuḥ . tam dīrghāyuṣam . tatra dīrghāyuṣam . tataḥ dīrghāyuṣam . saḥ devānāmpriyaḥ . tatra devānāmpriyaḥ . tataḥ devānāmpriyaḥ . tam devānāmpriyam . tatra devānāmpriyam . tataḥ devānāmpriyam . saḥ āyuṣmān . tatra āyuṣmān . tataḥ āyuṣmān . tam āyuṣmantam . tatra āyuṣmantam . tataḥ āyuṣmantam .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।४०६।२-३ रो इव्।१८४ अधुना इति किम् निपात्यते । इदमः अश्भावः धुना च प्रत्ययः इदमः वा लोपः अधुना च प्रत्ययः । अस्मिन् काले अधुन ।
KA II.406.2-3 Ro IV.184 adhunā iti kim nipātyate . idamaḥ aśbhāvaḥ dhunā ca pratyayaḥ idamaḥ vā lopaḥ adhunā ca pratyayaḥ . asmin kāle adhuna .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।४०६।५-१० रो इव्।१८४ इदानीम् । इदमः तृतीयादिविभक्तिः उदात्ता भवति इति एषः स्वरः प्राप्नोति । दानीम् इति निपातनात् स्वरसिद्धिः । दानीम् इति निपातनात् स्वरसिद्धिः भविष्यति । आद्युदात्तनिपातनम् करिष्यते । सः निपातनस्वरः विभक्तिस्वरस्य बाधकः भविष्यति । उक्तम् वा । किम् उक्तम् । आदौ सिद्धम् इति ।
KA II.406.5-10 Ro IV.184 idānīm . idamaḥ tṛtīyādivibhaktiḥ udāttā bhavati iti eṣaḥ svaraḥ prāpnoti . dānīm iti nipātanāt svarasiddhiḥ . dānīm iti nipātanāt svarasiddhiḥ bhaviṣyati . ādyudāttanipātanam kariṣyate . saḥ nipātanasvaraḥ vibhaktisvarasya bādhakaḥ bhaviṣyati . uktam vā . kim uktam . ādau siddham iti .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।४०६।१२-१४ रो इव्।१८४ तदः दावचनम् अनर्थकम् विहितत्वात् । तदः दावचनम् अनर्थकम् । किम् कारणम् । विहितत्वात् । विहितः अत्र प्रत्ययः सर्वैकान्यकिंयत्तदः काले दा इति ।
KA II.406.12-14 Ro IV.184 tadaḥ dāvacanam anarthakam vihitatvāt . tadaḥ dāvacanam anarthakam . kim kāraṇam . vihitatvāt . vihitaḥ atra pratyayaḥ sarvaikānyakiṃyattadaḥ kāle dā iti .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।४०६।१६-१८ रो इव्।१८४ तयोः इति प्रातिपदिकनिर्देशः । तयोः इति प्रातिपदिकनिर्देशः द्रष्टव्यः । द्वेष्यम् विजानीयात् :योगयोः वा प्रत्यययोः वा इति । तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे : तयोः इति प्रातिपदिकनिर्देशः इति ।
KA II.406.16-18 Ro IV.184 tayoḥ iti prātipadikanirdeśaḥ . tayoḥ iti prātipadikanirdeśaḥ draṣṭavyaḥ . dveṣyam vijānīyāt :yogayoḥ vā pratyayayoḥ vā iti . tat ācāryaḥ suhṛt bhūtvā anvācaṣṭe : tayoḥ iti prātipadikanirdeśaḥ iti .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।४०७।२-४०८।२ रो इव्।१८५-१८६ सद्यः इति किम् निपात्यते । समानस्य सभावः द्यः च अहनि । समानस्य सभावः निपात्यते द्यः च प्रत्ययः अहनि अभिधेये । समाने अहनि सद्यः । परुत् परारि इति किम् निपात्यते । पूर्वपूर्वतयोः परभावः उदारी च संवत्सरे । पूर्वपूर्वतयोः परभावः निपात्यते उदारी च प्रत्ययौ संवत्सरे अभिधेये । पूर्वस्मिन् संवत्सरे परुत् । पूर्वतरे संवत्सरे परारि । ऐषमः इति किम् निपात्यते । इदमः समसण् । इदमः समसण् प्रत्ययः निपात्यते संवत्सरे अभिधेये । अस्मिन् संवत्सरे ऐषमः । परेद्यवि इति किम् निपात्यते । परस्मात् एद्यवि अहनि । परस्मात् एद्यवि प्रत्ययः निपात्यते अहनि अभिधेये । परस्मिन् अहनि परेद्यवि । अद्य इति किम् निपात्यते । इदमः अश्भावः द्यः च । इदमः अश्भावः निपात्यते द्यः च प्रत्ययः अहनि अभिधेये । अस्मिन् अहनि अद्य । पूर्वेद्युः अन्येद्युः अन्यतरेद्युः इतरेद्युः अपरेद्युः अधरेद्युः उभयेद्युः उत्तरेद्युः इति किम् निपात्यते । पूर्वान्यान्यतरेरापराधरोभयोत्तरेभ्यः एद्युसुच् । पूर्वान्यान्यतरेरापराधरोभयोत्तरेभ्यः एद्युसुच् प्रत्ययः निपात्यते अहनि अभिधेये । पूर्वस्मिन् अहनि पूर्वेद्युः । अन्यस्मिन् अहनि अन्येद्युः । अन्यतरस्मिन् अहनि अन्यतरेद्युः । इतरस्मिन् अहनि इतरेद्युः । अपरस्मिन् अहनि अपरेद्युः । अधरस्मिन् अहनि अधरेद्युः । उभयोः अह्नोः उभयेद्युः । उत्तरस्मिन् अहनि उत्तरेद्युः । द्युः च उभयात् । उभयशब्दात् द्युः च वक्तव्यः । तस्मात् मनुष्येभ्यः उभयद्युः ।
KA II.407.2-408.2 Ro IV.185-186 sadyaḥ iti kim nipātyate . samānasya sabhāvaḥ dyaḥ ca ahani . samānasya sabhāvaḥ nipātyate dyaḥ ca pratyayaḥ ahani abhidheye . samāne ahani sadyaḥ . parut parāri iti kim nipātyate . pūrvapūrvatayoḥ parabhāvaḥ udārī ca saṃvatsare . pūrvapūrvatayoḥ parabhāvaḥ nipātyate udārī ca pratyayau saṃvatsare abhidheye . pūrvasmin saṃvatsare parut . pūrvatare saṃvatsare parāri . aiṣamaḥ iti kim nipātyate . idamaḥ samasaṇ . idamaḥ samasaṇ pratyayaḥ nipātyate saṃvatsare abhidheye . asmin saṃvatsare aiṣamaḥ . paredyavi iti kim nipātyate . parasmāt edyavi ahani . parasmāt edyavi pratyayaḥ nipātyate ahani abhidheye . parasmin ahani paredyavi . adya iti kim nipātyate . idamaḥ aśbhāvaḥ dyaḥ ca . idamaḥ aśbhāvaḥ nipātyate dyaḥ ca pratyayaḥ ahani abhidheye . asmin ahani adya . pūrvedyuḥ anyedyuḥ anyataredyuḥ itaredyuḥ aparedyuḥ adharedyuḥ ubhayedyuḥ uttaredyuḥ iti kim nipātyate . pūrvānyānyatarerāparādharobhayottarebhyaḥ edyusuc . pūrvānyānyatarerāparādharobhayottarebhyaḥ edyusuc pratyayaḥ nipātyate ahani abhidheye . pūrvasmin ahani pūrvedyuḥ . anyasmin ahani anyedyuḥ . anyatarasmin ahani anyataredyuḥ . itarasmin ahani itaredyuḥ . aparasmin ahani aparedyuḥ . adharasmin ahani adharedyuḥ . ubhayoḥ ahnoḥ ubhayedyuḥ . uttarasmin ahani uttaredyuḥ . dyuḥ ca ubhayāt . ubhayaśabdāt dyuḥ ca vaktavyaḥ . tasmāt manuṣyebhyaḥ ubhayadyuḥ .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।४०८।५ रो इव्।१८७ इह कस्मात् न भवति । पूर्वस्मिन् देशे वसति इति । न एषः देशः । देशविशेषणम् एतत् ।
KA II.408.5 Ro IV.187 iha kasmāt na bhavati . pūrvasmin deśe vasati iti . na eṣaḥ deśaḥ . deśaviśeṣaṇam etat .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।४०८।७-२२ रो इव्।१८८-१९० किमर्थम् अतसुच् क्रियते न तसुच् एव क्रियते । तत्र अयम् अपि अर्थः । स्वरार्थः चकारः न कर्तव्यः भवति । प्रत्ययस्वरेण एव सिद्धम् । का रूपसिद्धिः : दक्षिणतः ग्रामस्य । उत्तरतः ग्रामस्य । दक्षिणोत्तरशब्दौ अकारान्तौ । तसुशब्दः प्रत्ययः । भवेत् सिद्धम् यदा अकारान्तौ । यतु तु खलु आकारान्तौ तदा न सिध्यति । तदा अपि सिद्धम् । कथम् । पुंवद्भावेन । कथम् पुंवद्भावः । तसिलादिषु आ कृत्वसुचः इति । न सिध्यति । भाषितपुंस्कस्य पुंवद्भावः न च एतौ भाषितपुंस्कौ । ननु च भो दक्षिणशब्दः उत्तरशब्दः च पुंसि भाष्येते । समानायाम् आकृतौ यत् भाषितपुंस्कम् इति उच्यते आकृत्यन्तरे च एतौ भाषितपुंस्कौ । दक्षिणा उत्तरा इति दिक्शब्दौ । दक्षिणः उत्तरः इति व्यवस्थाशब्दौ । यदि पुनः दिक्शब्दाः अपि व्यवस्थाशब्दाः स्युः । कथम् यानि दिगपदिष्टानि कार्याणि । दिशः यदा व्यवस्थाम् वक्ष्यन्ति । यदि तरि यः यः दिशि वर्तते सः सः दिक्शब्दः रमणीयादिषु अतिप्रसङ्गः भवति । रमणीया दिक् शोभना दिक् इति । अथ मतम् एतत् दिशि दृष्टः दिग्दृष्टः दिग्दृष्टः शब्दः दिक्शब्दः दिशम् यः न व्यभिचरति इति रमणीयादिषु अतिप्रसङ्गः न भवति । पुंवद्भावः तु प्राप्नोति । एवम् तर्हि सर्वनाम्नः वृत्तिमात्रे पुंवद्भावः वक्तव्यः दक्षिणोत्तरपूर्वाणाम् इति एवमर्थम् । विशेषणार्थम् तर्हि । क्व विशेषणार्थेन अर्थः । षष्ठी अतसर्थप्रत्ययेन इति । षष्ठी तसर्थप्रत्ययेने इति उच्यमाने इह अपि स्यात् । ततः ग्रामात् । यतः ग्रामात् इति ।
KA II.408.7-22 Ro IV.188-190 kimartham atasuc kriyate na tasuc eva kriyate . tatra ayam api arthaḥ . svarārthaḥ cakāraḥ na kartavyaḥ bhavati . pratyayasvareṇa eva siddham . kā rūpasiddhiḥ : dakṣiṇataḥ grāmasya . uttarataḥ grāmasya . dakṣiṇottaraśabdau akārāntau . tasuśabdaḥ pratyayaḥ . bhavet siddham yadā akārāntau . yatu tu khalu ākārāntau tadā na sidhyati . tadā api siddham . katham . puṃvadbhāvena . katham puṃvadbhāvaḥ . tasilādiṣu ā kṛtvasucaḥ iti . na sidhyati . bhāṣitapuṃskasya puṃvadbhāvaḥ na ca etau bhāṣitapuṃskau . nanu ca bho dakṣiṇaśabdaḥ uttaraśabdaḥ ca puṃsi bhāṣyete . samānāyām ākṛtau yat bhāṣitapuṃskam iti ucyate ākṛtyantare ca etau bhāṣitapuṃskau . dakṣiṇā uttarā iti dikśabdau . dakṣiṇaḥ uttaraḥ iti vyavasthāśabdau . yadi punaḥ dikśabdāḥ api vyavasthāśabdāḥ syuḥ . katham yāni digapadiṣṭāni kāryāṇi . diśaḥ yadā vyavasthām vakṣyanti . yadi tari yaḥ yaḥ diśi vartate saḥ saḥ dikśabdaḥ ramaṇīyādiṣu atiprasaṅgaḥ bhavati . ramaṇīyā dik śobhanā dik iti . atha matam etat diśi dṛṣṭaḥ digdṛṣṭaḥ digdṛṣṭaḥ śabdaḥ dikśabdaḥ diśam yaḥ na vyabhicarati iti ramaṇīyādiṣu atiprasaṅgaḥ na bhavati . puṃvadbhāvaḥ tu prāpnoti . evam tarhi sarvanāmnaḥ vṛttimātre puṃvadbhāvaḥ vaktavyaḥ dakṣiṇottarapūrvāṇām iti evamartham . viśeṣaṇārtham tarhi . kva viśeṣaṇārthena arthaḥ . ṣaṣṭhī atasarthapratyayena iti . ṣaṣṭhī tasarthapratyayene iti ucyamāne iha api syāt . tataḥ grāmāt . yataḥ grāmāt iti .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।४०९।२-४ रो इव्।१९१ उपरि उपरिष्टात् इति किम् निपात्यते । ऊर्ध्वस्य उपभावः रिलिष्टातिलौ च । ऊर्ध्वस्य उपभावः रिलिष्टातिलौ च प्रत्ययौ निपात्येते । उपरि उपरिष्तात् ।
KA II.409.2-4 Ro IV.191 upari upariṣṭāt iti kim nipātyate . ūrdhvasya upabhāvaḥ riliṣṭātilau ca . ūrdhvasya upabhāvaḥ riliṣṭātilau ca pratyayau nipātyete . upari upariṣtāt .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।४०९।६-१६ रो इव्।१९१ पश्चात् इति किम् निपात्यते । अपरस्य पश्चभावः आतिः च प्रतययः । अपरस्य पश्चभावः निपात्यते आतिः च प्रतययः । पश्चात् । दिक्पूर्वपदस्य च । दिक्पूर्वपदस्य च अपरस्य पश्चभावः वक्तव्यः आतिः च प्रतययः । दक्षिणपश्चात् । उत्तरपश्चात् । अर्धोत्तरपदस्य च समासे । अर्धोत्तरपदस्य च समासे अपरस्य पश्चभावः वक्तव्यः । दक्षिणपश्चार्धः । उत्तरपश्चार्धः । अर्धे च । अर्धे च परतः अपरस्य पश्चभावः वक्तव्यः । पश्चार्धः ।
KA II.409.6-16 Ro IV.191 paścāt iti kim nipātyate . aparasya paścabhāvaḥ ātiḥ ca pratayayaḥ . aparasya paścabhāvaḥ nipātyate ātiḥ ca pratayayaḥ . paścāt . dikpūrvapadasya ca . dikpūrvapadasya ca aparasya paścabhāvaḥ vaktavyaḥ ātiḥ ca pratayayaḥ . dakṣiṇapaścāt . uttarapaścāt . ardhottarapadasya ca samāse . ardhottarapadasya ca samāse aparasya paścabhāvaḥ vaktavyaḥ . dakṣiṇapaścārdhaḥ . uttarapaścārdhaḥ . ardhe ca . ardhe ca parataḥ aparasya paścabhāvaḥ vaktavyaḥ . paścārdhaḥ .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।४०९।१८-२० रो इव्।१९१ अपञ्चम्याः इति प्राक् असः । अपञ्चम्याः इति यत् उच्यते प्राक् असः तत् द्रष्टव्यम् । द्वेष्यम् विजानीयात् : अविशेषेण उत्तरम् अपञ्चम्याः इति । तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे : अपञ्चम्याः इति प्राक् असः इति ।
KA II.409.18-20 Ro IV.191 apañcamyāḥ iti prāk asaḥ . apañcamyāḥ iti yat ucyate prāk asaḥ tat draṣṭavyam . dveṣyam vijānīyāt : aviśeṣeṇa uttaram apañcamyāḥ iti . tat ācāryaḥ suhṛt bhūtvā anvācaṣṭe : apañcamyāḥ iti prāk asaḥ iti .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।४१०।२-५ रो इव्।१९१ किमर्थः चकारः । स्वरार्थः । चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् । न एतत् अस्ति प्रयोजनम् । एकाच् अयम् । तत्र न अर्थः स्वरार्थेन चकारेण अनुबन्धेन । प्रत्ययस्वरेण एव सिद्धम् । विशेषणार्थः तर्हि । क्व विशेषणार्थेन अर्थः । अन्यारादितरर्तेदिक्शब्दाञ्चूऊत्तरपदाजाहियुक्ते ।
KA II.410.2-5 Ro IV.191 kimarthaḥ cakāraḥ . svarārthaḥ . citaḥ antaḥ udāttaḥ bhavati iti antodāttatvam yathā syāt . na etat asti prayojanam . ekāc ayam . tatra na arthaḥ svarārthena cakāreṇa anubandhena . pratyayasvareṇa eva siddham . viśeṣaṇārthaḥ tarhi . kva viśeṣaṇārthena arthaḥ . anyārāditarartedikśabdāñcūūttarapadājāhiyukte .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।४१०।७-१५ रो इव्।१९२-१९३ विधार्थे इति उच्यते । कः विधार्थः नाम । विधायाः अर्थः विधार्थः । यदि एवम् एका गोविधा । एका हस्तिविधा । अत्र अपि प्राप्नोति । एवम् तर्हि धाविधानम् धात्वर्थपृथग्भावे । धाविधानम् धात्वर्थपृथग्भावे इति वक्तव्यम् । कः पुनः धात्वर्थपृथग्भावः । किम् यत् तत् देवदत्तः कंसपात्र्याम् पाणिना ओदनम् भुङ्क्ते इति । न इति आह । कारकपृथक्त्वम् एतत् । यत् तर्हि तत् काल्ये भुङ्के सायम् भुङ्क्ते इति । न इति आह । कालपृथक्त्वम् एतत् । यत् तर्हि शीतम् भुङ्क्ते उष्णम् भुङ्क्ते इति । न इति आह । गुणपृथक्त्वम् एतत् । कः तर्हि धात्वर्थपृथग्भावः । कारकाणाम् प्रवृत्तिविशेषः क्रिया । यदि एवम् क्रियाप्रकारे अयम् भवति । विधयुक्तगताः च प्रकारे भवन्ति । एवंविधम् । एवंयुक्तम् । एवङ्गतम् । एवम्प्रकारम् इति ।
KA II.410.7-15 Ro IV.192-193 vidhārthe iti ucyate . kaḥ vidhārthaḥ nāma . vidhāyāḥ arthaḥ vidhārthaḥ . yadi evam ekā govidhā . ekā hastividhā . atra api prāpnoti . evam tarhi dhāvidhānam dhātvarthapṛthagbhāve . dhāvidhānam dhātvarthapṛthagbhāve iti vaktavyam . kaḥ punaḥ dhātvarthapṛthagbhāvaḥ . kim yat tat devadattaḥ kaṃsapātryām pāṇinā odanam bhuṅkte iti . na iti āha . kārakapṛthaktvam etat . yat tarhi tat kālye bhuṅke sāyam bhuṅkte iti . na iti āha . kālapṛthaktvam etat . yat tarhi śītam bhuṅkte uṣṇam bhuṅkte iti . na iti āha . guṇapṛthaktvam etat . kaḥ tarhi dhātvarthapṛthagbhāvaḥ . kārakāṇām pravṛttiviśeṣaḥ kriyā . yadi evam kriyāprakāre ayam bhavati . vidhayuktagatāḥ ca prakāre bhavanti . evaṃvidham . evaṃyuktam . evaṅgatam . evamprakāram iti .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।४१०।१७-२० रो इव्।१९४ सहभावे ध्यमुञ् । सहभावे ध्यमुञ् वक्तव्यः । एइकध्यम् राशिम् कुरु । सः तर्हि वक्तव्यः । न वक्तव्यः । अधिकरणविचाले इति उच्यते न च सः एव अधिकरणविचालः यत् एकम् अनेकम् क्रियते । यत् अपि अनेकम् एकम् क्रियते सः अपि अधिकरणविचालः ।
KA II.410.17-20 Ro IV.194 sahabhāve dhyamuñ . sahabhāve dhyamuñ vaktavyaḥ . eikadhyam rāśim kuru . saḥ tarhi vaktavyaḥ . na vaktavyaḥ . adhikaraṇavicāle iti ucyate na ca saḥ eva adhikaraṇavicālaḥ yat ekam anekam kriyate . yat api anekam ekam kriyate saḥ api adhikaraṇavicālaḥ .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।४११।२-३ रो इव्।१९४-१९५ धमुञन्तात् स्वार्थे डदर्शनम् । धमुञन्तात् स्वार्थे डः दृश्यते सः च विधेयः । पथि द्वैधानि । संशये द्वैधानि ।
KA II.411.2-3 Ro IV.194-195 dhamuñantāt svārthe ḍadarśanam . dhamuñantāt svārthe ḍaḥ dṛśyate saḥ ca vidheyaḥ . pathi dvaidhāni . saṃśaye dvaidhāni .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।४११।५-१० रो इव्।१९५ पाशपि कुत्सितग्रहणम् । पाशपि कुत्सितग्रहणम् कर्तव्यम् । वैयाकरणपाशः । याज्ञिकपाशः । यः हि यापयितव्यः याप्यः तत्र मा भूत् इति । अथ वैयाकरणः शरीरेण कृशः व्याकरणेन च शोभनः कर्तव्यः वैयाकरणपाशः इति । न कर्तव्यः । कथम् । यस्य भावात् द्रव्ये शब्दनिवेशः तदभिधाने तद्गुणे वक्तव्ये प्रत्ययेन भवितव्यम् । न च कार्श्यस्य भावात् द्रव्ये वैयाकरणशब्दः ।
KA II.411.5-10 Ro IV.195 pāśapi kutsitagrahaṇam . pāśapi kutsitagrahaṇam kartavyam . vaiyākaraṇapāśaḥ . yājñikapāśaḥ . yaḥ hi yāpayitavyaḥ yāpyaḥ tatra mā bhūt iti . atha vaiyākaraṇaḥ śarīreṇa kṛśaḥ vyākaraṇena ca śobhanaḥ kartavyaḥ vaiyākaraṇapāśaḥ iti . na kartavyaḥ . katham . yasya bhāvāt dravye śabdaniveśaḥ tadabhidhāne tadguṇe vaktavye pratyayena bhavitavyam . na ca kārśyasya bhāvāt dravye vaiyākaraṇaśabdaḥ .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।४११।१२-१५ रो इव्।१९५ पूरणग्रहणम् शक्यम् अकर्तुम् । न हि अपूरणः तीयशब्दः अस्ति यत्र दोषः स्यात् । ननु च अयम् अस्ति मुखतीयः पार्श्वतीयः इति । अर्थवद्ग्रहणे न अनर्थकस्य इति एवम् अस्य न भविष्यति । उत्तरार्थम् तर्हि पूरणग्रहणम् कर्तव्यम् । प्राक् एकादशभ्यः अच्छन्दसि इति पूरणात् यथा स्यात् ।
KA II.411.12-15 Ro IV.195 pūraṇagrahaṇam śakyam akartum . na hi apūraṇaḥ tīyaśabdaḥ asti yatra doṣaḥ syāt . nanu ca ayam asti mukhatīyaḥ pārśvatīyaḥ iti . arthavadgrahaṇe na anarthakasya iti evam asya na bhaviṣyati . uttarārtham tarhi pūraṇagrahaṇam kartavyam . prāk ekādaśabhyaḥ acchandasi iti pūraṇāt yathā syāt .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।४११।१७-४१२।१० रो इव्।१९१९६-१९७ एकात् आकिनिचि द्विबह्वर्थे प्रत्ययविधानम् । एकात् आकिनिचि द्विबह्वर्थे प्रत्ययः विधेयः । एकाकिनौ । एकाकिनः इति । किम् पुनः कारणम् न सिध्यति । एकशब्दः अयम् सङ्ख्यापदम् सङ्ख्यायाः च सङ्ख्येयम् अर्थः । सिद्धम् तु सङ्ख्यादेशवचनात् । सिद्धम् एतत् । कथम् । द्विबह्वर्थायाः सङ्ख्यायाः एकशब्दः आदेशः वक्तव्यः । असहायस्य वा । असहायस्य वा एकशब्दः आदेशः वक्तव्यः । असहायः एकाकी । असहायौ एकाकिनौ । असहायाः एकाकिनः । सिध्यति । सूत्रम् तर्हि भिद्यते । यथान्यासम् एव अस्तु । ननु च उक्तम् एकात् आकिनिचि द्विबह्वर्थे प्रत्ययविधानम् इति । न एषः दोषः । अयम् एकशब्दः अस्ति एव सङ्ख्यापदम् । तत् यथा एकः द्वौ बहवः इति । अस्ति अन्यार्थे वर्तते । तत् यथा सधमादः द्युम्नः एकाः ताः । अन्याः इति अर्थः । अस्ति असहायवाची । तत् यथा । एकाग्नयः । एकहलानि । एकाकिभिः क्षुद्रकैः जितम् इति । तत् यः असहायवाची तस्य एषः प्रयोगः ।
KA II.411.17-412.10 Ro IV.19196-197 ekāt ākinici dvibahvarthe pratyayavidhānam . ekāt ākinici dvibahvarthe pratyayaḥ vidheyaḥ . ekākinau . ekākinaḥ iti . kim punaḥ kāraṇam na sidhyati . ekaśabdaḥ ayam saṅkhyāpadam saṅkhyāyāḥ ca saṅkhyeyam arthaḥ . siddham tu saṅkhyādeśavacanāt . siddham etat . katham . dvibahvarthāyāḥ saṅkhyāyāḥ ekaśabdaḥ ādeśaḥ vaktavyaḥ . asahāyasya vā . asahāyasya vā ekaśabdaḥ ādeśaḥ vaktavyaḥ . asahāyaḥ ekākī . asahāyau ekākinau . asahāyāḥ ekākinaḥ . sidhyati . sūtram tarhi bhidyate . yathānyāsam eva astu . nanu ca uktam ekāt ākinici dvibahvarthe pratyayavidhānam iti . na eṣaḥ doṣaḥ . ayam ekaśabdaḥ asti eva saṅkhyāpadam . tat yathā ekaḥ dvau bahavaḥ iti . asti anyārthe vartate . tat yathā sadhamādaḥ dyumnaḥ ekāḥ tāḥ . anyāḥ iti arthaḥ . asti asahāyavācī . tat yathā . ekāgnayaḥ . ekahalāni . ekākibhiḥ kṣudrakaiḥ jitam iti . tat yaḥ asahāyavācī tasya eṣaḥ prayogaḥ .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।४१३।२-४१४।१४ रो इव्।१९७-२०५ अतिशायने इति उच्यते । किम् इदम् अतिशायने इति । देश्याः सूत्रनिबन्धाः क्रियन्ते । यावत् ब्रूयात् प्रकर्षे अतिशये इति तावत् अतिशायने इति । कस्य पुनः प्रकर्षे प्रत्ययः उत्पद्यते । ङ्याप्प्रातिपदिकात् इति वर्तते । ङ्याप्प्रातिपदिकस्य प्रकर्षे । ङ्याप्प्रातिपदिकम् वै शब्दः न च शब्दस्य प्रकर्षापकर्षौ स्तः । शब्दे असम्भवात् अर्थे कार्यम् विज्ञास्यते । कः पुनः ङ्याप्प्रातिपदिकार्थः । द्रव्यम् । न वै द्रव्यसय प्रकर्षे इष्यते । एवम् तर्हि गुणः । एवम् अपि गुणग्रहणम् कर्तव्यम् । द्रव्यम् अपि ङ्याप्प्रातिपदिकार्थः गुणः अपि । तत्र कुतः एतत् गुणस्य प्रकर्षे भविष्यति न पुनः द्रव्यस्य प्रकर्षे इति । क्रियमाणे च अपि गुणग्रहणे समानगुणग्रहणम् कर्तव्यम् शुक्लात् कृष्णे मा भूत् इति । न तर्हि इदानीम् इदम् भवति : अध्वर्युः वै श्रेयान् । पापीयान् प्रतिप्रस्थाता । अन्धानाम् काणतमः इति । समानगुणे एषा स्पर्धा भवति । अध्वर्युः वै श्रेयान् अन्येभ्यः प्रशस्येभ्यः । पापीयान् प्रतिप्रस्थाता अन्येभ्यः पापेभ्यः । अन्धानाम् काणतमः इति कणिः अयम् सौक्ष्म्ये वर्तते । सर्वे इमे किम् चित् पश्यन्ति । अयम् एषाम् काणतमः इति । अदूरविप्रकर्षे इति वक्तव्यम् । इह मा भूत् । महान् सर्षपः । महान् हिमवान् इति । जातेः न इति वक्तव्यम् । इह मा भूत् : वृक्षः अयम् प्लक्षः अयम् इति । न तर्हि इदानीम् इदम् भवति : गोतरः । गोतरा । अश्वतरः इति । न एषः जातेः प्रकर्षः । कस्य तर्हि । गुणस्य । गौः अयम् शकटम् वहति । गोतरर्ः अयम् यः शकटम् वहति सीरम् च । गौः इयम् या समाम् समाम् विजायते । गोतरा इयम् या समाम् समाम् विजायते स्त्रीवत्सा च । अश्वः अयम् यः चत्वारि योजनानि गच्छति । अश्वतरः अयम् यः अष्टौ योजनानि गच्छति । तथा तिङः च इति अत्र क्रियाग्रहणम् कर्तव्यम् साधनप्रकर्षे मा भूत् । न एषः दोषः । यत् तावत् उच्यते गुणग्रहणम् कर्तव्यम् इति । न कर्तव्यम् । यस्य प्रकर्षः अस्ति तस्य प्रकर्षे भविष्यति । गुणस्य च एव प्रकर्षः न द्रव्यस्य । कथम् ज्ञायते । एवम् हि दृश्यते लोके । इह समाने आयामे विस्तारे पटस्य अन्यः अर्घः भवति काशिकस्य अन्यः माथुरस्य । गुणान्तरम् खलु अपि शिल्पिनः उत्पादयमानाः द्रव्यान्तरेण प्रक्षालयन्ति । अन्येन शुद्धम् धौतकम् कुर्वन्ति अन्येन शैफालिकम् अन्येन माध्यमिकम् । यत् अपि उच्यते क्रियमाणे च अपि गुणग्रहणे समानगुणग्रहणम् कर्तव्यम् शुक्लात् कृष्णे मा भूत् इति । न कर्तव्यम् । समानगुणे एव स्पर्धा भवति । नहि आढ्याभिरूपौ स्पर्धेते । वाचकेन खलु अपि उत्पत्तव्यम् न च शुक्लात् कृष्णे प्रत्ययः उत्पद्यमानः वाचकः स्यात् । यत् अपि उच्यते अदूरविप्रकर्षे इति वक्तव्यम् इति । न वक्तव्यम् । अदूरविप्रकर्षे एव स्पर्धा भवति । न हि निष्कधनः शतनिष्कधनेन स्पर्धते । यत् अपि उच्यते जातेः न इति वक्तव्यम् इति । न वक्तव्यम् । जननेन या प्राप्यते सा जातिः न च एतस्य अर्थस्य प्रकर्षापकर्षौ स्तः । यत् अपि उच्यते तिङः च इति अत्र क्रियाग्रहणम् कर्तव्यम् साधनप्रकर्षे मा भूत् इति । न कर्तव्यम् । साधनम् वै द्रव्यम् न च द्रव्यस्य प्रकर्षापकर्षौ स्तः । किम् पुनः एकम् शौक्ल्यम् आहोस्वित् नाना । किम् च अतः । यदि एकम् प्रकर्षः न उपपद्यते । न हि तेन एव तस्य प्रकर्षः भवति । अथ नाना समानगुणग्रहणम् कर्तव्यम् शुक्लात् कृष्णे मा भूत् इति । अस्ति एकम् शौक्ल्यम् तत् तु विशेषवत् । किङ्कृतः विशेषः । अल्पत्वमहत्त्वकृतः । अथ वा पुनः अस्तु एकम् निर्विशेषम् च । ननु च उक्तम् प्रकर्षः न उपपद्यते । न हि तेन एव तस्य प्रकर्षः भवति इति । गुणान्तरेण प्रच्छादात् प्रकर्षः भविष्यति । अथ वा पुनः अस्तु नाना । ननु च उक्तम् समानगुणग्रहणम् कर्तव्यम् शुक्लात् कृष्णे मा भूत् इति । न कर्तव्यम् । समानगुणे एव स्पर्धा भवति । नहि आढ्याभिरूपौ स्पर्धेते । वाचकेन खलु अपि उत्पत्तव्यम् न च शुक्लात् कृष्णे प्रत्ययः उत्पद्यमानः वाचकः स्यात् ।
KA II.413.2-414.14 Ro IV.197-205 atiśāyane iti ucyate . kim idam atiśāyane iti . deśyāḥ sūtranibandhāḥ kriyante . yāvat brūyāt prakarṣe atiśaye iti tāvat atiśāyane iti . kasya punaḥ prakarṣe pratyayaḥ utpadyate . ṅyāpprātipadikāt iti vartate . ṅyāpprātipadikasya prakarṣe . ṅyāpprātipadikam vai śabdaḥ na ca śabdasya prakarṣāpakarṣau staḥ . śabde asambhavāt arthe kāryam vijñāsyate . kaḥ punaḥ ṅyāpprātipadikārthaḥ . dravyam . na vai dravyasaya prakarṣe iṣyate . evam tarhi guṇaḥ . evam api guṇagrahaṇam kartavyam . dravyam api ṅyāpprātipadikārthaḥ guṇaḥ api . tatra kutaḥ etat guṇasya prakarṣe bhaviṣyati na punaḥ dravyasya prakarṣe iti . kriyamāṇe ca api guṇagrahaṇe samānaguṇagrahaṇam kartavyam śuklāt kṛṣṇe mā bhūt iti . na tarhi idānīm idam bhavati : adhvaryuḥ vai śreyān . pāpīyān pratiprasthātā . andhānām kāṇatamaḥ iti . samānaguṇe eṣā spardhā bhavati . adhvaryuḥ vai śreyān anyebhyaḥ praśasyebhyaḥ . pāpīyān pratiprasthātā anyebhyaḥ pāpebhyaḥ . andhānām kāṇatamaḥ iti kaṇiḥ ayam saukṣmye vartate . sarve ime kim cit paśyanti . ayam eṣām kāṇatamaḥ iti . adūraviprakarṣe iti vaktavyam . iha mā bhūt . mahān sarṣapaḥ . mahān himavān iti . jāteḥ na iti vaktavyam . iha mā bhūt : vṛkṣaḥ ayam plakṣaḥ ayam iti . na tarhi idānīm idam bhavati : gotaraḥ . gotarā . aśvataraḥ iti . na eṣaḥ jāteḥ prakarṣaḥ . kasya tarhi . guṇasya . gauḥ ayam śakaṭam vahati . gotararḥ ayam yaḥ śakaṭam vahati sīram ca . gauḥ iyam yā samām samām vijāyate . gotarā iyam yā samām samām vijāyate strīvatsā ca . aśvaḥ ayam yaḥ catvāri yojanāni gacchati . aśvataraḥ ayam yaḥ aṣṭau yojanāni gacchati . tathā tiṅaḥ ca iti atra kriyāgrahaṇam kartavyam sādhanaprakarṣe mā bhūt . na eṣaḥ doṣaḥ . yat tāvat ucyate guṇagrahaṇam kartavyam iti . na kartavyam . yasya prakarṣaḥ asti tasya prakarṣe bhaviṣyati . guṇasya ca eva prakarṣaḥ na dravyasya . katham jñāyate . evam hi dṛśyate loke . iha samāne āyāme vistāre paṭasya anyaḥ arghaḥ bhavati kāśikasya anyaḥ māthurasya . guṇāntaram khalu api śilpinaḥ utpādayamānāḥ dravyāntareṇa prakṣālayanti . anyena śuddham dhautakam kurvanti anyena śaiphālikam anyena mādhyamikam . yat api ucyate kriyamāṇe ca api guṇagrahaṇe samānaguṇagrahaṇam kartavyam śuklāt kṛṣṇe mā bhūt iti . na kartavyam . samānaguṇe eva spardhā bhavati . nahi āḍhyābhirūpau spardhete . vācakena khalu api utpattavyam na ca śuklāt kṛṣṇe pratyayaḥ utpadyamānaḥ vācakaḥ syāt . yat api ucyate adūraviprakarṣe iti vaktavyam iti . na vaktavyam . adūraviprakarṣe eva spardhā bhavati . na hi niṣkadhanaḥ śataniṣkadhanena spardhate . yat api ucyate jāteḥ na iti vaktavyam iti . na vaktavyam . jananena yā prāpyate sā jātiḥ na ca etasya arthasya prakarṣāpakarṣau staḥ . yat api ucyate tiṅaḥ ca iti atra kriyāgrahaṇam kartavyam sādhanaprakarṣe mā bhūt iti . na kartavyam . sādhanam vai dravyam na ca dravyasya prakarṣāpakarṣau staḥ . kim punaḥ ekam śauklyam āhosvit nānā . kim ca ataḥ . yadi ekam prakarṣaḥ na upapadyate . na hi tena eva tasya prakarṣaḥ bhavati . atha nānā samānaguṇagrahaṇam kartavyam śuklāt kṛṣṇe mā bhūt iti . asti ekam śauklyam tat tu viśeṣavat . kiṅkṛtaḥ viśeṣaḥ . alpatvamahattvakṛtaḥ . atha vā punaḥ astu ekam nirviśeṣam ca . nanu ca uktam prakarṣaḥ na upapadyate . na hi tena eva tasya prakarṣaḥ bhavati iti . guṇāntareṇa pracchādāt prakarṣaḥ bhaviṣyati . atha vā punaḥ astu nānā . nanu ca uktam samānaguṇagrahaṇam kartavyam śuklāt kṛṣṇe mā bhūt iti . na kartavyam . samānaguṇe eva spardhā bhavati . nahi āḍhyābhirūpau spardhete . vācakena khalu api utpattavyam na ca śuklāt kṛṣṇe pratyayaḥ utpadyamānaḥ vācakaḥ syāt .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।४१४।१५-४१५।१७ रो इव्।२०५-२०९ किमन्तात् पुनः उत्पत्त्या भवितव्यम् । द्वितीयान्तात् अतिशय्यमानात् । शुक्लम् अतिशेते शुक्लतरः । कृष्णम् अतिशेते कृष्णतरः । यदि द्वितीयान्तात् अतिशय्यमानात् कालः अतिशेते कालीम् कालितरः इति प्राप्नोति कालतरः इति च इष्यते । तथा काली अतिशेते कालम् कालतरः इति प्राप्नोति कालितरा इति च इष्यते । तथा गार्ग्यः अतिशेते गर्गान् गर्गतरः इति प्राप्नोति गार्ग्यतरः इति च इष्यते । तथा गर्गाः अतिशेरते गार्ग्यम् गार्ग्यतराः इति प्राप्नोति गर्गतराः इति च इष्यते । एवम् तर्हि प्रथमान्तात् स्वार्थिकः भविष्यति । कालः अतिशेते कालतरः । काली अतिशेते कालितरा । गार्ग्यः अतिशेते गार्ग्यतरः । गर्गाः अतिशेरते गर्गतराः । यदि प्रथमान्तात् स्वार्थिकः कुमारितरा किशोरितरा अव्यतिरिक्तम् वयः इति कृत्वा वयसि प्रथमे इति ङीप् प्राप्नोति । तरपा उक्तत्वात् स्त्रीप्रत्ययः न भविष्यति । टाप् अपि तर्हि न प्राप्नोति । उक्ते अपि हि भवन्ति एते टाबादयः । उक्तम् एतत् स्वार्थिकाः टाबादयः इति । ङीप् अपि तर्हि प्राप्नोति । एवम् तर्हि गुणः अभिधीयते । एवम् अपि लिङ्गवचनानि न सिध्यन्ति । शुक्लतरम् । शुक्लतरा । शुक्लतरः । शुक्लतरौ । शुक्लतराः इति । आश्रयतः लिङ्गवचनानि भविष्यन्ति । गुणवचनानाम् हि शब्दानाम् आश्रयत लिङ्गवचनानि भवन्ति । शुक्लम् वस्त्रम् , शुक्ला शाटी शुक्लः कम्बलः , शुक्लौ कम्बलौ शुक्लाः कम्बलाः इति । यत् असौ द्रव्यम् श्रितः भवति गुणः तस्य यत् लिङ्गम् वचनम् च तत् गु अस्य अपि भविष्यति । अथ वा क्रिया अभिधीयते । एवम् अपि लिङ्गवचनानि न सिध्यन्ति । आश्रयतः लिङ्गवचनानि भविष्यन्ति । एवम् अपि द्विवचनम् प्राप्नोति । यः च अतिशेते यः च अतिशय्यते उभौ तौ तस्य आश्रयौ भवतः । न एषः दोषः । कथम् । शेतिः अकर्मकः । अकर्मकाः अपि धातवः सोपसर्गाः सकर्मकाः भवन्ति । कर्मापदिष्टाः विधयः कर्मस्थभावकानाम् कर्मस्थक्रियाणम् वा भवन्ति कर्तृस्थभावकः च शेतिः । अथ यदि एव द्वितीयान्तात् उत्पत्तिः प्रथमान्तात् वा स्वार्थिकः अथ अपि गुणः अभिधीयते अथ अपि क्रिया किम् गतम् एतत् इयता सूत्रेण आहोस्वित् अन्यतरस्मिन् पक्षे भूयः सूत्रम् कर्तव्यम् । गतम् इति आह । कथम् । यदा तावत् द्वितीयान्तात् उत्पत्तिः प्रथमान्तात् वा स्वार्थिकः तदा कृत्यल्युटः बहुलम् इति एवम् अत्र ल्युट् भविष्यति । यदा गुणः अभिधीयते तदा न्यायसिद्धम् एव । यदा लपि क्रिया तदा अपि न्यायसिद्धम् एव । अथ वा अतिशाययति इति अतिशायनम् । कः प्रयोज्यार्थः । गुणाः गुणिनम् प्रयोजयन्ति गुणी वा गुणान् प्रयोजयति । कः पुनः इह शेत्यर्थः । इह यः यत्र भवति शेते असौ तत्र । गुणाः च गुणिनि शेरते । शेत्यर्थः कारितार्थः वा निर्देशः अयम् समीक्षितः । शेत्यर्थे न अस्ति वक्तव्यम् । कारितार्थे ब्रवीमि ते । गुणी वा गुणसंयोगात् गुणः वा गुणिना यदि अभिव्यज्येत संयोगात् कारितार्थः भविष्यति ।
KA II.414.15-415.17 Ro IV.205-209 kimantāt punaḥ utpattyā bhavitavyam . dvitīyāntāt atiśayyamānāt . śuklam atiśete śuklataraḥ . kṛṣṇam atiśete kṛṣṇataraḥ . yadi dvitīyāntāt atiśayyamānāt kālaḥ atiśete kālīm kālitaraḥ iti prāpnoti kālataraḥ iti ca iṣyate . tathā kālī atiśete kālam kālataraḥ iti prāpnoti kālitarā iti ca iṣyate . tathā gārgyaḥ atiśete gargān gargataraḥ iti prāpnoti gārgyataraḥ iti ca iṣyate . tathā gargāḥ atiśerate gārgyam gārgyatarāḥ iti prāpnoti gargatarāḥ iti ca iṣyate . evam tarhi prathamāntāt svārthikaḥ bhaviṣyati . kālaḥ atiśete kālataraḥ . kālī atiśete kālitarā . gārgyaḥ atiśete gārgyataraḥ . gargāḥ atiśerate gargatarāḥ . yadi prathamāntāt svārthikaḥ kumāritarā kiśoritarā avyatiriktam vayaḥ iti kṛtvā vayasi prathame iti ṅīp prāpnoti . tarapā uktatvāt strīpratyayaḥ na bhaviṣyati . ṭāp api tarhi na prāpnoti . ukte api hi bhavanti ete ṭābādayaḥ . uktam etat svārthikāḥ ṭābādayaḥ iti . ṅīp api tarhi prāpnoti . evam tarhi guṇaḥ abhidhīyate . evam api liṅgavacanāni na sidhyanti . śuklataram . śuklatarā . śuklataraḥ . śuklatarau . śuklatarāḥ iti . āśrayataḥ liṅgavacanāni bhaviṣyanti . guṇavacanānām hi śabdānām āśrayata liṅgavacanāni bhavanti . śuklam vastram , śuklā śāṭī śuklaḥ kambalaḥ , śuklau kambalau śuklāḥ kambalāḥ iti . yat asau dravyam śritaḥ bhavati guṇaḥ tasya yat liṅgam vacanam ca tat gu asya api bhaviṣyati . atha vā kriyā abhidhīyate . evam api liṅgavacanāni na sidhyanti . āśrayataḥ liṅgavacanāni bhaviṣyanti . evam api dvivacanam prāpnoti . yaḥ ca atiśete yaḥ ca atiśayyate ubhau tau tasya āśrayau bhavataḥ . na eṣaḥ doṣaḥ . katham . śetiḥ akarmakaḥ . akarmakāḥ api dhātavaḥ sopasargāḥ sakarmakāḥ bhavanti . karmāpadiṣṭāḥ vidhayaḥ karmasthabhāvakānām karmasthakriyāṇam vā bhavanti kartṛsthabhāvakaḥ ca śetiḥ . atha yadi eva dvitīyāntāt utpattiḥ prathamāntāt vā svārthikaḥ atha api guṇaḥ abhidhīyate atha api kriyā kim gatam etat iyatā sūtreṇa āhosvit anyatarasmin pakṣe bhūyaḥ sūtram kartavyam . gatam iti āha . katham . yadā tāvat dvitīyāntāt utpattiḥ prathamāntāt vā svārthikaḥ tadā kṛtyalyuṭaḥ bahulam iti evam atra lyuṭ bhaviṣyati . yadā guṇaḥ abhidhīyate tadā nyāyasiddham eva . yadā lapi kriyā tadā api nyāyasiddham eva . atha vā atiśāyayati iti atiśāyanam . kaḥ prayojyārthaḥ . guṇāḥ guṇinam prayojayanti guṇī vā guṇān prayojayati . kaḥ punaḥ iha śetyarthaḥ . iha yaḥ yatra bhavati śete asau tatra . guṇāḥ ca guṇini śerate . śetyarthaḥ kāritārthaḥ vā nirdeśaḥ ayam samīkṣitaḥ . śetyarthe na asti vaktavyam . kāritārthe bravīmi te . guṇī vā guṇasaṃyogāt guṇaḥ vā guṇinā yadi abhivyajyeta saṃyogāt kāritārthaḥ bhaviṣyati .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।४१५।१८-४१६।१५ रो इव्।२०९-२११ इह अस्य अपि सूक्ष्माणि वस्त्राणि अस्य अपि सूक्ष्माणि वस्त्राणि इति परत्वात् आतिशायिकः प्राप्नोति । अतिशायने बहुव्रीहौ उक्तम् । किम् उक्तम् । पूर्व्पदातिशये आतिशायिकात् बहुव्रीहिः सूक्ष्मवस्त्रतराद्यर्थः । उत्तरपदातिशये आतिशायिकः बहुव्रीहेः बह्वाढ्यतराद्यर्थः इति । इह त्रीणि शुक्लानि वस्त्राणि प्रकर्षापकर्षयुक्तानि । तत्र पूर्वम् अपेक्ष्य उत्तरे द्वे तरबन्ते । तत्र द्वयोः तरबन्तयोः एकस्मात् प्रकर्षयुक्तात् शुक्लतरशब्दात् उत्पत्तिः प्राप्नोति शुक्लशब्दात् एव च इष्यते । शुक्लतरस्य शुक्लभावात् प्रकृतेः प्रत्ययविज्ञानम् । शुक्लतरशब्दे शुक्लशब्दः अस्ति । तस्मात् उत्पत्तिः भविष्यति । न एतत् विवदामहे शुक्लतरशब्दे शुक्लशब्दः अस्ति न अस्ति इति । किम् तर्हि । शुक्लतरशब्दः अपि अस्ति । ततः उत्पत्तिः प्राप्नोति । तदन्तात् च स्वार्थे छन्दसि दर्शनम् श्रेष्ठमाय इति । तदन्तात् आतिशायिकान्तात् च स्वार्थे छन्दसि आतिशायिकः दृश्यते । देवो वः सवित प्रर्पयतु श्रेष्ठमाय कर्मणे । एवम् तर्हि मध्यमात् शुक्लशब्दात् पूर्वपरापेक्षात् उत्पत्तिः वक्तव्या । मध्यमः च शुक्लशब्दः पूर्वम् अपेक्ष्य प्रकृष्टः परम् अपेक्ष्य न्यूनः न च न्यूनः प्रवर्तते । अथ वा उत्पद्यताम् । लुक् भविष्यति । वाचकेन खलु अपि उत्पत्तव्यम् न च शुक्लतरशब्दात् उत्पद्यमानः वाचकः स्यात् । न खलु अपि बहूनाम् प्रकर्षे तरपा भवितव्यम् । केन तर्हि । तमपा । पूर्वेण स्पर्धमानः अयम् लभते सितः । परस्मिन् न्यूनताम् एति न च न्यूनः प्रवर्तते । अपेक्ष्य मध्यमः पूर्वम् आधिक्यम् लभते सितः । परस्मिन् न्यूनताम् एति यथा अमात्यः स्थिते नृपे । अस्तु वा अपि तरः तस्मात् । न अपशब्दः भविष्यति । वाचकः चेत् प्रयोक्तव्यः वाचकः चेत् प्रयुज्यताम् ।
KA II.415.18-416.15 Ro IV.209-211 iha asya api sūkṣmāṇi vastrāṇi asya api sūkṣmāṇi vastrāṇi iti paratvāt ātiśāyikaḥ prāpnoti . atiśāyane bahuvrīhau uktam . kim uktam . pūrvpadātiśaye ātiśāyikāt bahuvrīhiḥ sūkṣmavastratarādyarthaḥ . uttarapadātiśaye ātiśāyikaḥ bahuvrīheḥ bahvāḍhyatarādyarthaḥ iti . iha trīṇi śuklāni vastrāṇi prakarṣāpakarṣayuktāni . tatra pūrvam apekṣya uttare dve tarabante . tatra dvayoḥ tarabantayoḥ ekasmāt prakarṣayuktāt śuklataraśabdāt utpattiḥ prāpnoti śuklaśabdāt eva ca iṣyate . śuklatarasya śuklabhāvāt prakṛteḥ pratyayavijñānam . śuklataraśabde śuklaśabdaḥ asti . tasmāt utpattiḥ bhaviṣyati . na etat vivadāmahe śuklataraśabde śuklaśabdaḥ asti na asti iti . kim tarhi . śuklataraśabdaḥ api asti . tataḥ utpattiḥ prāpnoti . tadantāt ca svārthe chandasi darśanam śreṣṭhamāya iti . tadantāt ātiśāyikāntāt ca svārthe chandasi ātiśāyikaḥ dṛśyate . devo vaḥ savita prarpayatu śreṣṭhamāya karmaṇe . evam tarhi madhyamāt śuklaśabdāt pūrvaparāpekṣāt utpattiḥ vaktavyā . madhyamaḥ ca śuklaśabdaḥ pūrvam apekṣya prakṛṣṭaḥ param apekṣya nyūnaḥ na ca nyūnaḥ pravartate . atha vā utpadyatām . luk bhaviṣyati . vācakena khalu api utpattavyam na ca śuklataraśabdāt utpadyamānaḥ vācakaḥ syāt . na khalu api bahūnām prakarṣe tarapā bhavitavyam . kena tarhi . tamapā . pūrveṇa spardhamānaḥ ayam labhate sitaḥ . parasmin nyūnatām eti na ca nyūnaḥ pravartate . apekṣya madhyamaḥ pūrvam ādhikyam labhate sitaḥ . parasmin nyūnatām eti yathā amātyaḥ sthite nṛpe . astu vā api taraḥ tasmāt . na apaśabdaḥ bhaviṣyati . vācakaḥ cet prayoktavyaḥ vācakaḥ cet prayujyatām .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।४१६।१७-४१७।७ रो इव्।२१२-२१५ द्विवचने इति उच्यते । तत्र इदम् न सिध्यति । दन्तोष्ठस्य दन्ताः स्निग्धतराः । पाणिपादस्य पादौ सुकुमारतरौ । अस्माकम् च देवदत्तस्य च देवदत्तः अभिरूपतरः इति । यदि पुनः द्व्यर्थोपपदे इति उच्येत । तत्र अयम् अपि अर्थः । विभज्योपपदग्रहणम् न कर्तव्यम् । इह अपि शङ्काश्यकेभ्यः पाटलिपुत्रकाः अभिरूपतराः इति द्व्यर्थोपपदे इति एव सिद्धम् । न एवञ्जातीयका द्व्यर्थता शक्या विज्ञातुम् । इह अपि प्रस्ज्येत । शङ्काश्यकानाम् पाटलिपुत्रकाणाम् च पाटलिपुत्रकाः अभिरूपतमाः इति । अवश्यम् खलु अपि विभज्योपपदग्रहणम् कर्तव्यम् यः हि बहूनाम् विभागः तदर्थम् । शङ्काश्यकेभ्यः च पाटलिपुत्रकेभ्यः च माथुराः अभिरूपतराः इति । तत् तर्हि द्व्यर्थोपपदे इति वक्तव्यम् । न वक्तव्यम् । न इदम् पारिभाषिकस्य द्विवचनस्य ग्रहणम् । किम् तर्हि अन्वर्थग्रहणम् । उच्यते वचनम् । द्वयोः अर्थयोः वचनम् द्विवचनम् इति । एवम् अपि तरबीयसुनोः एकद्रव्यस्य उत्कर्षापकर्षयोः उपसङ्ख्यानम् । तरबीयसुनोः एकद्रव्यस्य उत्कर्षापकर्षयोः उपसङ्ख्यानम् वक्तव्यम् । परुत् भवान् पटुः आसीत् । पटुतरः च ऐषमः इति । सिद्धम् तु गुणप्रधानत्वात् । सिद्धम् एतत् । कथम् । गुणप्रधानत्वात् । गुणप्रधानः अयम् निर्देशः क्रियते । गुणान्तरयोगात् च अन्यत्वम् भवति । तत् यथा तम् एव गुणान्तरयुक्तम् वक्तारः भवन्ति अन्यः भवान् संवृत्तः इति ।
KA II.416.17-417.7 Ro IV.212-215 dvivacane iti ucyate . tatra idam na sidhyati . dantoṣṭhasya dantāḥ snigdhatarāḥ . pāṇipādasya pādau sukumāratarau . asmākam ca devadattasya ca devadattaḥ abhirūpataraḥ iti . yadi punaḥ dvyarthopapade iti ucyeta . tatra ayam api arthaḥ . vibhajyopapadagrahaṇam na kartavyam . iha api śaṅkāśyakebhyaḥ pāṭaliputrakāḥ abhirūpatarāḥ iti dvyarthopapade iti eva siddham . na evañjātīyakā dvyarthatā śakyā vijñātum . iha api prasjyeta . śaṅkāśyakānām pāṭaliputrakāṇām ca pāṭaliputrakāḥ abhirūpatamāḥ iti . avaśyam khalu api vibhajyopapadagrahaṇam kartavyam yaḥ hi bahūnām vibhāgaḥ tadartham . śaṅkāśyakebhyaḥ ca pāṭaliputrakebhyaḥ ca māthurāḥ abhirūpatarāḥ iti . tat tarhi dvyarthopapade iti vaktavyam . na vaktavyam . na idam pāribhāṣikasya dvivacanasya grahaṇam . kim tarhi anvarthagrahaṇam . ucyate vacanam . dvayoḥ arthayoḥ vacanam dvivacanam iti . evam api tarabīyasunoḥ ekadravyasya utkarṣāpakarṣayoḥ upasaṅkhyānam . tarabīyasunoḥ ekadravyasya utkarṣāpakarṣayoḥ upasaṅkhyānam vaktavyam . parut bhavān paṭuḥ āsīt . paṭutaraḥ ca aiṣamaḥ iti . siddham tu guṇapradhānatvāt . siddham etat . katham . guṇapradhānatvāt . guṇapradhānaḥ ayam nirdeśaḥ kriyate . guṇāntarayogāt ca anyatvam bhavati . tat yathā tam eva guṇāntarayuktam vaktāraḥ bhavanti anyaḥ bhavān saṃvṛttaḥ iti .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।४१७।९-१२ रो इव्।२१५ एवकारः किमर्थः । नियमार्थः । न एतत् अस्ति प्रयोजनम् । सिद्धे विधिः आरभ्यमाणः अन्तरेण एवकारम् नियमार्थः भविष्यति । इष्टतः अवधारणार्थः तर्हि । यथा एवम् विज्ञायेत । अजादी गुणवचनात् एव इति । मा एवम् विज्ञायि । अजादी एव गुणवचनात् इति । किम् च स्यात् न व्यञ्जनादी गुणवचनात् स्याताम् ।
KA II.417.9-12 Ro IV.215 evakāraḥ kimarthaḥ . niyamārthaḥ . na etat asti prayojanam . siddhe vidhiḥ ārabhyamāṇaḥ antareṇa evakāram niyamārthaḥ bhaviṣyati . iṣṭataḥ avadhāraṇārthaḥ tarhi . yathā evam vijñāyeta . ajādī guṇavacanāt eva iti . mā evam vijñāyi . ajādī eva guṇavacanāt iti . kim ca syāt na vyañjanādī guṇavacanāt syātām .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।४१७।१४-४१८।४ रो इव्।२१५-२१७ इदम् अयुक्तम् वर्तते । किम् अत्र अयुक्तम् । अजादी गुणवचनात् एव इति उक्त्वा अगुणवचनानाम् अपि अजाद्योः आदेशाः उच्यन्ते । न एषः दोषः । एतत् एव ज्ञापयति भवतः एतेभ्यः अगुणवचनेभ्यः अपि अजादी इति यत् अयम् अजाद्योः परतः आदेशान् शास्ति । एवम् अपि तयोः इति वक्तव्यम् स्यात् । तयोः परतः इति । यदि पुनः अयम् विधिः विज्ञायेत । न एवम् शक्यम् । व्यञ्जनादी हि न स्याताम् उपाधीनाम् च सङ्करः स्यात् पुनर्विधानात् अजाद्योः । ननु च एते विशेषाः अनुवर्तेरन् । यदि अपि एते अनुवर्तेरन् व्यञ्जनादी तर्हि न स्याताम् । एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति भवतः एतेभ्यः अगुणवचनेभ्यः अपि अजादी इति यत् अयम् अजाद्योः परतः आदेशान् शास्ति । ननु च उक्तम् तयोः इति वक्तव्यम् इति । न वक्तव्यम् । प्रकृतम् अजादीग्रहणम् अनुवर्तते । क्व प्रकृतम् । अजादी गुणवचनात् एव इति । तत् वै प्रथमानिर्दिष्टम् सप्तमीनिर्दिष्टेन च इह अर्थः । अर्थात् विभक्तिविपरिणामः भविष्यति । तत् यथा । उच्चानि देवदत्तस्य गृहाणि । आमन्त्रयस्व एनम् । देवदत्तम् इति गम्यते । देवदत्तस्य गाव अश्वा हिरण्यम् इति । आढ्यः वैधवेयः । देवदत्तः इति गम्यते । पुरस्तात् षष्ठीनिर्दिष्टम् सत् अर्थात् द्वितीयानिर्दिष्टम् प्रथमानिर्दिष्टम् च भवति । एवम् इह अपि पुरस्तात् प्रथमानिर्दिष्टम् सत् अर्थात् सप्तमीनिर्दिष्टम् भविष्यति ।
KA II.417.14-418.4 Ro IV.215-217 idam ayuktam vartate . kim atra ayuktam . ajādī guṇavacanāt eva iti uktvā aguṇavacanānām api ajādyoḥ ādeśāḥ ucyante . na eṣaḥ doṣaḥ . etat eva jñāpayati bhavataḥ etebhyaḥ aguṇavacanebhyaḥ api ajādī iti yat ayam ajādyoḥ parataḥ ādeśān śāsti . evam api tayoḥ iti vaktavyam syāt . tayoḥ parataḥ iti . yadi punaḥ ayam vidhiḥ vijñāyeta . na evam śakyam . vyañjanādī hi na syātām upādhīnām ca saṅkaraḥ syāt punarvidhānāt ajādyoḥ . nanu ca ete viśeṣāḥ anuvarteran . yadi api ete anuvarteran vyañjanādī tarhi na syātām . evam tarhi ācāryapravṛttiḥ jñāpayati bhavataḥ etebhyaḥ aguṇavacanebhyaḥ api ajādī iti yat ayam ajādyoḥ parataḥ ādeśān śāsti . nanu ca uktam tayoḥ iti vaktavyam iti . na vaktavyam . prakṛtam ajādīgrahaṇam anuvartate . kva prakṛtam . ajādī guṇavacanāt eva iti . tat vai prathamānirdiṣṭam saptamīnirdiṣṭena ca iha arthaḥ . arthāt vibhaktivipariṇāmaḥ bhaviṣyati . tat yathā . uccāni devadattasya gṛhāṇi . āmantrayasva enam . devadattam iti gamyate . devadattasya gāva aśvā hiraṇyam iti . āḍhyaḥ vaidhaveyaḥ . devadattaḥ iti gamyate . purastāt ṣaṣṭhīnirdiṣṭam sat arthāt dvitīyānirdiṣṭam prathamānirdiṣṭam ca bhavati . evam iha api purastāt prathamānirdiṣṭam sat arthāt saptamīnirdiṣṭam bhaviṣyati .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।४१८।६-२५ रो इव्।२१७-२२० स्त्रीलिङ्गेन निर्देशः क्रियते एकवचनान्तेन च । तेन स्त्रीलिङ्गात् एव उत्पत्तिः स्यात् एकवचनान्तात् च । पुन्नपुंसकलिङ्गात् द्विवचनबहुवचनान्तात् च न स्यात् । न एषः दोषः । न अयम् प्रत्ययार्थः । किम् तर्हि । प्रकृत्यर्थविशेषणम् एतत् । प्रशंसायाम् यत् प्रातिपदिकम् वर्तते तस्मात् रूपप् भवति । कस्मिन् अर्थे । स्वार्थे इति । स्वार्थिकाः च प्रकृतितः लिङ्गवचनानि अनुवर्तन्ते । प्रकृतेः लिङ्गवचनाभावात् तिङ्प्रकृतेः अम्भाववचनम् । प्रकृतेः लिङ्गवचनाभावात् तिङ्प्रकृतेः रूपपः अम्भावः वक्तव्यः । पचतिरूपम् । पचतोरूपम् । पचन्तिरूपम् इति । सिद्धम् तु क्रियाप्रधानत्वात् । सिद्धम् एतत् । कथम् । क्रियाप्रधानत्वात् । क्रियाप्रधानम् आख्यातम् एका च क्रिया । द्रव्यप्रधानम् नाम । कथम् पुनः ज्ञयते क्रियाप्रधानम् आख्यातम् भवति द्रव्यप्रधानम् नाम इति । यत् क्रियाम् पृष्टः तिङा आचष्टे । किम् देवदत्तः करोति । पचति इति । द्रव्यम् पृष्टः कृता आचष्टे । कतरः देवदत्तः । यः कारकः हारकः इति । यदि तर्हि एका क्रिया द्विवचनबहुवचनानि न सिद्यन्ति । पचतः । पचन्ति इति । न एतानि क्रियापेक्षाणि । किम् तर्हि साधनापेक्षाणि । इह अपि तर्हि प्राप्नुवन्ति । पचतिरूपम् । पचतोरूपम् । पचन्तिरूपम् इति । तिङा उक्तत्वात् तस्य अभिसम्बन्धस्य न भविष्यति । एकवचनम् अपि तर्हि न प्राप्नोति । समयात् भविष्यति । द्विवचनबहुवचनानि अपि तर्हि समयात् प्राप्नुवन्ति । एवम् तर्हि एकवचनम् उत्सर्गः करिष्यते । तस्य द्विबह्वोः द्विवचनबहुवचने अपवावौ भविष्यतः । एवम् अपि नपुंसकत्वम् वक्तव्यम् । न वक्तव्यम् । लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य ।
KA II.418.6-25 Ro IV.217-220 strīliṅgena nirdeśaḥ kriyate ekavacanāntena ca . tena strīliṅgāt eva utpattiḥ syāt ekavacanāntāt ca . punnapuṃsakaliṅgāt dvivacanabahuvacanāntāt ca na syāt . na eṣaḥ doṣaḥ . na ayam pratyayārthaḥ . kim tarhi . prakṛtyarthaviśeṣaṇam etat . praśaṃsāyām yat prātipadikam vartate tasmāt rūpap bhavati . kasmin arthe . svārthe iti . svārthikāḥ ca prakṛtitaḥ liṅgavacanāni anuvartante . prakṛteḥ liṅgavacanābhāvāt tiṅprakṛteḥ ambhāvavacanam . prakṛteḥ liṅgavacanābhāvāt tiṅprakṛteḥ rūpapaḥ ambhāvaḥ vaktavyaḥ . pacatirūpam . pacatorūpam . pacantirūpam iti . siddham tu kriyāpradhānatvāt . siddham etat . katham . kriyāpradhānatvāt . kriyāpradhānam ākhyātam ekā ca kriyā . dravyapradhānam nāma . katham punaḥ jñayate kriyāpradhānam ākhyātam bhavati dravyapradhānam nāma iti . yat kriyām pṛṣṭaḥ tiṅā ācaṣṭe . kim devadattaḥ karoti . pacati iti . dravyam pṛṣṭaḥ kṛtā ācaṣṭe . kataraḥ devadattaḥ . yaḥ kārakaḥ hārakaḥ iti . yadi tarhi ekā kriyā dvivacanabahuvacanāni na sidyanti . pacataḥ . pacanti iti . na etāni kriyāpekṣāṇi . kim tarhi sādhanāpekṣāṇi . iha api tarhi prāpnuvanti . pacatirūpam . pacatorūpam . pacantirūpam iti . tiṅā uktatvāt tasya abhisambandhasya na bhaviṣyati . ekavacanam api tarhi na prāpnoti . samayāt bhaviṣyati . dvivacanabahuvacanāni api tarhi samayāt prāpnuvanti . evam tarhi ekavacanam utsargaḥ kariṣyate . tasya dvibahvoḥ dvivacanabahuvacane apavāvau bhaviṣyataḥ . evam api napuṃsakatvam vaktavyam . na vaktavyam . liṅgam aśiṣyam lokāśrayatvāt liṅgasya .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।४१९।१-६ रो इव्।२२१-२२२ वृषलादिभ्यः उपसङ्ख्यानम् । वृषलादिभ्यः उपसङ्ख्यानम् कर्तव्यम् । वृषलरूपः । दस्युरूपः । चोररूपः इति । सिद्धम् तु प्रकृत्यर्थवैशिष्ट्यवचनात् । सिद्धम् एतत् । कथम् । प्रकृत्यर्थस्य वैशिष्ट्ये इति वक्तव्यम् । वृषलरूपः अयम् । अपि अयम् पलाण्डुना सुराम् पिबेत् । चोररूपः अयम् । अपि अयम् अक्ष्णोः अञ्जनम् हरेत् । दस्युरूपः अयम् । अपि अयम् धावतः लोहितम् पिबेत् ।
KA II.419.1-6 Ro IV.221-222 vṛṣalādibhyaḥ upasaṅkhyānam . vṛṣalādibhyaḥ upasaṅkhyānam kartavyam . vṛṣalarūpaḥ . dasyurūpaḥ . corarūpaḥ iti . siddham tu prakṛtyarthavaiśiṣṭyavacanāt . siddham etat . katham . prakṛtyarthasya vaiśiṣṭye iti vaktavyam . vṛṣalarūpaḥ ayam . api ayam palāṇḍunā surām pibet . corarūpaḥ ayam . api ayam akṣṇoḥ añjanam haret . dasyurūpaḥ ayam . api ayam dhāvataḥ lohitam pibet .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।४१९।८-४२०।१७ रो इव्।२२२-२२६ ईषदसमाप्तौक्रियाप्रधानत्वात् लिङ्गवचनानुपपत्तिः । ईषदसमाप्तौ क्रियाप्रधानत्वात् लिङ्गवचनयोः अनुपपत्तिः । पटुकल्पः । पटुकल्पौ । पटुकल्पाः इति । एकः अयम् अर्थः ईषदसमाप्तिः नाम । तस्य एकत्वात् एकवचनम् प्राप्नोति । प्रकृत्यर्थविशेषणत्वाद् सिद्धम् । सिद्धम् एतत् । कथम् । न अयम् प्रत्ययार्थः । किम् तर्हि प्रकृत्यर्थविशेषणम् एतत् । ईषदसमाप्तौ यत् प्रातिपदिकम् वर्तते तस्मात् कल्पबादयः भवन्ति । कस्मिन् अर्थे । स्वार्थे इति । स्वार्थिकाः च प्रकृतितः लिङ्गवचनानि अनुवर्तन्ते । प्रकृत्यर्थे चेत् लिङ्गवचनानुपपत्तिः । प्रकृत्यर्थे चेत् लिङ्गवचनयोः अनुपपत्तिः । गुडकल्पा द्राक्षा । तैलकल्पा प्रसन्ना । पयस्कल्पा यवागूः इति । सिद्धम् तु तत्सम्बन्धे उत्तरपदार्थे प्रत्ययवचनात् । सिद्धम् एतत् । कथम् । तत्सम्बन्धे ईषदसमाप्तिसम्बन्धे उत्तरपदार्थे प्रत्ययः भवति इति वक्तव्यम् । सिध्यति । सूत्रम् तर्हि भिद्यते । यथान्यासम् एव अस्तु । ननु च उक्तम् ईषदसमाप्तौक्रियाप्रधानत्वात् लिङ्गवचनानुपपत्तिः इति । परिहृतम् एतत् प्रकृत्यर्थविशेषणत्वाद् सिद्धम् इति । ननु च उक्तम् प्रकृत्यर्थे चेत् लिङ्गवचनानुपपत्तिः इति । न एषः दोषः । आचार्यप्रवृत्तिः ज्ञापयति स्वार्थिकाः अतिवर्तन्ते अपि लिङ्गवचनानि इति यत् अयम् णचः स्त्रियाम् अञ् इति स्त्रीग्रहणम् करोति । यदि एतत् ज्ञाप्यते बहुगुडः द्राक्षा । बहुतैलम् प्रसन्ना । बहुपयः यवागूः इति अत्र अपि प्राप्नोति । न अपि अतिवर्तन्ते । किम् पुनः इह उदाहरणम् । पटुकल्पः । मृदुकल्पः इति । न एतत् अस्ति । निर्ज्ञातस्य अर्थस्य समाप्तिः वा भवति विसमाप्तिः वा गुणः च अनिर्ज्ञातः । इदम् तर्हि । गुडकल्पा द्राक्षा । तैलकल्पा प्रसन्ना । पयस्कल्पा यवागूः इति । द्रव्यम् अपि अनिर्ज्ञातम् । इदम् तर्हि । कृतकल्पम् । भुक्तकल्पम् । पीतकल्पम् इति । क्तान्तात् प्रत्ययविधानानुपपत्तिः क्तस्य भूतकाललक्षणत्वात् कल्पादीनाम् च असमाप्तिवचनात् । क्तान्तात् प्रत्ययविधानेः अनुपपत्तिः । किम् कारणम् । क्तस्य भूतकाललक्षणत्वात् । भूतकाललक्षणः क्तः । कल्पादीनाम् च असमाप्तिवचनात् । विसमाप्तिवचनाः च कल्पादयः । न च अस्ति सम्भवः यत् भूतकालः च स्यात् असमाप्तिः च इति । सिद्धम् तु आशंसायाम् भूतवद्वचनात् । सिद्धम् एतत् । कथम् । आशंसायाम् भूतवत् च इति एवम् अत्र क्तः भविष्यति । इदम् च अपि उदाहरणम् पटुकल्पः । मृदुकल्पः इति । ननु च उक्तम् निर्ज्ञातस्य अर्थस्य समाप्तिः वा भवति विसमाप्तिः वा गुणः च अनिर्ज्ञातः इति । लोकतः व्यवहारम् दृष्ट्वा गुणस्य निर्ज्ञानम् । तत् यथा पटुः अयम् ब्राह्मणः इति उच्यते यः लघुना उपायेन अथान् साधयति । पटुकल्पः अयम् इति उच्यति यः न तथा साधयति । इदम् च अपि उदाहरणम् गुडकल्पा द्राक्षा । तैलकल्पा प्रसन्ना । पयस्कल्पा यवागूः इति । ननु च उक्तम् द्रव्यम् अपि अनिर्ज्ञातम् इति । लोकतः द्रव्यम् अपि निर्ज्ञातम् ।
KA II.419.8-420.17 Ro IV.222-226 īṣadasamāptaukriyāpradhānatvāt liṅgavacanānupapattiḥ . īṣadasamāptau kriyāpradhānatvāt liṅgavacanayoḥ anupapattiḥ . paṭukalpaḥ . paṭukalpau . paṭukalpāḥ iti . ekaḥ ayam arthaḥ īṣadasamāptiḥ nāma . tasya ekatvāt ekavacanam prāpnoti . prakṛtyarthaviśeṣaṇatvād siddham . siddham etat . katham . na ayam pratyayārthaḥ . kim tarhi prakṛtyarthaviśeṣaṇam etat . īṣadasamāptau yat prātipadikam vartate tasmāt kalpabādayaḥ bhavanti . kasmin arthe . svārthe iti . svārthikāḥ ca prakṛtitaḥ liṅgavacanāni anuvartante . prakṛtyarthe cet liṅgavacanānupapattiḥ . prakṛtyarthe cet liṅgavacanayoḥ anupapattiḥ . guḍakalpā drākṣā . tailakalpā prasannā . payaskalpā yavāgūḥ iti . siddham tu tatsambandhe uttarapadārthe pratyayavacanāt . siddham etat . katham . tatsambandhe īṣadasamāptisambandhe uttarapadārthe pratyayaḥ bhavati iti vaktavyam . sidhyati . sūtram tarhi bhidyate . yathānyāsam eva astu . nanu ca uktam īṣadasamāptaukriyāpradhānatvāt liṅgavacanānupapattiḥ iti . parihṛtam etat prakṛtyarthaviśeṣaṇatvād siddham iti . nanu ca uktam prakṛtyarthe cet liṅgavacanānupapattiḥ iti . na eṣaḥ doṣaḥ . ācāryapravṛttiḥ jñāpayati svārthikāḥ ativartante api liṅgavacanāni iti yat ayam ṇacaḥ striyām añ iti strīgrahaṇam karoti . yadi etat jñāpyate bahuguḍaḥ drākṣā . bahutailam prasannā . bahupayaḥ yavāgūḥ iti atra api prāpnoti . na api ativartante . kim punaḥ iha udāharaṇam . paṭukalpaḥ . mṛdukalpaḥ iti . na etat asti . nirjñātasya arthasya samāptiḥ vā bhavati visamāptiḥ vā guṇaḥ ca anirjñātaḥ . idam tarhi . guḍakalpā drākṣā . tailakalpā prasannā . payaskalpā yavāgūḥ iti . dravyam api anirjñātam . idam tarhi . kṛtakalpam . bhuktakalpam . pītakalpam iti . ktāntāt pratyayavidhānānupapattiḥ ktasya bhūtakālalakṣaṇatvāt kalpādīnām ca asamāptivacanāt . ktāntāt pratyayavidhāneḥ anupapattiḥ . kim kāraṇam . ktasya bhūtakālalakṣaṇatvāt . bhūtakālalakṣaṇaḥ ktaḥ . kalpādīnām ca asamāptivacanāt . visamāptivacanāḥ ca kalpādayaḥ . na ca asti sambhavaḥ yat bhūtakālaḥ ca syāt asamāptiḥ ca iti . siddham tu āśaṃsāyām bhūtavadvacanāt . siddham etat . katham . āśaṃsāyām bhūtavat ca iti evam atra ktaḥ bhaviṣyati . idam ca api udāharaṇam paṭukalpaḥ . mṛdukalpaḥ iti . nanu ca uktam nirjñātasya arthasya samāptiḥ vā bhavati visamāptiḥ vā guṇaḥ ca anirjñātaḥ iti . lokataḥ vyavahāram dṛṣṭvā guṇasya nirjñānam . tat yathā paṭuḥ ayam brāhmaṇaḥ iti ucyate yaḥ laghunā upāyena athān sādhayati . paṭukalpaḥ ayam iti ucyati yaḥ na tathā sādhayati . idam ca api udāharaṇam guḍakalpā drākṣā . tailakalpā prasannā . payaskalpā yavāgūḥ iti . nanu ca uktam dravyam api anirjñātam iti . lokataḥ dravyam api nirjñātam .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।४२०।१९-४२२।४ रो इव्।२२६-२२९ विभाषाग्रहणम् किमर्थम् । विभाषा बहुच् यथा स्यात् । बहुचा मुक्ते वाक्यम् अपि यथा स्यात् । न एतत् अस्ति प्रयोजनम् । प्रकृता महाविभाषा । तया वाक्यम् भविष्यति । इदम् तर्हि प्रयोजनम् । कल्पादयः अपि यथा स्युः इति । एतत् अपि न अस्ति प्रयोजनम् । बहुच् उच्यते कल्पादयः अपि । तत् उभयम् वचनात् भविष्यति । न एवम् शक्यम् । अक्रियमाणे हि विभाषाग्रहणे अनवकाशः बहुच् कल्पादीन् बाधेत । कल्पादयः अपि अनवकाशाः । ते वचनात् भविष्यन्ति । सावकाशाः कल्पादयः । कः अवकाशः । तिङन्तानि अवकाशः । अथ सुब्ग्रहणम् किमर्थम् । सुबन्तात् उत्पत्तिः यथा स्यात् । प्रातिपदिकात् मा भूत् इति । न एतत् अस्ति प्रयोजनम् । न अस्ति अत्र विशेषः सुबन्तात् उत्पत्तौ सत्याम् प्रातिपदिकात् वा । यदि एवम् इह अपि न अर्थः सुब्ग्रहणेन । सुपः आत्मनः क्यच् इति । इह अपि न अस्ति अत्र विशेषः सुबन्तात् उत्पत्तौ सत्याम् प्रातिपदिकात् वा । अयम् अस्ति विशेषः । सुबन्तात् उत्पत्तौ सत्याम् पदसञ्ज्ञा सिद्धा भवति । प्रातिपदिकात् उत्पत्तौ सत्याम् पदसञ्ज्ञा न प्राप्नोति । ननु च प्रातिपदिकात् अपि उत्पत्तौ सत्याम् पदसञ्ज्ञा सिद्धा । कथम् । आरभ्यते नः क्ये इति । तत् च अवश्यम् कर्तव्यम् सुबन्तात् उत्पत्तौ नियमार्थम् । तत् एव प्रातिपदिकात् उत्पत्तौ सत्याम् विध्यर्थम् भविष्यति । इदम् तर्हि प्रयोजनम् । सुबन्तात् उत्पत्तिः यथा स्यात् । तिङन्तात् मा भूत् इति । एतत् अपि न अस्ति प्रयोजनम् । ङ्याप्प्रातिपदिकात् इति वर्तते । अतः उत्तरम् पठति । बहुचि सुब्ग्रहणात् पूर्वत्र तिङः विधानम् । बहुचि सुब्ग्रहणम् क्रियते पूर्वत्र तिङः विधिः यथा विज्ञायेत । न एतत् अस्ति प्रयोजनम् । प्रकृतम् तिङ्ग्रहणम् अनुवर्तते । क्व प्रकृतम् । अतिशायने तमबिष्ठनौ । तिङः च इति । एवम् तर्हि बहुचि सुब्ग्रहणम् पूर्वत्र तिङः विधानात् । बहुचि सुब्ग्रहणम् क्रियते । किम् कारणम् । पूर्वत्र तिङः विधानात् । पूर्वत्र तिङः च इति अनुवर्तते । तत् इह अपि प्राप्नोति । ननु च तिङ्ग्रहणम् निवर्तेत । अवश्यम् उत्तरार्थम् अनुवर्त्यम् अव्ययसर्वनाम्नाम् अकच् प्राक् टेः इति पचतकि जल्पतकि इति एवमर्थम् । यदि सुब्ग्रहणम् क्रियते स्वरः न सिध्यति । बहुपटवः एवम् स्वरः प्रसज्येत बहुपटवः इति च इष्यते । पठिष्यति हि आचार्यः चितः सप्रकृतेः बह्वकजर्थम् इति । स्वरः कथम् । स्वरः प्रातिपदिकत्वात् । सुब्लुकि कृते प्रातिपदिकत्वात् स्वरः भविष्यति । अथ तुग्रहणम् किमर्थम् । तुग्रहणम् नित्यपूर्वार्थम् । तुग्रहणम् क्रियते नित्यम् पूर्वः यथा स्यात् । विभाषा मा भूत् इति । न एतत् अस्ति प्रयोजनम् । न विभाषाग्रहणेन पूर्वम् अभिसम्बध्यते । किम् तर्हि । बहुच् अभिसम्बध्यते : विभाषा बहुच् भवति इति । यदा च भवति तदा पूर्वः भवति । इदम् तर्हि प्रयोजनम् । प्राक् उत्पत्तेः यत् लिङ्गम् वचनम् च तत् उत्पन्ने अपि प्रत्यये यथा स्यात् । बहुगुडः द्राक्षा । बहुतैलम् प्रसन्ना । बहुपयः यवागूः इति । एतत् अपि न अस्ति प्रयोजनम् । स्वाऋथिकः अयम् स्वार्थिकाः च प्रकृतितः लिङ्गवचनानि अनुवर्तन्ते । एवम् तर्हि सिद्धे सति यत् तुग्रहणम् करोति तत् ज्ञापयति आचार्यः स्वार्थिकाः अतिवर्तन्ते अपि लिङ्गवचनानि इति । किम् एतस्य ज्ञापने प्रयोजनम् । गुडकल्पा द्राक्षा , तैलकल्पा प्रसन्ना , पयस्कल्पा यवागूः इति एतत् सिद्धम् भवति ।
KA II.420.19-422.4 Ro IV.226-229 vibhāṣāgrahaṇam kimartham . vibhāṣā bahuc yathā syāt . bahucā mukte vākyam api yathā syāt . na etat asti prayojanam . prakṛtā mahāvibhāṣā . tayā vākyam bhaviṣyati . idam tarhi prayojanam . kalpādayaḥ api yathā syuḥ iti . etat api na asti prayojanam . bahuc ucyate kalpādayaḥ api . tat ubhayam vacanāt bhaviṣyati . na evam śakyam . akriyamāṇe hi vibhāṣāgrahaṇe anavakāśaḥ bahuc kalpādīn bādheta . kalpādayaḥ api anavakāśāḥ . te vacanāt bhaviṣyanti . sāvakāśāḥ kalpādayaḥ . kaḥ avakāśaḥ . tiṅantāni avakāśaḥ . atha subgrahaṇam kimartham . subantāt utpattiḥ yathā syāt . prātipadikāt mā bhūt iti . na etat asti prayojanam . na asti atra viśeṣaḥ subantāt utpattau satyām prātipadikāt vā . yadi evam iha api na arthaḥ subgrahaṇena . supaḥ ātmanaḥ kyac iti . iha api na asti atra viśeṣaḥ subantāt utpattau satyām prātipadikāt vā . ayam asti viśeṣaḥ . subantāt utpattau satyām padasañjñā siddhā bhavati . prātipadikāt utpattau satyām padasañjñā na prāpnoti . nanu ca prātipadikāt api utpattau satyām padasañjñā siddhā . katham . ārabhyate naḥ kye iti . tat ca avaśyam kartavyam subantāt utpattau niyamārtham . tat eva prātipadikāt utpattau satyām vidhyartham bhaviṣyati . idam tarhi prayojanam . subantāt utpattiḥ yathā syāt . tiṅantāt mā bhūt iti . etat api na asti prayojanam . ṅyāpprātipadikāt iti vartate . ataḥ uttaram paṭhati . bahuci subgrahaṇāt pūrvatra tiṅaḥ vidhānam . bahuci subgrahaṇam kriyate pūrvatra tiṅaḥ vidhiḥ yathā vijñāyeta . na etat asti prayojanam . prakṛtam tiṅgrahaṇam anuvartate . kva prakṛtam . atiśāyane tamabiṣṭhanau . tiṅaḥ ca iti . evam tarhi bahuci subgrahaṇam pūrvatra tiṅaḥ vidhānāt . bahuci subgrahaṇam kriyate . kim kāraṇam . pūrvatra tiṅaḥ vidhānāt . pūrvatra tiṅaḥ ca iti anuvartate . tat iha api prāpnoti . nanu ca tiṅgrahaṇam nivarteta . avaśyam uttarārtham anuvartyam avyayasarvanāmnām akac prāk ṭeḥ iti pacataki jalpataki iti evamartham . yadi subgrahaṇam kriyate svaraḥ na sidhyati . bahupaṭavaḥ evam svaraḥ prasajyeta bahupaṭavaḥ iti ca iṣyate . paṭhiṣyati hi ācāryaḥ citaḥ saprakṛteḥ bahvakajartham iti . svaraḥ katham . svaraḥ prātipadikatvāt . subluki kṛte prātipadikatvāt svaraḥ bhaviṣyati . atha tugrahaṇam kimartham . tugrahaṇam nityapūrvārtham . tugrahaṇam kriyate nityam pūrvaḥ yathā syāt . vibhāṣā mā bhūt iti . na etat asti prayojanam . na vibhāṣāgrahaṇena pūrvam abhisambadhyate . kim tarhi . bahuc abhisambadhyate : vibhāṣā bahuc bhavati iti . yadā ca bhavati tadā pūrvaḥ bhavati . idam tarhi prayojanam . prāk utpatteḥ yat liṅgam vacanam ca tat utpanne api pratyaye yathā syāt . bahuguḍaḥ drākṣā . bahutailam prasannā . bahupayaḥ yavāgūḥ iti . etat api na asti prayojanam . svāṛthikaḥ ayam svārthikāḥ ca prakṛtitaḥ liṅgavacanāni anuvartante . evam tarhi siddhe sati yat tugrahaṇam karoti tat jñāpayati ācāryaḥ svārthikāḥ ativartante api liṅgavacanāni iti . kim etasya jñāpane prayojanam . guḍakalpā drākṣā , tailakalpā prasannā , payaskalpā yavāgūḥ iti etat siddham bhavati .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।४२२।५-१० रो इव्।२२९-२३० तमादिभ्यः कल्पादयः विप्रतिषेधेन । तमादिभ्यः कल्पादयः भवन्ति विप्रतिषेधेन । तमादीनाम् अवकाशः प्रकर्षस्य वचनम् ईषदसमाप्तेः अवचनम् । पटुतरः । पटुतमः । कल्पादीनाम् ईषदसमाप्तेः वचनम् प्रकर्षस्य अवचनम् । पटुकल्पः । मृदुकल्पः । उभयवचने उभयम् प्राप्नोति । पटुकल्पतरः । मृदुकल्पतरः । कल्पादयः भवन्ति विप्रतिषेधेन । यदि एवम् ईषदसमाप्तेः प्रकर्षे तमादिः प्रत्ययः प्राप्नोति प्रकृतेः एव च इष्यते । तमादिः ईषत्प्रधानात् । तमादिः ईषत्प्रधानात् अपि भवति । अस्य प्रकर्षः अस्ति । तस्य प्रकर्षे भविष्यति । कस्य च प्रकर्षः अस्ति। प्रकृतेः एव ।
KA II.422.5-10 Ro IV.229-230 tamādibhyaḥ kalpādayaḥ vipratiṣedhena . tamādibhyaḥ kalpādayaḥ bhavanti vipratiṣedhena . tamādīnām avakāśaḥ prakarṣasya vacanam īṣadasamāpteḥ avacanam . paṭutaraḥ . paṭutamaḥ . kalpādīnām īṣadasamāpteḥ vacanam prakarṣasya avacanam . paṭukalpaḥ . mṛdukalpaḥ . ubhayavacane ubhayam prāpnoti . paṭukalpataraḥ . mṛdukalpataraḥ . kalpādayaḥ bhavanti vipratiṣedhena . yadi evam īṣadasamāpteḥ prakarṣe tamādiḥ pratyayaḥ prāpnoti prakṛteḥ eva ca iṣyate . tamādiḥ īṣatpradhānāt . tamādiḥ īṣatpradhānāt api bhavati . asya prakarṣaḥ asti . tasya prakarṣe bhaviṣyati . kasya ca prakarṣaḥ asti. prakṛteḥ eva .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।४२५।२-१२ रो इव्।२३७ चतुर्थ्यात् । चतुर्थ्यात् लोपः वक्तव्यः । बृहस्पतिदत्तकः । बृहस्पतिकः । प्रजापतिदत्तकः । प्रजापतिकः । अनजादौ च । अनजादौ च लोपः वक्तव्यः । देवदत्तकः । देवकः । यज्ञदत्तकः । यज्ञकः । लोपः पूर्वपदस्य च । पूर्वपदस्य च लोपः वक्तव्यः । देवदत्तकः । दत्तकः । यज्ञदत्तकः । दत्तकः । अप्रत्यये तथा एव इष्टः । देवदत्तः । दत्तः । यज्ञदत्तः । दत्तः । उवर्णात् लः इलस्य च । उवर्णात् इलस्य च लोपः वक्तव्यः । भानुदत्तकः । भानुलः । वसुदत्तकः । वसुलः ।
KA II.425.2-12 Ro IV.237 caturthyāt . caturthyāt lopaḥ vaktavyaḥ . bṛhaspatidattakaḥ . bṛhaspatikaḥ . prajāpatidattakaḥ . prajāpatikaḥ . anajādau ca . anajādau ca lopaḥ vaktavyaḥ . devadattakaḥ . devakaḥ . yajñadattakaḥ . yajñakaḥ . lopaḥ pūrvapadasya ca . pūrvapadasya ca lopaḥ vaktavyaḥ . devadattakaḥ . dattakaḥ . yajñadattakaḥ . dattakaḥ . apratyaye tathā eva iṣṭaḥ . devadattaḥ . dattaḥ . yajñadattaḥ . dattaḥ . uvarṇāt laḥ ilasya ca . uvarṇāt ilasya ca lopaḥ vaktavyaḥ . bhānudattakaḥ . bhānulaḥ . vasudattakaḥ . vasulaḥ .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।४२५।१३-२२ रो इव्।२३७-२३८ अथ ठग्ग्रहणम् किमर्थम् न इके कृते अजादौ इति एव सिद्धम् । ठग्ग्रहणम् उकः द्वितीयत्वे कविधानार्थम् । ठग्ग्रहणम् क्रियते उकः द्वितीयत्वे कविधिः यथा स्यात् । वायुदत्तकः । वायुकः । पितृदत्तकः । पितृकः । अजादिलक्षणे हि माथिकादिवत् प्रसङ्गः । अजादिलक्षणे हि माथिकादिवत् प्रसज्येत । तत् यथ मथितम् पण्यम् अस्य माथितिकः इति अकारलोपे कृते तान्तात् इति कादेशः न भवति एवम् इह अपि न स्यात् । द्वितीयात् अचः लोपे सन्ध्यक्षरद्वितीयत्वे तदादेः लोपवचनम् । द्वितीयात् अचः लोपे कर्तव्ये सन्ध्यक्षरद्वितीयत्वे तदादेः लोपः वक्तव्यः । लहोडः । लहिकः । कहोडः । कहिकः ।
KA II.425.13-22 Ro IV.237-238 atha ṭhaggrahaṇam kimartham na ike kṛte ajādau iti eva siddham . ṭhaggrahaṇam ukaḥ dvitīyatve kavidhānārtham . ṭhaggrahaṇam kriyate ukaḥ dvitīyatve kavidhiḥ yathā syāt . vāyudattakaḥ . vāyukaḥ . pitṛdattakaḥ . pitṛkaḥ . ajādilakṣaṇe hi māthikādivat prasaṅgaḥ . ajādilakṣaṇe hi māthikādivat prasajyeta . tat yatha mathitam paṇyam asya māthitikaḥ iti akāralope kṛte tāntāt iti kādeśaḥ na bhavati evam iha api na syāt . dvitīyāt acaḥ lope sandhyakṣaradvitīyatve tadādeḥ lopavacanam . dvitīyāt acaḥ lope kartavye sandhyakṣaradvitīyatve tadādeḥ lopaḥ vaktavyaḥ . lahoḍaḥ . lahikaḥ . kahoḍaḥ . kahikaḥ .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।४२६।२-१५ रो इव्।२३८-२४० वरुणादीनाम् च तृतीयात् सः च अकृतसन्धीनाम् । वरुणादीनाम् च तृतीयात् लोपः उच्यते । सः च अकृतसन्धीनाम् वक्तव्यः । सुपर्याशीर्दत्तः । सुपरिकः , सुपरियः , सुपरिलः । इह षडङ्गुलिः षडिकः इति अजादिलोपे कृते पदसञ्ज्ञा न प्राप्नोति । तत्र कः दोषः । जश्त्वम् न स्यात् । षडिके जश्त्वे उक्तम् । किम् उक्तम् । सिद्धम् अचः स्थानिवत्वात् इति । यदि एवम् वाचिकादिषु पदवृत्तप्रतिषेधः । वाचिकादिषु पदवृत्तस्य प्रतिषेधः वक्तव्यः । सिद्धम् एकाक्षरपूर्वपदानाम् उत्तरपदलोपवचनात् । सिद्धम् एतत् । कथम् । एकाक्षरपूर्वपदानाम् उत्तरपदस्य लोपः वक्तव्यः । इह अपि तर्हि प्राप्नोति । षडङ्गुलिः । षडिकः इति । षषः ठाजादिवचनात् सिद्धम् । षषः ठाजादिवचनात् सिद्धम् एतत् ।
KA II.426.2-15 Ro IV.238-240 varuṇādīnām ca tṛtīyāt saḥ ca akṛtasandhīnām . varuṇādīnām ca tṛtīyāt lopaḥ ucyate . saḥ ca akṛtasandhīnām vaktavyaḥ . suparyāśīrdattaḥ . suparikaḥ , supariyaḥ , suparilaḥ . iha ṣaḍaṅguliḥ ṣaḍikaḥ iti ajādilope kṛte padasañjñā na prāpnoti . tatra kaḥ doṣaḥ . jaśtvam na syāt . ṣaḍike jaśtve uktam . kim uktam . siddham acaḥ sthānivatvāt iti . yadi evam vācikādiṣu padavṛttapratiṣedhaḥ . vācikādiṣu padavṛttasya pratiṣedhaḥ vaktavyaḥ . siddham ekākṣarapūrvapadānām uttarapadalopavacanāt . siddham etat . katham . ekākṣarapūrvapadānām uttarapadasya lopaḥ vaktavyaḥ . iha api tarhi prāpnoti . ṣaḍaṅguliḥ . ṣaḍikaḥ iti . ṣaṣaḥ ṭhājādivacanāt siddham . ṣaṣaḥ ṭhājādivacanāt siddham etat .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।४२६।१८-२१ रो इव्।३४० किमर्थम् इमौ उभौ अर्थौ निर्दिश्येते न यत् अल्पम् ह्रस्वम् अपि तत् भवति यत् च ह्रस्वम् अल्पम् अपि तत् भवति । न एतयोः आवश्यकः समावेशः । अल्पम् घृतम् । अल्पम् तैलम् इति उच्यते । न कः चित् आह ह्रस्वम् घृतम् । ह्रस्वम् तैलम् इति । तथा ह्रस्वः पटः । ह्रस्वः शाटकः इति उच्यते । न कः चित् आह अल्पः पटः । अल्पः शाटकः इति ।
KA II.426.18-21 Ro IV.340 kimartham imau ubhau arthau nirdiśyete na yat alpam hrasvam api tat bhavati yat ca hrasvam alpam api tat bhavati . na etayoḥ āvaśyakaḥ samāveśaḥ . alpam ghṛtam . alpam tailam iti ucyate . na kaḥ cit āha hrasvam ghṛtam . hrasvam tailam iti . tathā hrasvaḥ paṭaḥ . hrasvaḥ śāṭakaḥ iti ucyate . na kaḥ cit āha alpaḥ paṭaḥ . alpaḥ śāṭakaḥ iti .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।४२७।२-७ रो इव्।२४१ कुटीशमीशुण्डाभ्यः प्रत्ययसन्नियोगेन पुंवद्भावः । कुटीशमीशुण्डाभ्यः प्रत्ययसन्नियोगेन पुंवद्भावः वक्तव्यः । कुटी । कुटीरः । शमी । शमीरः । शुण्डा । शुण्डारः इति । किम् पुनः कारणम् न सिध्यति । स्वार्थिकः अयम् स्वार्थिकाः च प्रकृतितः लिङ्गवचनानि अनुवर्तन्ते । उक्तम् वा । किम् उक्तम् । स्वाऋथिकाः अतिवर्तन्ते अपि लिङ्गवचनानि इति ।
KA II.427.2-7 Ro IV.241 kuṭīśamīśuṇḍābhyaḥ pratyayasanniyogena puṃvadbhāvaḥ . kuṭīśamīśuṇḍābhyaḥ pratyayasanniyogena puṃvadbhāvaḥ vaktavyaḥ . kuṭī . kuṭīraḥ . śamī . śamīraḥ . śuṇḍā . śuṇḍāraḥ iti . kim punaḥ kāraṇam na sidhyati . svārthikaḥ ayam svārthikāḥ ca prakṛtitaḥ liṅgavacanāni anuvartante . uktam vā . kim uktam . svāṛthikāḥ ativartante api liṅgavacanāni iti .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।४२७।९-१३ रो इव्।२४१ वत्सादिभ्यः तनुत्वे कार्श्ये प्रतिषेधः । वत्सादिभ्यः तनुत्वे कार्श्ये प्रतिषेधः वक्तव्यः । कृशः वत्सः वत्सतरः इति मा भूत् इति । सः तर्हि प्रतिषेधः वक्तव्यः । न वक्तव्यः । यस्य गुणस्य हि भावात् द्रव्ये शब्दनिवेशः तदभिधाने तस्मिन् गुणे वक्तव्ये प्रत्ययेन भवितव्यम् । न च कार्श्यस्य सद्भावात् द्रव्ये वत्सशब्दः ।
KA II.427.9-13 Ro IV.241 vatsādibhyaḥ tanutve kārśye pratiṣedhaḥ . vatsādibhyaḥ tanutve kārśye pratiṣedhaḥ vaktavyaḥ . kṛśaḥ vatsaḥ vatsataraḥ iti mā bhūt iti . saḥ tarhi pratiṣedhaḥ vaktavyaḥ . na vaktavyaḥ . yasya guṇasya hi bhāvāt dravye śabdaniveśaḥ tadabhidhāne tasmin guṇe vaktavye pratyayena bhavitavyam . na ca kārśyasya sadbhāvāt dravye vatsaśabdaḥ .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।४२७।१६-४२८।४ रो इव्। २४२ किमादीनाम् द्विबह्वर्थे प्रत्ययविधानात् उपाध्यानर्थक्यम् । किमादीनाम् द्विबह्वर्थे प्रत्ययविधानात् उपाधिग्रहणम् अनर्थकम् । किम् कारणम् । बहिर्धारणम् निर्धारणम् । यावता द्वयोः एकस्य एव बहिर्धारणम् भवति । अपरः आह : बहूनाम् जतिपरिप्रश्ने डतमच् इति अत्र बहुग्रहणम् अनर्थकम् । किम् कारणम् । किम् इति एतत् परिप्रश्ने वर्तते परिप्रश्नः च अनिर्ज्ञाते अनिर्ज्ञातम् च बहुषु । द्व्येकयोः पुनः निर्ज्ञातम् । निर्ज्ञातत्वात् द्व्येकयोः परिप्रश्नः न । परिप्रश्नाभावात् किम् एव न अस्ति । कुतः प्रत्ययः ।
KA II.427.16-428.4 Ro IV. 242 kimādīnām dvibahvarthe pratyayavidhānāt upādhyānarthakyam . kimādīnām dvibahvarthe pratyayavidhānāt upādhigrahaṇam anarthakam . kim kāraṇam . bahirdhāraṇam nirdhāraṇam . yāvatā dvayoḥ ekasya eva bahirdhāraṇam bhavati . aparaḥ āha : bahūnām jatiparipraśne ḍatamac iti atra bahugrahaṇam anarthakam . kim kāraṇam . kim iti etat paripraśne vartate paripraśnaḥ ca anirjñāte anirjñātam ca bahuṣu . dvyekayoḥ punaḥ nirjñātam . nirjñātatvāt dvyekayoḥ paripraśnaḥ na . paripraśnābhāvāt kim eva na asti . kutaḥ pratyayaḥ .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।४२८।६-९ रो इव्।२४२-२४३ प्राग्वचनम् किमर्थम् । विभाषा यथा स्यात् । प्राग्वचनानर्थक्यम् च विभाषाप्रकरणात् । प्राग्वचनम् अनर्थकम् । किम् कारणम् । प्रकृता महाविभाषा । तय एव सिद्धम् ।
KA II.428.6-9 Ro IV.242-243 prāgvacanam kimartham . vibhāṣā yathā syāt . prāgvacanānarthakyam ca vibhāṣāprakaraṇāt . prāgvacanam anarthakam . kim kāraṇam . prakṛtā mahāvibhāṣā . taya eva siddham .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।४२८।११-१५ रो इव्।२४३ अवक्षेपणे कन् विधीयते कुत्सिते कः । कः एतयोः अर्थयोः विशेषः । अवक्षेपणम् करणम् कुत्सितम् कर्म । अवक्षेपणम् वै कुत्सितम् करणम् । तेन यत् कुत्य्स्यते तत् अपि कुत्सितम् भवति । तत्र कुत्सितम् इति एव सिद्धम् भवति । एवम् तर्हि यत् परस्य कुत्सार्थम् उपादीयते तत् इह उदाहरणम् । व्याकरणकेन नाम अयम् गर्वितः । याज्ञिक्येन नाम अयम् गर्वितः । यत् स्वकुत्सार्थम् कुत्सार्थम् उपादीयते तत् तत्र उदाहरणम् । देवदत्तकः । यज्ञदत्तकः ।
KA II.428.11-15 Ro IV.243 avakṣepaṇe kan vidhīyate kutsite kaḥ . kaḥ etayoḥ arthayoḥ viśeṣaḥ . avakṣepaṇam karaṇam kutsitam karma . avakṣepaṇam vai kutsitam karaṇam . tena yat kutysyate tat api kutsitam bhavati . tatra kutsitam iti eva siddham bhavati . evam tarhi yat parasya kutsārtham upādīyate tat iha udāharaṇam . vyākaraṇakena nāma ayam garvitaḥ . yājñikyena nāma ayam garvitaḥ . yat svakutsārtham kutsārtham upādīyate tat tatra udāharaṇam . devadattakaḥ . yajñadattakaḥ .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।४२८।१७-२० रो इव्।२४३ किमर्थम् मनुष्ये लुप् उच्यते न लुक् एव उच्येत । लिङ्गसिद्ध्यर्थम् लुप् मनुष्ये । लिङ्गसिद्ध्यर्थम् मनुष्ये लुप् उच्यते । चञ्चा इव चञ्चा । वध्रिका इव वध्रिका । खरकुटी इव खरकुटी । किमर्थम् मनुष्ये लुप् उच्यते न लुक् एव उच्येत: १।१।७२।५
KA II.428.17-20 Ro IV.243 kimartham manuṣye lup ucyate na luk eva ucyeta . liṅgasiddhyartham lup manuṣye . liṅgasiddhyartham manuṣye lup ucyate . cañcā iva cañcā . vadhrikā iva vadhrikā . kharakuṭī iva kharakuṭī . kimartham manuṣye lup ucyate na luk eva ucyeta: 1.1.72.5
Sanskrit only: no published translation is held for this verse.
क्अ इइ।४२९।२-४ रो इव्।२४४ अपण्ये इति उच्यते । तत्र इदम् न सिध्यति । शिवः । स्कन्दः । विशाखः इति । किम् कारणम् । मौर्यैः हिरण्याऋथिभिः अर्चाः प्रकल्पिताः । भवेत् तासु न स्यात् । याः तु एताः सम्प्रतिपूजार्थाः तासु भविष्यति ।
KA II.429.2-4 Ro IV.244 apaṇye iti ucyate . tatra idam na sidhyati . śivaḥ . skandaḥ . viśākhaḥ iti . kim kāraṇam . mauryaiḥ hiraṇyāṛthibhiḥ arcāḥ prakalpitāḥ . bhavet tāsu na syāt . yāḥ tu etāḥ sampratipūjārthāḥ tāsu bhaviṣyati .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।४२९।६-९ रो इव्।२४४-२४५ तत् इति अनेन किम् प्रतिनिर्दिश्यते । छः । कथम् पुनः समासः नाम छविषयः स्यात् । एवम् तर्हि इवार्थः । यदि तर्हि समासः अपि इवार्थे प्रत्ययः अपि समासेनोक्तत्वात् प्रत्ययः न प्राप्नोति । एवम् तर्हि द्वौ इवार्थौ । कथम् । काकागमनम् इव तालपतनम् इव काकतालम् । काकतालम् इव काकतालीयम् ।
KA II.429.6-9 Ro IV.244-245 tat iti anena kim pratinirdiśyate . chaḥ . katham punaḥ samāsaḥ nāma chaviṣayaḥ syāt . evam tarhi ivārthaḥ . yadi tarhi samāsaḥ api ivārthe pratyayaḥ api samāsenoktatvāt pratyayaḥ na prāpnoti . evam tarhi dvau ivārthau . katham . kākāgamanam iva tālapatanam iva kākatālam . kākatālam iva kākatālīyam .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।४२९।१२-१६ रो इव्।२४५-२४६ अणः गोत्रात् गोत्रवचनम् । अणः गोत्रात् गोत्रग्रहणम् कर्तव्यम् । गोत्रात् इति वक्तव्यम् । इह मा भूत् । आभिजितः मुहूर्तः । आभिजितः स्थालीपाकः इति । गोत्रम् इति च वक्तव्यम् । किम् प्रयोजनम् । आभिजितकः । गोत्राश्रयः वुञ् यथा स्यात् । गोत्रम् इति शक्यम् अकर्तुम् । कथम् आभिजितकः । गोत्रात् अयम् स्वार्थिकः गोत्रम् एव भवति ।
KA II.429.12-16 Ro IV.245-246 aṇaḥ gotrāt gotravacanam . aṇaḥ gotrāt gotragrahaṇam kartavyam . gotrāt iti vaktavyam . iha mā bhūt . ābhijitaḥ muhūrtaḥ . ābhijitaḥ sthālīpākaḥ iti . gotram iti ca vaktavyam . kim prayojanam . ābhijitakaḥ . gotrāśrayaḥ vuñ yathā syāt . gotram iti śakyam akartum . katham ābhijitakaḥ . gotrāt ayam svārthikaḥ gotram eva bhavati .
Sanskrit only: no published translation is held for this verse.