क्अ इइइ।१।१-३।२३ रो इव्।२७९-२८७ एकाचः इति किम् अयम् बहुव्रीहिः । एकः अच् अस्मिन् सः एकाच् । एकाचः इति । आहोस्वित् तत्पुरुषः अयम् समानाधिकरणः । एकः अच् एकाच् । एकाचः । किम् च अतः । यदि बहुव्रीहिः सिद्धम् पपाच पपाठ । इयाय । आर इति न सिध्यति । अथ तत्पुरुषः समानाधिकरणः सिद्धम् इयाय । आर इति । पपाच पपाठ इति न सिध्यति । अतः उत्तरम् पठति । एकाचः द्वे प्रथमस्य इति बहुव्रीहिनिर्देशः । एकाचः द्वे प्रथमस्य इति बहुव्रीहिनिर्देशः अयम् । एकवर्णेषु कथम् । एकवर्णेषु व्यपदेशिवद्वचनात् । व्यपदेशिवत् एकस्मिन् कार्यम् भवति इति वक्तव्यम् । एवम् एकवर्णेषु द्विर्वचनम् भविष्यति । एकाचः द्वे भवतः इति उच्यते । तत्र न ज्ञायते कस्य एकाचः द्वे भवतः इति । वक्ष्यति लिटि धातोः अनभ्यासस्य इति । तेन धातोः एकाचः इति विज्ञायते । यदि धातोः एकाचः सिद्धम् पपाच पपाठ । जजागार पुपुत्रीयिषति इति न सिध्यति । धातोः इति न एषा एकाच्समानाधिकरणा षष्ठी । धातोः एकाचः इति । किम् तर्हि अवयवयोगा एषा षष्ठी । धातोः यः एकाच् अवयवः इति । अवयवयोगा एषा षष्ठी इति चेत् सिद्धम् जजागार पुपुत्रीयिषति इति । पपाच पपाठ इति न सिध्यति । एषः अपि व्यपदेशिवद्भावेन धातोः एकाच् अवयवः भवति । एकाचः द्वे प्रथमस्य इति उच्यते । तेन यत्र एव प्रथमः च अप्रथमः च तत्र द्विर्वचनम् स्यात् । जजागार पुपुत्रीयिषति इति । पपाच पपाठ इति अत्र न स्यात् । प्रथमत्वे च । प्रथमत्वे च किम् । व्यपदेशिवद्वचनात् सिद्धम् इति एव । सः तर्हि व्यपदेशिवद्भावः वक्तव्यः । न वक्तव्यः । उक्तम् वा । किम् उक्तम् । तत्र व्यपदेशिवद्वचनम् । एकाचः द्वे प्रथमार्थम् । षत्वे च आदेशसम्प्रत्ययार्थम् । अवचनात् लोकविज्ञानात् सिद्धम् इति एव । योगविभागः वा । अथ वा योगविभागः करिष्यते । एकाचः द्वे भवतः । किमर्थः योगविभागः । एकाज्मात्रस्य द्विर्वचनार्थः । एकाज्मात्रय्त द्विर्वचनम् यथा स्यात् । इयाय पपाच । ततः प्रथमस्य । प्रथमस्य एकाचः द्वे भवतः । इदम् इदानीम् किमर्थम् । नियमाऋथम् । यत्र प्रथमः च अप्रथमः च अस्ति तत्र प्रथमस्य एकाचः द्विर्वचनम् यथा स्यात् । अप्रथमस्य मा भूत् । जजागार पुपुत्रीयिषति इति । एकाचः अवयवैकाच्त्वात् अवयवानाम् द्विर्वचनप्रसङ्गः । एकाचः अवयवैकाच्त्वात् अवयवानाम् द्विर्वचनम् प्राप्नोति । नेनिजति इति अत्र निज्शब्दः अपि एकाच् इज्शब्दः अपि एकाच् इकारः अपि एकाच् निशब्दः अपि । तत्र निज्शब्दस्य द्विर्वचने रूपम् सिद्धम् दोषाः च न सन्ति । इज्शब्दस्य द्विर्वचने रूपम् न सिध्यति दोषाः च न सन्ति । इकारस्य द्विर्वचने रूपम् न सिधति दोषाः च न सन्ति । निशब्दस्य द्विर्वचने रूपम् सिद्धम् दोषाः तु सन्ति । तत्र कः दोषः । तत्र जुस्भाववचनम् । तत्र जुस्भावः वक्तव्यः । अनेनिजुः । पर्यवेविषुः । अभ्यस्तात् झेः जुस्भावः भवति इति जुस्भावः न प्राप्नोति जकारेणव्यवधानात् । स्वरः च । स्वरः च न सिध्यति । नेनिजति । यत् परिवेविषति इति । अभ्यस्तानाम् आदिः उदात्तः भवति अजादौ लसार्वधातुके इति एषः स्वरः न प्राप्नोति । अद्भावः च । अद्भावः च न सिध्यति । नेनिजति । परिवेविषति इति । अभ्यस्तात् इति अद्भावः न प्राप्नोति । नुम्प्रतिषेधः च । नुम्प्रतिषेधः च न सिध्यति । नेनिजत् । परिवेविषत् । न अभ्यास्तात् शतुः इत् नुम्प्रतिषेधः न प्राप्नोति जकारेणव्यवधानात् । शास्त्रहानिः च । शास्त्रहानिः च भवति । समुदायैकाचः शास्त्रम् हीयते । सिद्धम् तु तत्समुदायैकाच्त्वात् शास्त्राहानेः । सिद्धम् एतत् । कथम् । तत्समुदायैकाच्त्वात् । किम् इदम् तत्समुदायैकाच्त्वात् इति । तस्य समुदायः तत्समुदायः । एकाज्भावः एकाच्त्वम् । तत्समुदायस्य एकाच्त्वम् तत्समुदायैकाच्त्वम् । तत्समुदायैकाच्त्वात् । तत्समुदायैकाचः द्विर्वचनम् भविष्यति । कुतः । शास्त्राहानेः । एवम् हि शास्त्रम् अहीनम् भवति । ननु च समुदायैकाचः द्विर्वचने क्रियमाणे अपि अवयवैकाचः
KA III.1.1-3.23 Ro IV.279-287 ekācaḥ iti kim ayam bahuvrīhiḥ . ekaḥ ac asmin saḥ ekāc . ekācaḥ iti . āhosvit tatpuruṣaḥ ayam samānādhikaraṇaḥ . ekaḥ ac ekāc . ekācaḥ . kim ca ataḥ . yadi bahuvrīhiḥ siddham papāca papāṭha . iyāya . āra iti na sidhyati . atha tatpuruṣaḥ samānādhikaraṇaḥ siddham iyāya . āra iti . papāca papāṭha iti na sidhyati . ataḥ uttaram paṭhati . ekācaḥ dve prathamasya iti bahuvrīhinirdeśaḥ . ekācaḥ dve prathamasya iti bahuvrīhinirdeśaḥ ayam . ekavarṇeṣu katham . ekavarṇeṣu vyapadeśivadvacanāt . vyapadeśivat ekasmin kāryam bhavati iti vaktavyam . evam ekavarṇeṣu dvirvacanam bhaviṣyati . ekācaḥ dve bhavataḥ iti ucyate . tatra na jñāyate kasya ekācaḥ dve bhavataḥ iti . vakṣyati liṭi dhātoḥ anabhyāsasya iti . tena dhātoḥ ekācaḥ iti vijñāyate . yadi dhātoḥ ekācaḥ siddham papāca papāṭha . jajāgāra puputrīyiṣati iti na sidhyati . dhātoḥ iti na eṣā ekācsamānādhikaraṇā ṣaṣṭhī . dhātoḥ ekācaḥ iti . kim tarhi avayavayogā eṣā ṣaṣṭhī . dhātoḥ yaḥ ekāc avayavaḥ iti . avayavayogā eṣā ṣaṣṭhī iti cet siddham jajāgāra puputrīyiṣati iti . papāca papāṭha iti na sidhyati . eṣaḥ api vyapadeśivadbhāvena dhātoḥ ekāc avayavaḥ bhavati . ekācaḥ dve prathamasya iti ucyate . tena yatra eva prathamaḥ ca aprathamaḥ ca tatra dvirvacanam syāt . jajāgāra puputrīyiṣati iti . papāca papāṭha iti atra na syāt . prathamatve ca . prathamatve ca kim . vyapadeśivadvacanāt siddham iti eva . saḥ tarhi vyapadeśivadbhāvaḥ vaktavyaḥ . na vaktavyaḥ . uktam vā . kim uktam . tatra vyapadeśivadvacanam . ekācaḥ dve prathamārtham . ṣatve ca ādeśasampratyayārtham . avacanāt lokavijñānāt siddham iti eva . yogavibhāgaḥ vā . atha vā yogavibhāgaḥ kariṣyate . ekācaḥ dve bhavataḥ . kimarthaḥ yogavibhāgaḥ . ekājmātrasya dvirvacanārthaḥ . ekājmātrayta dvirvacanam yathā syāt . iyāya papāca . tataḥ prathamasya . prathamasya ekācaḥ dve bhavataḥ . idam idānīm kimartham . niyamāṛtham . yatra prathamaḥ ca aprathamaḥ ca asti tatra prathamasya ekācaḥ dvirvacanam yathā syāt . aprathamasya mā bhūt . jajāgāra puputrīyiṣati iti . ekācaḥ avayavaikāctvāt avayavānām dvirvacanaprasaṅgaḥ . ekācaḥ avayavaikāctvāt avayavānām dvirvacanam prāpnoti . nenijati iti atra nijśabdaḥ api ekāc ijśabdaḥ api ekāc ikāraḥ api ekāc niśabdaḥ api . tatra nijśabdasya dvirvacane rūpam siddham doṣāḥ ca na santi . ijśabdasya dvirvacane rūpam na sidhyati doṣāḥ ca na santi . ikārasya dvirvacane rūpam na sidhati doṣāḥ ca na santi . niśabdasya dvirvacane rūpam siddham doṣāḥ tu santi . tatra kaḥ doṣaḥ . tatra jusbhāvavacanam . tatra jusbhāvaḥ vaktavyaḥ . anenijuḥ . paryaveviṣuḥ . abhyastāt jheḥ jusbhāvaḥ bhavati iti jusbhāvaḥ na prāpnoti jakāreṇavyavadhānāt . svaraḥ ca . svaraḥ ca na sidhyati . nenijati . yat pariveviṣati iti . abhyastānām ādiḥ udāttaḥ bhavati ajādau lasārvadhātuke iti eṣaḥ svaraḥ na prāpnoti . adbhāvaḥ ca . adbhāvaḥ ca na sidhyati . nenijati . pariveviṣati iti . abhyastāt iti adbhāvaḥ na prāpnoti . numpratiṣedhaḥ ca . numpratiṣedhaḥ ca na sidhyati . nenijat . pariveviṣat . na abhyāstāt śatuḥ it numpratiṣedhaḥ na prāpnoti jakāreṇavyavadhānāt . śāstrahāniḥ ca . śāstrahāniḥ ca bhavati . samudāyaikācaḥ śāstram hīyate . siddham tu tatsamudāyaikāctvāt śāstrāhāneḥ . siddham etat . katham . tatsamudāyaikāctvāt . kim idam tatsamudāyaikāctvāt iti . tasya samudāyaḥ tatsamudāyaḥ . ekājbhāvaḥ ekāctvam . tatsamudāyasya ekāctvam tatsamudāyaikāctvam . tatsamudāyaikāctvāt . tatsamudāyaikācaḥ dvirvacanam bhaviṣyati . kutaḥ . śāstrāhāneḥ . evam hi śāstram ahīnam bhavati . nanu ca samudāyaikācaḥ dvirvacane kriyamāṇe api avayavaikācaḥ
Sanskrit only: no published translation is held for this verse.
क्अ इइइ।३।२४-५।१९ रो इव्।२८७-२९३ अथ यस्य द्विर्वचनम् आरभ्यते किम् तस्य स्थाने भवति आहोस्वित् द्विःप्रयोगः इति । कः च अत्र विशेषः । स्थाने द्विर्वचने णिलोपवचनम् समुदायादेशत्वात् । स्थाने द्विर्वचने णिलोपः वक्तव्यः । आटिटत् । आशिशत् । किम् कारणम् । समुदायादेशत्वात् । समुदायस्य समुदायः आदेशः । तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययसमुदायस्य नष्टः णिः भवति इति णेः अनिटि इति णिलोपः न प्राप्नोति । इदम् इह सम्प्रधार्यम् । द्विर्वचनम् क्रियताम् णिलोपः इति किम् अत्र कर्तव्यम् । परत्वात् णिलोपः । नित्यम् द्विर्वचनम् । कृते अपि णिलोपे प्राप्नोति अकृते अपि । द्विर्वचनम् अपि नित्यम् । अन्यस्य कृते णिलोपे प्राप्नोति अन्यस्य अकृते । शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति । नित्यम् एव द्विर्वचनम् । कथम् । रूपस्य स्थानिवत्वात् । यत् च सन्यङन्तस्य द्विर्वचने । यत् च सन्यङन्तस्य द्विर्वचने चोद्यम् तत् इह अपि चोद्यम् । किम् पुनः तत् । सन्यङन्तस्य चेत् अशेः सनि अनिटः । दीर्घकुत्वप्रसारणषत्वम् अधिकस्य द्विर्वचनात् । आबृध्योः च अभ्यस्तविप्रतिषेधः । सङाश्रये च समुदायस्य समुदायादेशत्वात् झलाश्रये च अव्यपदेशः आमिश्रत्वात् इति । अस्तु तर्हि द्विःप्रयोगः द्विर्वचनम् । द्विःप्रयोगः इति चेत् णकारषकारादेशादेः एत्त्ववचनम् लिटि । द्विःप्रयोगः इति चेत् णकारषकारादेशादेः एत्त्वम् लिटि वक्तव्यम् । नेमतुः । नेमुः । सेहे । सेहाते । सहिरे । अनादेशादेः इति प्रतिषेधः प्राप्नोति । स्थाने पुनः द्विर्वचने सति समुदायस्य समुदायः आदेशः । तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः सः आदेशादिः भवति । द्विःप्रयोगे अपि द्विर्वचने सति न दोषः । वक्ष्यति तत्र लिड्ग्रहणस्य प्रयोजनम् । लिटि यः आदेशादिः तदादेः न इति । इड्वचनम् च यङ्लोपे । इट् च यङ्लोपे वक्तव्यः । बेभिदिता । बेभिदितुम् । एकाचः उपदेशे अनुदात्तात् इति इट्प्रतिषेधः प्राप्नोति । स्थाने पुनः द्विर्वचने सति समुदायस्य समुदायः आदेशः । तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः सः भवति यः एकाच् उपदेशे अनुदात्तः । द्विःप्रयोगे अपि द्विर्वचने सति न दोषः । एकाज्ग्रहणेन अङ्गम् विशेषयिष्यामः । एकाचः अङ्गात् इति । ननु च एकैकम् अत्र अङ्गम् । समुदाये या वाक्यपरिसमाप्तिः तस्य अङ्गसञ्ज्ञा भविष्यति । कुतः एतत् । शास्त्राहानेः । एवम् हि शास्त्रम् अहीनम् भवति । इड्दीर्घप्रतिषेधः च । इटः दीर्घत्वस्य च प्रतिषेधः वक्तव्यः । जरीगृहिता । जरीगृहितुम् । ग्रहः अलिटि दीर्घः इति दीर्घत्वम् प्राप्नोति । स्थाने पुनः द्विर्वचने समुदायस्य समुदायः आदेशः । तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः ग्रहिः । द्विःप्रयोगे अपि द्विर्वचने न दोषः । ग्रहिणा अङ्गम् विशेषयिष्यामः । ग्रहेः अङ्गात् इति । ननु च एकैकम् अत्र अङ्गम् । समुदाये या वाक्यपरिसमाप्तिः तस्य अङ्गसञ्ज्ञा भविष्यति । कुतः एतत् । शास्त्राहानेः । एवम् हि शास्त्रम् अहीनम् भवति । पदादिविधिप्रतिषेधः च । पदादिलक्षण विधेः प्रतिषेधः वक्तव्यः । सिषेच । सुष्वाप । सात्पदाद्योः इति षत्वप्रतिषेधः प्राप्नोति । स्थाने पुनः द्विर्वचने सति समुदायस्य समुदायः आदेशः । तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः सः पदादिः भवति । द्विःप्रयोगे च अपि द्विर्वचने न दोषः । सुप्तिङ्भ्याम् पदम् विशेषयिष्यामः । यस्मात् सुप्तिङ्विधिः तदादि सुबन्तम् तिङन्तम् च । ननु च एकैकस्मात् [अपि अत्र (र्)] सुप्तिङ्विधिः । समुदाये या वाक्यपरिसमाप्तिः तया पदसञ्ज्ञा भविष्यति । कुतः एतत् । शास्त्राहानेः । एवम् हि शास्त्रम् अहीनम् भवति । तौ एव सुप्तिङौ ततः परौ सा एव च प्रकृतिः आद्या । आदिग्रहणम् प्रकृतम् । समुदायपदत्वम् एतेन ।
KA III.3.24-5.19 Ro IV.287-293 atha yasya dvirvacanam ārabhyate kim tasya sthāne bhavati āhosvit dviḥprayogaḥ iti . kaḥ ca atra viśeṣaḥ . sthāne dvirvacane ṇilopavacanam samudāyādeśatvāt . sthāne dvirvacane ṇilopaḥ vaktavyaḥ . āṭiṭat . āśiśat . kim kāraṇam . samudāyādeśatvāt . samudāyasya samudāyaḥ ādeśaḥ . tatra sampramugdhatvāt prakṛtipratyayasamudāyasya naṣṭaḥ ṇiḥ bhavati iti ṇeḥ aniṭi iti ṇilopaḥ na prāpnoti . idam iha sampradhāryam . dvirvacanam kriyatām ṇilopaḥ iti kim atra kartavyam . paratvāt ṇilopaḥ . nityam dvirvacanam . kṛte api ṇilope prāpnoti akṛte api . dvirvacanam api nityam . anyasya kṛte ṇilope prāpnoti anyasya akṛte . śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati . nityam eva dvirvacanam . katham . rūpasya sthānivatvāt . yat ca sanyaṅantasya dvirvacane . yat ca sanyaṅantasya dvirvacane codyam tat iha api codyam . kim punaḥ tat . sanyaṅantasya cet aśeḥ sani aniṭaḥ . dīrghakutvaprasāraṇaṣatvam adhikasya dvirvacanāt . ābṛdhyoḥ ca abhyastavipratiṣedhaḥ . saṅāśraye ca samudāyasya samudāyādeśatvāt jhalāśraye ca avyapadeśaḥ āmiśratvāt iti . astu tarhi dviḥprayogaḥ dvirvacanam . dviḥprayogaḥ iti cet ṇakāraṣakārādeśādeḥ ettvavacanam liṭi . dviḥprayogaḥ iti cet ṇakāraṣakārādeśādeḥ ettvam liṭi vaktavyam . nematuḥ . nemuḥ . sehe . sehāte . sahire . anādeśādeḥ iti pratiṣedhaḥ prāpnoti . sthāne punaḥ dvirvacane sati samudāyasya samudāyaḥ ādeśaḥ . tatra sampramugdhatvāt prakṛtipratyayasya naṣṭaḥ saḥ ādeśādiḥ bhavati . dviḥprayoge api dvirvacane sati na doṣaḥ . vakṣyati tatra liḍgrahaṇasya prayojanam . liṭi yaḥ ādeśādiḥ tadādeḥ na iti . iḍvacanam ca yaṅlope . iṭ ca yaṅlope vaktavyaḥ . bebhiditā . bebhiditum . ekācaḥ upadeśe anudāttāt iti iṭpratiṣedhaḥ prāpnoti . sthāne punaḥ dvirvacane sati samudāyasya samudāyaḥ ādeśaḥ . tatra sampramugdhatvāt prakṛtipratyayasya naṣṭaḥ saḥ bhavati yaḥ ekāc upadeśe anudāttaḥ . dviḥprayoge api dvirvacane sati na doṣaḥ . ekājgrahaṇena aṅgam viśeṣayiṣyāmaḥ . ekācaḥ aṅgāt iti . nanu ca ekaikam atra aṅgam . samudāye yā vākyaparisamāptiḥ tasya aṅgasañjñā bhaviṣyati . kutaḥ etat . śāstrāhāneḥ . evam hi śāstram ahīnam bhavati . iḍdīrghapratiṣedhaḥ ca . iṭaḥ dīrghatvasya ca pratiṣedhaḥ vaktavyaḥ . jarīgṛhitā . jarīgṛhitum . grahaḥ aliṭi dīrghaḥ iti dīrghatvam prāpnoti . sthāne punaḥ dvirvacane samudāyasya samudāyaḥ ādeśaḥ . tatra sampramugdhatvāt prakṛtipratyayasya naṣṭaḥ grahiḥ . dviḥprayoge api dvirvacane na doṣaḥ . grahiṇā aṅgam viśeṣayiṣyāmaḥ . graheḥ aṅgāt iti . nanu ca ekaikam atra aṅgam . samudāye yā vākyaparisamāptiḥ tasya aṅgasañjñā bhaviṣyati . kutaḥ etat . śāstrāhāneḥ . evam hi śāstram ahīnam bhavati . padādividhipratiṣedhaḥ ca . padādilakṣaṇa vidheḥ pratiṣedhaḥ vaktavyaḥ . siṣeca . suṣvāpa . sātpadādyoḥ iti ṣatvapratiṣedhaḥ prāpnoti . sthāne punaḥ dvirvacane sati samudāyasya samudāyaḥ ādeśaḥ . tatra sampramugdhatvāt prakṛtipratyayasya naṣṭaḥ saḥ padādiḥ bhavati . dviḥprayoge ca api dvirvacane na doṣaḥ . suptiṅbhyām padam viśeṣayiṣyāmaḥ . yasmāt suptiṅvidhiḥ tadādi subantam tiṅantam ca . nanu ca ekaikasmāt [api atra (R)] suptiṅvidhiḥ . samudāye yā vākyaparisamāptiḥ tayā padasañjñā bhaviṣyati . kutaḥ etat . śāstrāhāneḥ . evam hi śāstram ahīnam bhavati . tau eva suptiṅau tataḥ parau sā eva ca prakṛtiḥ ādyā . ādigrahaṇam prakṛtam . samudāyapadatvam etena .
Sanskrit only: no published translation is held for this verse.