क्अ इइइ।३।२४-५।१९ रो इव्।२८७-२९३ अथ यस्य द्विर्वचनम् आरभ्यते किम् तस्य स्थाने भवति आहोस्वित् द्विःप्रयोगः इति । कः च अत्र विशेषः । स्थाने द्विर्वचने णिलोपवचनम् समुदायादेशत्वात् । स्थाने द्विर्वचने णिलोपः वक्तव्यः । आटिटत् । आशिशत् । किम् कारणम् । समुदायादेशत्वात् । समुदायस्य समुदायः आदेशः । तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययसमुदायस्य नष्टः णिः भवति इति णेः अनिटि इति णिलोपः न प्राप्नोति । इदम् इह सम्प्रधार्यम् । द्विर्वचनम् क्रियताम् णिलोपः इति किम् अत्र कर्तव्यम् । परत्वात् णिलोपः । नित्यम् द्विर्वचनम् । कृते अपि णिलोपे प्राप्नोति अकृते अपि । द्विर्वचनम् अपि नित्यम् । अन्यस्य कृते णिलोपे प्राप्नोति अन्यस्य अकृते । शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति । नित्यम् एव द्विर्वचनम् । कथम् । रूपस्य स्थानिवत्वात् । यत् च सन्यङन्तस्य द्विर्वचने । यत् च सन्यङन्तस्य द्विर्वचने चोद्यम् तत् इह अपि चोद्यम् । किम् पुनः तत् । सन्यङन्तस्य चेत् अशेः सनि अनिटः । दीर्घकुत्वप्रसारणषत्वम् अधिकस्य द्विर्वचनात् । आबृध्योः च अभ्यस्तविप्रतिषेधः । सङाश्रये च समुदायस्य समुदायादेशत्वात् झलाश्रये च अव्यपदेशः आमिश्रत्वात् इति । अस्तु तर्हि द्विःप्रयोगः द्विर्वचनम् । द्विःप्रयोगः इति चेत् णकारषकारादेशादेः एत्त्ववचनम् लिटि । द्विःप्रयोगः इति चेत् णकारषकारादेशादेः एत्त्वम् लिटि वक्तव्यम् । नेमतुः । नेमुः । सेहे । सेहाते । सहिरे । अनादेशादेः इति प्रतिषेधः प्राप्नोति । स्थाने पुनः द्विर्वचने सति समुदायस्य समुदायः आदेशः । तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः सः आदेशादिः भवति । द्विःप्रयोगे अपि द्विर्वचने सति न दोषः । वक्ष्यति तत्र लिड्ग्रहणस्य प्रयोजनम् । लिटि यः आदेशादिः तदादेः न इति । इड्वचनम् च यङ्लोपे । इट् च यङ्लोपे वक्तव्यः । बेभिदिता । बेभिदितुम् । एकाचः उपदेशे अनुदात्तात् इति इट्प्रतिषेधः प्राप्नोति । स्थाने पुनः द्विर्वचने सति समुदायस्य समुदायः आदेशः । तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः सः भवति यः एकाच् उपदेशे अनुदात्तः । द्विःप्रयोगे अपि द्विर्वचने सति न दोषः । एकाज्ग्रहणेन अङ्गम् विशेषयिष्यामः । एकाचः अङ्गात् इति । ननु च एकैकम् अत्र अङ्गम् । समुदाये या वाक्यपरिसमाप्तिः तस्य अङ्गसञ्ज्ञा भविष्यति । कुतः एतत् । शास्त्राहानेः । एवम् हि शास्त्रम् अहीनम् भवति । इड्दीर्घप्रतिषेधः च । इटः दीर्घत्वस्य च प्रतिषेधः वक्तव्यः । जरीगृहिता । जरीगृहितुम् । ग्रहः अलिटि दीर्घः इति दीर्घत्वम् प्राप्नोति । स्थाने पुनः द्विर्वचने समुदायस्य समुदायः आदेशः । तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः ग्रहिः । द्विःप्रयोगे अपि द्विर्वचने न दोषः । ग्रहिणा अङ्गम् विशेषयिष्यामः । ग्रहेः अङ्गात् इति । ननु च एकैकम् अत्र अङ्गम् । समुदाये या वाक्यपरिसमाप्तिः तस्य अङ्गसञ्ज्ञा भविष्यति । कुतः एतत् । शास्त्राहानेः । एवम् हि शास्त्रम् अहीनम् भवति । पदादिविधिप्रतिषेधः च । पदादिलक्षण विधेः प्रतिषेधः वक्तव्यः । सिषेच । सुष्वाप । सात्पदाद्योः इति षत्वप्रतिषेधः प्राप्नोति । स्थाने पुनः द्विर्वचने सति समुदायस्य समुदायः आदेशः । तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः सः पदादिः भवति । द्विःप्रयोगे च अपि द्विर्वचने न दोषः । सुप्तिङ्भ्याम् पदम् विशेषयिष्यामः । यस्मात् सुप्तिङ्विधिः तदादि सुबन्तम् तिङन्तम् च । ननु च एकैकस्मात् [अपि अत्र (र्)] सुप्तिङ्विधिः । समुदाये या वाक्यपरिसमाप्तिः तया पदसञ्ज्ञा भविष्यति । कुतः एतत् । शास्त्राहानेः । एवम् हि शास्त्रम् अहीनम् भवति । तौ एव सुप्तिङौ ततः परौ सा एव च प्रकृतिः आद्या । आदिग्रहणम् प्रकृतम् । समुदायपदत्वम् एतेन ।
KA III.3.24-5.19 Ro IV.287-293 atha yasya dvirvacanam ārabhyate kim tasya sthāne bhavati āhosvit dviḥprayogaḥ iti . kaḥ ca atra viśeṣaḥ . sthāne dvirvacane ṇilopavacanam samudāyādeśatvāt . sthāne dvirvacane ṇilopaḥ vaktavyaḥ . āṭiṭat . āśiśat . kim kāraṇam . samudāyādeśatvāt . samudāyasya samudāyaḥ ādeśaḥ . tatra sampramugdhatvāt prakṛtipratyayasamudāyasya naṣṭaḥ ṇiḥ bhavati iti ṇeḥ aniṭi iti ṇilopaḥ na prāpnoti . idam iha sampradhāryam . dvirvacanam kriyatām ṇilopaḥ iti kim atra kartavyam . paratvāt ṇilopaḥ . nityam dvirvacanam . kṛte api ṇilope prāpnoti akṛte api . dvirvacanam api nityam . anyasya kṛte ṇilope prāpnoti anyasya akṛte . śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati . nityam eva dvirvacanam . katham . rūpasya sthānivatvāt . yat ca sanyaṅantasya dvirvacane . yat ca sanyaṅantasya dvirvacane codyam tat iha api codyam . kim punaḥ tat . sanyaṅantasya cet aśeḥ sani aniṭaḥ . dīrghakutvaprasāraṇaṣatvam adhikasya dvirvacanāt . ābṛdhyoḥ ca abhyastavipratiṣedhaḥ . saṅāśraye ca samudāyasya samudāyādeśatvāt jhalāśraye ca avyapadeśaḥ āmiśratvāt iti . astu tarhi dviḥprayogaḥ dvirvacanam . dviḥprayogaḥ iti cet ṇakāraṣakārādeśādeḥ ettvavacanam liṭi . dviḥprayogaḥ iti cet ṇakāraṣakārādeśādeḥ ettvam liṭi vaktavyam . nematuḥ . nemuḥ . sehe . sehāte . sahire . anādeśādeḥ iti pratiṣedhaḥ prāpnoti . sthāne punaḥ dvirvacane sati samudāyasya samudāyaḥ ādeśaḥ . tatra sampramugdhatvāt prakṛtipratyayasya naṣṭaḥ saḥ ādeśādiḥ bhavati . dviḥprayoge api dvirvacane sati na doṣaḥ . vakṣyati tatra liḍgrahaṇasya prayojanam . liṭi yaḥ ādeśādiḥ tadādeḥ na iti . iḍvacanam ca yaṅlope . iṭ ca yaṅlope vaktavyaḥ . bebhiditā . bebhiditum . ekācaḥ upadeśe anudāttāt iti iṭpratiṣedhaḥ prāpnoti . sthāne punaḥ dvirvacane sati samudāyasya samudāyaḥ ādeśaḥ . tatra sampramugdhatvāt prakṛtipratyayasya naṣṭaḥ saḥ bhavati yaḥ ekāc upadeśe anudāttaḥ . dviḥprayoge api dvirvacane sati na doṣaḥ . ekājgrahaṇena aṅgam viśeṣayiṣyāmaḥ . ekācaḥ aṅgāt iti . nanu ca ekaikam atra aṅgam . samudāye yā vākyaparisamāptiḥ tasya aṅgasañjñā bhaviṣyati . kutaḥ etat . śāstrāhāneḥ . evam hi śāstram ahīnam bhavati . iḍdīrghapratiṣedhaḥ ca . iṭaḥ dīrghatvasya ca pratiṣedhaḥ vaktavyaḥ . jarīgṛhitā . jarīgṛhitum . grahaḥ aliṭi dīrghaḥ iti dīrghatvam prāpnoti . sthāne punaḥ dvirvacane samudāyasya samudāyaḥ ādeśaḥ . tatra sampramugdhatvāt prakṛtipratyayasya naṣṭaḥ grahiḥ . dviḥprayoge api dvirvacane na doṣaḥ . grahiṇā aṅgam viśeṣayiṣyāmaḥ . graheḥ aṅgāt iti . nanu ca ekaikam atra aṅgam . samudāye yā vākyaparisamāptiḥ tasya aṅgasañjñā bhaviṣyati . kutaḥ etat . śāstrāhāneḥ . evam hi śāstram ahīnam bhavati . padādividhipratiṣedhaḥ ca . padādilakṣaṇa vidheḥ pratiṣedhaḥ vaktavyaḥ . siṣeca . suṣvāpa . sātpadādyoḥ iti ṣatvapratiṣedhaḥ prāpnoti . sthāne punaḥ dvirvacane sati samudāyasya samudāyaḥ ādeśaḥ . tatra sampramugdhatvāt prakṛtipratyayasya naṣṭaḥ saḥ padādiḥ bhavati . dviḥprayoge ca api dvirvacane na doṣaḥ . suptiṅbhyām padam viśeṣayiṣyāmaḥ . yasmāt suptiṅvidhiḥ tadādi subantam tiṅantam ca . nanu ca ekaikasmāt [api atra (R)] suptiṅvidhiḥ . samudāye yā vākyaparisamāptiḥ tayā padasañjñā bhaviṣyati . kutaḥ etat . śāstrāhāneḥ . evam hi śāstram ahīnam bhavati . tau eva suptiṅau tataḥ parau sā eva ca prakṛtiḥ ādyā . ādigrahaṇam prakṛtam . samudāyapadatvam etena .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.