क्अ इइइ।७८।२-१९ रो इव्।४३८-४४१ प्रथम्योः इति उच्यते । कयोः इह प्रथम्योः ग्रहणम् । किम् विभक्त्योः आहोस्वित् प्रत्यययोः । विभक्त्योः इति आह । कथम् ज्ञायते । अचि इति वर्तते न च अजादौ प्रथमौ प्रत्ययौ स्तः । ननु च एवम् विज्ञायते । अजादी यौ प्रथमौ अजादीनाम् वा यौ प्रथमौ इति । यत् तर्हि तस्मात् शसः नः पुंसि इति अनुक्रान्तम् पूर्वसवर्णम् प्रतिनिर्दिशति तत् ज्ञापयति आचार्यः विभक्त्योः ग्रहणम् इति । अथ वा सुपि इति वर्तते । अथम् किमर्थम् पूर्वसवर्णदीर्घः अमि पूर्वत्वम् च उच्यते न प्रथम्योः पूर्वसवर्णः इति एव सिद्धम् । न सिध्यति । प्रथम्योः पूर्वसवर्णः इति उच्यमाने अमि अपि दीर्घः प्राप्नोति । वृक्षम् , प्लक्षम् । न एषः दोषः । यत् पूर्वस्मिन् योगे दीर्घग्रहणम् तत् उत्तरत्र निवृत्तम् । एवम् अपि इदम् इह पूर्वसवर्णग्रहणम् क्रियते । तेन अमि अपि पूर्वसवर्णः प्रसज्येत । वृक्षम् , प्लक्षम् । द्विमात्रः प्राप्नोति । न एषः दोषः । सवर्णग्रहणम् न करिष्यते । यदि सवर्णग्रहणम् न क्रियते कुतः व्यवस्था । आन्तर्यतः । यदि एवम् अग्नी वायू त्रिमात्रः प्राप्नोति वृक्षम् , प्लक्षम् द्विमात्रः । तस्मात् सवर्णग्रहणम् कर्तव्यम् । तस्मिन् च क्रियमाणे दीर्घग्रहणम् अनुवर्तते । तस्मिन् अनुवर्तमाने अमि पूर्वः इति अपि वक्तव्यम् । अथ किमर्थम् पृथक् उच्यते न इह एक एव उच्येत । प्रथमयोः पूर्वसवर्णः अमि च इति । यदि प्रथमयोः पूर्वसवर्णदीर्घः अमि च इति उच्यते तन अमि अपि दीर्घः प्रसज्येत । वृक्षम् , प्लक्षम् । न एषः दोषः । दीर्घग्रहणम् निवर्तयिष्यते । एवम् अपि पूर्वसवर्णः प्रसज्येत । सवर्णग्रहणम् न करिष्यते । यदि सवर्णग्रहणम् न क्रियते पूर्वस्मिन् योगे विप्रतिषिद्धम् । यदि पूर्वः न दीर्घः अथ दीर्घः न पूर्वः । पूर्वः दीर्घः च इति विप्रतिषिद्धम् । तस्मात् उभयम् आरब्धव्यम् पृथक् च कर्तव्यम् ।
KA III.78.2-19 Ro IV.438-441 prathamyoḥ iti ucyate . kayoḥ iha prathamyoḥ grahaṇam . kim vibhaktyoḥ āhosvit pratyayayoḥ . vibhaktyoḥ iti āha . katham jñāyate . aci iti vartate na ca ajādau prathamau pratyayau staḥ . nanu ca evam vijñāyate . ajādī yau prathamau ajādīnām vā yau prathamau iti . yat tarhi tasmāt śasaḥ naḥ puṃsi iti anukrāntam pūrvasavarṇam pratinirdiśati tat jñāpayati ācāryaḥ vibhaktyoḥ grahaṇam iti . atha vā supi iti vartate . atham kimartham pūrvasavarṇadīrghaḥ ami pūrvatvam ca ucyate na prathamyoḥ pūrvasavarṇaḥ iti eva siddham . na sidhyati . prathamyoḥ pūrvasavarṇaḥ iti ucyamāne ami api dīrghaḥ prāpnoti . vṛkṣam , plakṣam . na eṣaḥ doṣaḥ . yat pūrvasmin yoge dīrghagrahaṇam tat uttaratra nivṛttam . evam api idam iha pūrvasavarṇagrahaṇam kriyate . tena ami api pūrvasavarṇaḥ prasajyeta . vṛkṣam , plakṣam . dvimātraḥ prāpnoti . na eṣaḥ doṣaḥ . savarṇagrahaṇam na kariṣyate . yadi savarṇagrahaṇam na kriyate kutaḥ vyavasthā . āntaryataḥ . yadi evam agnī vāyū trimātraḥ prāpnoti vṛkṣam , plakṣam dvimātraḥ . tasmāt savarṇagrahaṇam kartavyam . tasmin ca kriyamāṇe dīrghagrahaṇam anuvartate . tasmin anuvartamāne ami pūrvaḥ iti api vaktavyam . atha kimartham pṛthak ucyate na iha eka eva ucyeta . prathamayoḥ pūrvasavarṇaḥ ami ca iti . yadi prathamayoḥ pūrvasavarṇadīrghaḥ ami ca iti ucyate tana ami api dīrghaḥ prasajyeta . vṛkṣam , plakṣam . na eṣaḥ doṣaḥ . dīrghagrahaṇam nivartayiṣyate . evam api pūrvasavarṇaḥ prasajyeta . savarṇagrahaṇam na kariṣyate . yadi savarṇagrahaṇam na kriyate pūrvasmin yoge vipratiṣiddham . yadi pūrvaḥ na dīrghaḥ atha dīrghaḥ na pūrvaḥ . pūrvaḥ dīrghaḥ ca iti vipratiṣiddham . tasmāt ubhayam ārabdhavyam pṛthak ca kartavyam .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.