क्अ इइइ।८९।७-१९ रो इव्।४६७-४६८ किमर्थः चकारः । प्रकृत्या इति एतत् अनुकृष्यते । किम् प्रयोजनम् । स्वरसन्धिः मा भूत् इति । न एतत् अस्ति प्रयोजनम् । ह्रस्ववचनसार्मर्थ्यात् न भविष्यति । भवेत् दीर्घाणाम् ह्रस्ववचनसार्मर्थ्यात् स्वरसन्धिः न स्यात् । ह्रस्वानाम् तु खलु स्वरसन्धिः प्राप्नोति । ह्रस्वानाम् अपि ह्रस्ववचनसामर्थ्यान् स्वरसन्धिः न भविष्यति । न ह्रस्वानाम् ह्रस्वाः प्राप्नुवन्ति । न हि भुक्तवान् पुनः भुङ्क्ते । न च कृतश्मश्रुः पुनः श्मश्रूनि कारयति । ननु च पुनःप्रवृत्तिः अपि दृष्टा । भुक्तवान् च पुनः भुङ्क्ते कृतश्मश्रुः च पुनः श्मश्रूनि कारयति । सामर्थ्यात् तत्र पुनःप्रवृत्तिः भवति भोजनविशेषात् शिल्पिविशेषात् वा । ह्रस्वाणाम् पुनः ह्रस्ववचने न किम् चित् प्रयोजनम् अस्ति । अकृतकारि खलु अपि शास्त्रम् अग्निवत् । तत् यथा अग्निः यद् अदग्धम् तत् दहति । ह्रस्वाणाम् अपि ह्रस्ववचने एतत् प्रयोजनम् स्वरसन्धिः मा भूत् इति । कृतकारि खलु अपि शास्त्रम् पर्जन्यवत् । तत् यथा पर्जन्यः यावत् ऊनम् पूर्णम् च सर्वम् अभिवर्षयति । इदम् तर्हि प्रयोजनम् । प्लुतप्रगृह्याः अनुकृष्यन्ते । इकः असवर्णे शाकल्यस्य ह्रस्वः च प्लुतप्र्गृह्याः च प्रकृत्या । नित्यग्रहणस्य अपि एतत् प्रयोजनम् उक्तम् । अन्यतरत् शक्यम् अकर्तुम् ।
KA III.89.7-19 Ro IV.467-468 kimarthaḥ cakāraḥ . prakṛtyā iti etat anukṛṣyate . kim prayojanam . svarasandhiḥ mā bhūt iti . na etat asti prayojanam . hrasvavacanasārmarthyāt na bhaviṣyati . bhavet dīrghāṇām hrasvavacanasārmarthyāt svarasandhiḥ na syāt . hrasvānām tu khalu svarasandhiḥ prāpnoti . hrasvānām api hrasvavacanasāmarthyān svarasandhiḥ na bhaviṣyati . na hrasvānām hrasvāḥ prāpnuvanti . na hi bhuktavān punaḥ bhuṅkte . na ca kṛtaśmaśruḥ punaḥ śmaśrūni kārayati . nanu ca punaḥpravṛttiḥ api dṛṣṭā . bhuktavān ca punaḥ bhuṅkte kṛtaśmaśruḥ ca punaḥ śmaśrūni kārayati . sāmarthyāt tatra punaḥpravṛttiḥ bhavati bhojanaviśeṣāt śilpiviśeṣāt vā . hrasvāṇām punaḥ hrasvavacane na kim cit prayojanam asti . akṛtakāri khalu api śāstram agnivat . tat yathā agniḥ yad adagdham tat dahati . hrasvāṇām api hrasvavacane etat prayojanam svarasandhiḥ mā bhūt iti . kṛtakāri khalu api śāstram parjanyavat . tat yathā parjanyaḥ yāvat ūnam pūrṇam ca sarvam abhivarṣayati . idam tarhi prayojanam . plutapragṛhyāḥ anukṛṣyante . ikaḥ asavarṇe śākalyasya hrasvaḥ ca plutaprgṛhyāḥ ca prakṛtyā . nityagrahaṇasya api etat prayojanam uktam . anyatarat śakyam akartum .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.