क्अ इइइ।९१।२२-९४।२ रो इव्।४७१-४७८ कात्पूर्वग्रहणम् किमर्थम् । कात् पूर्वः यथा स्यात् । संस्कर्ता , संस्कर्तुम् । न एतत् अस्ति प्रयोजनम् । सुट् इति आदिलिङ्गः अयम् करोतिः च ककारादिः । तत्र अन्तरेण कात्पूर्वग्रहणम् कात् पूर्वः एव भविष्यति । अतः उत्तरम् पठति सुटि कात्पूर्ववचनम् अककारादौ कात्पूर्वार्थम् । सुटि कात्पूर्ववचनम् क्रियते अककारादौ कात्पूर्वः यथा स्यात् । सञ्चस्करतुः , सञ्चस्करुः । सुटि कात्पूर्ववचनम् अककारादौ कात्पूर्वार्थम् इति चेत् अन्तरेण अपि तत् सिद्धम् । सुटि कात्पूर्ववचनम् अककारादौ कात्पूर्वार्थम् इति चेत् अन्तरेण अपि कात्पूर्वग्रहणम् सिद्धम् । कथम् । द्विर्वचनात् सुट् विप्रतिषेधेन । द्विर्वचनम् क्रियताम् सुट् इति सुट् भविष्यति विप्रतिषेधेन । तत्र द्विर्वचनम् भवति इति अस्य अवकाशः बिभिदतुः , बिभिदुः । सुटः अवकाशः संस्कर्ता , संस्कर्तुम् । इह उभयम् प्राप्नोति सञ्चस्करतुः , सञ्चस्करुः । सुट् भवति विप्रतिषेधेन । द्विर्वचनात् सुट् विप्रतिषेधेन इति चेत् द्विर्भूते शब्दान्तरभावात् पुनः प्रसङ्गः । द्विर्वचनात् सुट् विप्रतिषेधेन इति चेत् द्विर्भूते शब्दान्तरस्य अकृतः सुट् इति पुनः सुट् स्यात् । द्विर्भूते शब्दान्तरभावात् पुनः प्रसङ्गः इति चेत् द्विर्वचनम् । सुटि कृते शब्दान्तरस्य अकृतम् द्विर्वचनम् इति पुनः द्विर्वचनम् प्राप्नोति । तथा च अनवस्था । पुनः सुट् पुनः द्विर्वचनम् इति चक्रकम् अनवस्था प्रसज्येत । न अस्ति चक्रकप्रसङ्गः । न हि अनवस्थाकारिणा शास्त्रेण भवितव्यम् । शास्त्रतः हि नाम व्यवस्थात् । तत्र सुटि कृते द्विर्वचनम् । द्विर्वचनेन अवस्थानम् भविष्यति । अड्व्यवाये उपसङ्ख्यानम् । अड्व्यवाये उपसङ्ख्यानम् कर्तव्यम् । समस्करोत् , समस्कार्षीत् । अभ्यासव्यवाये च । अभ्यासव्यवाये च उपसङ्ख्यानम् कर्तव्यम् । सञ्चस्करतुः , सञ्चस्करुः । किम् उच्यते अभ्यासव्यवाये इति यदा इदानीम् एव उक्तम् द्विर्वचनात् सुट् विप्रतिषेधेन इति । अविप्रतिषेधः वा बहिरङ्गलक्षणत्वात् । अविप्रतिषेधः वा पुनः सुटः । किम् कारणम् । बहिरङ्गलक्षणत्वात् । बहिरङ्गलक्षणः सुट् । अन्तरङ्गम् द्विर्वचनम् । असिद्धम् बहिरङ्गम् अन्तरङ्गे । एवमर्थम् एव तर्हि कात्पूर्वग्रहणम् कर्तव्यम् कात् पूर्वः यथा स्यात् । क्रियमाणे अपि वै कात्पूर्वग्रहणे अत्र न सिध्यति । न हि अयम् कात्पूर्वग्रहणेन शक्यः मध्ये प्रवेशयितुम् । किम् कारणम् । आदिलिङ्गः अयम् क्रियते करोतिः च ककारादिः दृष्टः च ल्पुनः आतिदेशिकः करोतिः अककारादिः । पाक्षिकः अयम् दोषः । कतरस्मिन् पक्षे । सुड्विधौ द्वैतम् भवति । अविशेषेण वा विहितस्य सुटः कात्पूर्वग्रहणम् देशप्रकॢप्त्यर्थम् स्यात् विशेषेण वा विधिः इति । द्विर्वचनविधौ च अपि द्वैतम् भवति । स्थाने द्विर्वचनम् स्यात् द्विः प्रयोगः वा द्विर्वचनम् इति । तत् यदा द्विः प्रयोगः द्विर्वचनम् अविशेषेण विहितस्य च सुटः कात्पूर्वग्रहणम् देशप्रकॢप्त्यर्थम् तदा एषः दोषः । यदा हि स्थाने द्विर्वचनम् तदा यदि अविशेषेण विहितस्य सुटः कात्पूर्वग्रहणम् देशप्रकॢप्त्यर्थम् अथ अपि विशेषविधिः न तदा दोषः भवति । द्विःप्रयोगे च अपि द्विर्वचने न दोषः । सम्परिभ्याम् इति न एषा पञ्चमी । का तर्हि । तृतीया । सम्परिभ्याम् उपसृष्टस्य इति । व्यवहितः च अपि उपसृष्टः भवति । उपदेशिवद्वचनम् च । उपदेशिवद्भावः च वक्तव्यः । किम् प्रयोजनम् । लिटिगुणचङिदीर्घप्रतिषेधार्थम् । लिटि गुणार्थम् चङि दीर्घप्रतिषेधार्थम् । लिटि गुणार्थम् तावत् । सञ्चस्करतुः , सञ्चस्करुः । चङि दीर्घप्रतिषेधार्थम् च । समचिस्करत् । लिटि गुणार्थेन तावत् न अर्थः । वक्ष्यति एतत् संयोगादेः गुणविधाने संयोगोपधाग्रहणम् कृञर्थम् इति । चङि दीर्घप्रतिषेधेन अपि न अर्थः । पदम् इति इयम् भगवतः कृत्रिमा सञ्ज्ञा । युक्तम् इह द्रष्टव्यम् । किम् अन्तरङ्गम् किम् बहिरङ्गम् इति । धातूपसर्गयोः कार्यम् यत् तत् अन्तरङ्गम् । कुतः एतत् । पूर्वम् हि धातुः उपसर्गेण युज्यते पश्चात् साधनेन । न एतत् सारम् । पूर्वम् धातुः साधनेन युज्यते पश्चात् उपसर्गेण । साधनम् हि क्रियाम् निर्वर्तयति । ताम् उपसर्गः विशिनष्ति । अभिनिर्वृत्तस्य च अर्थस्य उपसर्गेण विशेषः शक्यम् कर्तूम् । सत्यम् एवम् एतत् । यः तु असौ धातूपसर्गयोः अभिसम्बन्धः तम् अभ्यन्तरम् कृत्वा धातुः साधनेन युज्यते । अवश्यम् च एतत् एवम् विज्ञेयम् । यः हि मन्यते पूर्वम् धातुः साधनेन युज्यते पश्चात् उपसर्गेण इति तस्य आस्यते गुरुणा इति
KA III.91.22-94.2 Ro IV.471-478 kātpūrvagrahaṇam kimartham . kāt pūrvaḥ yathā syāt . saṃskartā , saṃskartum . na etat asti prayojanam . suṭ iti ādiliṅgaḥ ayam karotiḥ ca kakārādiḥ . tatra antareṇa kātpūrvagrahaṇam kāt pūrvaḥ eva bhaviṣyati . ataḥ uttaram paṭhati suṭi kātpūrvavacanam akakārādau kātpūrvārtham . suṭi kātpūrvavacanam kriyate akakārādau kātpūrvaḥ yathā syāt . sañcaskaratuḥ , sañcaskaruḥ . suṭi kātpūrvavacanam akakārādau kātpūrvārtham iti cet antareṇa api tat siddham . suṭi kātpūrvavacanam akakārādau kātpūrvārtham iti cet antareṇa api kātpūrvagrahaṇam siddham . katham . dvirvacanāt suṭ vipratiṣedhena . dvirvacanam kriyatām suṭ iti suṭ bhaviṣyati vipratiṣedhena . tatra dvirvacanam bhavati iti asya avakāśaḥ bibhidatuḥ , bibhiduḥ . suṭaḥ avakāśaḥ saṃskartā , saṃskartum . iha ubhayam prāpnoti sañcaskaratuḥ , sañcaskaruḥ . suṭ bhavati vipratiṣedhena . dvirvacanāt suṭ vipratiṣedhena iti cet dvirbhūte śabdāntarabhāvāt punaḥ prasaṅgaḥ . dvirvacanāt suṭ vipratiṣedhena iti cet dvirbhūte śabdāntarasya akṛtaḥ suṭ iti punaḥ suṭ syāt . dvirbhūte śabdāntarabhāvāt punaḥ prasaṅgaḥ iti cet dvirvacanam . suṭi kṛte śabdāntarasya akṛtam dvirvacanam iti punaḥ dvirvacanam prāpnoti . tathā ca anavasthā . punaḥ suṭ punaḥ dvirvacanam iti cakrakam anavasthā prasajyeta . na asti cakrakaprasaṅgaḥ . na hi anavasthākāriṇā śāstreṇa bhavitavyam . śāstrataḥ hi nāma vyavasthāt . tatra suṭi kṛte dvirvacanam . dvirvacanena avasthānam bhaviṣyati . aḍvyavāye upasaṅkhyānam . aḍvyavāye upasaṅkhyānam kartavyam . samaskarot , samaskārṣīt . abhyāsavyavāye ca . abhyāsavyavāye ca upasaṅkhyānam kartavyam . sañcaskaratuḥ , sañcaskaruḥ . kim ucyate abhyāsavyavāye iti yadā idānīm eva uktam dvirvacanāt suṭ vipratiṣedhena iti . avipratiṣedhaḥ vā bahiraṅgalakṣaṇatvāt . avipratiṣedhaḥ vā punaḥ suṭaḥ . kim kāraṇam . bahiraṅgalakṣaṇatvāt . bahiraṅgalakṣaṇaḥ suṭ . antaraṅgam dvirvacanam . asiddham bahiraṅgam antaraṅge . evamartham eva tarhi kātpūrvagrahaṇam kartavyam kāt pūrvaḥ yathā syāt . kriyamāṇe api vai kātpūrvagrahaṇe atra na sidhyati . na hi ayam kātpūrvagrahaṇena śakyaḥ madhye praveśayitum . kim kāraṇam . ādiliṅgaḥ ayam kriyate karotiḥ ca kakārādiḥ dṛṣṭaḥ ca lpunaḥ ātideśikaḥ karotiḥ akakārādiḥ . pākṣikaḥ ayam doṣaḥ . katarasmin pakṣe . suḍvidhau dvaitam bhavati . aviśeṣeṇa vā vihitasya suṭaḥ kātpūrvagrahaṇam deśaprakḷptyartham syāt viśeṣeṇa vā vidhiḥ iti . dvirvacanavidhau ca api dvaitam bhavati . sthāne dvirvacanam syāt dviḥ prayogaḥ vā dvirvacanam iti . tat yadā dviḥ prayogaḥ dvirvacanam aviśeṣeṇa vihitasya ca suṭaḥ kātpūrvagrahaṇam deśaprakḷptyartham tadā eṣaḥ doṣaḥ . yadā hi sthāne dvirvacanam tadā yadi aviśeṣeṇa vihitasya suṭaḥ kātpūrvagrahaṇam deśaprakḷptyartham atha api viśeṣavidhiḥ na tadā doṣaḥ bhavati . dviḥprayoge ca api dvirvacane na doṣaḥ . samparibhyām iti na eṣā pañcamī . kā tarhi . tṛtīyā . samparibhyām upasṛṣṭasya iti . vyavahitaḥ ca api upasṛṣṭaḥ bhavati . upadeśivadvacanam ca . upadeśivadbhāvaḥ ca vaktavyaḥ . kim prayojanam . liṭiguṇacaṅidīrghapratiṣedhārtham . liṭi guṇārtham caṅi dīrghapratiṣedhārtham . liṭi guṇārtham tāvat . sañcaskaratuḥ , sañcaskaruḥ . caṅi dīrghapratiṣedhārtham ca . samaciskarat . liṭi guṇārthena tāvat na arthaḥ . vakṣyati etat saṃyogādeḥ guṇavidhāne saṃyogopadhāgrahaṇam kṛñartham iti . caṅi dīrghapratiṣedhena api na arthaḥ . padam iti iyam bhagavataḥ kṛtrimā sañjñā . yuktam iha draṣṭavyam . kim antaraṅgam kim bahiraṅgam iti . dhātūpasargayoḥ kāryam yat tat antaraṅgam . kutaḥ etat . pūrvam hi dhātuḥ upasargeṇa yujyate paścāt sādhanena . na etat sāram . pūrvam dhātuḥ sādhanena yujyate paścāt upasargeṇa . sādhanam hi kriyām nirvartayati . tām upasargaḥ viśinaṣti . abhinirvṛttasya ca arthasya upasargeṇa viśeṣaḥ śakyam kartūm . satyam evam etat . yaḥ tu asau dhātūpasargayoḥ abhisambandhaḥ tam abhyantaram kṛtvā dhātuḥ sādhanena yujyate . avaśyam ca etat evam vijñeyam . yaḥ hi manyate pūrvam dhātuḥ sādhanena yujyate paścāt upasargeṇa iti tasya āsyate guruṇā iti
Sanskrit only: no published translation is held for this verse.