क्अ इइइ।५२।२-५३।६ रो इव्।३८९-३९१ इग्ग्रहणम् किमर्थम् । इह मा भूत् । अग्निचित् अत्र , सोमसुत् अत्र । न एतत् अस्ति प्रयोजनम् । जश्त्वम् अत्र बाधकम् भविष्यति । जश्त्वम् न सिद्धम् यणम् अत्र पश्य । असिद्धम् अत्र जश्त्वम् । तस्य असिद्धत्वात् यणादेशः प्राप्नोति । यः च अपदान्तः हल् अचः च पूर्वः । यः च अपदान्तः हल् अचः च पूर्वः तस्य प्राप्नोति । पचति इति । एवम् तर्हि दीर्घस्य यण् । दीर्घस्य यण् आदेशम् वक्ष्यामि । तत् दीर्घग्रहणम् कर्तव्यम् । न कर्तव्यम् । प्रकृतम् अनुवर्तते । क्व प्रकृतम् । दीर्घात् पदान्तात् वा इति । तत् वै पञ्चमीनिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः । अचि इति एषा सप्तमी दीर्घात् इति पञ्चम्याः षष्ठीम् प्रकल्पयिष्यति तस्मिन् इति निर्दिष्टे पूर्वस्य इति । भवेत् सिद्धम् कुमारी अत्र , ब्रह्मबन्ध्वर्थम् इति । इदम् तु न सिध्यति । दधि अत्र , मधु अत्र इति । ह्रस्वः इति प्र्तवृत्तम् । ह्रस्वग्रहणम् अपि प्रकृतम् अनुवर्तते । क्व प्रकृतम् । ह्रस्व्यस्य पिति कृति तुक् इति । यदि तत् अनुवर्तते दीर्घात् पदान्तात् वा इति ह्रस्वात् अपि पदान्तात् विकल्पेन प्राप्नोति । सम्बन्धवृत्त्या । सम्बन्धम् अनुवर्तिष्यते । ह्रस्व्यस्य पिति कृति तुक् । संहितायाम् ह्रस्व्यस्य पिति कृति तुक् । छे च ह्रस्व्यस्य पिति कृति तुक् । आङ्माङोः च ह्रस्व्यस्य पिति कृति तुक् । दीर्घात् पदान्तात् वा ह्रस्व्यस्य पिति कृति तुक् । ततः इकः यण् अचि । ह्रस्व्यस्य इति वर्तते । पिति कृति तुक् इति निवृत्तम् । इह तर्हि प्राप्नोति चयनम् , चायकः , लवणम् , लावकः । अयादयः अत्र बाधकाः भविष्यन्ति । इह तर्हि प्राप्नोति खट्वा इन्द्रः , माला इन्द्रः , खट्वा एलका , माला एलका । गुणवृद्धिबाध्यः । गुणवृद्धी अत्र बाधिके भविष्यतः । इदम् तर्हि प्रयोजनम् । इकः अचि यण् एव स्यात् । यत् अन्यत् प्राप्नोति तत् मा भूत् इति । किम् च अन्यत् प्राप्नोति । शाकलम् । सिन्नित्यसमासयोः शाकलप्रतिषेधम् चोदयिष्यति । स न वक्तव्यः भवति ।
KA III.52.2-53.6 Ro IV.389-391 iggrahaṇam kimartham . iha mā bhūt . agnicit atra , somasut atra . na etat asti prayojanam . jaśtvam atra bādhakam bhaviṣyati . jaśtvam na siddham yaṇam atra paśya . asiddham atra jaśtvam . tasya asiddhatvāt yaṇādeśaḥ prāpnoti . yaḥ ca apadāntaḥ hal acaḥ ca pūrvaḥ . yaḥ ca apadāntaḥ hal acaḥ ca pūrvaḥ tasya prāpnoti . pacati iti . evam tarhi dīrghasya yaṇ . dīrghasya yaṇ ādeśam vakṣyāmi . tat dīrghagrahaṇam kartavyam . na kartavyam . prakṛtam anuvartate . kva prakṛtam . dīrghāt padāntāt vā iti . tat vai pañcamīnirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ . aci iti eṣā saptamī dīrghāt iti pañcamyāḥ ṣaṣṭhīm prakalpayiṣyati tasmin iti nirdiṣṭe pūrvasya iti . bhavet siddham kumārī atra , brahmabandhvartham iti . idam tu na sidhyati . dadhi atra , madhu atra iti . hrasvaḥ iti prtavṛttam . hrasvagrahaṇam api prakṛtam anuvartate . kva prakṛtam . hrasvyasya piti kṛti tuk iti . yadi tat anuvartate dīrghāt padāntāt vā iti hrasvāt api padāntāt vikalpena prāpnoti . sambandhavṛttyā . sambandham anuvartiṣyate . hrasvyasya piti kṛti tuk . saṃhitāyām hrasvyasya piti kṛti tuk . che ca hrasvyasya piti kṛti tuk . āṅmāṅoḥ ca hrasvyasya piti kṛti tuk . dīrghāt padāntāt vā hrasvyasya piti kṛti tuk . tataḥ ikaḥ yaṇ aci . hrasvyasya iti vartate . piti kṛti tuk iti nivṛttam . iha tarhi prāpnoti cayanam , cāyakaḥ , lavaṇam , lāvakaḥ . ayādayaḥ atra bādhakāḥ bhaviṣyanti . iha tarhi prāpnoti khaṭvā indraḥ , mālā indraḥ , khaṭvā elakā , mālā elakā . guṇavṛddhibādhyaḥ . guṇavṛddhī atra bādhike bhaviṣyataḥ . idam tarhi prayojanam . ikaḥ aci yaṇ eva syāt . yat anyat prāpnoti tat mā bhūt iti . kim ca anyat prāpnoti . śākalam . sinnityasamāsayoḥ śākalapratiṣedham codayiṣyati . sa na vaktavyaḥ bhavati .
Sanskrit only: no published translation is held for this verse.