क्अ इइइ।१२३।५-२१ रो इव्।५४२-५४३ तत्पुरुषे विभक्तिप्रकृतिस्वरत्वे कर्मधारये प्रतिषेधः । तत्पुरुषे विभक्तिप्रकृतिस्वरत्वे कर्मधारये प्रतिषेधः वक्तव्यः । परमम् कारकम् परमकारकम् परमेन कारकेण परमकारकेण , परमे कारके परमकारके । सिद्धम् तु लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव ग्रहणात् । सिद्धम् एतत् । कथम् । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति प्रतिपदम् यः द्वितीयातृतीयासप्तमीसमासः तस्य ग्रहणम् लक्षणोक्तः च अयम् । अव्यये परिगणनम् कर्तव्यम् । अव्यये नञ्कुनिपातानाम् । अव्यये नञ्कुनिपातानाम् इति वक्तव्यम् । नञ् । अब्राह्मणः , अवृषलः । नञ् । कु । कुब्राह्मणः , कुवृषलः । कु । निपात । निष्कौशाम्बिः , निर्वाराणसिः । क्व मा भूत् । स्नात्वाकालकः , पीत्वास्थिरकः । क्त्वायाम् वा प्रतिषेधः । क्त्वायाम् वा प्रतिषेधः वक्तव्यः । स्नात्वाकालकः , पीत्वास्थिरकः । उभयम् न वक्तव्यम् । निपातनात् सिद्धम् । निपातनात् एतत् सिद्धम् । किम् निपातनम् । अवश्यम् अत्र समासार्थम् ल्यबभावार्थम् च निपातनम् कर्तव्यम् । तेन एव यत्नेन स्वरः भविष्यति ।
KA III.123.5-21 Ro IV.542-543 tatpuruṣe vibhaktiprakṛtisvaratve karmadhāraye pratiṣedhaḥ . tatpuruṣe vibhaktiprakṛtisvaratve karmadhāraye pratiṣedhaḥ vaktavyaḥ . paramam kārakam paramakārakam paramena kārakeṇa paramakārakeṇa , parame kārake paramakārake . siddham tu lakṣaṇapratipadoktayoḥ pratipadoktasya eva grahaṇāt . siddham etat . katham . lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti pratipadam yaḥ dvitīyātṛtīyāsaptamīsamāsaḥ tasya grahaṇam lakṣaṇoktaḥ ca ayam . avyaye parigaṇanam kartavyam . avyaye nañkunipātānām . avyaye nañkunipātānām iti vaktavyam . nañ . abrāhmaṇaḥ , avṛṣalaḥ . nañ . ku . kubrāhmaṇaḥ , kuvṛṣalaḥ . ku . nipāta . niṣkauśāmbiḥ , nirvārāṇasiḥ . kva mā bhūt . snātvākālakaḥ , pītvāsthirakaḥ . ktvāyām vā pratiṣedhaḥ . ktvāyām vā pratiṣedhaḥ vaktavyaḥ . snātvākālakaḥ , pītvāsthirakaḥ . ubhayam na vaktavyam . nipātanāt siddham . nipātanāt etat siddham . kim nipātanam . avaśyam atra samāsārtham lyababhāvārtham ca nipātanam kartavyam . tena eva yatnena svaraḥ bhaviṣyati .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.