क्अ इइइ।१२९।४-२१ रो इव्।५५६-५५७ अनिगन्तप्रकृतिस्वरत्वे यणादेशे प्रकृतिस्वरभावप्रसङ्गः । अनिगन्तप्रकृतिस्वरत्वे यणादेशे प्रकृतिस्वरभावः प्राप्नोति । प्रत्यङ् प्रत्यञ्चौ प्रत्यञ्चः । अनिगन्तवचनम् इदानीम् किमर्थम् स्यात् । अनिगन्तवचनम् किमर्थम् इति चेत् अयणादिष्टार्थम् । अयणादिष्टार्थम् एतत् स्यात् । यदा यणादेशः न । कदा च यणादेशः न । यादा शाकलम् । उक्तम् वा । किम् उक्तम् । समासे शाकलम् न भवति इति । यत्र तर्हि अञ्चतेः अकारः लुप्यते : प्रतीचः प्रतीइचा । चुस्वरः तत्र बाधकः भविष्यति । अयम् एव इष्यते । वक्ष्यति हि एतत् : चोः अनिगन्तः अञ्चतौ वप्रत्यये इति । यत् तर्हि न्यध्योः प्रकृतिस्वरम् शास्ति । एषः हि यणादिष्टार्थः आरम्भः । एतत् अपि अयणादिष्टार्थम् एव स्यात् । यदा यणादेशः न । कदा च यणादेशः न । यादा शाकलम् । उक्तम् वा । किम् उक्तम् । समासे शाकलम् न भवति इति । यत्र तर्हि अञ्चतेः अकारः लुप्यते । अधीचः अधीचा । चुस्वरः तत्र बाधकः भविष्यति । अयम् एव इष्यते । वक्ष्यति हे एतत् चोः अनिगन्तः अञ्चतौ वप्रत्यये इति । यत् तर्हि नेः एव प्रकृतिस्वरम् शास्ति । एषः हि यणादिष्टार्थः आरम्भः । एतत् अपि अयणादिष्टार्थम् एव स्यात् । कथम् । अकृते यणादेश पूर्वपदप्रकृतिस्वरत्वे कृते उदात्तस्वरितोः यणः स्वरितः वा अनुदात्तस्य इति एषः स्वरः सिद्धः भवति । न्यङ् । तस्मात् सुष्ठु उच्यते अनिगन्तप्रकृतिस्वरत्वे यणादेशे प्रकृतिस्वरभावप्रसङ्गः इति ।
KA III.129.4-21 Ro IV.556-557 anigantaprakṛtisvaratve yaṇādeśe prakṛtisvarabhāvaprasaṅgaḥ . anigantaprakṛtisvaratve yaṇādeśe prakṛtisvarabhāvaḥ prāpnoti . pratyaṅ pratyañcau pratyañcaḥ . anigantavacanam idānīm kimartham syāt . anigantavacanam kimartham iti cet ayaṇādiṣṭārtham . ayaṇādiṣṭārtham etat syāt . yadā yaṇādeśaḥ na . kadā ca yaṇādeśaḥ na . yādā śākalam . uktam vā . kim uktam . samāse śākalam na bhavati iti . yatra tarhi añcateḥ akāraḥ lupyate : pratīcaḥ pratīicā . cusvaraḥ tatra bādhakaḥ bhaviṣyati . ayam eva iṣyate . vakṣyati hi etat : coḥ anigantaḥ añcatau vapratyaye iti . yat tarhi nyadhyoḥ prakṛtisvaram śāsti . eṣaḥ hi yaṇādiṣṭārthaḥ ārambhaḥ . etat api ayaṇādiṣṭārtham eva syāt . yadā yaṇādeśaḥ na . kadā ca yaṇādeśaḥ na . yādā śākalam . uktam vā . kim uktam . samāse śākalam na bhavati iti . yatra tarhi añcateḥ akāraḥ lupyate . adhīcaḥ adhīcā . cusvaraḥ tatra bādhakaḥ bhaviṣyati . ayam eva iṣyate . vakṣyati he etat coḥ anigantaḥ añcatau vapratyaye iti . yat tarhi neḥ eva prakṛtisvaram śāsti . eṣaḥ hi yaṇādiṣṭārthaḥ ārambhaḥ . etat api ayaṇādiṣṭārtham eva syāt . katham . akṛte yaṇādeśa pūrvapadaprakṛtisvaratve kṛte udāttasvaritoḥ yaṇaḥ svaritaḥ vā anudāttasya iti eṣaḥ svaraḥ siddhaḥ bhavati . nyaṅ . tasmāt suṣṭhu ucyate anigantaprakṛtisvaratve yaṇādeśe prakṛtisvarabhāvaprasaṅgaḥ iti .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.