Library·Patanjali: Vyakaranamahabhasya·6·6.3·6.3.1

Patanjali: Vyakaranamahabhasya 6.3.1

क्अ इइइ।१४१।१२-१४२।९ रो इव्।५८२-५८४ एकवत् च अलुक् भवति इति वक्तव्यम् । किम् प्रयोजनम् । स्तोकाभ्याम् मुक्तः , स्तोकेभ्यः मुक्तः इति विगृह्य स्तोकान्मुक्तः इति एव यथा स्यात् । एकवद्व्चनम् अनर्थकम् । एकवद्भावः च अनर्थकः । द्विबह्वोः अलुक् कस्मात् न भवति । द्विबहुषु असमासः । द्विवचनबहुवचनानाम् असमासः । किम् वक्तव्यम् एतत् । न हि अनुच्यमानं गंस्यते । उक्तम् वा । किम् उक्तम् । अनभिधानात् इति । तत् च अवश्यम् अनभिधानम् आश्रयितव्यम् । एकवद्वचने हि गोषुचरे अतिप्रसङ्गः । एकवद्वचने हि गोषुचरे अतिप्रसङ्गः स्यात् : गोषुचरः । वर्षाभ्यः च जे । वर्षाभ्यः च जे अतिप्रसङ्गः भवति । वर्षासुजः । अपः योनियन्मतिषु च । अपः योनियन्मतिषु च उपसङ्ख्यानम् कर्तव्यम् । जे चरे च । जे चरे च अतिप्रसङ्गः भवति । योनि । अप्सुयोनिः । यत् । अप्सव्यम् । मति । अप्सुमतिः । जे । अप्सुजः । चरे । अप्सुचरः गह्वरेष्ठाः ।

KA III.141.12-142.9 Ro IV.582-584 ekavat ca aluk bhavati iti vaktavyam . kim prayojanam . stokābhyām muktaḥ , stokebhyaḥ muktaḥ iti vigṛhya stokānmuktaḥ iti eva yathā syāt . ekavadvcanam anarthakam . ekavadbhāvaḥ ca anarthakaḥ . dvibahvoḥ aluk kasmāt na bhavati . dvibahuṣu asamāsaḥ . dvivacanabahuvacanānām asamāsaḥ . kim vaktavyam etat . na hi anucyamānaṃ gaṃsyate . uktam vā . kim uktam . anabhidhānāt iti . tat ca avaśyam anabhidhānam āśrayitavyam . ekavadvacane hi goṣucare atiprasaṅgaḥ . ekavadvacane hi goṣucare atiprasaṅgaḥ syāt : goṣucaraḥ . varṣābhyaḥ ca je . varṣābhyaḥ ca je atiprasaṅgaḥ bhavati . varṣāsujaḥ . apaḥ yoniyanmatiṣu ca . apaḥ yoniyanmatiṣu ca upasaṅkhyānam kartavyam . je care ca . je care ca atiprasaṅgaḥ bhavati . yoni . apsuyoniḥ . yat . apsavyam . mati . apsumatiḥ . je . apsujaḥ . care . apsucaraḥ gahvareṣṭhāḥ .

Sanskrit only: no published translation is held for this verse.