क्अ इइइ।१७३।१९-१७४।१५ रो इव्।६५२-६५४ पृषोदरादीनि इति उच्यते । कानि पृषोदरादीनि । पृषोदरप्रकाराणि । कानि पुनः पृषोदरप्रकाराणि । येषु लोपागमविकाराः श्रूयन्ते न च उच्यन्ते । अथ यथा इति किम् इदम् । प्रकारवचने थाल् । अथ किम् इदम् उपदिष्टानि इति । उच्चारितानि । कुतः एतत् । दिशिः उच्चारणक्रियः । उच्चार्य हि वर्णान् आह उप्दिष्टाः इमे वर्णाः इति । कैः पुनः उपदिष्टाः । शिष्टैः । के पुनः शिष्टाः । वैयाकरणाः । कुतः एतत् । शास्त्रपूर्विका हि शिष्टिः वैयाकरणाः च शास्त्रज्ञाः । यदि तर्हि शास्त्रपूर्विका शिष्टिः शिष्टिपूर्वकम् च शास्त्रम् तत् इतरेतराश्रयम् भवति । इतरेतराश्रयाणि च न प्रकल्पन्ते । एवम् तर्हि निवासतः आचारतः च । सः च आचारः आर्यावर्त्ते एव । कः पुनः आर्यावर्त्तः । प्राक् आदर्शात् [र् अदर्शनात्] प्रत्यक् कालकवनात् दक्षिणेन हिमवन्तम् उत्तरेण पारियात्रम् । एतस्मिन् आर्यनिवासे ये ब्राह्मणाः कुम्भीधान्याः अलोलुपाः अगृह्यमाणकारणाः किम् चित् अन्तरेण कस्याः चित् विद्यायाः पारगाः तत्रभवन्तः शिष्टाः । यदि तर्हि शिष्टाः शब्देषु प्रमाणम् किम् अष्टाध्याय्या क्रियते । शिष्टज्ञानार्था अष्टाध्यायी । कथम् पुनः अष्टाध्याय्या शिष्टाः शक्याः विज्ञातुम् । अष्टाध्यायीम् अधीयानः अन्यम् पश्यति अनधीयानम् ये अत्र विहिताः शब्दाः तान् प्रयुञ्जानम् । सः पश्यति । नूनम् अस्य दैवानुग्रहः स्वभावः वा यः अयम् न च अष्टाध्यायीम् अधीते ये च अस्यम् विहिताः शब्दाः तान् प्रयुङ्क्ते । नूनम् अयम् अन्यान् अपि जानाति । एवम् एषा शिष्टज्ञानार्था अष्टाध्यायी ।
KA III.173.19-174.15 Ro IV.652-654 pṛṣodarādīni iti ucyate . kāni pṛṣodarādīni . pṛṣodaraprakārāṇi . kāni punaḥ pṛṣodaraprakārāṇi . yeṣu lopāgamavikārāḥ śrūyante na ca ucyante . atha yathā iti kim idam . prakāravacane thāl . atha kim idam upadiṣṭāni iti . uccāritāni . kutaḥ etat . diśiḥ uccāraṇakriyaḥ . uccārya hi varṇān āha updiṣṭāḥ ime varṇāḥ iti . kaiḥ punaḥ upadiṣṭāḥ . śiṣṭaiḥ . ke punaḥ śiṣṭāḥ . vaiyākaraṇāḥ . kutaḥ etat . śāstrapūrvikā hi śiṣṭiḥ vaiyākaraṇāḥ ca śāstrajñāḥ . yadi tarhi śāstrapūrvikā śiṣṭiḥ śiṣṭipūrvakam ca śāstram tat itaretarāśrayam bhavati . itaretarāśrayāṇi ca na prakalpante . evam tarhi nivāsataḥ ācārataḥ ca . saḥ ca ācāraḥ āryāvartte eva . kaḥ punaḥ āryāvarttaḥ . prāk ādarśāt [R adarśanāt] pratyak kālakavanāt dakṣiṇena himavantam uttareṇa pāriyātram . etasmin āryanivāse ye brāhmaṇāḥ kumbhīdhānyāḥ alolupāḥ agṛhyamāṇakāraṇāḥ kim cit antareṇa kasyāḥ cit vidyāyāḥ pāragāḥ tatrabhavantaḥ śiṣṭāḥ . yadi tarhi śiṣṭāḥ śabdeṣu pramāṇam kim aṣṭādhyāyyā kriyate . śiṣṭajñānārthā aṣṭādhyāyī . katham punaḥ aṣṭādhyāyyā śiṣṭāḥ śakyāḥ vijñātum . aṣṭādhyāyīm adhīyānaḥ anyam paśyati anadhīyānam ye atra vihitāḥ śabdāḥ tān prayuñjānam . saḥ paśyati . nūnam asya daivānugrahaḥ svabhāvaḥ vā yaḥ ayam na ca aṣṭādhyāyīm adhīte ye ca asyam vihitāḥ śabdāḥ tān prayuṅkte . nūnam ayam anyān api jānāti . evam eṣā śiṣṭajñānārthā aṣṭādhyāyī .
Sanskrit only: no published translation is held for this verse.