क्अ इइइ।१४६।१८-१४७।७ रो इव्।५९४ षष्ठीप्रकरणे वाग्दिक्पश्यद्भ्यः युक्तिदण्डहरेषु उपसङ्ख्यानम् । षष्ठीप्रकरणे वाग्दिक्पश्यद्भ्यः युक्तिदण्डहरेषु उपसङ्ख्यानम् कर्तव्यम् । वाचोयुक्तिः , दिशोदण्डः , पश्यतोहरः । आमुष्यायणामुष्य्पुत्रिका इति उपसङ्ख्यानम् । आमुष्यायणामुष्य्पुत्रिका इति उपसङ्ख्यानम् कर्तव्यम् । आमुष्यायणः , आमुष्यपुत्रिका । आमुष्यकुलिका इति च वक्तव्यम् । आमुष्यकुलिका । देवानाम्प्रियः इति च । देवानाम्प्रियः इति च उपसङ्ख्यानम् कर्तव्यम् । देवानाम्प्रियः । शेपपुच्छलाङ्गूलेषु शुनः सञ्ज्ञायाम् । शेपपुच्छलाङ्गूलेषु शुनः सञ्ज्ञायाम् उपसङ्ख्यानम् कर्तव्यम् । शुनःशेफः , शुनःपुच्छः , शुनोलाङ्गूलः । दिवः च दासे । दिवः च दासे उपसङ्ख्यानम् कर्तव्यम् । दिवोदासाय गायत ।
KA III.146.18-147.7 Ro IV.594 ṣaṣṭhīprakaraṇe vāgdikpaśyadbhyaḥ yuktidaṇḍahareṣu upasaṅkhyānam . ṣaṣṭhīprakaraṇe vāgdikpaśyadbhyaḥ yuktidaṇḍahareṣu upasaṅkhyānam kartavyam . vācoyuktiḥ , diśodaṇḍaḥ , paśyatoharaḥ . āmuṣyāyaṇāmuṣyputrikā iti upasaṅkhyānam . āmuṣyāyaṇāmuṣyputrikā iti upasaṅkhyānam kartavyam . āmuṣyāyaṇaḥ , āmuṣyaputrikā . āmuṣyakulikā iti ca vaktavyam . āmuṣyakulikā . devānāmpriyaḥ iti ca . devānāmpriyaḥ iti ca upasaṅkhyānam kartavyam . devānāmpriyaḥ . śepapucchalāṅgūleṣu śunaḥ sañjñāyām . śepapucchalāṅgūleṣu śunaḥ sañjñāyām upasaṅkhyānam kartavyam . śunaḥśephaḥ , śunaḥpucchaḥ , śunolāṅgūlaḥ . divaḥ ca dāse . divaḥ ca dāse upasaṅkhyānam kartavyam . divodāsāya gāyata .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.