क्अ इइइ।१५६।२-६ रो इव्।६१४ मनिन्ग्रहणम् किमर्थम् । मानिन्ग्रहणम् अस्त्र्यर्थम् असमानाधिकरणार्थम् च । मानिन्ग्रहणम् क्रियते अस्त्र्यर्थम् असमानाधिकरणार्थम् च । अस्त्र्यर्थम् तावत् । दर्शनीयाम् मन्यते देवदत्तः यज्ञदत्ताम् दर्शनीयमानी अयम् अस्याः । असमानाधिकरणार्थम् । दर्शनीयाम् मन्यते देवदत्ता यज्ञदत्ताम् दर्शनीयमानिनी इयम् अस्याः ।
KA III.156.2-6 Ro IV.614 maningrahaṇam kimartham . māningrahaṇam astryartham asamānādhikaraṇārtham ca . māningrahaṇam kriyate astryartham asamānādhikaraṇārtham ca . astryartham tāvat . darśanīyām manyate devadattaḥ yajñadattām darśanīyamānī ayam asyāḥ . asamānādhikaraṇārtham . darśanīyām manyate devadattā yajñadattām darśanīyamāninī iyam asyāḥ .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.