क्अ इइइ।१६१।२०-१६२।३ रो इव्।६२९ सर्वेषाङ्ग्रहणम् किमर्थम् । चत्वारिंशत्प्रभृतौ सर्वेषाम् विभाषा यथा स्यात् , द्व्यष्टनोः च त्रेः च । न एतत् अस्ति प्रयोजनम् । प्रकृतम् द्व्यष्टन्ग्रहणमनुवर्तिष्यते । यदि तत् अनुवर्तते त्रेः त्रयः द्व्यष्टनोः च इति द्व्यष्टनोः अपि द्त्रयः आदेशः प्राप्नोति । न एषः दोषः । मण्डूकगतयः अधिकाराः । यथा मण्डूकाः उत्प्लुत्य उत्प्लुत्य गच्छन्ति तद्वत् अधिकाराः । अथ वा एकयोगः करिष्यते । द्व्यष्टनः सङ्ख्ययाम् अबहुव्रीह्यशीत्योः त्रेः त्रयः । ततः विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम् इति । अथ वा उभयम् निवृत्तम् तत् अपेक्षिष्यामहे ।
KA III.161.20-162.3 Ro IV.629 sarveṣāṅgrahaṇam kimartham . catvāriṃśatprabhṛtau sarveṣām vibhāṣā yathā syāt , dvyaṣṭanoḥ ca treḥ ca . na etat asti prayojanam . prakṛtam dvyaṣṭangrahaṇamanuvartiṣyate . yadi tat anuvartate treḥ trayaḥ dvyaṣṭanoḥ ca iti dvyaṣṭanoḥ api dtrayaḥ ādeśaḥ prāpnoti . na eṣaḥ doṣaḥ . maṇḍūkagatayaḥ adhikārāḥ . yathā maṇḍūkāḥ utplutya utplutya gacchanti tadvat adhikārāḥ . atha vā ekayogaḥ kariṣyate . dvyaṣṭanaḥ saṅkhyayām abahuvrīhyaśītyoḥ treḥ trayaḥ . tataḥ vibhāṣā catvāriṃśatprabhṛtau sarveṣām iti . atha vā ubhayam nivṛttam tat apekṣiṣyāmahe .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.