क्अ इइइ।१४३।२-८ रो इव्। ५८५-५८६ आत्मनः च पूरणे । आत्मनः च पूरणे उपसङ्ख्यानम् कर्तव्यम् । आत्मनापञ्चमः , आत्मनादशमः । अन्यार्थे च । अन्यार्थे च एषा तृतीया द्रष्टव्या । आत्मा पञ्चमः अस्य आत्मापञ्चमः । अथ वा युक्तः एव अत्र तृतीयार्थः । आत्मना कृतम् तत् तस्य येन असौ पञ्चमः । कथम् जनार्दनः तु आत्मचतुर्थः एव इति । बहुव्रीः अयम् । आत्मा चतुर्थः अस्य इति ।
KA III.143.2-8 Ro IV. 585-586 ātmanaḥ ca pūraṇe . ātmanaḥ ca pūraṇe upasaṅkhyānam kartavyam . ātmanāpañcamaḥ , ātmanādaśamaḥ . anyārthe ca . anyārthe ca eṣā tṛtīyā draṣṭavyā . ātmā pañcamaḥ asya ātmāpañcamaḥ . atha vā yuktaḥ eva atra tṛtīyārthaḥ . ātmanā kṛtam tat tasya yena asau pañcamaḥ . katham janārdanaḥ tu ātmacaturthaḥ eva iti . bahuvrīḥ ayam . ātmā caturthaḥ asya iti .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.