क्अ इइइ।१६३।१४-१६४।२ रो इव्।६३३ एकहलादौ इति किमर्थम् । उदकस्थानम् । उच्यमाने अपि एतस्मिन् अत्र प्रप्नोति । एतत् अपि एकहलादि । किम् कारणम् । एकैकवर्णवर्तित्वात् वाचः उच्चरितप्रध्वंसित्वात् च वर्णानाम् । एकैकवर्णवर्तिनी वाक् । न द्वौ वर्णौ युगपत् उच्चारयति । तत् यथा गौः इति उक्ते यावत् गकारे वाक् वर्तते तावत् न औकारे न विसर्जनीये । यावत् औअकारे न तावत् गकारे न विसर्जनीये । यावत् विसर्जनीये न तावत् गकारे न औकारे । उच्चरितप्रध्वंसित्वात् च वर्णानाम् । उच्चरितः वर्णः प्रध्वस्तः च । अथ अपरः प्रयुज्यते । न वर्णः वर्णस्य सहायः । एवम् तर्हि एकहलादौ इति उच्यते सर्वः च एकहलादिः । तत्र प्रकर्षगतिः विज्ञायते : साधीयः यः एकहलादिः इति । कः च साधीयः । यत्र एकम् हलम् उच्चार्य अच् उच्यते ।
KA III.163.14-164.2 Ro IV.633 ekahalādau iti kimartham . udakasthānam . ucyamāne api etasmin atra prapnoti . etat api ekahalādi . kim kāraṇam . ekaikavarṇavartitvāt vācaḥ uccaritapradhvaṃsitvāt ca varṇānām . ekaikavarṇavartinī vāk . na dvau varṇau yugapat uccārayati . tat yathā gauḥ iti ukte yāvat gakāre vāk vartate tāvat na aukāre na visarjanīye . yāvat auakāre na tāvat gakāre na visarjanīye . yāvat visarjanīye na tāvat gakāre na aukāre . uccaritapradhvaṃsitvāt ca varṇānām . uccaritaḥ varṇaḥ pradhvastaḥ ca . atha aparaḥ prayujyate . na varṇaḥ varṇasya sahāyaḥ . evam tarhi ekahalādau iti ucyate sarvaḥ ca ekahalādiḥ . tatra prakarṣagatiḥ vijñāyate : sādhīyaḥ yaḥ ekahalādiḥ iti . kaḥ ca sādhīyaḥ . yatra ekam halam uccārya ac ucyate .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.