क्अ इइइ।१६४।४-१९ रो इव्।६३४-६३५ इकः ह्रस्वत्वम् उत्तरपदमात्रे । इकः ह्रस्वत्वम् उत्तरपदमात्रे वक्तव्यम् इह अपि यथा स्यात् , अलाबुकर्कन्धुदृन्भुफलम् इति । किम् पुनः कारणम् न सिध्यति । सर्वान्ते हि लोकविज्ञानम् । लोकविज्ञानात् हि यत् एव सर्वान्तम् पदम् तस्मिन् पूर्वपदस्य ह्रस्वत्वम् स्यात् । अथ वा एवम् विग्रहः करिष्यते । अलाबूः च कर्कन्धूः च , अलाबुकर्कन्ध्वौ , अलाबुकर्कन्ध्वौ दृन्भूः च, अलाबुकर्कन्धुदृन्भ्वः , अलाबुकर्कन्धुदृन्भूनाम् फलम् अलाबुकर्कन्धुदृन्भुफलम् इति । यदि एवम् दृन्भ्वाः पूर्वनिपातः प्राप्नोति । राजदन्तादिषु पाठः करिष्यते । अथ वा एवम् विग्रहः करिष्यते । दृन्भ्वाः फलम् दृन्भुफलम् , कर्कन्धूः च दृन्भुफलम् च कर्कन्धुदृन्भुफलम् , अलाबूः च कर्कन्धुदृन्भुफलम् च अलाबुकर्कन्धुदृन्भुफलम् इति । एवम् अपि फलेन अकृतः अभिसम्बन्धः भवति । प्रत्येकम् फलशब्दः परिसमाप्यते । इयङुवङव्ययप्रतिषेधः । इयङुवङ्भाइनाम् अव्ययानाम् च प्रतिषेधः वक्तव्यः । श्रीकुलम् , भ्रूकुलम् , काण्डीभूतम् वृषलकुलम् , कुड्यीभूतम् वृषलकुलम् । अभ्रूकंसादीनाम् इति वक्तव्यम् । भ्रुकुंसः , भ्रुकुटिः । अपरः आह : अकारः भ्रूकंसादीनाम् इति वक्तव्यम् । भ्रकुंसः , भ्रकुटिः ।
KA III.164.4-19 Ro IV.634-635 ikaḥ hrasvatvam uttarapadamātre . ikaḥ hrasvatvam uttarapadamātre vaktavyam iha api yathā syāt , alābukarkandhudṛnbhuphalam iti . kim punaḥ kāraṇam na sidhyati . sarvānte hi lokavijñānam . lokavijñānāt hi yat eva sarvāntam padam tasmin pūrvapadasya hrasvatvam syāt . atha vā evam vigrahaḥ kariṣyate . alābūḥ ca karkandhūḥ ca , alābukarkandhvau , alābukarkandhvau dṛnbhūḥ ca, alābukarkandhudṛnbhvaḥ , alābukarkandhudṛnbhūnām phalam alābukarkandhudṛnbhuphalam iti . yadi evam dṛnbhvāḥ pūrvanipātaḥ prāpnoti . rājadantādiṣu pāṭhaḥ kariṣyate . atha vā evam vigrahaḥ kariṣyate . dṛnbhvāḥ phalam dṛnbhuphalam , karkandhūḥ ca dṛnbhuphalam ca karkandhudṛnbhuphalam , alābūḥ ca karkandhudṛnbhuphalam ca alābukarkandhudṛnbhuphalam iti . evam api phalena akṛtaḥ abhisambandhaḥ bhavati . pratyekam phalaśabdaḥ parisamāpyate . iyaṅuvaṅavyayapratiṣedhaḥ . iyaṅuvaṅbhāinām avyayānām ca pratiṣedhaḥ vaktavyaḥ . śrīkulam , bhrūkulam , kāṇḍībhūtam vṛṣalakulam , kuḍyībhūtam vṛṣalakulam . abhrūkaṃsādīnām iti vaktavyam . bhrukuṃsaḥ , bhrukuṭiḥ . aparaḥ āha : akāraḥ bhrūkaṃsādīnām iti vaktavyam . bhrakuṃsaḥ , bhrakuṭiḥ .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.