क्अ इइइ,२६२।१४-२२ रो व्,५९।१०-६१।२ अथ केवलग्रहणम् किमर्थम् न न सुदुर्भ्याम् इति एव उच्येत । सुदुरोः केवलग्रहणम् अन्योपसर्गप्रतिषेधार्थम् । सुदुरोः केवलग्रहणम् क्रियते अन्योपसृष्टात् मा भूत् इति । प्रसुलम्भम् । न एषः अस्ति प्रयोगः । इदम् तर्हि । सुप्रलम्भम् । प्रेण व्यवहितत्वात् न भविष्यति । इदम् तर्हि । अतिसुलम्भम् । कर्मप्रवचनीयसञ्ज्ञा अत्र बाधिका भविष्यति सुः पूजायाम् अतिः अतिक्रमणे च इति । यदा तर्हि न अतिक्रमणम् न पूजा । इदम् च अपि उदाहरणम् । सुप्रलम्भम् । ननु च उक्तम् प्रेण व्यवहितत्वात् न भविष्यति इति । न एषः दोषः । सुदुर्भ्याम् इति न एषा पञ्चमी । का तर्हि । तृतीया । सुदुर्भ्याम् उपसृष्टस्य इति । व्यवहितः च अपि उपसृष्टः भवति ।
KA III,262.14-22 Ro V,59.10-61.2 atha kevalagrahaṇam kimartham na na sudurbhyām iti eva ucyeta . suduroḥ kevalagrahaṇam anyopasargapratiṣedhārtham . suduroḥ kevalagrahaṇam kriyate anyopasṛṣṭāt mā bhūt iti . prasulambham . na eṣaḥ asti prayogaḥ . idam tarhi . supralambham . preṇa vyavahitatvāt na bhaviṣyati . idam tarhi . atisulambham . karmapravacanīyasañjñā atra bādhikā bhaviṣyati suḥ pūjāyām atiḥ atikramaṇe ca iti . yadā tarhi na atikramaṇam na pūjā . idam ca api udāharaṇam . supralambham . nanu ca uktam preṇa vyavahitatvāt na bhaviṣyati iti . na eṣaḥ doṣaḥ . sudurbhyām iti na eṣā pañcamī . kā tarhi . tṛtīyā . sudurbhyām upasṛṣṭasya iti . vyavahitaḥ ca api upasṛṣṭaḥ bhavati .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.