क्अ इइइ,२८७।१७-२८८।५ रो व्,११९।१६-१२०।१० दृढनिपातनम् किमर्थम् न दृहेः न इट् भवति इति एव उच्येत । दृढनिपातनम् नकारहकारलोपार्थम् परस्य च डत्वार्थम् । दृढनिपातनम् क्रियते नकारहकारलोपार्थम् । नकारहकारलोपः यथा स्यात् । परस्य च ढत्वार्थम् । परस्य च ढत्वम् यथा स्यात् । अनिड्वचने हि रभावाप्रसिद्धिः अलघुत्वात् । अनिड्वचने हि रभावस्य अप्रसिद्धिः । द्रढीयान् । किम् कारणम् । अलघुत्वात् । नलोपवचनम् च । नलोपः च वक्तव्यः । इह च परिद्रढय्य गतः ल्यपि लघुपूर्वस्य इति अयादेशः न स्यात् । इह च पारिदृढी कन्या इति गुरूपोत्तमलक्षणः ष्यङ् प्रसज्येत ।
KA III,287.17-288.5 Ro V,119.16-120.10 dṛḍhanipātanam kimartham na dṛheḥ na iṭ bhavati iti eva ucyeta . dṛḍhanipātanam nakārahakāralopārtham parasya ca ḍatvārtham . dṛḍhanipātanam kriyate nakārahakāralopārtham . nakārahakāralopaḥ yathā syāt . parasya ca ḍhatvārtham . parasya ca ḍhatvam yathā syāt . aniḍvacane hi rabhāvāprasiddhiḥ alaghutvāt . aniḍvacane hi rabhāvasya aprasiddhiḥ . draḍhīyān . kim kāraṇam . alaghutvāt . nalopavacanam ca . nalopaḥ ca vaktavyaḥ . iha ca paridraḍhayya gataḥ lyapi laghupūrvasya iti ayādeśaḥ na syāt . iha ca pāridṛḍhī kanyā iti gurūpottamalakṣaṇaḥ ṣyaṅ prasajyeta .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.