Library·Patanjali: Vyakaranamahabhasya·7·7.2

Patanjali: Vyakaranamahabhasya 7.2

क्अ इइइ,२७८।२-१५ रो व्,९४।३-९५।९ सिचि वृद्धौ ओकारप्रतिषेधः । सिचि वृद्धौ ओकारस्य प्रतिषेधः वक्तव्यः । उदवोढाम् , उदवोढम् , उदवोढ इति । सः तर्हि प्रतिषेधः वक्तव्यः । न वक्तव्यः । ओकारात् वृद्धिः विप्रतिषेधेन । ओत्त्वम् क्रियताम् वृद्धिः इति । वृद्धिः भविष्यति विप्रतिषेधेन । ओकारात् वृद्धिः विप्रतिषेधेन इति चेत् ओत्त्वाभावः । ओकारात् वृद्धिः विप्रतिषेधेन इति चेत् ओत्त्वस्य अभावः । उदवोढाम् , उदवोढम् । उदवोढ इति । न एषः दोषः । उक्तम् तत्र वर्णग्रहणस्य प्रयोजनम् वृद्धौ अपि कृतायाम् ओत्त्वम् यथा स्यात् । पुनःप्रसङ्गविज्ञानात् वा सिद्धम् यथा प्रसारणादिषु द्विर्वचनम् । अथ वा पुनःप्रसङ्गात् अत्र वृद्धौ कृतायाम् ओत्त्वम् भविष्यति । सौढामित्रौ बहिरङ्गलक्षणत्वात् सिद्धम् । बहिरङ्गलक्षणा वृद्धिः । अन्तरङ्गम् ओत्त्वम् । असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

KA III,278.2-15 Ro V,94.3-95.9 sici vṛddhau okārapratiṣedhaḥ . sici vṛddhau okārasya pratiṣedhaḥ vaktavyaḥ . udavoḍhām , udavoḍham , udavoḍha iti . saḥ tarhi pratiṣedhaḥ vaktavyaḥ . na vaktavyaḥ . okārāt vṛddhiḥ vipratiṣedhena . ottvam kriyatām vṛddhiḥ iti . vṛddhiḥ bhaviṣyati vipratiṣedhena . okārāt vṛddhiḥ vipratiṣedhena iti cet ottvābhāvaḥ . okārāt vṛddhiḥ vipratiṣedhena iti cet ottvasya abhāvaḥ . udavoḍhām , udavoḍham . udavoḍha iti . na eṣaḥ doṣaḥ . uktam tatra varṇagrahaṇasya prayojanam vṛddhau api kṛtāyām ottvam yathā syāt . punaḥprasaṅgavijñānāt vā siddham yathā prasāraṇādiṣu dvirvacanam . atha vā punaḥprasaṅgāt atra vṛddhau kṛtāyām ottvam bhaviṣyati . sauḍhāmitrau bahiraṅgalakṣaṇatvāt siddham . bahiraṅgalakṣaṇā vṛddhiḥ . antaraṅgam ottvam . asiddham bahiraṅgam antaraṅge .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,२७८।१७-२७९।३ रो व्,९५।१०-९६।३ अन्तग्रहणम् किमर्थम् न अतः र्लः इति एव उच्यते । केन इदानीम् तदन्तस्य भविष्यति । तदन्तविधिना । इदम् तर्हि प्रयोजनम् । अयम् अन्तशब्दः अस्ति एव अवयववाची । तत् यथा । वस्त्रान्तः , वसनान्तः । अस्ति सामीप्ये वर्तते । तत् यथा । उदकान्तम् गतः । उदकसमीपम् गतः इति गम्यते । तत् यः सामीप्ये वर्तते तस्य इदम् ग्रहणम् यथा विज्ञायेत । अङ्गान्तौ यौ रेफलकारौ तयोः समीपे यः अकारः तस्य यथा स्यात् । इह मा भूत् । अश्वल्लीत् , अवभ्रीत् ।

KA III,278.17-279.3 Ro V,95.10-96.3 antagrahaṇam kimartham na ataḥ rlaḥ iti eva ucyate . kena idānīm tadantasya bhaviṣyati . tadantavidhinā . idam tarhi prayojanam . ayam antaśabdaḥ asti eva avayavavācī . tat yathā . vastrāntaḥ , vasanāntaḥ . asti sāmīpye vartate . tat yathā . udakāntam gataḥ . udakasamīpam gataḥ iti gamyate . tat yaḥ sāmīpye vartate tasya idam grahaṇam yathā vijñāyeta . aṅgāntau yau rephalakārau tayoḥ samīpe yaḥ akāraḥ tasya yathā syāt . iha mā bhūt . aśvallīt , avabhrīt .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,२७९।५-२८१।८ रो व्,९६।५-१०१।२ हल्ग्रहणम् किमर्थम् । समुच्चयः यथा विज्ञायेत । वदिव्रज्योः च हलन्तस्य च अचः इति । न एतत् अस्ति प्रयोजनम् । अज्ग्रहणात् एव अत्र समुच्चयः भविष्यति । वदिव्रज्योः च अचः च इति । अस्ति अन्यत् अज्ग्रहणे प्रयोजनम् वदिव्रजिविशेषणम् यथा विज्ञायेत । वदिव्रज्योः एचः इति । यदि एतावत् प्रयोजनम् स्यात् वदिव्रज्योः अतः इति एवम् ब्रूयात् । अथ वा एतत् अपि न ब्रूयात् । अतः इति वर्तते । इदम् तर्हि प्रयोजनम् हलन्तस्य यथा स्यात् अजन्तस्य मा भूत् । कस्य पुनः अजन्तस्य प्राप्नोति । अकारस्य । अचिकीर्षीत् , अजिहीर्षीत् । लोपः अत्र बाधकः भविष्यति । आकारस्य तर्हि प्राप्नोति । अयासीत् , अवासीत् । न अस्ति अत्र विशेषः सत्याम् वा वृद्धौ असत्याम् वा । सन्ध्यक्षरस्य तर्हि प्राप्नोति । न वै सन्ध्यक्षरम् अन्त्यम् अस्ति । ननु च इदम् अस्ति ढलोपे कृते उदवोढाम् , उदवोढम् , उदवोढ इति । असिद्धः ढलोपः तस्य असिद्धत्वात् न एतत् अन्त्यम् भवति । अतः उत्तरम् पठति । हल्ग्रहणम् इटि प्रतिषेधार्थम् । हल्ग्रहणम् क्रियते इटि प्रतिषेधार्थम् । न इटि इति प्रतिषेधम् वक्ष्यति सः हलन्तस्य यथा स्यात् अजन्तस्य मा भूत् । अलावीत् , अपावीत् । न वा अनन्तरस्य प्रतिषेधात् । न वा एतत् प्रयोजनम् अस्ति । किम् कारणम् । अनन्तरस्य प्रतिषेधात् । अनन्तरम् यत् वृद्धिविधानम् तत् प्रतिषिध्यते । कुतः एतत् । अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति । तत् च अनन्त्यार्थम् । तत् च अनन्तरम् वृद्धिविधानम् अनन्त्यार्थम् विज्ञायते । कथम् पुनः अनन्तरम् वृद्धिविधानम् अनन्त्यार्थम् शक्यम् विज्ञातुम् । अन्त्यस्य वचनानर्थक्यात् । अन्त्यस्य वृद्धिविधाने प्रयोजनम् न अस्ति इति कृत्वा अनन्तरम् वृद्धिविधानम् अनन्त्यार्थम् विज्ञायते । अतः विभाषार्थम् तर्हि इदम् वक्तव्यम् । अतः हलादेः लघोः इति विभाषा वृद्धिम् वक्ष्यति सा हलन्तस्य यथा स्यात् अजन्तस्य मा भूत् । अचिकीर्षीत् , अजिहीर्षीत् । अतः विभाषार्थम् इति चेत् सिद्धम् वृद्धेः लोपबलीयस्त्वात् । अतः विभाषार्थम् इति चेत् तत् अन्तरेण अपि हल्ग्रहणम् सिद्धम् । कथम् । वृद्धेः लोपबलीयस्त्वात् । वृद्धेः लोपः बलीयान् भवति इति । इदम् इह सम्प्रधार्यम् । वृद्धिः क्रियताम् लोपः इति किम् अत्र कर्तव्यम् । परत्वात् वृद्धिः । नित्यः लोपः । कृतायाम् अपि वृद्धौ प्राप्नोति अकृतायाम् अपि । अनित्यः लोपः न हि कृतायाम् वृद्धौ प्राप्नोति । परत्वात् सगिड्भ्याम् भवितव्यम् । न अत्र सगिटौ प्राप्नुतः । किम् कारणम् । एकाचः तौ वलि इति वा । एकाचः सगिटौ उच्येते अथ वा वलि इति तत्र अनुवर्तते । किम् पुनः कारणम् एकाचः तौ वली इति वा । दर्द्रातेः मा भूत् इति । दरिद्रातेः न सगिड्भ्याम् भवितव्यम् । उक्तम् एतत् दरिद्रातेः आर्धधातुके लोपः सिद्धः च प्रत्ययविधौ इति । यः च इदानीम् प्रत्ययविधौ सिद्धः सिद्धः असौ सगिड्विधौ । एवमर्थम् एव तर्हि एकाज्ग्रहणम् अनुवर्त्यम् अत्र सगिटौ मा भूताम् इति । सः एषः नित्यः लोपः वृद्धिम् बाधिष्यते । कम् पुनः भवान् वृद्धेः अवकाशम् मत्वा आह नित्यः लोपः इति । अनवकाशा वृद्धिः लोपम् बाधिष्यते । सावकाशा वृद्धिः । कः अवकाशः । अनन्त्यः : अकणीत् , अकाणीत् । कथम् पुनः सति अन्त्ये अनन्त्यस्य वृद्धिः स्यात् । भवेत् यः अता अङ्गम् विशेषयेत् तस्य अनन्त्यस्य न स्यात् । वयम् तु खलु अङ्गेन अकारम् विशेषयिष्यामः । तत्र अनन्त्यः वृद्धेः अवकाशः अन्त्यस्य लोपः बाधकः भविष्यति । एवम् वृद्धेः लोपबलीयस्त्वात् । अथ वा आरभ्यते पूर्वविप्रतिषेधः ण्यल्लोपौ इयङ्यण्गुणवृद्धिदीर्घत्वेभ्यः पूर्वविप्रतिषिद्धम् । सा तर्हि एषा अनन्त्यार्था वृद्धिः हलन्तस्य यथा स्यात् अजन्तस्य मा भूत् । अपिपठिषीत् । एतत् अपि न अस्ति प्रयोजनम् । कथम् । हलादेः इति न एषा बहुव्रीहेः षष्ठी : हल् आदिः यस्य सः अयम् हलादिः हलादेः इति । का तर्हि । कर्मधारयात् पञ्चमी । हल्

KA III,279.5-281.8 Ro V,96.5-101.2 halgrahaṇam kimartham . samuccayaḥ yathā vijñāyeta . vadivrajyoḥ ca halantasya ca acaḥ iti . na etat asti prayojanam . ajgrahaṇāt eva atra samuccayaḥ bhaviṣyati . vadivrajyoḥ ca acaḥ ca iti . asti anyat ajgrahaṇe prayojanam vadivrajiviśeṣaṇam yathā vijñāyeta . vadivrajyoḥ ecaḥ iti . yadi etāvat prayojanam syāt vadivrajyoḥ ataḥ iti evam brūyāt . atha vā etat api na brūyāt . ataḥ iti vartate . idam tarhi prayojanam halantasya yathā syāt ajantasya mā bhūt . kasya punaḥ ajantasya prāpnoti . akārasya . acikīrṣīt , ajihīrṣīt . lopaḥ atra bādhakaḥ bhaviṣyati . ākārasya tarhi prāpnoti . ayāsīt , avāsīt . na asti atra viśeṣaḥ satyām vā vṛddhau asatyām vā . sandhyakṣarasya tarhi prāpnoti . na vai sandhyakṣaram antyam asti . nanu ca idam asti ḍhalope kṛte udavoḍhām , udavoḍham , udavoḍha iti . asiddhaḥ ḍhalopaḥ tasya asiddhatvāt na etat antyam bhavati . ataḥ uttaram paṭhati . halgrahaṇam iṭi pratiṣedhārtham . halgrahaṇam kriyate iṭi pratiṣedhārtham . na iṭi iti pratiṣedham vakṣyati saḥ halantasya yathā syāt ajantasya mā bhūt . alāvīt , apāvīt . na vā anantarasya pratiṣedhāt . na vā etat prayojanam asti . kim kāraṇam . anantarasya pratiṣedhāt . anantaram yat vṛddhividhānam tat pratiṣidhyate . kutaḥ etat . anantarasya vidhiḥ vā bhavati pratiṣedhaḥ vā iti . tat ca anantyārtham . tat ca anantaram vṛddhividhānam anantyārtham vijñāyate . katham punaḥ anantaram vṛddhividhānam anantyārtham śakyam vijñātum . antyasya vacanānarthakyāt . antyasya vṛddhividhāne prayojanam na asti iti kṛtvā anantaram vṛddhividhānam anantyārtham vijñāyate . ataḥ vibhāṣārtham tarhi idam vaktavyam . ataḥ halādeḥ laghoḥ iti vibhāṣā vṛddhim vakṣyati sā halantasya yathā syāt ajantasya mā bhūt . acikīrṣīt , ajihīrṣīt . ataḥ vibhāṣārtham iti cet siddham vṛddheḥ lopabalīyastvāt . ataḥ vibhāṣārtham iti cet tat antareṇa api halgrahaṇam siddham . katham . vṛddheḥ lopabalīyastvāt . vṛddheḥ lopaḥ balīyān bhavati iti . idam iha sampradhāryam . vṛddhiḥ kriyatām lopaḥ iti kim atra kartavyam . paratvāt vṛddhiḥ . nityaḥ lopaḥ . kṛtāyām api vṛddhau prāpnoti akṛtāyām api . anityaḥ lopaḥ na hi kṛtāyām vṛddhau prāpnoti . paratvāt sagiḍbhyām bhavitavyam . na atra sagiṭau prāpnutaḥ . kim kāraṇam . ekācaḥ tau vali iti vā . ekācaḥ sagiṭau ucyete atha vā vali iti tatra anuvartate . kim punaḥ kāraṇam ekācaḥ tau valī iti vā . dardrāteḥ mā bhūt iti . daridrāteḥ na sagiḍbhyām bhavitavyam . uktam etat daridrāteḥ ārdhadhātuke lopaḥ siddhaḥ ca pratyayavidhau iti . yaḥ ca idānīm pratyayavidhau siddhaḥ siddhaḥ asau sagiḍvidhau . evamartham eva tarhi ekājgrahaṇam anuvartyam atra sagiṭau mā bhūtām iti . saḥ eṣaḥ nityaḥ lopaḥ vṛddhim bādhiṣyate . kam punaḥ bhavān vṛddheḥ avakāśam matvā āha nityaḥ lopaḥ iti . anavakāśā vṛddhiḥ lopam bādhiṣyate . sāvakāśā vṛddhiḥ . kaḥ avakāśaḥ . anantyaḥ : akaṇīt , akāṇīt . katham punaḥ sati antye anantyasya vṛddhiḥ syāt . bhavet yaḥ atā aṅgam viśeṣayet tasya anantyasya na syāt . vayam tu khalu aṅgena akāram viśeṣayiṣyāmaḥ . tatra anantyaḥ vṛddheḥ avakāśaḥ antyasya lopaḥ bādhakaḥ bhaviṣyati . evam vṛddheḥ lopabalīyastvāt . atha vā ārabhyate pūrvavipratiṣedhaḥ ṇyallopau iyaṅyaṇguṇavṛddhidīrghatvebhyaḥ pūrvavipratiṣiddham . sā tarhi eṣā anantyārthā vṛddhiḥ halantasya yathā syāt ajantasya mā bhūt . apipaṭhiṣīt . etat api na asti prayojanam . katham . halādeḥ iti na eṣā bahuvrīheḥ ṣaṣṭhī : hal ādiḥ yasya saḥ ayam halādiḥ halādeḥ iti . kā tarhi . karmadhārayāt pañcamī . hal

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,२८१।१०-१९ रो व्,१०१।४-१०२।७ किमर्थम् जागर्तेः वृद्धिप्रतिषेधः उच्यते । सिचि वृद्धिः मा भूत् इति । न एतत् अस्ति प्रयोजनम् । जागर्तेः गुणः उच्यते वृद्धिविषये प्रतिषेधविषये च सः बाधकः भविष्यति । गुणे तर्हि कृते रपरत्वे च हलन्तलक्षणा वृद्धिः प्राप्नोति । न इटि इति तस्याः प्रतिषेधः भविष्यति । इयम् तर्हि प्रतिषेधोत्तरकाला वृद्धिः आरभ्यते अतः र्लान्तस्य इति । अपरः आह : कक्ष्यया कक्ष्या निमातव्या । सिचि वृद्धिः च प्राप्नोति गुणाः च । गुणः भवति । गुणे कृते रपरत्वे च हलन्तलक्षणा वृद्धिः प्राप्नोति न इटि इति च तस्याः प्रतिषेधः भवति । प्रतिषेधोत्तरकालम् अतः हलादेः लघोः इति विभाषा वृद्धिः प्राप्नोति न च किम् चित् । अतः र्लान्तस्य इति च वृद्धिः प्राप्नोति न च किम् चित् ।

KA III,281.10-19 Ro V,101.4-102.7 kimartham jāgarteḥ vṛddhipratiṣedhaḥ ucyate . sici vṛddhiḥ mā bhūt iti . na etat asti prayojanam . jāgarteḥ guṇaḥ ucyate vṛddhiviṣaye pratiṣedhaviṣaye ca saḥ bādhakaḥ bhaviṣyati . guṇe tarhi kṛte raparatve ca halantalakṣaṇā vṛddhiḥ prāpnoti . na iṭi iti tasyāḥ pratiṣedhaḥ bhaviṣyati . iyam tarhi pratiṣedhottarakālā vṛddhiḥ ārabhyate ataḥ rlāntasya iti . aparaḥ āha : kakṣyayā kakṣyā nimātavyā . sici vṛddhiḥ ca prāpnoti guṇāḥ ca . guṇaḥ bhavati . guṇe kṛte raparatve ca halantalakṣaṇā vṛddhiḥ prāpnoti na iṭi iti ca tasyāḥ pratiṣedhaḥ bhavati . pratiṣedhottarakālam ataḥ halādeḥ laghoḥ iti vibhāṣā vṛddhiḥ prāpnoti na ca kim cit . ataḥ rlāntasya iti ca vṛddhiḥ prāpnoti na ca kim cit .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,२८१।२१-२८२।१४ रो व्,१०३-१०५ किमर्थम् पुरस्तात् प्रतिषेधः उच्यते न विध्युत्तरकालः प्रतिषेधः क्रियेत । तत् यथा अन्यत्र अपि विध्युत्तरकालाः प्रतिषेधाः भवन्ति । क्व अन्यत्र । कर्तरि कर्मव्यतिहारे न गतिहिंसार्थेभ्यः इति । देवताद्वन्द्वे च न इन्द्रस्य परस्य । तत्र अयम् अपि अर्थः द्विः इड्ग्रहणम् न कर्तव्यम् भवति प्रकृतम् अनुवर्तते । न एवम् शक्यम् । इडर्थम् सार्वधातुकग्रहणम् लिङः सलोपे सन्निहितम् तत् विच्छिद्येत । यदि पुनः न वृद्भ्यः चतुर्भ्यः इति अत्र एव उच्येत । किम् कृतम् भवति । विध्युत्तरकालाः च एव प्रतिषेधः कृअतः भवति द्विः च इड्ग्रहणम् न कर्तव्यम् इडर्थम् च सार्वधातुकग्रहणम् लिङः सलोपे सन्निहितम् भवति । तत्र अयम् अपि अर्थः द्विः प्रतिषेधः न कर्तव्यः इति एतस्मात् नियमात् इट् प्रसज्येत । कृसृभृवृस्तुद्रुश्रुस्रुवः लिटि इति एषः योगः प्रतिषेधार्थः भविष्यति । यदि एषः योगः प्रतिषेधार्थः यः एतस्मात् योगात् इट् परिप्राप्यते नियमात् सः न सिध्यति : पेचिव , पेचिम , शेकिव, शेकिम । एवम् तर्हि कृसृभृ , इति एतेषाम् ग्रहणम् नियमार्थम् भविष्यति स्तुद्रुश्रुस्रुवाम् प्रतिषेधार्थम् वृङ्वृञोः ज्ञापकार्थम् । एवम् अपि सामान्यविहितस्य एव इटः प्रतिषेधः विज्ञायेत विशेषविहितः च अयम् थलि इति । पुरस्तात् पुनः प्रतिषेधे सति अनारभ्यापवादः अयम् भवति तेन यावान् इण् नाम तस्य सर्वस्य एव प्रतिषेधः सिद्धः भवति । यदि खलु अपि एषः अभिप्रायः तत् न क्रियते इति पुरस्तात् अपि प्रतिषेधे सति तत् न करिष्यते । कथम् । इदम् अस्ति न इट् वशि कृति इति । ततः वक्ष्यामि । आर्धधातुकस्य वलादेः इति । इट् इति अनुवर्तते न इति निवृत्तम् ।

KA III,281.21-282.14 Ro V,103-105 kimartham purastāt pratiṣedhaḥ ucyate na vidhyuttarakālaḥ pratiṣedhaḥ kriyeta . tat yathā anyatra api vidhyuttarakālāḥ pratiṣedhāḥ bhavanti . kva anyatra . kartari karmavyatihāre na gatihiṃsārthebhyaḥ iti . devatādvandve ca na indrasya parasya . tatra ayam api arthaḥ dviḥ iḍgrahaṇam na kartavyam bhavati prakṛtam anuvartate . na evam śakyam . iḍartham sārvadhātukagrahaṇam liṅaḥ salope sannihitam tat vicchidyeta . yadi punaḥ na vṛdbhyaḥ caturbhyaḥ iti atra eva ucyeta . kim kṛtam bhavati . vidhyuttarakālāḥ ca eva pratiṣedhaḥ kṛataḥ bhavati dviḥ ca iḍgrahaṇam na kartavyam iḍartham ca sārvadhātukagrahaṇam liṅaḥ salope sannihitam bhavati . tatra ayam api arthaḥ dviḥ pratiṣedhaḥ na kartavyaḥ iti etasmāt niyamāt iṭ prasajyeta . kṛsṛbhṛvṛstudruśrusruvaḥ liṭi iti eṣaḥ yogaḥ pratiṣedhārthaḥ bhaviṣyati . yadi eṣaḥ yogaḥ pratiṣedhārthaḥ yaḥ etasmāt yogāt iṭ pariprāpyate niyamāt saḥ na sidhyati : peciva , pecima , śekiva, śekima . evam tarhi kṛsṛbhṛ , iti eteṣām grahaṇam niyamārtham bhaviṣyati studruśrusruvām pratiṣedhārtham vṛṅvṛñoḥ jñāpakārtham . evam api sāmānyavihitasya eva iṭaḥ pratiṣedhaḥ vijñāyeta viśeṣavihitaḥ ca ayam thali iti . purastāt punaḥ pratiṣedhe sati anārabhyāpavādaḥ ayam bhavati tena yāvān iṇ nāma tasya sarvasya eva pratiṣedhaḥ siddhaḥ bhavati . yadi khalu api eṣaḥ abhiprāyaḥ tat na kriyate iti purastāt api pratiṣedhe sati tat na kariṣyate . katham . idam asti na iṭ vaśi kṛti iti . tataḥ vakṣyāmi . ārdhadhātukasya valādeḥ iti . iṭ iti anuvartate na iti nivṛttam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,२८२।१५-२८३।४ रो व्,१०५-१०७ अथ कृद्ग्रहणम् किमर्थम् । इह मा भूत् । बिभिदिव , बिभिदिम इति । न एतत् अस्ति प्रयोजनम् । कृसृभृवृस्तुद्रुश्रुस्रुवः लिटि इति एतस्मात् नियमात् अत्र इट् भविष्यति । न अत्र तेन परिप्रापणम् प्राप्नोति । किम् कारणम् । प्रकृतिलक्षणस्य प्रतिषेधस्य सः प्रत्यारम्भः प्रत्ययलक्षणः च अयम् प्रतिषेधः । उभयोः सः प्रत्यारम्भः । कथम् ज्ञायते । वृङ्वृञोः ग्रहणात् । कथम् कृत्वा ज्ञापकम् । इमौ वृङ्वृञौ उदात्तौ तयोः प्रकृतिलक्षणः प्रत्ययलक्षणः च । ततः किम् । तुल्यजातीये असति यथा एव प्रकृतिलक्षणस्य नियामकः भवति एवम् प्रत्ययलक्षणस्य अपि नियामकः भविष्यति । इदम् तर्हि प्रयोजनम् । इह मा भूत् । रुदिवः , रुदिमः । एतत् अपि न अस्ति प्रयोजनम् । उपरिष्टात् योगविभागः करिष्यते । आर्धधातुकस्य । यत् एतत् अनुक्रान्तम् एतत् आर्धधातुकस्य द्रष्टव्यम् । ततः इट् वलादेः इति । तत्र एतावत् द्रष्टव्यम् यदि किम् चित् तत्र अन्यत् अपि आर्धधातुकग्रहणस्य प्रयोजनम् अस्ति । अथ न किम् चित् इह वा कृद्ग्रहणम् क्रियेत तत्र वा आर्धधातुकग्रहणम् कः नु अत्र विशेषः । न इट् वरम् अनादौ कृति । वरम् अनादौ कृति इट्प्रतिषेधम् प्रयोजयति । ईशिता , ईशितुम् , ईश्वरः । व । र । दीपिता , दीपितुम् , दीप्रः । र । म । भसिता , भसितुम् , भस्म । म । न । यतिता , यतितुम् , यत्नः । अथ अन्ये ये वशादयः तत्र कथम् । उणादयः अव्युत्पन्नानि प्रातिपदिकानि ।

KA III,282.15-283.4 Ro V,105-107 atha kṛdgrahaṇam kimartham . iha mā bhūt . bibhidiva , bibhidima iti . na etat asti prayojanam . kṛsṛbhṛvṛstudruśrusruvaḥ liṭi iti etasmāt niyamāt atra iṭ bhaviṣyati . na atra tena pariprāpaṇam prāpnoti . kim kāraṇam . prakṛtilakṣaṇasya pratiṣedhasya saḥ pratyārambhaḥ pratyayalakṣaṇaḥ ca ayam pratiṣedhaḥ . ubhayoḥ saḥ pratyārambhaḥ . katham jñāyate . vṛṅvṛñoḥ grahaṇāt . katham kṛtvā jñāpakam . imau vṛṅvṛñau udāttau tayoḥ prakṛtilakṣaṇaḥ pratyayalakṣaṇaḥ ca . tataḥ kim . tulyajātīye asati yathā eva prakṛtilakṣaṇasya niyāmakaḥ bhavati evam pratyayalakṣaṇasya api niyāmakaḥ bhaviṣyati . idam tarhi prayojanam . iha mā bhūt . rudivaḥ , rudimaḥ . etat api na asti prayojanam . upariṣṭāt yogavibhāgaḥ kariṣyate . ārdhadhātukasya . yat etat anukrāntam etat ārdhadhātukasya draṣṭavyam . tataḥ iṭ valādeḥ iti . tatra etāvat draṣṭavyam yadi kim cit tatra anyat api ārdhadhātukagrahaṇasya prayojanam asti . atha na kim cit iha vā kṛdgrahaṇam kriyeta tatra vā ārdhadhātukagrahaṇam kaḥ nu atra viśeṣaḥ . na iṭ varam anādau kṛti . varam anādau kṛti iṭpratiṣedham prayojayati . īśitā , īśitum , īśvaraḥ . va . ra . dīpitā , dīpitum , dīpraḥ . ra . ma . bhasitā , bhasitum , bhasma . ma . na . yatitā , yatitum , yatnaḥ . atha anye ye vaśādayaḥ tatra katham . uṇādayaḥ avyutpannāni prātipadikāni .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,२८३।६-८ रो व्,१०७।५-७ तितुत्रेषु अग्रहादीनाम् । तितुत्रेषु अग्रहादीनाम् इति वक्तव्यम् । इह मा भूत् । निगृहितिः , उपस्निहितः , निकुचितिः , निपठितिः इति ।

KA III,283.6-8 Ro V,107.5-7 titutreṣu agrahādīnām . titutreṣu agrahādīnām iti vaktavyam . iha mā bhūt . nigṛhitiḥ , upasnihitaḥ , nikucitiḥ , nipaṭhitiḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,२८३।१०-२८६।२ रो व्,१०७।९-११५।२ एकाज्ग्रहणम् किमर्थम् । एकाज्ग्रहणम् जागर्त्यर्थम् । एकाज्ग्रहणम् क्रियते जागर्तेः इट्प्रतिषेधः मा भूत् इति । जागरिता , जागरितुम् । न एतत् अस्ति प्रयोजनम् । उपदेशे अनुदात्तात् इति उच्यते जागर्तिः च उपदेशे उदात्तः । न ब्रूमः इहार्थम् जागर्त्यर्थम् एकाज्ग्रहणम् कर्तव्यम् इति । किम् तर्हि । उत्तरार्थम् । श्र्युकः किति इति इट्प्रतिषेधम् वक्ष्यति सः जागर्तेः मा भूत् । जागरितः , जागरितवान् इति । एतत् अपि न अस्ति प्रयोजनम् । जागर्तेः गुणः उच्यते वृद्धिविषये प्रतिषेधविषये च सः बाधकः भविष्यति । तत्र गुणे कृते रपरत्वे च कृते अनुगन्तत्वात् इट्प्रतिषेधः न भविष्यति । ननु च उपदेशाधिकारात् प्राप्नोति । उपदेशग्रहणम् निवर्तयिष्यते । यदि निवर्त्यते स्तीर्त्वा , पूर्त्वा , इत्त्वोत्त्वयोः कृतयोः रपरत्वे च अनुगन्तत्वात् इट्प्रतिषेधः न प्राप्नोति । न एषः दोषः । आनुपूर्व्या सिद्धम् एतत् । न अत्र अकृते इट्प्रतिषेधे इत्त्वोत्त्वे प्राप्नुतः । किम् कारणम् । न क्त्वा सेट् इति कित्त्वप्रतिषेधात् । इदम् तर्हि । आतिस्तीर्षति , निपुपूर्षति । इत्त्वोत्त्वयोः कृतयोः रपरत्वे च्xअ अनुगन्तत्वात् इट्प्रतिषेधः न प्राप्नोति । मा भूत् एवम् श्र्युकः किति इति । इट् सनि वा इति एवम् भविष्यति । इदम् तर्हि । आस्तीर्णम् , निपूर्ताः पिण्डाः । इत्त्वोत्त्वयोः कृतयोः रपरत्वे च अनुगन्तत्वात् इट्प्रतिषेधः न प्राप्नोति । मा भूत् एवम् । इट् सनि वा इति सनि विभाषा यस्य विभाषा इति प्रतिषेधः भविष्यति । इहार्थम् एव तर्हि वध्यर्थम् एकाज्ग्रहणम् कर्तव्यम् । वधः इट्प्रतिषेधः मा भूत् इति । वधिषीष्ट इति । एतत् अपि न अस्ति प्रयोजनम् । क्रियमाणे अपि वा एकाज्ग्रहणे वधः इट्प्रतिषेधः प्राप्नोति । वधिषीष्ट इति । किम् कारणम् । वधः इट्प्रतिषेधः सन्निपाते एकाच्त्वात् प्रकृतेः च अनुदात्तत्वात् । सन्निपाते च एव हि वधिः एकाच् श्रूयते प्रकृतिः च अस्य अनुदात्ता । किम् पुनः कारणम् एवम् विज्ञायते उपदेशे अनुदात्तात् एकाचः श्रूयमाणात् इति । यङ्लोपार्थम् । यङ्लोपे मा भूत् इति । बेभिदिता , बेभिदितुम् , चेच्छिदिता , चेच्छिदितुम् । एकाचः उपदेशे अनुदात्तात् इति उपदेशवचनम् अनुदात्तविशेषणम् चेत् कृञादिभ्यः लिटि नियमानुपपत्तिः अप्राप्तत्वात् प्रतिषेधस्य । एकाचः उपदेशे अनुदात्तात् इति उपदेशवचनम् अनुदात्तविशेषणम् चेत् कृञादिभ्यः लिटि नियमस्य अनुपपत्तिः । किम् कारणम् । अप्राप्तत्वात् प्रतिषेधस्य । द्विर्वचने कृते उपदेशे अनुदात्तात् एकाचः श्रूयमाणात् इति इट्प्रतिषेधः न प्राप्नोति । असति इट्प्रतिषेधे नियमः न उपपद्यते । असति नियमे कः दोषः । तत्र पचादिभ्यः इड्वचनम् । तत्र पचादिभ्यः इट् वक्तव्यः । पेचिम , शेकिम । सनः च इट्प्रतिषेधः । सनः च इट्प्रतिषेधः वक्तव्यः । बिभित्सति , चिच्छित्सति । द्विर्वचने कृते उपदेशे अनुदात्तात् एकाचः श्रूयमाणात् इति इट्प्रतिषेधः न प्राप्नोति । इह च नीत्तः तत्वे कृते अनच्कत्वात् इट्प्रतिषेधः न प्राप्नोति । न एषः दोषः । आनुपूर्व्या सिद्धम् एतत् । न अत्र अकृते इट्प्रतिषेधे तत्वम् प्राप्नोति । किम् कारणम् । ति किति इति उच्यते । यत् अपि उच्यते एकाचः उपदेशे अनुदात्तात् इति उपदेशवचनम् अनुदात्तविशेषणम् चेत् कृञादिभ्यः लिटि नियमानुपपत्तिः अप्राप्तत्वात् प्रतिषेधस्य इति मा भूत् नियमः । ननु च उक्तम् तत्र पचादिभ्यः इड्वचनम् इति । न एषः दोषः । उक्तम् तत्र थल्ग्रहणस्य प्रयोजनम् समुच्चयः यथा विज्ञायेत थलि च सेटि क्ङिति च सेटि इति । यत् अपि उच्यते सनः च इट्प्रतिषेधः इति । उभयविशेषणत्वात् सिद्धम् । उभयम् उपदेशग्रहणेन विशेषयिष्यामः । उपदेशे अनुदात्तात् उपदेशे एकाचः इति । यङ्लोपे च तदन्तद्विर्वचनात् । सन्यङन्तस्य स्थाने द्विर्वचनम्

KA III,283.10-286.2 Ro V,107.9-115.2 ekājgrahaṇam kimartham . ekājgrahaṇam jāgartyartham . ekājgrahaṇam kriyate jāgarteḥ iṭpratiṣedhaḥ mā bhūt iti . jāgaritā , jāgaritum . na etat asti prayojanam . upadeśe anudāttāt iti ucyate jāgartiḥ ca upadeśe udāttaḥ . na brūmaḥ ihārtham jāgartyartham ekājgrahaṇam kartavyam iti . kim tarhi . uttarārtham . śryukaḥ kiti iti iṭpratiṣedham vakṣyati saḥ jāgarteḥ mā bhūt . jāgaritaḥ , jāgaritavān iti . etat api na asti prayojanam . jāgarteḥ guṇaḥ ucyate vṛddhiviṣaye pratiṣedhaviṣaye ca saḥ bādhakaḥ bhaviṣyati . tatra guṇe kṛte raparatve ca kṛte anugantatvāt iṭpratiṣedhaḥ na bhaviṣyati . nanu ca upadeśādhikārāt prāpnoti . upadeśagrahaṇam nivartayiṣyate . yadi nivartyate stīrtvā , pūrtvā , ittvottvayoḥ kṛtayoḥ raparatve ca anugantatvāt iṭpratiṣedhaḥ na prāpnoti . na eṣaḥ doṣaḥ . ānupūrvyā siddham etat . na atra akṛte iṭpratiṣedhe ittvottve prāpnutaḥ . kim kāraṇam . na ktvā seṭ iti kittvapratiṣedhāt . idam tarhi . ātistīrṣati , nipupūrṣati . ittvottvayoḥ kṛtayoḥ raparatve cxa anugantatvāt iṭpratiṣedhaḥ na prāpnoti . mā bhūt evam śryukaḥ kiti iti . iṭ sani vā iti evam bhaviṣyati . idam tarhi . āstīrṇam , nipūrtāḥ piṇḍāḥ . ittvottvayoḥ kṛtayoḥ raparatve ca anugantatvāt iṭpratiṣedhaḥ na prāpnoti . mā bhūt evam . iṭ sani vā iti sani vibhāṣā yasya vibhāṣā iti pratiṣedhaḥ bhaviṣyati . ihārtham eva tarhi vadhyartham ekājgrahaṇam kartavyam . vadhaḥ iṭpratiṣedhaḥ mā bhūt iti . vadhiṣīṣṭa iti . etat api na asti prayojanam . kriyamāṇe api vā ekājgrahaṇe vadhaḥ iṭpratiṣedhaḥ prāpnoti . vadhiṣīṣṭa iti . kim kāraṇam . vadhaḥ iṭpratiṣedhaḥ sannipāte ekāctvāt prakṛteḥ ca anudāttatvāt . sannipāte ca eva hi vadhiḥ ekāc śrūyate prakṛtiḥ ca asya anudāttā . kim punaḥ kāraṇam evam vijñāyate upadeśe anudāttāt ekācaḥ śrūyamāṇāt iti . yaṅlopārtham . yaṅlope mā bhūt iti . bebhiditā , bebhiditum , cecchiditā , cecchiditum . ekācaḥ upadeśe anudāttāt iti upadeśavacanam anudāttaviśeṣaṇam cet kṛñādibhyaḥ liṭi niyamānupapattiḥ aprāptatvāt pratiṣedhasya . ekācaḥ upadeśe anudāttāt iti upadeśavacanam anudāttaviśeṣaṇam cet kṛñādibhyaḥ liṭi niyamasya anupapattiḥ . kim kāraṇam . aprāptatvāt pratiṣedhasya . dvirvacane kṛte upadeśe anudāttāt ekācaḥ śrūyamāṇāt iti iṭpratiṣedhaḥ na prāpnoti . asati iṭpratiṣedhe niyamaḥ na upapadyate . asati niyame kaḥ doṣaḥ . tatra pacādibhyaḥ iḍvacanam . tatra pacādibhyaḥ iṭ vaktavyaḥ . pecima , śekima . sanaḥ ca iṭpratiṣedhaḥ . sanaḥ ca iṭpratiṣedhaḥ vaktavyaḥ . bibhitsati , cicchitsati . dvirvacane kṛte upadeśe anudāttāt ekācaḥ śrūyamāṇāt iti iṭpratiṣedhaḥ na prāpnoti . iha ca nīttaḥ tatve kṛte anackatvāt iṭpratiṣedhaḥ na prāpnoti . na eṣaḥ doṣaḥ . ānupūrvyā siddham etat . na atra akṛte iṭpratiṣedhe tatvam prāpnoti . kim kāraṇam . ti kiti iti ucyate . yat api ucyate ekācaḥ upadeśe anudāttāt iti upadeśavacanam anudāttaviśeṣaṇam cet kṛñādibhyaḥ liṭi niyamānupapattiḥ aprāptatvāt pratiṣedhasya iti mā bhūt niyamaḥ . nanu ca uktam tatra pacādibhyaḥ iḍvacanam iti . na eṣaḥ doṣaḥ . uktam tatra thalgrahaṇasya prayojanam samuccayaḥ yathā vijñāyeta thali ca seṭi kṅiti ca seṭi iti . yat api ucyate sanaḥ ca iṭpratiṣedhaḥ iti . ubhayaviśeṣaṇatvāt siddham . ubhayam upadeśagrahaṇena viśeṣayiṣyāmaḥ . upadeśe anudāttāt upadeśe ekācaḥ iti . yaṅlope ca tadantadvirvacanāt . sanyaṅantasya sthāne dvirvacanam

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,२८६।४-७ रो व्,११५।४-७ कृञः असुटः । कृञः असुटः इति वक्तव्यम् । इह मा भूत् । सञ्चस्करिव , सञ्चस्करिम । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । गुणे कृते रपरत्वे च अनुगन्तत्वात् इट्प्रतिषेधः न भविष्यति । एवम् अपि उपदेशाधिकारात् प्राप्नोति । तस्मात् असुटः इति वक्तव्यम् ।

KA III,286.4-7 Ro V,115.4-7 kṛñaḥ asuṭaḥ . kṛñaḥ asuṭaḥ iti vaktavyam . iha mā bhūt . sañcaskariva , sañcaskarima . tat tarhi vaktavyam . na vaktavyam . guṇe kṛte raparatve ca anugantatvāt iṭpratiṣedhaḥ na bhaviṣyati . evam api upadeśādhikārāt prāpnoti . tasmāt asuṭaḥ iti vaktavyam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,२८६।९-१० रो व्,११५-११६ श्विग्रहणम् किमर्थम् न प्रसारणे कृते प्रसारणपूर्वत्वे च उगन्तात् इति एव सिद्धम् । अतः उत्तरम् पठति । श्विग्रहणम् इदन्तत्वात् उपदेशस्य । श्विग्रहणम् क्रियते इदन्तत्वात् उपदेशस्य । उपदेशः उगन्तात् इति उच्यते श्वयतिः च उपदेशः इदन्तः ।

KA III,286.9-10 Ro V,115-116 śvigrahaṇam kimartham na prasāraṇe kṛte prasāraṇapūrvatve ca ugantāt iti eva siddham . ataḥ uttaram paṭhati . śvigrahaṇam idantatvāt upadeśasya . śvigrahaṇam kriyate idantatvāt upadeśasya . upadeśaḥ ugantāt iti ucyate śvayatiḥ ca upadeśaḥ idantaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,२८६।१५-१८ रो व्,११७ यस्य विभाषा अविदेः । यस्य विभाषा अविदेः इति वक्तव्यम् । इह मा भूत् । विदितः , विदितवान् इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । यदुपाधेः विभाषा तदुपाधेः प्रतिषेधः । शाब्विकरणस्य विभाषा लुग्विकरणः च अयम् ।

KA III,286.15-18 Ro V,117 yasya vibhāṣā avideḥ . yasya vibhāṣā avideḥ iti vaktavyam . iha mā bhūt . viditaḥ , viditavān iti . tat tarhi vaktavyam . na vaktavyam . yadupādheḥ vibhāṣā tadupādheḥ pratiṣedhaḥ . śābvikaraṇasya vibhāṣā lugvikaraṇaḥ ca ayam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,२८६।२०-२८७।४ रो व्,११७।८-११८।२ किमर्थः योगविभागः न आदितः विभाषा भावादिकर्मणोः इति एव उच्यते । केन इदानीम् कर्तरि प्रतिषेधः भविष्यति । यस्य विभाषा इति अनेन । एवम् तर्हि सिद्धे सति यत् योगविभागम् करोति तत् ज्ञापयति आचार्यः यदुपाधेः विभाषा तदुपाधेः प्रतिषेधः इति । किम् एतस्य ज्ञापने प्रयोजनम् । यस्य विभाषा अविदेः इति उक्तम् तत् न वक्तव्यम् भवति ।

KA III,286.20-287.4 Ro V,117.8-118.2 kimarthaḥ yogavibhāgaḥ na āditaḥ vibhāṣā bhāvādikarmaṇoḥ iti eva ucyate . kena idānīm kartari pratiṣedhaḥ bhaviṣyati . yasya vibhāṣā iti anena . evam tarhi siddhe sati yat yogavibhāgam karoti tat jñāpayati ācāryaḥ yadupādheḥ vibhāṣā tadupādheḥ pratiṣedhaḥ iti . kim etasya jñāpane prayojanam . yasya vibhāṣā avideḥ iti uktam tat na vaktavyam bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,२८७।७-१३ रो व्,११८।५-११९।१२ क्षुब्धम् मन्थाभिधाने । क्षुब्धम् मन्थाभिधाने इति वक्तव्यम् । क्षुभितम् मन्थेन इति एव अन्यत्र । क्षुब्ध । स्वान्त । स्वान्तम् मनोऽभिधाने । स्वान्तम् मनोऽभिधाने इति वक्तव्यम् । स्वनितम् मनसा इति एव अन्यत्र । स्वान्त । ध्वान्त ।[ ध्वान्तम् तमोऽभिधाने ।] ध्वान्तम् तमोऽभिधाने इति वक्तव्यम् । ध्वनितम् तमसा इति एव अन्यत्र । [र् लग्न । लग्नम् सक्ताभिधाने । लग्नम् सक्ताभिधाने इति वक्तव्यम् । लगितम् सक्तेन इति एव अन्यत्र । लग्न । म्लिष्ट । म्लिष्टम् अविस्पष्टाभिधाने । म्लिष्टम् अविस्पष्टाभिधाने इति वक्तव्यम् । म्लेच्छितम् विस्पष्टेन इति एव अन्यत्र । म्लिष्टा । विरिब्ध । विरिब्धम् स्वराभिधाने । विरिब्धम् स्वराभिधाने इति वक्तव्यम् । विरेभितम् स्वरेण इति एव अन्यत्र । विरिब्ध । फाण्ट । फाण्टम् अनायासाभिधाने । फाण्टम् अनायासाभिधाने इति वक्तव्यम् । फणितम् एव अन्यत्र । फाण्ट । बाढ । बाढम् बृशाभिधाने । बाढम् बृशाभिधाने इति वक्तव्यम् । बाहितम् एव अन्यत्र । ]

KA III,287.7-13 Ro V,118.5-119.12 kṣubdham manthābhidhāne . kṣubdham manthābhidhāne iti vaktavyam . kṣubhitam manthena iti eva anyatra . kṣubdha . svānta . svāntam mano'bhidhāne . svāntam mano'bhidhāne iti vaktavyam . svanitam manasā iti eva anyatra . svānta . dhvānta .[ dhvāntam tamo'bhidhāne .] dhvāntam tamo'bhidhāne iti vaktavyam . dhvanitam tamasā iti eva anyatra . [R lagna . lagnam saktābhidhāne . lagnam saktābhidhāne iti vaktavyam . lagitam saktena iti eva anyatra . lagna . mliṣṭa . mliṣṭam avispaṣṭābhidhāne . mliṣṭam avispaṣṭābhidhāne iti vaktavyam . mlecchitam vispaṣṭena iti eva anyatra . mliṣṭā . viribdha . viribdham svarābhidhāne . viribdham svarābhidhāne iti vaktavyam . virebhitam svareṇa iti eva anyatra . viribdha . phāṇṭa . phāṇṭam anāyāsābhidhāne . phāṇṭam anāyāsābhidhāne iti vaktavyam . phaṇitam eva anyatra . phāṇṭa . bāḍha . bāḍham bṛśābhidhāne . bāḍham bṛśābhidhāne iti vaktavyam . bāhitam eva anyatra . ]

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,२८७।१५ रो व्,११९।१४ किम् इदम् वैयात्ये इति । वियातभावः वैयात्यम् ।

KA III,287.15 Ro V,119.14 kim idam vaiyātye iti . viyātabhāvaḥ vaiyātyam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,२८७।१७-२८८।५ रो व्,११९।१६-१२०।१० दृढनिपातनम् किमर्थम् न दृहेः न इट् भवति इति एव उच्येत । दृढनिपातनम् नकारहकारलोपार्थम् परस्य च डत्वार्थम् । दृढनिपातनम् क्रियते नकारहकारलोपार्थम् । नकारहकारलोपः यथा स्यात् । परस्य च ढत्वार्थम् । परस्य च ढत्वम् यथा स्यात् । अनिड्वचने हि रभावाप्रसिद्धिः अलघुत्वात् । अनिड्वचने हि रभावस्य अप्रसिद्धिः । द्रढीयान् । किम् कारणम् । अलघुत्वात् । नलोपवचनम् च । नलोपः च वक्तव्यः । इह च परिद्रढय्य गतः ल्यपि लघुपूर्वस्य इति अयादेशः न स्यात् । इह च पारिदृढी कन्या इति गुरूपोत्तमलक्षणः ष्यङ् प्रसज्येत ।

KA III,287.17-288.5 Ro V,119.16-120.10 dṛḍhanipātanam kimartham na dṛheḥ na iṭ bhavati iti eva ucyeta . dṛḍhanipātanam nakārahakāralopārtham parasya ca ḍatvārtham . dṛḍhanipātanam kriyate nakārahakāralopārtham . nakārahakāralopaḥ yathā syāt . parasya ca ḍhatvārtham . parasya ca ḍhatvam yathā syāt . aniḍvacane hi rabhāvāprasiddhiḥ alaghutvāt . aniḍvacane hi rabhāvasya aprasiddhiḥ . draḍhīyān . kim kāraṇam . alaghutvāt . nalopavacanam ca . nalopaḥ ca vaktavyaḥ . iha ca paridraḍhayya gataḥ lyapi laghupūrvasya iti ayādeśaḥ na syāt . iha ca pāridṛḍhī kanyā iti gurūpottamalakṣaṇaḥ ṣyaṅ prasajyeta .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,२८८।७-१३ रो व्,१२०।१२-११३।५ परिवृढः इति किमर्थम् निपात्यते न परिपूर्वात् वृहेः न इट् भवति इति एव उच्येत । परिवृढनिपातनम् च । किम् । नकारहकारलोपार्थम् परस्य च ढत्वार्थम् अनिड्वचने हि रभावाप्रसिद्धिः अलघुत्वात् नलोपवचनम् च इति एव । परिव्रढीयान् इति रः ऋतः हलादेः लघोः इति रभावः न स्यात् । इह च परिव्रढय्य गतः इति ल्यपि लघुपूर्वस्य इति अयादेशः न स्यात् । इह च पारिवृढी कन्या इति गुरूपोत्तमलक्षणः ष्यङ् प्रसज्येत ।

KA III,288.7-13 Ro V,120.12-113.5 parivṛḍhaḥ iti kimartham nipātyate na paripūrvāt vṛheḥ na iṭ bhavati iti eva ucyeta . parivṛḍhanipātanam ca . kim . nakārahakāralopārtham parasya ca ḍhatvārtham aniḍvacane hi rabhāvāprasiddhiḥ alaghutvāt nalopavacanam ca iti eva . parivraḍhīyān iti raḥ ṛtaḥ halādeḥ laghoḥ iti rabhāvaḥ na syāt . iha ca parivraḍhayya gataḥ iti lyapi laghupūrvasya iti ayādeśaḥ na syāt . iha ca pārivṛḍhī kanyā iti gurūpottamalakṣaṇaḥ ṣyaṅ prasajyeta .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,२८८।१५-१९ रो व्,१२१।७-११ किमर्थम् अविशब्दने इति उच्यते न विशब्दने चुरादिणिचा भवितव्यम् । एवम् तर्हि सिद्धे सति यत् अयम् अविशब्दने इति आह तत् ज्ञापयति आचार्यः विशब्दने घुषेः विभाषा णिच् भवति इति । किम् एतस्य ज्ञापने प्रयोजनम् । महीपालवचः श्रुत्वा जुघुषुः पुष्यमाणवाः । एषः प्रयोगः उपपन्नः भवति ।

KA III,288.15-19 Ro V,121.7-11 kimartham aviśabdane iti ucyate na viśabdane curādiṇicā bhavitavyam . evam tarhi siddhe sati yat ayam aviśabdane iti āha tat jñāpayati ācāryaḥ viśabdane ghuṣeḥ vibhāṣā ṇic bhavati iti . kim etasya jñāpane prayojanam . mahīpālavacaḥ śrutvā jughuṣuḥ puṣyamāṇavāḥ . eṣaḥ prayogaḥ upapannaḥ bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,२८८।२१-२८९।१७ रो व्,१२२।२-१२३।१० किम् इदम् अध्ययनाभिधायिकायाम् निष्ठायाम् निपातनम् क्रियते आहोस्वित् अध्ययने चेत् वृतिः वर्तते इति । किम् च अतः । यदि अध्ययनाभिधायिकायाम् निष्ठायाम् निपातनम् क्रियते सिद्धम् वृत्तः गुणः वृत्तम् पारायणम् वृत्तम् गुणस्य वृत्तम् पारायणस्य इति न सिध्यति । अथ विज्ञायते अध्ययने चेत् वृतिः वर्तते इति न दोषः भवति । यथा न दोषः तथा अस्तु । अध्ययने चेत् वृतिः वर्तते इति अपि वै विज्ञायमाने न सिध्यति । किम् कारणम् । वृतिः अयम् अकर्मकः । अकर्मकाः च अपि ण्यन्ताः सकर्मकाः भवन्ति । अकर्म्कः च अत्र वृतिः । कथम् पुनः ज्ञायते अकर्मकः अत्र वृतिः इति । अकर्मकाणाम् भावे क्तः भवति इति एवम् अत्र भावे क्तः भवति । तत्र उदितः क्त्वि विभाषा यस्य विभाषा इति इट्प्रतिषेधः भविष्यति । अथ णिग्रहणम् किमर्थम् । वृत्तनिपातने णिग्रहणम् अण्यन्तस्य अवधारणप्रतिषेधार्थम् । वृत्तनिपातने णिग्रहणम् क्रियते अण्यन्तस्य अवधारणम् मा भूत् इति । कैमर्थक्यात् नियमः भवति । विधेयम् न अस्ति इति कृत्वा । इह च अस्ति विधेयम् । किम् । ण्यधिकात् वृतेः इट्प्रतिषेधः विधेयः । तत्र अपूर्वः विधिः अस्तु नियमः अस्तु इति अपूर्वः एव विधिः भविष्यति न नियमः । कुतः नु खलु एतत् अधिकार्थे आरम्भे सति ण्यधिकस्य भविष्यति न पुनः सनधिकस्य वा स्यात् यङधिकस्य वा इति । तस्मात् णिग्रहणम् कर्तव्यम् । अथ किमर्थम् निपातनम् क्रियते । निपातनम् णिल्पेड्गुणप्रतिषेधार्थम् । निपातनम् क्रियते णिल्पार्थम् इड्गुणप्रतिषेधार्थम् च ।

KA III,288.21-289.17 Ro V,122.2-123.10 kim idam adhyayanābhidhāyikāyām niṣṭhāyām nipātanam kriyate āhosvit adhyayane cet vṛtiḥ vartate iti . kim ca ataḥ . yadi adhyayanābhidhāyikāyām niṣṭhāyām nipātanam kriyate siddham vṛttaḥ guṇaḥ vṛttam pārāyaṇam vṛttam guṇasya vṛttam pārāyaṇasya iti na sidhyati . atha vijñāyate adhyayane cet vṛtiḥ vartate iti na doṣaḥ bhavati . yathā na doṣaḥ tathā astu . adhyayane cet vṛtiḥ vartate iti api vai vijñāyamāne na sidhyati . kim kāraṇam . vṛtiḥ ayam akarmakaḥ . akarmakāḥ ca api ṇyantāḥ sakarmakāḥ bhavanti . akarmkaḥ ca atra vṛtiḥ . katham punaḥ jñāyate akarmakaḥ atra vṛtiḥ iti . akarmakāṇām bhāve ktaḥ bhavati iti evam atra bhāve ktaḥ bhavati . tatra uditaḥ ktvi vibhāṣā yasya vibhāṣā iti iṭpratiṣedhaḥ bhaviṣyati . atha ṇigrahaṇam kimartham . vṛttanipātane ṇigrahaṇam aṇyantasya avadhāraṇapratiṣedhārtham . vṛttanipātane ṇigrahaṇam kriyate aṇyantasya avadhāraṇam mā bhūt iti . kaimarthakyāt niyamaḥ bhavati . vidheyam na asti iti kṛtvā . iha ca asti vidheyam . kim . ṇyadhikāt vṛteḥ iṭpratiṣedhaḥ vidheyaḥ . tatra apūrvaḥ vidhiḥ astu niyamaḥ astu iti apūrvaḥ eva vidhiḥ bhaviṣyati na niyamaḥ . kutaḥ nu khalu etat adhikārthe ārambhe sati ṇyadhikasya bhaviṣyati na punaḥ sanadhikasya vā syāt yaṅadhikasya vā iti . tasmāt ṇigrahaṇam kartavyam . atha kimartham nipātanam kriyate . nipātanam ṇilpeḍguṇapratiṣedhārtham . nipātanam kriyate ṇilpārtham iḍguṇapratiṣedhārtham ca .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,२८९।१९-२९०।५ रो व्,१२४।२-१२ दान्तशान्तयोः किम् निपात्यते । दान्तशान्तयोः उपधादीर्घत्वम् च । किम् च । णिलोपेट्प्रतिषेधौ च । उपधादीर्घत्वम् अनिपात्यम् । वृद्ध्या सिद्धम् । न सिध्यति । मिताम् ह्रस्वः इति ह्रस्वत्वेन भवितव्यम् । एवम् तर्हि अनुनासिकस्य क्विझलोः क्ङिति इति एवम् अत्र दीर्घत्वम् भविष्यति । न सिध्यति । किम् कारणम् । णिचा व्यवहितत्वात् । णिलोपे कृते न अस्ति व्यवधानम् । स्थानिवद्भावात् व्यवधानम् एव । प्रतिषिध्यते अत्र स्थानिवद्भावः दीर्घविधिम् प्रति न स्थानिवत् इति । अथ स्पष्टच्छन्नयोः किम् निपात्यते । स्पष्टच्छन्नयोः उपधाह्रस्वत्वम् च । किम् च । णिलोपेट्प्रतिषेधौ

KA III,289.19-290.5 Ro V,124.2-12 dāntaśāntayoḥ kim nipātyate . dāntaśāntayoḥ upadhādīrghatvam ca . kim ca . ṇilopeṭpratiṣedhau ca . upadhādīrghatvam anipātyam . vṛddhyā siddham . na sidhyati . mitām hrasvaḥ iti hrasvatvena bhavitavyam . evam tarhi anunāsikasya kvijhaloḥ kṅiti iti evam atra dīrghatvam bhaviṣyati . na sidhyati . kim kāraṇam . ṇicā vyavahitatvāt . ṇilope kṛte na asti vyavadhānam . sthānivadbhāvāt vyavadhānam eva . pratiṣidhyate atra sthānivadbhāvaḥ dīrghavidhim prati na sthānivat iti . atha spaṣṭacchannayoḥ kim nipātyate . spaṣṭacchannayoḥ upadhāhrasvatvam ca . kim ca . ṇilopeṭpratiṣedhau

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,२९०।७-१४ रो व्,१२४।१४-२२ घुषिस्वनोः वावचनम् इट्प्रतिषेधात् विप्रतिषेधेन । घुषिस्वनोः वावचनम् इट्प्रतिषेधात् भवति विप्रतिषेधेन । घुषेः इट्प्रतिषेधस्य अवकाशः असम्पूर्वात् अविशब्दनम् । घुष्टा रज्जुः , घुष्टः मार्गः । वावचनस्य अवकाशः सम्पूर्वात् विशब्दनम् । सङ्घुष्टम् वाक्यम् , सङ्घुषितम् वाक्यम् । सम्पूर्वात् अविशब्दने उभयम् प्राप्नोति । सङ्घुष्टा रज्जुः , सङ्घुषिता रज्जुः । वावचनम् भवति विप्रतिषेधेन । स्वनः इट्प्रतिषेधस्य अवकाशः अनाङ्पूर्वात् मनोऽभिधानम् । स्वान्तम् मनः । वावचनस्य अवकाशः अङ्पूर्वात् अमनोऽभिधानम् । आस्वान्तः देवदत्तः , आस्वनितः देवदत्तः । आङ्पूर्वात् मनोऽभिधाने उभयम् प्राप्नोति । आस्वान्तम् मनः । आस्वनितम् मनः । वावचनम् भवति विप्रतिषेधेन ।

KA III,290.7-14 Ro V,124.14-22 ghuṣisvanoḥ vāvacanam iṭpratiṣedhāt vipratiṣedhena . ghuṣisvanoḥ vāvacanam iṭpratiṣedhāt bhavati vipratiṣedhena . ghuṣeḥ iṭpratiṣedhasya avakāśaḥ asampūrvāt aviśabdanam . ghuṣṭā rajjuḥ , ghuṣṭaḥ mārgaḥ . vāvacanasya avakāśaḥ sampūrvāt viśabdanam . saṅghuṣṭam vākyam , saṅghuṣitam vākyam . sampūrvāt aviśabdane ubhayam prāpnoti . saṅghuṣṭā rajjuḥ , saṅghuṣitā rajjuḥ . vāvacanam bhavati vipratiṣedhena . svanaḥ iṭpratiṣedhasya avakāśaḥ anāṅpūrvāt mano'bhidhānam . svāntam manaḥ . vāvacanasya avakāśaḥ aṅpūrvāt amano'bhidhānam . āsvāntaḥ devadattaḥ , āsvanitaḥ devadattaḥ . āṅpūrvāt mano'bhidhāne ubhayam prāpnoti . āsvāntam manaḥ . āsvanitam manaḥ . vāvacanam bhavati vipratiṣedhena .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,२९०।१६-१९ रो व्,१२५।२-६ हृषेः लोमकेशकर्तृकस्य इति वक्तव्यम् । हृष्टानि लोमानि , हृषितानि लोमानि , हृष्टम् लोमभिः , हृषितम् लोमभिः , हृष्टाः केशाः , हृषिताः केशाः , हृष्टम् केशैः , हृषितम् केशैः । विस्मितप्रतीघातयोः इति वक्तव्यम् । हृष्टः देवदत्तः , हृषितः देवदत्तः , हृष्टाः दन्ताः , हृषिताः दन्ताः ।

KA III,290.16-19 Ro V,125.2-6 hṛṣeḥ lomakeśakartṛkasya iti vaktavyam . hṛṣṭāni lomāni , hṛṣitāni lomāni , hṛṣṭam lomabhiḥ , hṛṣitam lomabhiḥ , hṛṣṭāḥ keśāḥ , hṛṣitāḥ keśāḥ , hṛṣṭam keśaiḥ , hṛṣitam keśaiḥ . vismitapratīghātayoḥ iti vaktavyam . hṛṣṭaḥ devadattaḥ , hṛṣitaḥ devadattaḥ , hṛṣṭāḥ dantāḥ , hṛṣitāḥ dantāḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,२९०।२१-२२ रो व्,१२५।८-९ अपचितः इति किम् निपात्यते । चायः चिभावः निपात्यते । अपचितः । क्तिनि नित्यम् इति वक्तव्यम् । अपचितिः ।

KA III,290.21-22 Ro V,125.8-9 apacitaḥ iti kim nipātyate . cāyaḥ cibhāvaḥ nipātyate . apacitaḥ . ktini nityam iti vaktavyam . apacitiḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,२९१।२-१७ रो व्,१२५।११-१२६।१३ आर्धधातुकग्रहणम् किमर्थम् । यथा वलादिग्रहणम् आर्धधातुकविशेषणम् विज्ञायेत । वलादेः आर्धधातुकस्य इति । अथ अक्रियमाणे आर्धधातुकग्रहणे कस्य वलादिग्रहणम् विशेषणम् स्यात् । अङ्गस्य इति वर्तते । अङ्गविशेषणम् । तत्र कः दोषः । अङ्गस्य वलादेः आदितः इट् प्रसज्येत आडाड्वत् । तत् यथा आडाटौ अङ्गस्य आदितः भवतः तद्वत् । क्रियमाणे अपि आर्धधातुकग्रहणे अनिष्टम् शक्यम् विज्ञातुम् । वलादेः आर्धधातुकस्य यत् अङ्गम् इति । अक्रियमाणे च इष्टम् । अङ्गस्य यः वलादिः इति । किम् च अङ्गस्य वलादिः । निमित्तम् । यस्मिन् अङ्गम् इति एतत् भवति । कस्मिन् च एतत् भवति । प्रत्यये । यावता क्रियमाणे च अनिष्टम् विज्ञायते अक्रियमाणे च इष्टम् तत्र अक्रियमाणे एव इष्टम् विज्ञास्यामः । इदम् तर्हि प्रयोजनम् । इह मा भूत् । आस्ते, शेते । एतत् अपि न अस्ति प्रयोजनम् । रुदादिभ्यः सार्वधातुके इति एतन्नियमार्थम् भविष्यति । रुदादिभ्यः एव सार्वधातुकः इट् भवति न अन्येभ्यः इति । एवम् अपि वृक्षत्वम् , वृक्षता अत्र प्राप्नोति । एवम् तर्हि विहितविशेषणम् धातुग्रहणम् । धातोः यः विहितः । ननु धातोः एव अयम् विहितः । न च अयम् धातोः इति एवम् विहितः । क्व पुनः धातुग्रहणम् प्रकृतम् । ऋतः इत् धातोः इति । तत् वै षष्ठीनिर्दिष्टम् पञ्चमीनिर्दिष्टेन च इह विहितः शक्यते विशेषयितुम् । अथ इदानीम् षष्ठीनिर्दिष्टेन च अपि विहितः शक्यते विशेषयितुम् शक्यम् आर्धधातुकग्रहणम् अकर्तुम् इति ।

KA III,291.2-17 Ro V,125.11-126.13 ārdhadhātukagrahaṇam kimartham . yathā valādigrahaṇam ārdhadhātukaviśeṣaṇam vijñāyeta . valādeḥ ārdhadhātukasya iti . atha akriyamāṇe ārdhadhātukagrahaṇe kasya valādigrahaṇam viśeṣaṇam syāt . aṅgasya iti vartate . aṅgaviśeṣaṇam . tatra kaḥ doṣaḥ . aṅgasya valādeḥ āditaḥ iṭ prasajyeta āḍāḍvat . tat yathā āḍāṭau aṅgasya āditaḥ bhavataḥ tadvat . kriyamāṇe api ārdhadhātukagrahaṇe aniṣṭam śakyam vijñātum . valādeḥ ārdhadhātukasya yat aṅgam iti . akriyamāṇe ca iṣṭam . aṅgasya yaḥ valādiḥ iti . kim ca aṅgasya valādiḥ . nimittam . yasmin aṅgam iti etat bhavati . kasmin ca etat bhavati . pratyaye . yāvatā kriyamāṇe ca aniṣṭam vijñāyate akriyamāṇe ca iṣṭam tatra akriyamāṇe eva iṣṭam vijñāsyāmaḥ . idam tarhi prayojanam . iha mā bhūt . āste, śete . etat api na asti prayojanam . rudādibhyaḥ sārvadhātuke iti etanniyamārtham bhaviṣyati . rudādibhyaḥ eva sārvadhātukaḥ iṭ bhavati na anyebhyaḥ iti . evam api vṛkṣatvam , vṛkṣatā atra prāpnoti . evam tarhi vihitaviśeṣaṇam dhātugrahaṇam . dhātoḥ yaḥ vihitaḥ . nanu dhātoḥ eva ayam vihitaḥ . na ca ayam dhātoḥ iti evam vihitaḥ . kva punaḥ dhātugrahaṇam prakṛtam . ṛtaḥ it dhātoḥ iti . tat vai ṣaṣṭhīnirdiṣṭam pañcamīnirdiṣṭena ca iha vihitaḥ śakyate viśeṣayitum . atha idānīm ṣaṣṭhīnirdiṣṭena ca api vihitaḥ śakyate viśeṣayitum śakyam ārdhadhātukagrahaṇam akartum iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,२९२।२-२९३।९ रो व्,१२७।२-१३०।४ स्नुक्रमोः अनात्मनेपदनिमित्ते चेत् कृति उपसङ्ख्यानम् । स्नुक्रमोः अनात्मनेपदनिमित्ते चेत् कृति उपसङ्ख्यानम् कर्तव्यम् । प्रस्नविता , प्रस्नवितुम् , प्रस्नवितव्यम् , प्रक्रमिता , प्रक्रमितुम् , प्रक्रमितव्यम् । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । अविशेषेण स्नुक्रमोः इडागमम् उक्त्वा आत्मनेपदपरे न इति वक्ष्यामि । आत्मनेपदपरप्रतिषेधे तत्परपरसीयुडेकादेशेषु प्रतिषेधः । आत्मनेपदपरप्रतिषेधे च तत्परपरसीयुडेकादेशेषु प्रतिषेधः वक्तव्यः । तत्परपरे तावत् : प्रसुस्नूषिष्यते , प्रचिक्रंसिष्यते । सीयुटि : प्रस्नोषीष्त , प्रक्रंसीष्ट । एकादेशे । प्रस्नोष्यन्ते , प्रक्रंस्यन्ते । एकादेशे कृते व्यपवर्गाभावात् न प्राप्नोति । अन्तादिवद्भावेन व्यपवर्गः । उभयतः आश्रये न अन्तादिवत् । एवम् तर्हि एकादेशः पूर्वविधिम् प्रति स्थानिवत् भवति इति स्थानिवद्भावात् व्यपवर्गः । तत्परपरसीयुटोः तर्हि प्रतिषेधः वक्तव्यः । सिद्धम् तु स्नोः आत्मनेपदेन समानपदस्थस्य इट्प्रतिषेधात् । सिद्धम् एतत् । कथम् । स्नोः आत्मनेपदेन समानपदस्थस्य न इट् भवति इति वक्तव्यम् । यदि स्नोः आत्मनेपदेन समानपदस्थस्य इट् न भवति इति उच्यते प्रस्नविता इव आचरति प्रस्नवित्रीयते अत्र न प्राप्नोति । बहिरङ्गलक्षणम् अत्र आत्मनेपदम् । क्रमोः च । क्रमोः च आत्मनेपदेन समानपदस्थस्य इट् न भवति इति वक्तव्यम् । अथ किमर्थम् क्रमेः पृथग्ग्रहणम् क्रियते न स्नुक्रमिभ्याम् इति एव उच्येत । कर्तरि च आत्मनेपदविषयात् कृति न इति वक्ष्यत्गि तत् क्रमेः एव स्यात् स्नोः मा भूत् । व्यतिप्रस्नवितारौ , व्यतिप्रस्नतिवारः । कर्तरि च आत्मनेपदविषयात् कृति । कर्तरि च आत्मनेपदविषयात् कृति प्रतिषेधः वक्तव्यः । प्रक्रन्ता , उपक्रन्ता । तत् तर्हि इदम् बहु वक्तव्यम् । स्नोः आत्मनेपदेन समानपदस्थस्य इट् न भवति इति वक्तव्यम् । क्रमेः च इति वक्तव्यम् । कर्तरि च आत्मनेपदविषयात् कृति इति वक्तव्यम् । सूत्रम् च भिद्यते । यथान्यासम् एव अस्तु । ननु च उक्तम् स्नुक्रमोः अनात्मनेपदनिमित्ते चेत् कृति उपसङ्ख्यानम् इति । न एषः दोषः । स्नुक्रमी एव आत्मनेपदनिमित्तत्वेन विशेषयिष्यामः । न चेत् स्नुक्रमी आत्मनेपदस्य निमित्ते इति । कथम् पुनः धातुः नाम आत्मनेपदस्य निमित्तम् स्यात् । धातुः एव निमित्तम् । आह हि भगवान् अनुदात्तङितः आत्मनेपदम् शेषात् कर्तरि परस्मैपदम् इति । यत्र तर्हि धातुः न आश्रीयते भावकर्मणोः इति । अत्र अपि धातुः एव आश्रीयते । भावकर्मवृत्तात् धातोः इति । कथम् प्रक्रमितव्यम् । सति आत्मनेपदे निमित्तशब्दः वर्तते । कथम् प्रक्रन्ता , उपक्रन्ता । तस्मात् असति अपि । कथम् प्रक्रमितव्यम् । तस्मात् सति एव । कथम् प्रक्रन्ता , उपक्रन्ता । वक्तव्यम् एव एतत् कर्तरि च आत्मनेपदविषयात् कृति इति । अथ वा कृति इति वर्तते ।

KA III,292.2-293.9 Ro V,127.2-130.4 snukramoḥ anātmanepadanimitte cet kṛti upasaṅkhyānam . snukramoḥ anātmanepadanimitte cet kṛti upasaṅkhyānam kartavyam . prasnavitā , prasnavitum , prasnavitavyam , prakramitā , prakramitum , prakramitavyam . tat tarhi vaktavyam . na vaktavyam . aviśeṣeṇa snukramoḥ iḍāgamam uktvā ātmanepadapare na iti vakṣyāmi . ātmanepadaparapratiṣedhe tatparaparasīyuḍekādeśeṣu pratiṣedhaḥ . ātmanepadaparapratiṣedhe ca tatparaparasīyuḍekādeśeṣu pratiṣedhaḥ vaktavyaḥ . tatparapare tāvat : prasusnūṣiṣyate , pracikraṃsiṣyate . sīyuṭi : prasnoṣīṣta , prakraṃsīṣṭa . ekādeśe . prasnoṣyante , prakraṃsyante . ekādeśe kṛte vyapavargābhāvāt na prāpnoti . antādivadbhāvena vyapavargaḥ . ubhayataḥ āśraye na antādivat . evam tarhi ekādeśaḥ pūrvavidhim prati sthānivat bhavati iti sthānivadbhāvāt vyapavargaḥ . tatparaparasīyuṭoḥ tarhi pratiṣedhaḥ vaktavyaḥ . siddham tu snoḥ ātmanepadena samānapadasthasya iṭpratiṣedhāt . siddham etat . katham . snoḥ ātmanepadena samānapadasthasya na iṭ bhavati iti vaktavyam . yadi snoḥ ātmanepadena samānapadasthasya iṭ na bhavati iti ucyate prasnavitā iva ācarati prasnavitrīyate atra na prāpnoti . bahiraṅgalakṣaṇam atra ātmanepadam . kramoḥ ca . kramoḥ ca ātmanepadena samānapadasthasya iṭ na bhavati iti vaktavyam . atha kimartham krameḥ pṛthaggrahaṇam kriyate na snukramibhyām iti eva ucyeta . kartari ca ātmanepadaviṣayāt kṛti na iti vakṣyatgi tat krameḥ eva syāt snoḥ mā bhūt . vyatiprasnavitārau , vyatiprasnativāraḥ . kartari ca ātmanepadaviṣayāt kṛti . kartari ca ātmanepadaviṣayāt kṛti pratiṣedhaḥ vaktavyaḥ . prakrantā , upakrantā . tat tarhi idam bahu vaktavyam . snoḥ ātmanepadena samānapadasthasya iṭ na bhavati iti vaktavyam . krameḥ ca iti vaktavyam . kartari ca ātmanepadaviṣayāt kṛti iti vaktavyam . sūtram ca bhidyate . yathānyāsam eva astu . nanu ca uktam snukramoḥ anātmanepadanimitte cet kṛti upasaṅkhyānam iti . na eṣaḥ doṣaḥ . snukramī eva ātmanepadanimittatvena viśeṣayiṣyāmaḥ . na cet snukramī ātmanepadasya nimitte iti . katham punaḥ dhātuḥ nāma ātmanepadasya nimittam syāt . dhātuḥ eva nimittam . āha hi bhagavān anudāttaṅitaḥ ātmanepadam śeṣāt kartari parasmaipadam iti . yatra tarhi dhātuḥ na āśrīyate bhāvakarmaṇoḥ iti . atra api dhātuḥ eva āśrīyate . bhāvakarmavṛttāt dhātoḥ iti . katham prakramitavyam . sati ātmanepade nimittaśabdaḥ vartate . katham prakrantā , upakrantā . tasmāt asati api . katham prakramitavyam . tasmāt sati eva . katham prakrantā , upakrantā . vaktavyam eva etat kartari ca ātmanepadaviṣayāt kṛti iti . atha vā kṛti iti vartate .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,२९३।११-२९४।२६ रो व्,१३१।५-१३५।९ ग्रहेः दीर्घत्वे इड्ग्रहणम् । ग्रहेः दीर्घत्वे इड्ग्रहणम् कर्तव्यम् । इटः दीर्घः इति वक्तव्यम् । न वक्तव्यम् । प्रकृतम् अनुवर्तते । क्व प्रकृतम् । आर्धधातुकस्य इट् वलादेः इति । एवम् अपि कर्तव्यम् एव । अग्रहणे हि असम्प्रत्ययः षष्ठ्यभावात् । अक्रियमाणे हि इड्ग्रहणे असम्प्रत्ययः स्यात् । किम् कारणम् । षष्ठ्यभावात् । षष्ठीनिर्दिष्टस्य आदेशाः उच्यन्ते न च अत्र षष्ठीम् पश्यामः । क्रियमाणे च अपि इड्ग्रहणे । चिण्वदिटः प्रतिषेधः । चिङ्वदितः प्रतिषेधः वक्तव्यः । ग्राहिष्यते । यङ्लोपे च । यङ्लोपे च प्रतिषेधः वक्तव्यः । जरीगृहिता , जरीगृहितुम् , जरीगृहितव्यम् । यदि पुनः इट् दीर्घः आगमान्तरम् विज्ञायेत । इट् दीर्घः इति चेत् विप्रतिषिद्धम् । इट् दीर्घः इति चेत् विप्रतिषिद्धम् भवति । यदि इट् न दीर्घः । अथ दीर्घः न इट् । इट् दीर्घः च इति विप्रतिषिद्धम् । प्रतिषिद्धस्य च पुनर्विधाने दीर्घत्वाभावः । प्रतिषिद्धस्य च पुनर्विधाने दीर्घत्वस्य अभावः । वुवूर्षते , विवरिषते , ववरीषते । अत्र अपि इट् दीर्घः इति अनुवर्तिष्यते । यत् तर्हि विदेशस्थम् प्रतिषिध्य पुनर्विधानम् तत् न सिध्यति । जॄव्रश्च्योः क्त्वि । श्र्युकः किति इति अनेन प्रतिषिद्धे दीर्घत्वम् न प्राप्नोति । जरित्वा , जरीत्वा । ईटः विधिः इटः प्रतिषेधः । यथाप्राप्तः इट् दीर्घः भविष्यति । यदि तर्हि इटः ग्रहणे ईटः ग्रहणम् न भवति जरीत्वा न क्त्वा सेट् इति कित्त्वप्रतिषेधः न प्राप्नोति । इह च अग्र्हीत् इति इटः ईटि इति सिज्लोपः न प्राप्नोति । इह च अग्रहीत् न इटि इति वृद्धिप्रतिषेधः न प्राप्नोति । मा भूत् एवम् । ह्म्यन्तानाम् इति एवम् भविष्यति । अत्र अपि न इट् इति एव अनुवर्तते । तत् च अवश्यम् इड्ग्रहणम् अनुवर्त्यम् अधाक्षीत् इति एवमर्थम् । तथा अग्रहीध्वम् , अग्रहीढ्वम् विभाषा इटः इति मूर्धन्यः न प्राप्नोति । तस्मात् न एवम् शक्यम् वक्तुम् इटः ग्रहणे ईटः ग्रहणम् न भवति इति । भवति चेत् प्रतिषिद्धस्य च पुनर्विधाने दीर्घाभावः इति एव । तस्मात् अशक्यः इट् दीर्घः आगमान्तरम् विज्ञातुम् । न चेत् विज्ञायते इटः ग्रहणम् कर्तव्यम् । न कर्तव्यम् । आर्धधातुकस्य इति वर्तते । ग्रहः परस्य आर्धधातुकस्य दीर्घत्वम् वक्ष्यामि । इह अपि तर्हि प्राप्नोति । ग्रहणम् , ग्रहणीयम् । वलादेः इति वर्तते । एवम् अपि ग्रहीता , ग्रहीतुम् अत्र न प्राप्नोति । भूतपूर्वगत्या भविष्यति । एवम् अपि ग्राहकः अत्र प्राप्नोति । किम् च इट्प्रतीघातेन खलु अपि दीर्घत्वम् उच्यमानम् इटम् बाधते । तस्मात् इटः ग्रहणम् कर्तव्यम् । न कर्तव्यम् । प्रकृतम् अनुवर्तते । क्व प्रकृतम् । आर्धधातुकस्य इट् वलादेः इति । ननु च उक्तम् एवम् अपि कर्तव्यम् एव अग्रहणे हि असम्प्रत्ययः षष्ठ्यनिर्देशात् इति । न एषः दोषः । ग्र्हः इति एषा पञ्चमी इट् इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति । एवम् च कृत्वा सः अपि अदोषः भवति यत् उक्तम् चिण्वदिटः प्रतिषेधः इति । कथम् । प्रकृतस्य इटः इदम् दीर्घत्वम् न च चिण्वदिट् प्रकृतः । यङ्लोपे कथम् । यङ्लोपे च उक्तम् इटि सर्वत्र । क्व सर्वत्र । यदि एव प्रकृतस्य इटः दीर्घत्वम् अथ अपि इट् दीर्घः आगमान्तरम् विज्ञायेत । यङ्लोपे च उक्तम् । किम् उक्तम् । तदन्तद्विर्वचनात् इति ।

KA III,293.11-294.26 Ro V,131.5-135.9 graheḥ dīrghatve iḍgrahaṇam . graheḥ dīrghatve iḍgrahaṇam kartavyam . iṭaḥ dīrghaḥ iti vaktavyam . na vaktavyam . prakṛtam anuvartate . kva prakṛtam . ārdhadhātukasya iṭ valādeḥ iti . evam api kartavyam eva . agrahaṇe hi asampratyayaḥ ṣaṣṭhyabhāvāt . akriyamāṇe hi iḍgrahaṇe asampratyayaḥ syāt . kim kāraṇam . ṣaṣṭhyabhāvāt . ṣaṣṭhīnirdiṣṭasya ādeśāḥ ucyante na ca atra ṣaṣṭhīm paśyāmaḥ . kriyamāṇe ca api iḍgrahaṇe . ciṇvadiṭaḥ pratiṣedhaḥ . ciṅvaditaḥ pratiṣedhaḥ vaktavyaḥ . grāhiṣyate . yaṅlope ca . yaṅlope ca pratiṣedhaḥ vaktavyaḥ . jarīgṛhitā , jarīgṛhitum , jarīgṛhitavyam . yadi punaḥ iṭ dīrghaḥ āgamāntaram vijñāyeta . iṭ dīrghaḥ iti cet vipratiṣiddham . iṭ dīrghaḥ iti cet vipratiṣiddham bhavati . yadi iṭ na dīrghaḥ . atha dīrghaḥ na iṭ . iṭ dīrghaḥ ca iti vipratiṣiddham . pratiṣiddhasya ca punarvidhāne dīrghatvābhāvaḥ . pratiṣiddhasya ca punarvidhāne dīrghatvasya abhāvaḥ . vuvūrṣate , vivariṣate , vavarīṣate . atra api iṭ dīrghaḥ iti anuvartiṣyate . yat tarhi videśastham pratiṣidhya punarvidhānam tat na sidhyati . jṝvraścyoḥ ktvi . śryukaḥ kiti iti anena pratiṣiddhe dīrghatvam na prāpnoti . jaritvā , jarītvā . īṭaḥ vidhiḥ iṭaḥ pratiṣedhaḥ . yathāprāptaḥ iṭ dīrghaḥ bhaviṣyati . yadi tarhi iṭaḥ grahaṇe īṭaḥ grahaṇam na bhavati jarītvā na ktvā seṭ iti kittvapratiṣedhaḥ na prāpnoti . iha ca agrhīt iti iṭaḥ īṭi iti sijlopaḥ na prāpnoti . iha ca agrahīt na iṭi iti vṛddhipratiṣedhaḥ na prāpnoti . mā bhūt evam . hmyantānām iti evam bhaviṣyati . atra api na iṭ iti eva anuvartate . tat ca avaśyam iḍgrahaṇam anuvartyam adhākṣīt iti evamartham . tathā agrahīdhvam , agrahīḍhvam vibhāṣā iṭaḥ iti mūrdhanyaḥ na prāpnoti . tasmāt na evam śakyam vaktum iṭaḥ grahaṇe īṭaḥ grahaṇam na bhavati iti . bhavati cet pratiṣiddhasya ca punarvidhāne dīrghābhāvaḥ iti eva . tasmāt aśakyaḥ iṭ dīrghaḥ āgamāntaram vijñātum . na cet vijñāyate iṭaḥ grahaṇam kartavyam . na kartavyam . ārdhadhātukasya iti vartate . grahaḥ parasya ārdhadhātukasya dīrghatvam vakṣyāmi . iha api tarhi prāpnoti . grahaṇam , grahaṇīyam . valādeḥ iti vartate . evam api grahītā , grahītum atra na prāpnoti . bhūtapūrvagatyā bhaviṣyati . evam api grāhakaḥ atra prāpnoti . kim ca iṭpratīghātena khalu api dīrghatvam ucyamānam iṭam bādhate . tasmāt iṭaḥ grahaṇam kartavyam . na kartavyam . prakṛtam anuvartate . kva prakṛtam . ārdhadhātukasya iṭ valādeḥ iti . nanu ca uktam evam api kartavyam eva agrahaṇe hi asampratyayaḥ ṣaṣṭhyanirdeśāt iti . na eṣaḥ doṣaḥ . grhaḥ iti eṣā pañcamī iṭ iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya iti . evam ca kṛtvā saḥ api adoṣaḥ bhavati yat uktam ciṇvadiṭaḥ pratiṣedhaḥ iti . katham . prakṛtasya iṭaḥ idam dīrghatvam na ca ciṇvadiṭ prakṛtaḥ . yaṅlope katham . yaṅlope ca uktam iṭi sarvatra . kva sarvatra . yadi eva prakṛtasya iṭaḥ dīrghatvam atha api iṭ dīrghaḥ āgamāntaram vijñāyeta . yaṅlope ca uktam . kim uktam . tadantadvirvacanāt iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,२९५।२-२९६।६ रो व्,१३६।२-१३९।५ अथ वा इति वर्तमाने पुनः वावचनम् किमर्थम् । पुनः वावचनम् क्रियते लिङ्सिचोः निवृत्त्यर्थम् । पुनः वावचनम् क्रियते लिङ्सिचोः निवृत्त्यर्थम् । अथ किमर्थम् सूतिसूयत्योः पृथग्ग्रहणम् क्रियते । सुवतेः मा भूत् । अथ किमर्थम् धूञः सानुबन्धकस्य ग्रहणम् क्रियते । धुवतेः मा भूत् इति । किम् पुनः इयम् प्राप्ते विभाषा आहोस्वित् अप्राप्ते । कथम् च प्राप्ते कथम् वा अप्राप्ते । यदि स्वरतिः उदात्तः ततः प्राप्ते । अथ अनुदात्तः ततः अप्राप्ते । स्वरतिः उदात्तः । स्वरतिः उदात्तः पठ्यते । किमर्थम् तर्हि वावचनम् । वावचनम् निवृत्त्यर्थम् । वावचनम् क्रियते निवृत्त्यर्थम् । अनुदात्ते हि किति वाप्रसङ्गः प्रतिषिध्य पुनः विधानात् । अनुदात्ते हि सति किति विभाषा प्रसज्येत । स्वृत्वा । प्रतिषिध्य पुनः विधानात् । प्रतिषिध्य किल अयम् पुनः विधीयते । सः यथा एव एकाज्लक्षणम् प्रतिषेधम् बाधते एवम् श्र्युकः किति इति एतम् अपि बाधेत । यदि तर्हि उदात्तः स्वरतिः पठिष्यति विप्रतिषेधम् स्वरतेः वेट्त्वात् ऋतः स्ये विप्रतिषेधेन इति सः विप्रतिषेधः न उपपद्यते । किम् कारणम् । सः विधिः अयम् प्रतिषेधः विधिप्रतिषेधयोः च अयुक्तः विप्रतिषेधः । सः अपि विधिः न मृदूनाम् इव कार्पासानाम् कृतः प्रतिषेधविषये आरभ्यते । सः यथा एव एकाज्लक्षणम् प्रतिषेधम् बाधते एवम् इमम् अपि बाधिष्यते । अथ वा येन न अप्राप्ते तस्य बाधनम् भवति न च अप्राप्ते वलादिलक्षणे इयम् विभाषा आरभ्यते स्यलक्षणे पुनः प्राप्ते च अप्राप्ते च । अथ वा मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति एवम् इयम् विभाषा वलादिलक्षणम् इटम् बाधिष्यते स्यलक्षणम् न बाधिष्यते । अथ वा पुनः अस्तु अनुदात्तः । ननु च उक्तम् अनुदात्ते हि किति वाप्रसङ्गः प्रतिषिध्य पुनः विधानात् इति । न एषः दोषः । येन न अप्राप्ते तस्य बाधनम् भवति न च अप्राप्ते एकाज्लक्षणे प्रतिषेधे इयम् विभाषा आरभ्यते श्र्युकः किति इति एतस्मिन् पुनः प्राप्ते च अप्राप्ते च । अथ वा श्र्युकः किति इति एषः योगः उदात्तार्थः च येभ्यः च अनुदात्तेभ्यः इट् प्राप्यते तद्बाधनार्थः च । अथ वा श्र्युकः किति इति इह अनुवर्तिष्यते । अथ वा आचार्यप्रवृत्तिः ज्ञापयति न इयम् विभाषा उग्लक्षणस्य प्रतिषेधस्य विषये भवति इति यत् अयम् सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम् इति स्वृग्रहणम् करोति ।

KA III,295.2-296.6 Ro V,136.2-139.5 atha vā iti vartamāne punaḥ vāvacanam kimartham . punaḥ vāvacanam kriyate liṅsicoḥ nivṛttyartham . punaḥ vāvacanam kriyate liṅsicoḥ nivṛttyartham . atha kimartham sūtisūyatyoḥ pṛthaggrahaṇam kriyate . suvateḥ mā bhūt . atha kimartham dhūñaḥ sānubandhakasya grahaṇam kriyate . dhuvateḥ mā bhūt iti . kim punaḥ iyam prāpte vibhāṣā āhosvit aprāpte . katham ca prāpte katham vā aprāpte . yadi svaratiḥ udāttaḥ tataḥ prāpte . atha anudāttaḥ tataḥ aprāpte . svaratiḥ udāttaḥ . svaratiḥ udāttaḥ paṭhyate . kimartham tarhi vāvacanam . vāvacanam nivṛttyartham . vāvacanam kriyate nivṛttyartham . anudātte hi kiti vāprasaṅgaḥ pratiṣidhya punaḥ vidhānāt . anudātte hi sati kiti vibhāṣā prasajyeta . svṛtvā . pratiṣidhya punaḥ vidhānāt . pratiṣidhya kila ayam punaḥ vidhīyate . saḥ yathā eva ekājlakṣaṇam pratiṣedham bādhate evam śryukaḥ kiti iti etam api bādheta . yadi tarhi udāttaḥ svaratiḥ paṭhiṣyati vipratiṣedham svarateḥ veṭtvāt ṛtaḥ sye vipratiṣedhena iti saḥ vipratiṣedhaḥ na upapadyate . kim kāraṇam . saḥ vidhiḥ ayam pratiṣedhaḥ vidhipratiṣedhayoḥ ca ayuktaḥ vipratiṣedhaḥ . saḥ api vidhiḥ na mṛdūnām iva kārpāsānām kṛtaḥ pratiṣedhaviṣaye ārabhyate . saḥ yathā eva ekājlakṣaṇam pratiṣedham bādhate evam imam api bādhiṣyate . atha vā yena na aprāpte tasya bādhanam bhavati na ca aprāpte valādilakṣaṇe iyam vibhāṣā ārabhyate syalakṣaṇe punaḥ prāpte ca aprāpte ca . atha vā madhye apavādāḥ pūrvān vidhīn bādhante iti evam iyam vibhāṣā valādilakṣaṇam iṭam bādhiṣyate syalakṣaṇam na bādhiṣyate . atha vā punaḥ astu anudāttaḥ . nanu ca uktam anudātte hi kiti vāprasaṅgaḥ pratiṣidhya punaḥ vidhānāt iti . na eṣaḥ doṣaḥ . yena na aprāpte tasya bādhanam bhavati na ca aprāpte ekājlakṣaṇe pratiṣedhe iyam vibhāṣā ārabhyate śryukaḥ kiti iti etasmin punaḥ prāpte ca aprāpte ca . atha vā śryukaḥ kiti iti eṣaḥ yogaḥ udāttārthaḥ ca yebhyaḥ ca anudāttebhyaḥ iṭ prāpyate tadbādhanārthaḥ ca . atha vā śryukaḥ kiti iti iha anuvartiṣyate . atha vā ācāryapravṛttiḥ jñāpayati na iyam vibhāṣā uglakṣaṇasya pratiṣedhasya viṣaye bhavati iti yat ayam sanīvantardhabhrasjadambhuśrisvṛyūrṇubharajñapisanām iti svṛgrahaṇam karoti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,२९६।८-१३ रो व्,१३९।७-१२ इट् इति वर्तमाने पुनः इड्ग्रहणम् किमर्थम् । इड्ग्रहणम् नित्यार्थम् । नित्यः अयम् आरम्भः । न एतत् अस्ति प्रयोजनम् । सिद्धा अत्र विभषा पूर्वेण एव तत्र आरम्भसामर्थ्यात् नित्यः विधिः भविष्यति । न अत्र पूर्वेण विभाषा प्राप्नोति । किम् कारणम् । यस्य विभाषा इति प्रतिषेधात् । तत्र आरम्भसामर्थ्यात् विभषा लभ्येत पुनः इड्ग्रहणात् इट् एव भवति ।

KA III,296.8-13 Ro V,139.7-12 iṭ iti vartamāne punaḥ iḍgrahaṇam kimartham . iḍgrahaṇam nityārtham . nityaḥ ayam ārambhaḥ . na etat asti prayojanam . siddhā atra vibhaṣā pūrveṇa eva tatra ārambhasāmarthyāt nityaḥ vidhiḥ bhaviṣyati . na atra pūrveṇa vibhāṣā prāpnoti . kim kāraṇam . yasya vibhāṣā iti pratiṣedhāt . tatra ārambhasāmarthyāt vibhaṣā labhyeta punaḥ iḍgrahaṇāt iṭ eva bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,२९६।१५-१७ रो व्,१४०।१-३ इषेः तकारे श्यन्प्रत्ययात् प्रतिषेधः । इषेः तकारे श्यन्प्रत्ययात् प्रतिषेधः वक्तव्यः । इह मा भूत् । प्रेषिता , प्रेषितुम् , प्रेषितव्यम् ।

KA III,296.15-17 Ro V,140.1-3 iṣeḥ takāre śyanpratyayāt pratiṣedhaḥ . iṣeḥ takāre śyanpratyayāt pratiṣedhaḥ vaktavyaḥ . iha mā bhūt . preṣitā , preṣitum , preṣitavyam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,२९६।१९-२१ रो व्,१४०।५-७ इट् इति वर्तमाने पुनः इड्ग्रहणम् किमर्थम् । पुनः इड्ग्रहणम् नित्यार्थम् । इट् इति वर्तमाने पुनः इड्ग्रहणम् क्रियते नित्यार्थम् । नित्यार्थः अयम् आरम्भः ।

KA III,296.19-21 Ro V,140.5-7 iṭ iti vartamāne punaḥ iḍgrahaṇam kimartham . punaḥ iḍgrahaṇam nityārtham . iṭ iti vartamāne punaḥ iḍgrahaṇam kriyate nityārtham . nityārthaḥ ayam ārambhaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,२९७।२-१२ रो व्,१४०।९-१४१।२ गमेः इट् परस्मैपदेषु चेत् कृति उपसङ्ख्यानम् । गमेः इट् परस्मैपदेषु चेत् कृति उपसङ्ख्यानम् कर्तव्यम् । जिगमिषिता , जिगमिषितुम् , जिगमिषितव्यम् । तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् । न कर्तव्यम् । अविशेषेण गमेः इडागमम् उक्त्वा आत्मनेपदपरे न इति वक्ष्यामि । आत्मनेपदपरप्रतिषेधे उक्तम् । किम् उक्तम् । आत्मनेपदपरप्रतिषेधे तत्परपरसीयुडेकादेशेषु प्रतिषेधः इति । इह अपि आत्मनेपदपरप्रतिषेधे तत्परपरसीयुडेकादेशेषु प्रतिषेधः वक्तव्यः । तपरपरे तावत् । सङ्जिगंसिष्यते । सीयुटि । सङ्गंसीष्ट । एकादेशे । सङ्गंस्यन्ते । एकादेशे कृते व्यपवर्गाभावात् न प्राप्नोति । सिद्धम् तु गमेः आत्मनेपदेन समानपदस्थस्य इट्प्रतिषेधात् । सिद्धम् एतत् । कथम् । गमेः आत्मनेपदेन समानपदस्थेण न भवति इति वक्तव्यम् ।

KA III,297.2-12 Ro V,140.9-141.2 gameḥ iṭ parasmaipadeṣu cet kṛti upasaṅkhyānam . gameḥ iṭ parasmaipadeṣu cet kṛti upasaṅkhyānam kartavyam . jigamiṣitā , jigamiṣitum , jigamiṣitavyam . tat tarhi upasaṅkhyānam kartavyam . na kartavyam . aviśeṣeṇa gameḥ iḍāgamam uktvā ātmanepadapare na iti vakṣyāmi . ātmanepadaparapratiṣedhe uktam . kim uktam . ātmanepadaparapratiṣedhe tatparaparasīyuḍekādeśeṣu pratiṣedhaḥ iti . iha api ātmanepadaparapratiṣedhe tatparaparasīyuḍekādeśeṣu pratiṣedhaḥ vaktavyaḥ . taparapare tāvat . saṅjigaṃsiṣyate . sīyuṭi . saṅgaṃsīṣṭa . ekādeśe . saṅgaṃsyante . ekādeśe kṛte vyapavargābhāvāt na prāpnoti . siddham tu gameḥ ātmanepadena samānapadasthasya iṭpratiṣedhāt . siddham etat . katham . gameḥ ātmanepadena samānapadastheṇa na bhavati iti vaktavyam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,२९७।१४-२९८।१२ रो व्,१४१।३-१४२।९ वृतादिप्रतिषेधे च । किम् । कृति उपसङ्ख्यानम् कर्तव्यम् : विवृत्सिता विवृत्सितुम् , विवृत्सितव्यम् । तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् । न कर्तव्यम् । अविशेषेण वृतादिभ्यः इट्प्रतिषेधम् उक्त्वा आत्मनेपदपरः इट् भवति इति वक्ष्यामि । आत्मनेपदपरे इड्वचने तत्परपरसीयुडेकादेशेषु इड्वचनम् । आत्मनेपदपरे इड्वचने तत्परपरसीयुडेकादेशेषु इट् वक्तव्यः । तपरपरे तावत् । विवर्तिषिष्यते । सीयुटि । वर्तिषीष्ट । एकादेशे । वर्तिष्यन्ते , वर्धिष्यन्ते । सिद्धम् तु वृतादीनाम् आत्मनेपदेन समानपदस्थस्य इड्वचनात् । सिद्धम् एतत् । कथम् । वृतादीनाम् आत्मनेपदेन समानप्दस्थस्य इट् भवति इति वक्तव्यम् । चतुस्तासिकॢपिग्रहणानर्थक्यम् च । चतुर्ग्रहणम् च अनर्थकम् । सर्वेभ्यः हि वृतादिभ्यः प्रतिषेधः इष्यते । तासिग्रहणम् च अनर्थकम् । किम् कारणम् । निवृत्तत्वात् सकारस्य । निवृत्तम् सकारादौ इति । तास्ग्रहणे च इदानीम् अक्रियमाणे कॢपिग्रहणेन अपि न अर्थः एषः अपि हि वृतादिः पञ्चमः । भवेत् कॢपिग्रहणम् न कर्तव्यम् तास्ग्रहणम् तु कर्तव्यम् । यत् हि तत् सकारादौ इति न तत् शक्यम् निवर्तयितुम् तृचि अपि हि प्रसज्येत । वर्तिता , वर्धिता । तास्ग्रहणे च इदानीम् क्रियमाणे कॢपिग्रहणम् अपि कर्तव्यम् अन्येभ्यः अपि वृतादिभ्यः तासौ मा भूत् इति । भवेत् तास्ग्रहणम् कर्तव्यम् कॢपिग्रहणम् तु न एव कर्तव्यम् । अन्येभ्यः अपि वृतादिभ्यः तासौ कस्मात् न भवति । परस्मैपदेषु इति वर्तते कॢपेः एव च तास्परस्मैपदपरः न अन्येभ्यः वृतादिभ्यः । यदि एवम् तास्ग्रहणेन अपि न अर्थः । तृचि कस्मात् न भवति । परस्मैपदेषु इति वर्तते ।

KA III,297.14-298.12 Ro V,141.3-142.9 vṛtādipratiṣedhe ca . kim . kṛti upasaṅkhyānam kartavyam : vivṛtsitā vivṛtsitum , vivṛtsitavyam . tat tarhi upasaṅkhyānam kartavyam . na kartavyam . aviśeṣeṇa vṛtādibhyaḥ iṭpratiṣedham uktvā ātmanepadaparaḥ iṭ bhavati iti vakṣyāmi . ātmanepadapare iḍvacane tatparaparasīyuḍekādeśeṣu iḍvacanam . ātmanepadapare iḍvacane tatparaparasīyuḍekādeśeṣu iṭ vaktavyaḥ . taparapare tāvat . vivartiṣiṣyate . sīyuṭi . vartiṣīṣṭa . ekādeśe . vartiṣyante , vardhiṣyante . siddham tu vṛtādīnām ātmanepadena samānapadasthasya iḍvacanāt . siddham etat . katham . vṛtādīnām ātmanepadena samānapdasthasya iṭ bhavati iti vaktavyam . catustāsikḷpigrahaṇānarthakyam ca . caturgrahaṇam ca anarthakam . sarvebhyaḥ hi vṛtādibhyaḥ pratiṣedhaḥ iṣyate . tāsigrahaṇam ca anarthakam . kim kāraṇam . nivṛttatvāt sakārasya . nivṛttam sakārādau iti . tāsgrahaṇe ca idānīm akriyamāṇe kḷpigrahaṇena api na arthaḥ eṣaḥ api hi vṛtādiḥ pañcamaḥ . bhavet kḷpigrahaṇam na kartavyam tāsgrahaṇam tu kartavyam . yat hi tat sakārādau iti na tat śakyam nivartayitum tṛci api hi prasajyeta . vartitā , vardhitā . tāsgrahaṇe ca idānīm kriyamāṇe kḷpigrahaṇam api kartavyam anyebhyaḥ api vṛtādibhyaḥ tāsau mā bhūt iti . bhavet tāsgrahaṇam kartavyam kḷpigrahaṇam tu na eva kartavyam . anyebhyaḥ api vṛtādibhyaḥ tāsau kasmāt na bhavati . parasmaipadeṣu iti vartate kḷpeḥ eva ca tāsparasmaipadaparaḥ na anyebhyaḥ vṛtādibhyaḥ . yadi evam tāsgrahaṇena api na arthaḥ . tṛci kasmāt na bhavati . parasmaipadeṣu iti vartate .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,२९८।१४-२९९।४ रो व्,१४३।२-१४४।५ तासौ अत्वत्प्रतिषेधे घसेः प्रतिषेधप्रसङ्गः अकारवत्त्वात् । तासौ अत्वत्प्रतिषेधे घसेः प्रतिषेधः प्राप्नोति । जघसिथ । किम् कारणम् । अकारवत्त्वात् । सः अपि हि अकारवान् । सिद्धम् तु हलादिग्रहणात् । सिद्धम् एतत् । कथम् । हलादिग्रहणम् कर्तव्यम् । तत् च अवश्यम् कर्तव्यम् । अठ्यशी प्रयोजयतः । आथ्यशी तावत् न प्रयोजयतः । किम् कारणम् । तासौ अनिटः इति उच्यते सेटौ च इमौ तासौ । अञ्ज्वशू तर्हि प्रयोजयतः । अञ्ज्वशू च अपि न प्रयोजयतः । किम् कारणम् । तासौ नित्यानिटः इति उच्यते विभाषितेटौ च एतौ । अदिः तर्हि प्रयोजयति । आदिथ । क्रियमाणे अपि वै हलादिग्रहणे अत्र प्राप्नोति । जघसिथ । एषः अपि हलादिः । तस्य च अभावात् तासौ । तासौ अनिटः इति उच्यते न च घसिः तासौ अस्ति । ननु च यः तासौ न अस्ति अनिट् अपि असौ तासौ भवति । न एवम् विज्ञायते यः तासौ अनिट् इति । कथम् तर्हि । यः तासौ अस्ति अनिट् च इति । किम् वक्तव्यम् एतत् । न हि । कथम् अनुच्यमानम् गंस्यते । सप्तम्यर्थे अपि वै वतिः भवति । तत् यथा । मथुरायाम् इव मथुरावत् । पाटलिपुत्रे इव पाटलिपुत्रवत् । एवम् तासौ इव तास्वत् ।

KA III,298.14-299.4 Ro V,143.2-144.5 tāsau atvatpratiṣedhe ghaseḥ pratiṣedhaprasaṅgaḥ akāravattvāt . tāsau atvatpratiṣedhe ghaseḥ pratiṣedhaḥ prāpnoti . jaghasitha . kim kāraṇam . akāravattvāt . saḥ api hi akāravān . siddham tu halādigrahaṇāt . siddham etat . katham . halādigrahaṇam kartavyam . tat ca avaśyam kartavyam . aṭhyaśī prayojayataḥ . āthyaśī tāvat na prayojayataḥ . kim kāraṇam . tāsau aniṭaḥ iti ucyate seṭau ca imau tāsau . añjvaśū tarhi prayojayataḥ . añjvaśū ca api na prayojayataḥ . kim kāraṇam . tāsau nityāniṭaḥ iti ucyate vibhāṣiteṭau ca etau . adiḥ tarhi prayojayati . āditha . kriyamāṇe api vai halādigrahaṇe atra prāpnoti . jaghasitha . eṣaḥ api halādiḥ . tasya ca abhāvāt tāsau . tāsau aniṭaḥ iti ucyate na ca ghasiḥ tāsau asti . nanu ca yaḥ tāsau na asti aniṭ api asau tāsau bhavati . na evam vijñāyate yaḥ tāsau aniṭ iti . katham tarhi . yaḥ tāsau asti aniṭ ca iti . kim vaktavyam etat . na hi . katham anucyamānam gaṃsyate . saptamyarthe api vai vatiḥ bhavati . tat yathā . mathurāyām iva mathurāvat . pāṭaliputre iva pāṭaliputravat . evam tāsau iva tāsvat .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,२९९।६-१९ रो व्,१४५।२-१४६।३ किमर्थम् इदम् उच्यते न अचः तास्वत् थलि अनिटः नित्यम् इति एव सिद्धम् । एवम् तर्हि नियमार्थः अयम् आरम्भः । ऋतः एव भारद्वाजस्य न अन्यतः भारद्वाजस्य इति । क्व मा भूत् । ययिथ , वविथ इति । ऋतः भारद्वाजस्य इति नियमानुपपत्तिः अप्राप्तत्वात् प्रतिषेधस्य । ऋतः भारद्वाजस्य इति नियमानुपपत्तिः । किम् कारणम् । अप्राप्तत्वात् प्रतिषेधस्य । गुणे कृते रपरत्वे च अनजन्तत्वात् प्रतिषेधः न प्राप्नोति । असति नियमे कः दोषः । तत्र पचादिभ्यः इड्वचनम् । तत्र पचादिभ्यः इट् वक्तव्यः । पेचिथ , शेकिथ इति । यदिः पुनः अयम् भारद्वाजः पुरस्तात् अपकृष्येत । अचः तास्वत् थलि अनिटः नित्यम् भारद्वाजस्य । उपदेशे अत्वतः भारद्वाजस्य । ततः ऋतः । भारद्वाजस्य इति निवृत्तम् । सिध्यते एवम् अयम् तु भारद्वाजः स्वस्मात् मतात् प्रच्यावितः भवति । एवम् तर्हि योगविभागात् सिद्धम् । योगविभागः करिष्यते । अचः तास्वत् थलि अनिटः नित्यम् उपदेशे । ततः अत्वतः । अत्वतः च उपदेशे इति ।

KA III,299.6-19 Ro V,145.2-146.3 kimartham idam ucyate na acaḥ tāsvat thali aniṭaḥ nityam iti eva siddham . evam tarhi niyamārthaḥ ayam ārambhaḥ . ṛtaḥ eva bhāradvājasya na anyataḥ bhāradvājasya iti . kva mā bhūt . yayitha , vavitha iti . ṛtaḥ bhāradvājasya iti niyamānupapattiḥ aprāptatvāt pratiṣedhasya . ṛtaḥ bhāradvājasya iti niyamānupapattiḥ . kim kāraṇam . aprāptatvāt pratiṣedhasya . guṇe kṛte raparatve ca anajantatvāt pratiṣedhaḥ na prāpnoti . asati niyame kaḥ doṣaḥ . tatra pacādibhyaḥ iḍvacanam . tatra pacādibhyaḥ iṭ vaktavyaḥ . pecitha , śekitha iti . yadiḥ punaḥ ayam bhāradvājaḥ purastāt apakṛṣyeta . acaḥ tāsvat thali aniṭaḥ nityam bhāradvājasya . upadeśe atvataḥ bhāradvājasya . tataḥ ṛtaḥ . bhāradvājasya iti nivṛttam . sidhyate evam ayam tu bhāradvājaḥ svasmāt matāt pracyāvitaḥ bhavati . evam tarhi yogavibhāgāt siddham . yogavibhāgaḥ kariṣyate . acaḥ tāsvat thali aniṭaḥ nityam upadeśe . tataḥ atvataḥ . atvataḥ ca upadeśe iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,२९९।२१-२२ रो व्,१४६।५-७ वृग्रहणम् किमर्थम् न कृसृभृवृस्तुद्रुश्रुस्रुवः लिटि इति एव सिद्धम् । एवम् तर्हि नियमार्थः अयम् आरम्भः । निगमः एव यथा स्यात् । क्व मा भूत् । ववरिथ ।

KA III,299.21-22 Ro V,146.5-7 vṛgrahaṇam kimartham na kṛsṛbhṛvṛstudruśrusruvaḥ liṭi iti eva siddham . evam tarhi niyamārthaḥ ayam ārambhaḥ . nigamaḥ eva yathā syāt . kva mā bhūt . vavaritha .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३००।२-१६ रो व्,१४७ किमर्थम् इदम् उच्यते । वस्वेकाजाद्घसांवचनम् नियमार्थम् । नियमार्थः अयम् आरम्भः । वसौ एकाजात् घसाम् एव । क्व मा भूत् । बिभिद्वान् । किम् उच्यते नियमार्थम् इति न पुनः विध्यर्थः अपि स्यात् । प्रतिषेधः अपि हि अत्र प्राप्नोति न इट् वशि कृति इति । कृत् च एव हि अयम् वशादिः च । एवम् तर्हि कृसृभृवृस्तुद्रुश्रुस्रुवः लिटि इति एतस्मात् नियमात् अत्र इट् भविष्यति । न अत्र तेन परिप्रापणम् प्राप्नोति । किम् कारणम् । प्रकृतिलक्षणस्य प्रतिषेधस्य सः प्रत्यारम्भः प्रत्ययलक्षणः च अयम् प्रतिषेधः । उभयोः सः प्रत्यारम्भः । कथम् ज्ञायते । वृङ्वृञोः ग्रहणात् । कथम् कृत्वा ज्ञापकम् । इमौ वृङ्वृञौ उदात्तौ तयोः प्रकृतिलक्षणः प्रतिषेधः न प्राप्नोति । पश्यति तु आचार्यः उभयोः सः प्रत्यारम्भः इति ततः वृङ्वृञोः ग्रहणम् करोति । न खलु अपि कः चित् उभयवान् प्रतिषेधः प्रकृतिलक्षणः प्रत्ययलक्षणः च । तुल्यजातीये असति यथा एव प्रकृतिलक्षणसय नियामकः भवति एवम् प्रत्ययलक्षणस्य अपि नियामकः भविष्यति । अथ यावता वसौ एकाज्भ्यः इटा भवितव्यम् कः नु अत्र विशेषः नियमार्थे वा सति विध्यर्थे वा । न खलु कः चित् विशेषः । आहोपुरुषिकामात्रम् तु भवान् आह विध्यर्थम् इति । वयम् तु ब्रूमः नियमार्थम् इति ।

KA III,300.2-16 Ro V,147 kimartham idam ucyate . vasvekājādghasāṃvacanam niyamārtham . niyamārthaḥ ayam ārambhaḥ . vasau ekājāt ghasām eva . kva mā bhūt . bibhidvān . kim ucyate niyamārtham iti na punaḥ vidhyarthaḥ api syāt . pratiṣedhaḥ api hi atra prāpnoti na iṭ vaśi kṛti iti . kṛt ca eva hi ayam vaśādiḥ ca . evam tarhi kṛsṛbhṛvṛstudruśrusruvaḥ liṭi iti etasmāt niyamāt atra iṭ bhaviṣyati . na atra tena pariprāpaṇam prāpnoti . kim kāraṇam . prakṛtilakṣaṇasya pratiṣedhasya saḥ pratyārambhaḥ pratyayalakṣaṇaḥ ca ayam pratiṣedhaḥ . ubhayoḥ saḥ pratyārambhaḥ . katham jñāyate . vṛṅvṛñoḥ grahaṇāt . katham kṛtvā jñāpakam . imau vṛṅvṛñau udāttau tayoḥ prakṛtilakṣaṇaḥ pratiṣedhaḥ na prāpnoti . paśyati tu ācāryaḥ ubhayoḥ saḥ pratyārambhaḥ iti tataḥ vṛṅvṛñoḥ grahaṇam karoti . na khalu api kaḥ cit ubhayavān pratiṣedhaḥ prakṛtilakṣaṇaḥ pratyayalakṣaṇaḥ ca . tulyajātīye asati yathā eva prakṛtilakṣaṇasaya niyāmakaḥ bhavati evam pratyayalakṣaṇasya api niyāmakaḥ bhaviṣyati . atha yāvatā vasau ekājbhyaḥ iṭā bhavitavyam kaḥ nu atra viśeṣaḥ niyamārthe vā sati vidhyarthe vā . na khalu kaḥ cit viśeṣaḥ . āhopuruṣikāmātram tu bhavān āha vidhyartham iti . vayam tu brūmaḥ niyamārtham iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३००।१७-२७ रो व्,१४८-१४९ अथ एकाज्ग्रहणम् किमर्थम् । इह मा भूत् । बिभिद्वान् , चिच्छिद्वान् इति । क्रियमाणे अपि वा एकाज्ग्रहणे अत्र प्राप्नोति । एषः अपि हि एकाच् । एवम् तर्हि कृते द्विर्वचने यः एकाच् । किम् वक्तव्यम् एतत् । न हि । कथम् अनुच्यमानम् गंस्यते । एकाज्ग्रहणसामर्थ्यात् । न हि कः चित् अकृते चिर्वचने एनकाच् अस्ति यदर्थम् एकाज्ग्रहणम् क्रियते । ननु च अयम् अस्ति जागर्तिः । गागृवांसः अनु ग्मन् । यत् तर्हि आकारग्रहणम् करोति न हि कः चित् अकृते द्विर्वचने आकारान्तः अनेकाच् अस्ति । ननु च अयम् अस्ति दरिद्रातिः । न दरिद्रातेः इटा भवितव्यम् । किम् कारणम् । उक्तम् एतत् दरिद्रातेः आर्धधातुके लोपः सिद्धः च प्रत्ययविधौ इति । यः च इदानीम् प्रत्ययविधौ सिद्धः सिद्धः असौ इड्विधौ । एवम् अपि भूतपूर्वगतिः विज्ञायेत । आकारान्तः यः भूतपूर्वः इति । एकाज्ग्रहणम् एव तर्हि ज्ञापकम् । ननु च उक्तम् जागर्त्यर्थम् एतत् स्यात् । न एकम् उदाहरणम् एकाज्ग्रहणम् प्रयोजयति । यदि एतावत् प्रयोजनम् स्यात् जागर्तेः न इति एव भ्रूयात् ।

KA III,300.17-27 Ro V,148-149 atha ekājgrahaṇam kimartham . iha mā bhūt . bibhidvān , cicchidvān iti . kriyamāṇe api vā ekājgrahaṇe atra prāpnoti . eṣaḥ api hi ekāc . evam tarhi kṛte dvirvacane yaḥ ekāc . kim vaktavyam etat . na hi . katham anucyamānam gaṃsyate . ekājgrahaṇasāmarthyāt . na hi kaḥ cit akṛte cirvacane enakāc asti yadartham ekājgrahaṇam kriyate . nanu ca ayam asti jāgartiḥ . gāgṛvāṃsaḥ anu gman . yat tarhi ākāragrahaṇam karoti na hi kaḥ cit akṛte dvirvacane ākārāntaḥ anekāc asti . nanu ca ayam asti daridrātiḥ . na daridrāteḥ iṭā bhavitavyam . kim kāraṇam . uktam etat daridrāteḥ ārdhadhātuke lopaḥ siddhaḥ ca pratyayavidhau iti . yaḥ ca idānīm pratyayavidhau siddhaḥ siddhaḥ asau iḍvidhau . evam api bhūtapūrvagatiḥ vijñāyeta . ākārāntaḥ yaḥ bhūtapūrvaḥ iti . ekājgrahaṇam eva tarhi jñāpakam . nanu ca uktam jāgartyartham etat syāt . na ekam udāharaṇam ekājgrahaṇam prayojayati . yadi etāvat prayojanam syāt jāgarteḥ na iti eva bhrūyāt .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३०१।१-११ रो व्, १५०-१५१ अथ घसिग्रहणम् किमर्थ न एकाच् इति एव सिद्धम् । घसिग्रहणम् अनच्कत्वात् । घसिग्रहणम् क्रियते लोपे कृते अनच्कत्वात् इट् न प्राप्नोति । इदम् इह सम्प्रधार्यम् । इट् क्रियताम् लोपः इति किम् अत्र कर्तव्यम् । परत्वात् इडागमः । नित्यः लोपः । कृते अपि इटि प्राप्नोति अकृते अपि । इट् अपि नित्यः । कृते अपि लोपे प्राप्नोति अकृते अपि । अनित्यः इट् न हि कृते लोपे प्राप्नोति । किम् कारणम् । अनच्कत्वात् । एवम् तर्हि द्विर्वचने कृते अभ्यासे यः अकारः तदाश्रयः इट् भविष्यति । न सिध्यति । किम् कारणम् । द्वित्वात् लोपस्य परत्वात् । द्विर्वचनम् क्रियताम् लोपः इति किम् अत्र कर्तव्यम् । परत्वात् लोपः । लोपे कृते अनच्कत्वात् द्विर्वचनम् न प्राप्नोति । घसिग्रहणे पुनः क्रियमाणे न दोषः भवति । कथम् । वचनात् इट् भविष्यति । इटि कृते द्विर्वचनम् क्रियताम् लोपः इति यदि अपि परत्वात् लोपः स्थानिवद्भावात् द्विर्वचनम् भविष्यति ।

KA III,301.1-11 Ro V, 150-151 atha ghasigrahaṇam kimartha na ekāc iti eva siddham . ghasigrahaṇam anackatvāt . ghasigrahaṇam kriyate lope kṛte anackatvāt iṭ na prāpnoti . idam iha sampradhāryam . iṭ kriyatām lopaḥ iti kim atra kartavyam . paratvāt iḍāgamaḥ . nityaḥ lopaḥ . kṛte api iṭi prāpnoti akṛte api . iṭ api nityaḥ . kṛte api lope prāpnoti akṛte api . anityaḥ iṭ na hi kṛte lope prāpnoti . kim kāraṇam . anackatvāt . evam tarhi dvirvacane kṛte abhyāse yaḥ akāraḥ tadāśrayaḥ iṭ bhaviṣyati . na sidhyati . kim kāraṇam . dvitvāt lopasya paratvāt . dvirvacanam kriyatām lopaḥ iti kim atra kartavyam . paratvāt lopaḥ . lope kṛte anackatvāt dvirvacanam na prāpnoti . ghasigrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . katham . vacanāt iṭ bhaviṣyati . iṭi kṛte dvirvacanam kriyatām lopaḥ iti yadi api paratvāt lopaḥ sthānivadbhāvāt dvirvacanam bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३०१।१३-१४ रो व्,१५१।५-६ दृशेः च इति वक्तव्यम् । ददृश्वान् , ददृशिवान् । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । दृशेः इति वर्तते ।

KA III,301.13-14 Ro V,151.5-6 dṛśeḥ ca iti vaktavyam . dadṛśvān , dadṛśivān . tat tarhi vaktavyam . na vaktavyam . dṛśeḥ iti vartate .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३०१,१६-२० रो व्,१५१।८-१२ स्वरतेः वेट्त्वात् ऋतः स्ये विप्रतिषेधेन । स्वरतिलक्षणात् वावचनात् ऋतः स्ये इति एतत् भवति विप्रतिषेधेन । स्वरतिलक्षणस्य वावचनस्य अवकाशः । स्वर्ता , स्वरिता । ऋतः स्ये इति अस्य अवकाशः । करिष्यते , हरिष्यते । इह उभयम् प्राप्नोति । स्वरिष्यति , अस्वरिष्यत् । ऋतः स्ये इति एतत् भवति विप्रतिषेधेन ।

KA III,301,16-20 Ro V,151.8-12 svarateḥ veṭtvāt ṛtaḥ sye vipratiṣedhena . svaratilakṣaṇāt vāvacanāt ṛtaḥ sye iti etat bhavati vipratiṣedhena . svaratilakṣaṇasya vāvacanasya avakāśaḥ . svartā , svaritā . ṛtaḥ sye iti asya avakāśaḥ . kariṣyate , hariṣyate . iha ubhayam prāpnoti . svariṣyati , asvariṣyat . ṛtaḥ sye iti etat bhavati vipratiṣedhena .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३०१।२१-३०२।१० रो व्,१५१।१४-१५२।१० किम् उदाहरणम् । अयंसीत् , व्यरंसीत् , अनंसीत् , अयासीत् , अवासीत् । न एतत् अस्ति । न अस्ति अत्र विशेषः सति वा इटि असति वा । इदम् तर्हि । अयंसिष्टाम् , अयंसिषुः , व्यरंसिष्टाम् , व्यरंसिषुः , अनंसिष्टाम् , अनंसिषुः , अयासिष्टाम् , अयासिषुः , अवासिष्टाम् , अवासिषुः । इदम् च अपि उदाहरणम् । अयंसीत् , व्यरंसीत् , अनंसीत् , अयासीत् , अवासीत् । ननु च उक्तम् न अस्ति अत्र विशेषः सति वा इटि असति वा इति । अयम् अस्ति विशेषः । यदि अत्र इट् न स्यात् वृद्धिः प्रसज्येत । इटि पुनः सति न इटि इति प्रतिषेधः सिद्धः भवति । मा भूत् एवम् ह्म्यन्तानाम् इति एवम् भविष्यति । अत्र अपि न इटि इति अनुवर्तते । तत् च अवश्यम् इड्ग्रहणम् अनुवर्त्यम् अधाक्षीत् इति एवमर्थम् । आकारान्ताः च अपि पदपूर्वाः एकवचने उदाहरणम् । मा हि यासीत् । यदि अत्र इट् न स्यात् अनुदात्तस्य ईटः श्रवणम् प्रसज्येत । इटि पुनः सति उक्तम् एतत् अर्थवत् तु सिचः चित्करणसामर्थ्यात् हि इटः उदात्तत्वम् इति तत्र एकादेशः उदात्तेन उदात्तः इति उदात्तत्वम् सिद्धम् भवति ।

KA III,301.21-302.10 Ro V,151.14-152.10 kim udāharaṇam . ayaṃsīt , vyaraṃsīt , anaṃsīt , ayāsīt , avāsīt . na etat asti . na asti atra viśeṣaḥ sati vā iṭi asati vā . idam tarhi . ayaṃsiṣṭām , ayaṃsiṣuḥ , vyaraṃsiṣṭām , vyaraṃsiṣuḥ , anaṃsiṣṭām , anaṃsiṣuḥ , ayāsiṣṭām , ayāsiṣuḥ , avāsiṣṭām , avāsiṣuḥ . idam ca api udāharaṇam . ayaṃsīt , vyaraṃsīt , anaṃsīt , ayāsīt , avāsīt . nanu ca uktam na asti atra viśeṣaḥ sati vā iṭi asati vā iti . ayam asti viśeṣaḥ . yadi atra iṭ na syāt vṛddhiḥ prasajyeta . iṭi punaḥ sati na iṭi iti pratiṣedhaḥ siddhaḥ bhavati . mā bhūt evam hmyantānām iti evam bhaviṣyati . atra api na iṭi iti anuvartate . tat ca avaśyam iḍgrahaṇam anuvartyam adhākṣīt iti evamartham . ākārāntāḥ ca api padapūrvāḥ ekavacane udāharaṇam . mā hi yāsīt . yadi atra iṭ na syāt anudāttasya īṭaḥ śravaṇam prasajyeta . iṭi punaḥ sati uktam etat arthavat tu sicaḥ citkaraṇasāmarthyāt hi iṭaḥ udāttatvam iti tatra ekādeśaḥ udāttena udāttaḥ iti udāttatvam siddham bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३०२।१३-१८ रो व्,१५२।१३-१५३।४ किमर्थः योगविभागः न इशीडजनाम् स्ध्वे इति एव उच्येत । ईशः ध्वे मा भूत् इति । इष्यते एव : ईशिध्वे इति । ईडजनोः तर्हि से मा भूत् इति । इष्यते एव । ईडिषे , जनिषे इति । ईशः तर्हि स्वे मा भूत् इति । इष्यते एव । ईशिष्व इति । से तर्हि यः स्वशब्दः तत्र यथा स्यात् क्रियासमभिहारे यः स्वशब्दः तत्र मा भूत् इति । अत्र अपि इष्यते । सः भवान् ईशिष्व इति एव अयम् ईष्टे इति । आतः च इष्यते एवम् हि आह सिद्धम् तु लोण्मध्यमपुरुषैकवचनस्य क्रियासमभिहारे द्विर्वचनात् इति ।

KA III,302.13-18 Ro V,152.13-153.4 kimarthaḥ yogavibhāgaḥ na iśīḍajanām sdhve iti eva ucyeta . īśaḥ dhve mā bhūt iti . iṣyate eva : īśidhve iti . īḍajanoḥ tarhi se mā bhūt iti . iṣyate eva . īḍiṣe , janiṣe iti . īśaḥ tarhi sve mā bhūt iti . iṣyate eva . īśiṣva iti . se tarhi yaḥ svaśabdaḥ tatra yathā syāt kriyāsamabhihāre yaḥ svaśabdaḥ tatra mā bhūt iti . atra api iṣyate . saḥ bhavān īśiṣva iti eva ayam īṣṭe iti . ātaḥ ca iṣyate evam hi āha siddham tu loṇmadhyamapuruṣaikavacanasya kriyāsamabhihāre dvirvacanāt iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३०२।२०-३०३।२ रो व्,१५४।१-६ किम् सार्वधातुकग्रहणम् अनुवर्तते उताहो न । किम् च अर्थः अनुवृत्त्या । बाढम् अर्थः यदि अकारात् परः याशब्दः आर्धधातुकम् अस्ति । ननु च अयम् अस्ति । चिकीर्ष्यात् , जिहीर्ष्यात् । लोपः अत्र बाधकः भविष्यति । किम् तर्हि अस्मिन् योगे उदाहरणम् । पचेत् , यजेत् । अत्र अपि अतः दीर्घः यञि इति दीर्घत्वम् प्राप्नोति । सः यथा एव अयादेशः दीर्घत्वम् बाधते एवम् लोपम् अपि बाधेत । तस्मात् सार्वधातुकग्रहणम् अनुवर्त्यम् ।

KA III,302.20-303.2 Ro V,154.1-6 kim sārvadhātukagrahaṇam anuvartate utāho na . kim ca arthaḥ anuvṛttyā . bāḍham arthaḥ yadi akārāt paraḥ yāśabdaḥ ārdhadhātukam asti . nanu ca ayam asti . cikīrṣyāt , jihīrṣyāt . lopaḥ atra bādhakaḥ bhaviṣyati . kim tarhi asmin yoge udāharaṇam . pacet , yajet . atra api ataḥ dīrghaḥ yañi iti dīrghatvam prāpnoti . saḥ yathā eva ayādeśaḥ dīrghatvam bādhate evam lopam api bādheta . tasmāt sārvadhātukagrahaṇam anuvartyam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३०३।४-२३ रो व्,१५५।२-१५६।१५ मुकि स्वरे दोषः । मुकि सति स्वरे दोषः भवति । पचमानः , यजमानः । मुका व्यवहितत्वात् अनुदात्तत्वम् न प्राप्नोति । ननु च अयम् मुक् अदुपदेशभक्तः अदुपदेशग्रहणेन ग्राहिष्यते । न सिध्यति । अङ्गस्य मुक् उच्यते विकरणान्तम् च अङ्गम् सः अयम् सङ्घातभक्तः अशक्यः अदुपदेशग्रहणेन ग्रहीतुम् । एवम् तर्हि अभक्तः करिष्यते । अभक्ते च । किम् । स्वरे दोषः भवति । पचमानः , यजमानः । मुका व्यवहितत्वात् अनुदात्तत्वम् न प्राप्नोति । एवम् तर्हि परादिः करिष्यते । परादौ दीर्घप्रसङ्गः । यदि परादिः क्रियते अतः दीर्घः यञि इति दीर्घत्वम् प्राप्नोति । न एषः दोषः । तिङि इति एवम् तत् । सिध्यति । सूत्रम् तर्हि भिद्यते । यथान्यासम् एव अस्तु । ननु च उक्तम् मुकि स्वरे दोषः इति । परिहृतम् एतत् अदुपदेशभक्तः अदुपदेशग्रहणेन ग्राहिष्यते । ननु च उक्तम् अङ्गस्य मुक् उच्यते विकरणान्तम् च अङ्गम् सः अयम् सङ्घातभक्तः अशक्यः अदुपदेशग्रहणेन ग्रहीतुम् इति । अथ अयम् अद्भक्तः स्यात् गृह्येत अदुपदेशग्रहणेन । बाढम् गृह्येत । अद्भक्तः तर्हि भविष्यति । तत् कथम् । अतः या इयः इति अत्र अकारग्रहणम् पञ्चमीनिर्दिष्टम् अङ्गस्य इति च षष्ठीनिर्दिष्टम् तत्र अशक्यम् विविभक्तित्वात् अतः इति पञ्चम्या अङ्गम् विशेषयितुम् । तत् प्रकृतम् इह अनुवर्तिष्यते । एवम् अपि षष्ठ्यभावात् न प्राप्नोति । आनः इति एषा सप्तमी अतः इति पञ्चम्याः षष्ठीम् प्रकल्पयिष्यति तस्मिन् इति निर्दिष्टे पूर्वस्य इति ।

KA III,303.4-23 Ro V,155.2-156.15 muki svare doṣaḥ . muki sati svare doṣaḥ bhavati . pacamānaḥ , yajamānaḥ . mukā vyavahitatvāt anudāttatvam na prāpnoti . nanu ca ayam muk adupadeśabhaktaḥ adupadeśagrahaṇena grāhiṣyate . na sidhyati . aṅgasya muk ucyate vikaraṇāntam ca aṅgam saḥ ayam saṅghātabhaktaḥ aśakyaḥ adupadeśagrahaṇena grahītum . evam tarhi abhaktaḥ kariṣyate . abhakte ca . kim . svare doṣaḥ bhavati . pacamānaḥ , yajamānaḥ . mukā vyavahitatvāt anudāttatvam na prāpnoti . evam tarhi parādiḥ kariṣyate . parādau dīrghaprasaṅgaḥ . yadi parādiḥ kriyate ataḥ dīrghaḥ yañi iti dīrghatvam prāpnoti . na eṣaḥ doṣaḥ . tiṅi iti evam tat . sidhyati . sūtram tarhi bhidyate . yathānyāsam eva astu . nanu ca uktam muki svare doṣaḥ iti . parihṛtam etat adupadeśabhaktaḥ adupadeśagrahaṇena grāhiṣyate . nanu ca uktam aṅgasya muk ucyate vikaraṇāntam ca aṅgam saḥ ayam saṅghātabhaktaḥ aśakyaḥ adupadeśagrahaṇena grahītum iti . atha ayam adbhaktaḥ syāt gṛhyeta adupadeśagrahaṇena . bāḍham gṛhyeta . adbhaktaḥ tarhi bhaviṣyati . tat katham . ataḥ yā iyaḥ iti atra akāragrahaṇam pañcamīnirdiṣṭam aṅgasya iti ca ṣaṣṭhīnirdiṣṭam tatra aśakyam vivibhaktitvāt ataḥ iti pañcamyā aṅgam viśeṣayitum . tat prakṛtam iha anuvartiṣyate . evam api ṣaṣṭhyabhāvāt na prāpnoti . ānaḥ iti eṣā saptamī ataḥ iti pañcamyāḥ ṣaṣṭhīm prakalpayiṣyati tasmin iti nirdiṣṭe pūrvasya iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३०४।२-१५ रो व्,१५७।२-१५९।३ अष्टन्जनादिपथिमथ्यात्वेषु आन्तरतम्यात् अनुनासिकप्रसङ्गः । अष्टन्जनादिपथिमथ्यात्वेषु आन्तरतम्यात् अनुनासिकः प्राप्नोति । अष्टाभिः , अष्टाभ्यः , जातः , जातवान् , पन्थाः , मन्थाः । सिद्धम् अनण्त्वात् । सिद्धम् एतत् । कथम् । अनण्त्वात् । कथम् अनण्त्वम् । अण्सवर्णान् गृह्णाति इति उच्यते न च अकारः अण् । उच्चारणसामर्थ्यात् वा । अथ वा शुद्धोच्चारणसामर्थ्यात् न भविष्यति । न एतौ स्तः परिहारौ । यत् तावत् उच्यते अनण्त्वात् इति न ब्रूमः अण्सवर्णान् गृह्णाति इति । कथम् तर्हि तपरः तत्कालस्य इति । यत् अपि उच्यते उच्चारणसामर्थ्यात् वा इति अस्ति अन्यत् उच्चारणे प्रयोजनम् । किम् । उत्तरार्थम् । रायः हलि इति । एवम् तर्हि न इमौ पृथक्परिहारौ । एकपरिहरः अयम् । सिद्धम् अनण्त्वात् उच्चारणसामर्थ्यात् वा इति । इह तावत् अष्टाभिः , अष्टाभ्यः इति अनण्त्वात् सिद्धम् । जातः , जातवान् , पन्थाः , मन्थाः उच्चारण्सामर्थ्यात् सिद्धम् । यदि एवम् पृथक्परिहारयोः अपि न दोषः । यः यत्र परिहारः सः तत्र भविष्यति ।

KA III,304.2-15 Ro V,157.2-159.3 aṣṭanjanādipathimathyātveṣu āntaratamyāt anunāsikaprasaṅgaḥ . aṣṭanjanādipathimathyātveṣu āntaratamyāt anunāsikaḥ prāpnoti . aṣṭābhiḥ , aṣṭābhyaḥ , jātaḥ , jātavān , panthāḥ , manthāḥ . siddham anaṇtvāt . siddham etat . katham . anaṇtvāt . katham anaṇtvam . aṇsavarṇān gṛhṇāti iti ucyate na ca akāraḥ aṇ . uccāraṇasāmarthyāt vā . atha vā śuddhoccāraṇasāmarthyāt na bhaviṣyati . na etau staḥ parihārau . yat tāvat ucyate anaṇtvāt iti na brūmaḥ aṇsavarṇān gṛhṇāti iti . katham tarhi taparaḥ tatkālasya iti . yat api ucyate uccāraṇasāmarthyāt vā iti asti anyat uccāraṇe prayojanam . kim . uttarārtham . rāyaḥ hali iti . evam tarhi na imau pṛthakparihārau . ekapariharaḥ ayam . siddham anaṇtvāt uccāraṇasāmarthyāt vā iti . iha tāvat aṣṭābhiḥ , aṣṭābhyaḥ iti anaṇtvāt siddham . jātaḥ , jātavān , panthāḥ , manthāḥ uccāraṇsāmarthyāt siddham . yadi evam pṛthakparihārayoḥ api na doṣaḥ . yaḥ yatra parihāraḥ saḥ tatra bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३०४।१७-१८ रो व्,१५९।५-६ अनादेशग्रहणम् शक्यम् अकर्तुम् । कथम् हलि इति अनुवर्तते न च आदेशः हलादिः अस्ति । तत् एतत् अनादेशग्रहणम् तिष्ठतु तावत् सान्न्यासिकम् ।

KA III,304.17-18 Ro V,159.5-6 anādeśagrahaṇam śakyam akartum . katham hali iti anuvartate na ca ādeśaḥ halādiḥ asti . tat etat anādeśagrahaṇam tiṣṭhatu tāvat sānnyāsikam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३०४-२१ रो व्,१५९।८-९ अज्ग्रहणम् शक्यम् अकर्तुम् । कथम् । अविशेषेण यत्वम् उत्सर्गः तस्य हलादौ आत्वम् अपवादः ।

KA III,304-21 Ro V,159.8-9 ajgrahaṇam śakyam akartum . katham . aviśeṣeṇa yatvam utsargaḥ tasya halādau ātvam apavādaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३०५।२-३ रो व्,१६०।२-३ शेषग्रहणम् शक्यम् अकर्तुम् । कथम् । अविशेषेण लोपः उत्सर्गः तस्य अजादौ यत्वम् अपवादः हलादौ आत्वम् ।

KA III,305.2-3 Ro V,160.2-3 śeṣagrahaṇam śakyam akartum . katham . aviśeṣeṇa lopaḥ utsargaḥ tasya ajādau yatvam apavādaḥ halādau ātvam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३०५।५-१३ रो व्,१६०।५-१६२।२ परिग्रहणम् शक्यम् अकर्तुम् । मान्तस्य इति एव सिद्धम् । न सिध्यति । किम् कारणम् । अन्तशब्दस्य उभयार्थत्वात् । कथम् । अयम् अन्तशब्दः अस्ति एव सह तेन वर्तते । तत् यथा । मर्यादान्तम् देवदत्तस्य क्षेत्रम् । सह मर्यादया इति गम्यते । अस्ति प्राक् तस्मात् वर्तते । तत् यथा । नद्यन्तम् देवदत्तस्य क्षेत्रम् इति । प्राक् नद्याः इति गम्यते । तत् यः सह तेन वर्तते तस्य इदम् ग्रहणम् यथा विज्ञायेत । न एतत् अस्ति प्रयोजनम् । सर्वत्र एव अन्तशब्दः सह तेन वर्तते । अथ कथम् नद्यन्तम् देवदत्तस्य क्षेत्रम् इति । नद्याः क्षेत्रत्वे सम्भः न अस्ति इति कृत्वा प्राक् नद्याः इति गम्यते । अवधिद्योतनार्थम् तर्हि परिग्रहणम् कर्तव्यम् । मान्तस्य इति इयति उच्यमाने यत्र एव मान्ते युष्मदस्मदी तत्र एव आदेशाः स्युः । क्व च मान्ते युष्मदस्मदी । युष्मान् आचष्टे , अस्मान् आचष्टे इति युष्मयतेः अस्मयतेः च अप्रत्ययः ।

KA III,305.5-13 Ro V,160.5-162.2 parigrahaṇam śakyam akartum . māntasya iti eva siddham . na sidhyati . kim kāraṇam . antaśabdasya ubhayārthatvāt . katham . ayam antaśabdaḥ asti eva saha tena vartate . tat yathā . maryādāntam devadattasya kṣetram . saha maryādayā iti gamyate . asti prāk tasmāt vartate . tat yathā . nadyantam devadattasya kṣetram iti . prāk nadyāḥ iti gamyate . tat yaḥ saha tena vartate tasya idam grahaṇam yathā vijñāyeta . na etat asti prayojanam . sarvatra eva antaśabdaḥ saha tena vartate . atha katham nadyantam devadattasya kṣetram iti . nadyāḥ kṣetratve sambhaḥ na asti iti kṛtvā prāk nadyāḥ iti gamyate . avadhidyotanārtham tarhi parigrahaṇam kartavyam . māntasya iti iyati ucyamāne yatra eva mānte yuṣmadasmadī tatra eva ādeśāḥ syuḥ . kva ca mānte yuṣmadasmadī . yuṣmān ācaṣṭe , asmān ācaṣṭe iti yuṣmayateḥ asmayateḥ ca apratyayaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३०५।१५-३०६।५ रो व्,१६३-१६४ किमर्थम् इदम् उच्यते न त्वमौ एकवचने इति एव सिद्धम् । न सिध्यति । किम् कारणम् । एकवचनाभावात् । एकवचने इति उच्यते न च अत्र एकवचनम् पश्यामः । प्रत्ययलक्षणेन । न लुमता अङ्गस्य इति प्रत्ययलक्षणस्य प्रतिषेधः । एवम् तर्हि इदम् इह सम्प्रधार्यम् । लुक् क्रियताम् आदेशौ इति किम् अत्र कर्तव्यम् । परत्वात् आदेशौ । नित्यः लुक् । कृतयोः अपि आदेशयोः प्राप्नोति अकृतयोः अपि । अन्तरङ्गौ आदेशौ । एवम् तर्हि सिद्धे सति यत्प्रत्ययोत्तरपदयोः त्वमौ शास्ति तत् ज्ञापयति आचार्यः अन्तरङ्गान् अपि विधीन् बाधित्वा बहिरङ्गः लुक् भवति इति । किम् एतस्य ज्ञापने प्रयोजनम् । गोमान् प्रियः अस्य गोमत्प्रियः , यवमत्प्रियः गोमान् इव आचरति गोमत्यते , यवमत्यते अन्तरङ्गान् अपि नुमादीन् बहिरङ्गः लुक् बाधते इति । न एतत् अस्ति ज्ञापकम् । अस्ति अन्यत् एतस्य वचने प्रयोजनम् । किम् । ये अन्ये एकवचनादेशाः प्राप्नुवन्ति तद्बाधनार्थम् एतत् स्यात् । तत् यथा । तव पुत्रः त्वत्पुत्रः , मम पुत्रः मत्पुत्रः , तुभ्यम् हितम् त्वद्धितम् , मह्यम् हितम् मद्धितम् इति । यत् तर्हि मपर्यन्तग्रहणम् अनुवर्तयति । यति अत्र अन्ये एकवचनादेशाः स्युः मपर्त्यन्तानुवृत्तिः अनर्थिका स्यात् ।

KA III,305.15-306.5 Ro V,163-164 kimartham idam ucyate na tvamau ekavacane iti eva siddham . na sidhyati . kim kāraṇam . ekavacanābhāvāt . ekavacane iti ucyate na ca atra ekavacanam paśyāmaḥ . pratyayalakṣaṇena . na lumatā aṅgasya iti pratyayalakṣaṇasya pratiṣedhaḥ . evam tarhi idam iha sampradhāryam . luk kriyatām ādeśau iti kim atra kartavyam . paratvāt ādeśau . nityaḥ luk . kṛtayoḥ api ādeśayoḥ prāpnoti akṛtayoḥ api . antaraṅgau ādeśau . evam tarhi siddhe sati yatpratyayottarapadayoḥ tvamau śāsti tat jñāpayati ācāryaḥ antaraṅgān api vidhīn bādhitvā bahiraṅgaḥ luk bhavati iti . kim etasya jñāpane prayojanam . gomān priyaḥ asya gomatpriyaḥ , yavamatpriyaḥ gomān iva ācarati gomatyate , yavamatyate antaraṅgān api numādīn bahiraṅgaḥ luk bādhate iti . na etat asti jñāpakam . asti anyat etasya vacane prayojanam . kim . ye anye ekavacanādeśāḥ prāpnuvanti tadbādhanārtham etat syāt . tat yathā . tava putraḥ tvatputraḥ , mama putraḥ matputraḥ , tubhyam hitam tvaddhitam , mahyam hitam maddhitam iti . yat tarhi maparyantagrahaṇam anuvartayati . yati atra anye ekavacanādeśāḥ syuḥ mapartyantānuvṛttiḥ anarthikā syāt .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३०६।६-३०७।१६ रो व्,१६५-१६७ त्रिचतुर्युष्मदस्मद्ग्रहणेषु अर्थग्रहणम् शब्दविशेषणम् । त्रिचतुर्युष्मदस्मद्ब्रहणेषु अर्थग्रहणम् शब्दविशेषणम् द्रष्टव्यम् । त्रिचतुरोः स्त्रियाम् तिसृचतसृ । यदि अपि समासः पुंसि नपुंसके वा वर्तते त्रिचतुरौ च स्त्रियाम् वर्तेते भवति एव तिसृचतसृभावः । प्रियाः तिस्रः ब्राह्मण्यः अस्य ब्राह्मणस्य प्रियतिसा , प्रियतिस्रौ , प्रियतिस्रः , प्रियचतसा , प्रियचतस्रौ , प्रियचतस्रः , प्रियाः तिस्रः ब्राह्मण्यः अस्य ब्राह्मणकुलस्य प्रियतिसृ, प्रियतिसृणी , प्रियतिसॄणि , प्रियचतसृ , प्रियचतसृणी , प्रियचतसॄणि । यदा हि समासः स्त्रियाम् वर्तते त्रिचतुरौ च पुंसि नपुंसके वा तदा म भूताम् इति । प्रियाः त्रयः ब्राह्मणाः अस्याः ब्राह्मण्याः प्र्यत्रिः , प्रियत्री , प्रियत्रयः , प्रियचत्वाः , प्रियचत्वारौ , प्रियचत्वारः । प्रियाणि त्रीणि ब्राह्मणकुलानि अस्याः ब्राह्मण्याः प्रियत्रिः , प्रियत्री , प्रियत्रयः , प्रियचत्वाः प्रियचत्वारौ प्रियचत्वारः । युवावौ द्विवचने । यदि अपि समासः एकार्थः वा भवति बह्वर्थः वा भवति द्व्यर्थे च युष्मदस्मदी भवतः एव युवावौ । किम् अविशेषेण । न इति आह । यूयवयौ जसि त्वाहौ सौ तुभ्यमह्यौ ङयि तवममौ ङसि इति एतान् विधीन् वर्जयित्वा । अतिक्रान्तः युवाम् अतित्वम् , अत्यहम् , अतिक्रान्तौ युवाम् अतियुवाम् , अत्यावाम् , अतिक्रान्तौ युवाम् अतियुवाम् , अत्यावाम् , अतिक्रान्तान् युवाम् अतियुवान् , अत्यावान् , अतियुवया , अत्यावया , अतियुवाभ्याम् , अत्यावाभ्याम् , अतियुवाभिः अत्यावाभिः , अतितुभ्यम् , अतिमह्यम् , अतियुवाभ्याम् , अत्यावाभ्याम् , अतियुवभ्यम् , अत्यावभ्यम् , अतियुवत् , अत्यावत् , अतियुवाभ्याम् अत्यावाभ्यम् , अतियुवत् , अत्यावत् , अतितव , अतिमम, अतियुवयोः , अत्यावयोः , अतियुवाकम् , अत्यावाकम् , अतियुवयि , अत्यावयि , अतियुवयोः , अत्यावयोः , अतियुवासु , अत्यावासु । त्मौ एकवचने । यदि अपि समासः द्व्यर्थः भवति बह्वर्थः वा एकार्थे च युष्मदस्मदी भवतः एव त्वमौ । किम् अविशेषेण । न इति आह । तान् एव विधीन् वर्जयित्वा । अतिक्रान्तः त्वाम् अतित्वम् , अत्यहम् , अतिक्रान्तौ त्वाम् अतित्वाम् , अतिमाम् , अतिक्रान्तौ त्वाम् अतित्वाम् , अतिमाम् , अतिक्रान्तान् त्वाम् अतित्वान् अतिमान् , अतित्वया , अतिमया , अतित्वाभ्याम् , अतिमाभ्याम् , अतित्वभ्यम् , अतिमभ्यम् , अतित्वत् , अतिमत् , अतित्वाभ्याम् , अतिमाभ्याम् , अतित्वभ्यम् , अतिमभ्यम् , अतित्वत् , अतिमत् , अतिमाभ्याम् , अतित्वत् , अतिमत् , अतितव , अतिमम , अतित्वयोः अतिमयोः , अतित्वाकम् , अतिमाकम् , अतित्वयि , अतिमयि , अतित्वयोः , अतिमयोः , अतित्वासु , अतिमासु । यदि एवम् यूयवयौ जसि त्वाहौ सौ तुभ्यमह्यौ ङयि तवममौ ङसि इति एतेभ्यः विधिभ्यः परत्वात् त्वमौ एकवचने इति प्राप्नोति । सावकासाः हि एते विधयः इदानीम् भवन्ति । कः अवकाशः । अनेकार्थे युष्मदस्मदी । त्वमौ एकवचने इति अस्य अवकाशः । अन्यानि वचनानि । एकार्थयोः युष्मदस्मदोः एतेषु वचनेषु उभयम् प्राप्नोति । परत्वात् त्वमौ एकवचने इति प्राप्नोति । न एषः दोषः । शेषे इति वर्तते । कः च शेषः । जसादिभिः अव्याप्तम् यत् एकवचनम् तस्मिन् शेषे । अशेषत्वात् न भविष्यति । अथ वा तमौ एकवचने इति अत्र यूयवयौ जसि त्वाहौ सौ तुभ्यमह्यौ ङयि तवममौ ङसि इति एतत् अनुवर्तिष्यते ।

KA III,306.6-307.16 Ro V,165-167 tricaturyuṣmadasmadgrahaṇeṣu arthagrahaṇam śabdaviśeṣaṇam . tricaturyuṣmadasmadbrahaṇeṣu arthagrahaṇam śabdaviśeṣaṇam draṣṭavyam . tricaturoḥ striyām tisṛcatasṛ . yadi api samāsaḥ puṃsi napuṃsake vā vartate tricaturau ca striyām vartete bhavati eva tisṛcatasṛbhāvaḥ . priyāḥ tisraḥ brāhmaṇyaḥ asya brāhmaṇasya priyatisā , priyatisrau , priyatisraḥ , priyacatasā , priyacatasrau , priyacatasraḥ , priyāḥ tisraḥ brāhmaṇyaḥ asya brāhmaṇakulasya priyatisṛ, priyatisṛṇī , priyatisṝṇi , priyacatasṛ , priyacatasṛṇī , priyacatasṝṇi . yadā hi samāsaḥ striyām vartate tricaturau ca puṃsi napuṃsake vā tadā ma bhūtām iti . priyāḥ trayaḥ brāhmaṇāḥ asyāḥ brāhmaṇyāḥ pryatriḥ , priyatrī , priyatrayaḥ , priyacatvāḥ , priyacatvārau , priyacatvāraḥ . priyāṇi trīṇi brāhmaṇakulāni asyāḥ brāhmaṇyāḥ priyatriḥ , priyatrī , priyatrayaḥ , priyacatvāḥ priyacatvārau priyacatvāraḥ . yuvāvau dvivacane . yadi api samāsaḥ ekārthaḥ vā bhavati bahvarthaḥ vā bhavati dvyarthe ca yuṣmadasmadī bhavataḥ eva yuvāvau . kim aviśeṣeṇa . na iti āha . yūyavayau jasi tvāhau sau tubhyamahyau ṅayi tavamamau ṅasi iti etān vidhīn varjayitvā . atikrāntaḥ yuvām atitvam , atyaham , atikrāntau yuvām atiyuvām , atyāvām , atikrāntau yuvām atiyuvām , atyāvām , atikrāntān yuvām atiyuvān , atyāvān , atiyuvayā , atyāvayā , atiyuvābhyām , atyāvābhyām , atiyuvābhiḥ atyāvābhiḥ , atitubhyam , atimahyam , atiyuvābhyām , atyāvābhyām , atiyuvabhyam , atyāvabhyam , atiyuvat , atyāvat , atiyuvābhyām atyāvābhyam , atiyuvat , atyāvat , atitava , atimama, atiyuvayoḥ , atyāvayoḥ , atiyuvākam , atyāvākam , atiyuvayi , atyāvayi , atiyuvayoḥ , atyāvayoḥ , atiyuvāsu , atyāvāsu . tmau ekavacane . yadi api samāsaḥ dvyarthaḥ bhavati bahvarthaḥ vā ekārthe ca yuṣmadasmadī bhavataḥ eva tvamau . kim aviśeṣeṇa . na iti āha . tān eva vidhīn varjayitvā . atikrāntaḥ tvām atitvam , atyaham , atikrāntau tvām atitvām , atimām , atikrāntau tvām atitvām , atimām , atikrāntān tvām atitvān atimān , atitvayā , atimayā , atitvābhyām , atimābhyām , atitvabhyam , atimabhyam , atitvat , atimat , atitvābhyām , atimābhyām , atitvabhyam , atimabhyam , atitvat , atimat , atimābhyām , atitvat , atimat , atitava , atimama , atitvayoḥ atimayoḥ , atitvākam , atimākam , atitvayi , atimayi , atitvayoḥ , atimayoḥ , atitvāsu , atimāsu . yadi evam yūyavayau jasi tvāhau sau tubhyamahyau ṅayi tavamamau ṅasi iti etebhyaḥ vidhibhyaḥ paratvāt tvamau ekavacane iti prāpnoti . sāvakāsāḥ hi ete vidhayaḥ idānīm bhavanti . kaḥ avakāśaḥ . anekārthe yuṣmadasmadī . tvamau ekavacane iti asya avakāśaḥ . anyāni vacanāni . ekārthayoḥ yuṣmadasmadoḥ eteṣu vacaneṣu ubhayam prāpnoti . paratvāt tvamau ekavacane iti prāpnoti . na eṣaḥ doṣaḥ . śeṣe iti vartate . kaḥ ca śeṣaḥ . jasādibhiḥ avyāptam yat ekavacanam tasmin śeṣe . aśeṣatvāt na bhaviṣyati . atha vā tamau ekavacane iti atra yūyavayau jasi tvāhau sau tubhyamahyau ṅayi tavamamau ṅasi iti etat anuvartiṣyate .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३०७।१८-३०८।६ रो व्,१६७।१६-१६९।२ तिसृभावे सञ्ज्ञायाम् कनि उपसङ्ख्यानम् । तिसृभावे सञ्ज्ञायाम् कनि उपसङ्ख्यानम् कर्तव्यम् । तिसृका नाम ग्रामः । चतसरि आद्युदात्तनिपातनम् च । चतसरि आद्युदात्तनिपातनम् कर्तव्यम् । त्रिचतुरोः स्त्रियाम् तिसृचतसृ । किम् प्रयोजनम् । चतस्रः पश्य । शसि स्वरः मा भूत् इति । किम् च अन्यत् । उपदेशिवद्वचनम् च । उपदेशिवद्भावः च वक्तव्यः । किम् प्रयोजनम् । स्वरसिद्ध्यर्थम् । उपदेशावस्थायाम् एव आद्युदात्तनिपातने कृते विभक्तिस्वरेण बाधनम् यथा स्यात् : चतसृणाम् इति । सः तर्हि उपदेशिवद्भावः वक्तव्यः । न वक्तव्यः । उक्तम् वा । किम् उक्तम् । विभक्तिस्वरभावः च हलादिग्रहणात् आद्युदात्तनिपातने हि हलादिग्रहणानर्थक्यम् इति ।

KA III,307.18-308.6 Ro V,167.16-169.2 tisṛbhāve sañjñāyām kani upasaṅkhyānam . tisṛbhāve sañjñāyām kani upasaṅkhyānam kartavyam . tisṛkā nāma grāmaḥ . catasari ādyudāttanipātanam ca . catasari ādyudāttanipātanam kartavyam . tricaturoḥ striyām tisṛcatasṛ . kim prayojanam . catasraḥ paśya . śasi svaraḥ mā bhūt iti . kim ca anyat . upadeśivadvacanam ca . upadeśivadbhāvaḥ ca vaktavyaḥ . kim prayojanam . svarasiddhyartham . upadeśāvasthāyām eva ādyudāttanipātane kṛte vibhaktisvareṇa bādhanam yathā syāt : catasṛṇām iti . saḥ tarhi upadeśivadbhāvaḥ vaktavyaḥ . na vaktavyaḥ . uktam vā . kim uktam . vibhaktisvarabhāvaḥ ca halādigrahaṇāt ādyudāttanipātane hi halādigrahaṇānarthakyam iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३०८।८-२२ रो व्,१६९।४-१७१।३ अचि रादेशे जसि उपसङ्ख्यानम् गुणपरत्वात् । अचि रादेशे जसि उपसङ्ख्यानम् कर्तव्यम् । तिस्रः तिष्ठन्ति , चतस्रः तिष्ठन्ति । किम् पुनः कारणम् न सिध्यति । गुणपरत्वात् । परत्वात् गुणः प्राप्नोति । तत् तर्हि वक्तव्यम् । न वा अनवकाशत्वात् रस्य । न वा वक्तव्यम् । किम् कारणम् । अनवकाशत्वात् रस्य । अनवकाशः रादेशः गुणम् बाधिष्यते । सावकाशः रादेशः । कः अवकाशः । तिस्रः पश्य । चतस्रः पश्य । न एषः अस्ति अवकाशः । अत्र अपि पूर्वसवर्णदीर्घः प्राप्नोति । सः यथा एव पूर्वसवर्णम् बाधते एवम् गुणम् अपि बाधिष्यते । गुणः अपि अनवकाशः । सावकाशः गुणः । कः अवकाशः । हे कर्तः । न एषः सर्वनामस्थाने गुणः । कः तर्हि । सम्बुद्धिगुणः । अयम् तर्हि । हे मातः । एषः अपि सम्बुद्धिगुणः एव । न अत्र सम्बुद्धिगुणः प्राप्नोति । किम् कारणम् । अम्बार्थनद्योः ह्रस्वः इति ह्रस्वत्वेन भवितव्यम् । भवेत् दीर्घाणाम् ह्रस्ववचनसामर्थ्यात् न स्यात् ह्रस्वानाम् तु खलु ह्रस्वत्वम् क्रियताम् सम्बुद्धिगुणः इति परत्वात् सम्बुद्धिगुणेन भवितव्यम् । अथ अपि कथम् चित् सावकासः गुणः स्यात् एवम् अपि न दोषः । पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति एवम् अयम् रादेशः जसि गुणम् बाधते सर्वनामस्थानगुणम् न बाधिष्यते । तस्मात् सुष्ठु उच्यते अचि रादेशे जसि उपसङ्ख्यानम् गुणपरत्वात् इति ।

KA III,308.8-22 Ro V,169.4-171.3 aci rādeśe jasi upasaṅkhyānam guṇaparatvāt . aci rādeśe jasi upasaṅkhyānam kartavyam . tisraḥ tiṣṭhanti , catasraḥ tiṣṭhanti . kim punaḥ kāraṇam na sidhyati . guṇaparatvāt . paratvāt guṇaḥ prāpnoti . tat tarhi vaktavyam . na vā anavakāśatvāt rasya . na vā vaktavyam . kim kāraṇam . anavakāśatvāt rasya . anavakāśaḥ rādeśaḥ guṇam bādhiṣyate . sāvakāśaḥ rādeśaḥ . kaḥ avakāśaḥ . tisraḥ paśya . catasraḥ paśya . na eṣaḥ asti avakāśaḥ . atra api pūrvasavarṇadīrghaḥ prāpnoti . saḥ yathā eva pūrvasavarṇam bādhate evam guṇam api bādhiṣyate . guṇaḥ api anavakāśaḥ . sāvakāśaḥ guṇaḥ . kaḥ avakāśaḥ . he kartaḥ . na eṣaḥ sarvanāmasthāne guṇaḥ . kaḥ tarhi . sambuddhiguṇaḥ . ayam tarhi . he mātaḥ . eṣaḥ api sambuddhiguṇaḥ eva . na atra sambuddhiguṇaḥ prāpnoti . kim kāraṇam . ambārthanadyoḥ hrasvaḥ iti hrasvatvena bhavitavyam . bhavet dīrghāṇām hrasvavacanasāmarthyāt na syāt hrasvānām tu khalu hrasvatvam kriyatām sambuddhiguṇaḥ iti paratvāt sambuddhiguṇena bhavitavyam . atha api katham cit sāvakāsaḥ guṇaḥ syāt evam api na doṣaḥ . purastāt apavādāḥ anantarān vidhīn bādhante iti evam ayam rādeśaḥ jasi guṇam bādhate sarvanāmasthānaguṇam na bādhiṣyate . tasmāt suṣṭhu ucyate aci rādeśe jasi upasaṅkhyānam guṇaparatvāt iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३०९।२-१२ रो व्,१७२।२-१७३।४ नुमः अनङ्जरसौ भवतः विप्रतिषेधेन । नुमः अवकाशः । त्रपुणी , जतुनी , तुम्बुरुणी । अनङः अवकाशः । प्रियसक्थ्ना ब्राह्मणेन । इह उभयम् प्राप्नोति । दध्ना , सक्थ्ना । जरसः अवकाशः । जरसा , जरसे । नुमः अवकाशः । कुण्डानि , वनानि । इह उभयम् प्राप्नोति । अतिजरांसि ब्राह्मणकुलानि । अनङ्जरसौ नुमः भवतः विप्रतिषेधेन । अथ इह लुक् कस्मात् न भवति । अतिजरसम् पश्य इति । किम् पुनः कारणम् द्वितीयैकवचनम् एव उदाह्रियते न पुनः प्रथमैकवचनम् अपि । अतिजरसम् तिष्ठति इति । अस्ति अत्र विशेषः । न अत्र अकृते अम्भावे जरस्भावः प्राप्नोति । किम् कारणम् । अचि इति उच्यते । यदा च जरस्भावः कृतः तदा लुक् न भविष्यति सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति । यदि एवम् अतिजरसम् , अतिजरसैः इति अत्र न प्राप्नोति अतिजरम् , अतिजरैः इति भवितव्यम् । गोनर्दीयः आह । इष्टम् एव एतत् सङ्गृहीतम् भवति । अतिजरम् अतिजरैः इति भवितव्यम् सत्याम् एतस्याम् परिभाषायाम् सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति ।

KA III,309.2-12 Ro V,172.2-173.4 numaḥ anaṅjarasau bhavataḥ vipratiṣedhena . numaḥ avakāśaḥ . trapuṇī , jatunī , tumburuṇī . anaṅaḥ avakāśaḥ . priyasakthnā brāhmaṇena . iha ubhayam prāpnoti . dadhnā , sakthnā . jarasaḥ avakāśaḥ . jarasā , jarase . numaḥ avakāśaḥ . kuṇḍāni , vanāni . iha ubhayam prāpnoti . atijarāṃsi brāhmaṇakulāni . anaṅjarasau numaḥ bhavataḥ vipratiṣedhena . atha iha luk kasmāt na bhavati . atijarasam paśya iti . kim punaḥ kāraṇam dvitīyaikavacanam eva udāhriyate na punaḥ prathamaikavacanam api . atijarasam tiṣṭhati iti . asti atra viśeṣaḥ . na atra akṛte ambhāve jarasbhāvaḥ prāpnoti . kim kāraṇam . aci iti ucyate . yadā ca jarasbhāvaḥ kṛtaḥ tadā luk na bhaviṣyati sannipātalakṣaṇaḥ vidhiḥ animittam tadvighātasya iti . yadi evam atijarasam , atijarasaiḥ iti atra na prāpnoti atijaram , atijaraiḥ iti bhavitavyam . gonardīyaḥ āha . iṣṭam eva etat saṅgṛhītam bhavati . atijaram atijaraiḥ iti bhavitavyam satyām etasyām paribhāṣāyām sannipātalakṣaṇaḥ vidhiḥ animittam tadvighātasya iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३०९।१५-३१०।२५ रो व्,१७४।२-१७८।६ त्यदादीनाम् द्विपर्यन्तानाम् अकारवचनम् । त्यदादीनाम् द्विपर्यन्तानाम् अत्वम् वक्तव्यम् । किम् प्रयोजनम् । युष्मदस्मदन्तानाम् भवदन्तानाम् वा मा भूत् इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । त्यदादीनाम् अकारेण सिद्धत्वात् युष्मदस्मदोः , शेषे लोपस्य लोपेन ज्ञायते प्राक् ततः अत् इति । यत् अयम् त्यदादीनाम् अत्वेन सिद्धे युष्मदस्मदोः शेषे लोपम् शास्ति तत् ज्ञापयति आचार्यः प्राक् ततः अत्वम् भवति इति । न सर्वेषाम् इति । अपि वा उपसमस्तार्थम् अत्वाभावात् कृतम् भवेत् । न एतत् अस्ति प्रयोजनम् । उपसमस्तार्थम् एतत् स्यात् : अतियूयम् , अतिवयम् । उपसमस्तानाम् हि त्यदादीनाम् अत्वम् न इष्यते : अतितत् , अतितदौ , अतितदः । टिलोपः टाबभावार्थः कर्तव्यः इति तत् स्मृतम् । यः तु शेषे लोपः टिलोपः सः वक्तव्यः । किम् प्रयोजनम् । टाप्प्रतिषेधार्थम् । टाप् मा भूत् इति । सः तर्हि टिलोपः वक्तव्यः । न वक्तव्यः । अथ वा शेषसप्तम्या शेषे लोपः विधीयते । इह युष्मदस्मदोः लोपः इति इयता अन्त्यस्य लोपः सिद्धः । सः अयम् एवम् सिद्धे सति यत् शेषग्रहणम् करोति तस्य एतत् प्रयोजनम् अवशिष्टस्य लोपः यथा स्यात् इति । लुप्तशिष्टे हि तस्य आहुः कार्यसिद्धिम् मनीषिणः । एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति न सर्वेषाम् त्यदादीनाम् अत्वम् भवति इति यत् अयम् किमः कः इति कादेशम् शास्ति । इतरथा हि किमः अत् भवति इति एव ब्रूयात् । सिद्धे विधिः आरभ्यमाणः ज्ञापकार्थः भवति न च किमः अत्त्वेन सिध्यति । अत्त्वे हि सति अन्त्यस्य प्रसज्येत । सिद्धम् अन्त्यस्य पूर्वेण एव तत्र आरम्भसामर्थ्यात् इकारस्य भविष्यति । कुतः नु खलु एतत् अनन्त्यार्थे आरम्भे सति इकारस्य भविष्यति न पुनः ककारस्य स्यात् । यत् तर्हि किमः ग्रहणम् करोति । इतरथा हि कट् अत् भवति इति एव ब्रूयात् । एवम् अपि ककारमात्रात् परस्य प्राप्नोति । त्यदादीनाम् इति वर्तते न च अन्यत् किमः त्यदादिषु ककारवत् अस्ति । एवम् अपि अनैकान्तिकम् ज्ञापकम् । एतावत् तु ज्ञाप्यते न सर्वेषाम् त्यदादीनाम् अत्वम् भवति इति तत्र कुतः एतत् द्विपर्यन्तानाम् भविष्यति न पुनः युष्मदस्मदन्तानाम् वा स्यात् भवदन्तानाम् वा । किम् च अवश्यम् खलु अपि उत्तरार्थम् किमः ग्रहणम् कर्तव्यम् । कु तिहोः क्व अति इति । कादेशः खलु अपि अवश्यम् साकच्कार्थः वक्तव्यः कः कौ के इति एवम् अर्थम् । तस्मात् द्विपर्यन्तानाम् अत्वम् वक्तव्यम् । त्यदादीनाम् अकारेण सिद्धत्वात् युष्मदस्मदोः , शेषे लोपस्य लोपेन ज्ञायते प्राक् ततः अत् इति । अपि वा उपसमस्तार्थम् अत्वाभावात् कृतम् भवेत् , टिलोपः टाबभावार्थः कर्तव्यः इति तत् स्मृतम् । अथ वा शेषसप्तम्या शेषे लोपः विधीयते , लुप्तशिष्टे हि तस्य आहुः कार्यसिद्धिम् मनीषिणः ।

KA III,309.15-310.25 Ro V,174.2-178.6 tyadādīnām dviparyantānām akāravacanam . tyadādīnām dviparyantānām atvam vaktavyam . kim prayojanam . yuṣmadasmadantānām bhavadantānām vā mā bhūt iti . tat tarhi vaktavyam . na vaktavyam . tyadādīnām akāreṇa siddhatvāt yuṣmadasmadoḥ , śeṣe lopasya lopena jñāyate prāk tataḥ at iti . yat ayam tyadādīnām atvena siddhe yuṣmadasmadoḥ śeṣe lopam śāsti tat jñāpayati ācāryaḥ prāk tataḥ atvam bhavati iti . na sarveṣām iti . api vā upasamastārtham atvābhāvāt kṛtam bhavet . na etat asti prayojanam . upasamastārtham etat syāt : atiyūyam , ativayam . upasamastānām hi tyadādīnām atvam na iṣyate : atitat , atitadau , atitadaḥ . ṭilopaḥ ṭābabhāvārthaḥ kartavyaḥ iti tat smṛtam . yaḥ tu śeṣe lopaḥ ṭilopaḥ saḥ vaktavyaḥ . kim prayojanam . ṭāppratiṣedhārtham . ṭāp mā bhūt iti . saḥ tarhi ṭilopaḥ vaktavyaḥ . na vaktavyaḥ . atha vā śeṣasaptamyā śeṣe lopaḥ vidhīyate . iha yuṣmadasmadoḥ lopaḥ iti iyatā antyasya lopaḥ siddhaḥ . saḥ ayam evam siddhe sati yat śeṣagrahaṇam karoti tasya etat prayojanam avaśiṣṭasya lopaḥ yathā syāt iti . luptaśiṣṭe hi tasya āhuḥ kāryasiddhim manīṣiṇaḥ . evam tarhi ācāryapravṛttiḥ jñāpayati na sarveṣām tyadādīnām atvam bhavati iti yat ayam kimaḥ kaḥ iti kādeśam śāsti . itarathā hi kimaḥ at bhavati iti eva brūyāt . siddhe vidhiḥ ārabhyamāṇaḥ jñāpakārthaḥ bhavati na ca kimaḥ attvena sidhyati . attve hi sati antyasya prasajyeta . siddham antyasya pūrveṇa eva tatra ārambhasāmarthyāt ikārasya bhaviṣyati . kutaḥ nu khalu etat anantyārthe ārambhe sati ikārasya bhaviṣyati na punaḥ kakārasya syāt . yat tarhi kimaḥ grahaṇam karoti . itarathā hi kaṭ at bhavati iti eva brūyāt . evam api kakāramātrāt parasya prāpnoti . tyadādīnām iti vartate na ca anyat kimaḥ tyadādiṣu kakāravat asti . evam api anaikāntikam jñāpakam . etāvat tu jñāpyate na sarveṣām tyadādīnām atvam bhavati iti tatra kutaḥ etat dviparyantānām bhaviṣyati na punaḥ yuṣmadasmadantānām vā syāt bhavadantānām vā . kim ca avaśyam khalu api uttarārtham kimaḥ grahaṇam kartavyam . ku tihoḥ kva ati iti . kādeśaḥ khalu api avaśyam sākackārthaḥ vaktavyaḥ kaḥ kau ke iti evam artham . tasmāt dviparyantānām atvam vaktavyam . tyadādīnām akāreṇa siddhatvāt yuṣmadasmadoḥ , śeṣe lopasya lopena jñāyate prāk tataḥ at iti . api vā upasamastārtham atvābhāvāt kṛtam bhavet , ṭilopaḥ ṭābabhāvārthaḥ kartavyaḥ iti tat smṛtam . atha vā śeṣasaptamyā śeṣe lopaḥ vidhīyate , luptaśiṣṭe hi tasya āhuḥ kāryasiddhim manīṣiṇaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३१०।२७-२८ रो व्,१७८।८-९ किमर्थम् क्वादेशः उच्यते न कु तिहात् सि इति एव उच्यते । का रूपसिद्धिः : क्व । यणादेशेन सिद्धम् । न सिध्यति । ओः गुणः प्रसज्येत ।

KA III,310.27-28 Ro V,178.8-9 kimartham kvādeśaḥ ucyate na ku tihāt si iti eva ucyate . kā rūpasiddhiḥ : kva . yaṇādeśena siddham . na sidhyati . oḥ guṇaḥ prasajyeta .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३११।२-१२ रो व्,१७८।११-१८०।५ किमर्थम् अनन्त्ययोः इति उच्यते । अन्त्ययोः मा भूत् इति । न एतत् अस्ति प्रयोजनम् । अत्वम् अन्त्ययोः बाधकम् भविष्यति । अनवकाशाः विधयः बाधकाः भवन्ति सावकाशम् च अत्वम् । कः अवकाशः । द्विशब्दः । सत्वम् अपि सावकाशम् । कः अवकाशः । अनन्त्यः । कथम् पुनः सति अन्त्ये अनन्त्यस्य सत्वम् स्यात् । भवेत् यः तकारदकाराभ्याम् अङ्गम् विशेषयेत् तस्य अनन्त्ययोः न स्यात् । वयम् तु खलु अङ्गेन तकारदकारौ विशेषयिष्यामः । एवम् अपि उभयोः सावकासशयोः परत्वात् सत्वम् प्राप्नोति । किम् च स्यात् यदि अन्त्ययोः सत्वम् स्यात् । इह हे सः इति एङ्ह्रस्वात् इति सम्बुद्धिलोपः न स्यात् । इह च या सा अतः इति टाप् न स्यात् । तस्मात् अनन्त्ययोः इति वक्तव्यम् । न वक्तव्यम् । एवम् वक्ष्यामि । तदोः सः सौ । ततः अदसः । अदसः च दकारस्य सः भवति इति । इदम् इदानीम् किमर्थम् । नियमार्थम् । अदसः एव दकारस्य न अन्यस्य दकारस्य इति । यदि नियमः क्रियते द्वीयतेः अप्रत्ययः द्वः इति प्राप्नोति स्वः इति च इष्यते । यथालक्षणम् अप्रयुक्ते ।

KA III,311.2-12 Ro V,178.11-180.5 kimartham anantyayoḥ iti ucyate . antyayoḥ mā bhūt iti . na etat asti prayojanam . atvam antyayoḥ bādhakam bhaviṣyati . anavakāśāḥ vidhayaḥ bādhakāḥ bhavanti sāvakāśam ca atvam . kaḥ avakāśaḥ . dviśabdaḥ . satvam api sāvakāśam . kaḥ avakāśaḥ . anantyaḥ . katham punaḥ sati antye anantyasya satvam syāt . bhavet yaḥ takāradakārābhyām aṅgam viśeṣayet tasya anantyayoḥ na syāt . vayam tu khalu aṅgena takāradakārau viśeṣayiṣyāmaḥ . evam api ubhayoḥ sāvakāsaśayoḥ paratvāt satvam prāpnoti . kim ca syāt yadi antyayoḥ satvam syāt . iha he saḥ iti eṅhrasvāt iti sambuddhilopaḥ na syāt . iha ca yā sā ataḥ iti ṭāp na syāt . tasmāt anantyayoḥ iti vaktavyam . na vaktavyam . evam vakṣyāmi . tadoḥ saḥ sau . tataḥ adasaḥ . adasaḥ ca dakārasya saḥ bhavati iti . idam idānīm kimartham . niyamārtham . adasaḥ eva dakārasya na anyasya dakārasya iti . yadi niyamaḥ kriyate dvīyateḥ apratyayaḥ dvaḥ iti prāpnoti svaḥ iti ca iṣyate . yathālakṣaṇam aprayukte .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३११।१४-३१२।१३ रो व्,१८०-१८२ अदसः सोः भवेत् औत्वम् किम् सुलोपः विधीयते । अदसः एव सोः भवेत् औत्वम् किमर्थम् सुलोपः विधीयते । ह्रस्वात् लुप्येत सम्बुद्धिः । इह हे असौ इति एङ्ह्रस्वात् सम्बुद्धेः इति लोपः प्रसज्येत । न हलः । हलः लोपः सम्बुद्धिलोपः । तत् हल्ग्रहणम् कर्तव्यम् । प्रकृतम् हि तत् । प्रकृतम् हल्ग्रहणम् । क्व प्रकृतम् । हल्ङ्याब्भ्यः दीर्घात् सुतिस्यपृक्तम् हल् इति । तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः । ह्रस्वात् इति एषा पञ्चमी हल् इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति । आपः एत्त्वम् भवेत् तस्मिन् । इह हे असौ ब्राह्मणि आङि च आपः सम्बुद्धौ च इति एत्त्वम् प्रसज्येत । न झलि इति अनुवर्तनात् । झलि इति तत्र अनुवर्तते । क्व प्रकृतम् । सुपि च बहुवचने झलि एत् इति । प्रत्ययस्थात् च कात् इत्त्वम् । इह च असकौ ब्राह्मणी इति प्रत्यय्स्थात् कात् पूर्वस्य इति ईत्त्वम् प्रसज्येत । न एषः दोषः । प्रश्लिष्टनिर्देशः अयम् । आ , आप् , आप् इति । इह अपि तर्हि न प्राप्नोति । कारिके , हारिके , इति । शीभावः च प्रसज्यते । इह च शीभावः च प्राप्नोति । असौ ब्राह्मणी । आपः उत्तरस्य औङः शी भवति इति शीभावः प्राप्नोति । तस्मात् सोः लोपः वक्तव्यः ।

KA III,311.14-312.13 Ro V,180-182 adasaḥ soḥ bhavet autvam kim sulopaḥ vidhīyate . adasaḥ eva soḥ bhavet autvam kimartham sulopaḥ vidhīyate . hrasvāt lupyeta sambuddhiḥ . iha he asau iti eṅhrasvāt sambuddheḥ iti lopaḥ prasajyeta . na halaḥ . halaḥ lopaḥ sambuddhilopaḥ . tat halgrahaṇam kartavyam . prakṛtam hi tat . prakṛtam halgrahaṇam . kva prakṛtam . halṅyābbhyaḥ dīrghāt sutisyapṛktam hal iti . tat vai prathamānirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ . hrasvāt iti eṣā pañcamī hal iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya iti . āpaḥ ettvam bhavet tasmin . iha he asau brāhmaṇi āṅi ca āpaḥ sambuddhau ca iti ettvam prasajyeta . na jhali iti anuvartanāt . jhali iti tatra anuvartate . kva prakṛtam . supi ca bahuvacane jhali et iti . pratyayasthāt ca kāt ittvam . iha ca asakau brāhmaṇī iti pratyaysthāt kāt pūrvasya iti īttvam prasajyeta . na eṣaḥ doṣaḥ . praśliṣṭanirdeśaḥ ayam . ā , āp , āp iti . iha api tarhi na prāpnoti . kārike , hārike , iti . śībhāvaḥ ca prasajyate . iha ca śībhāvaḥ ca prāpnoti . asau brāhmaṇī . āpaḥ uttarasya auṅaḥ śī bhavati iti śībhāvaḥ prāpnoti . tasmāt soḥ lopaḥ vaktavyaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३१२।१४-३१३।४ रो व्,१८२ सौ औत्वप्रतिषेधः साकच्कात् वा सात् उत्वम् च । सौ औत्वप्रतिषेधः साकच्कात् वा वक्तव्यः । सात् च परस्य उत्वम् वक्तव्यम् । असकौ , असुकः । उत्तरपदभूतानाम् आदेशे उपदेशवद्वचनम् । उत्तरपदभूतानाम् त्यदादीनाम् आदेशे उपदेशिवद्भावः वक्तव्यः । परमाहम् , परमायम् , परमानेन । किम् प्रयोजनम् । अनादिष्टार्थम् । अकृते एकादेशे आदेशाः यथा स्युः इति । किम् पुनः कारणम् एकादेशः तावत् भवति न पुनः आदेशाः । न परत्वात् आदेशैः भवितव्यम् । बहिरङ्गलक्षणत्वात् । बहिरङ्गाः आदेशाः । अन्तरङ्गः एकादेशः । असिद्धम् बहिरङ्गम् अन्तरङ्गे । सः तर्हि उपदेशिवद्भावः वक्तव्यः । न वक्तव्यः । आचार्यप्रवृत्तिः ज्ञापयति पूर्वपदोत्तरपदयोः तावत् कार्यम् भवति न एकादेशः इति यत् अयम् न इन्द्रस्य परस्य इति प्रतिषेधम् शास्ति । कथम् कृत्वा ज्ञापकम् । इन्द्रे द्वौ अचौ । तत्र एकः यस्य इति लोपेन अपह्रियते अपरः एकादेशेन । अनच्कः इन्द्रः संवृत्तः । तत्र कः वृद्धेः प्रसङ्गः । पश्यति तु आचार्यः पूर्वपदोत्तरपदयोः तावत् कार्यम् भवति न एकादेशे इति ततः न इन्द्रस्य परस्य इति प्रतिषेधम् शास्ति ।

KA III,312.14-313.4 Ro V,182 sau autvapratiṣedhaḥ sākackāt vā sāt utvam ca . sau autvapratiṣedhaḥ sākackāt vā vaktavyaḥ . sāt ca parasya utvam vaktavyam . asakau , asukaḥ . uttarapadabhūtānām ādeśe upadeśavadvacanam . uttarapadabhūtānām tyadādīnām ādeśe upadeśivadbhāvaḥ vaktavyaḥ . paramāham , paramāyam , paramānena . kim prayojanam . anādiṣṭārtham . akṛte ekādeśe ādeśāḥ yathā syuḥ iti . kim punaḥ kāraṇam ekādeśaḥ tāvat bhavati na punaḥ ādeśāḥ . na paratvāt ādeśaiḥ bhavitavyam . bahiraṅgalakṣaṇatvāt . bahiraṅgāḥ ādeśāḥ . antaraṅgaḥ ekādeśaḥ . asiddham bahiraṅgam antaraṅge . saḥ tarhi upadeśivadbhāvaḥ vaktavyaḥ . na vaktavyaḥ . ācāryapravṛttiḥ jñāpayati pūrvapadottarapadayoḥ tāvat kāryam bhavati na ekādeśaḥ iti yat ayam na indrasya parasya iti pratiṣedham śāsti . katham kṛtvā jñāpakam . indre dvau acau . tatra ekaḥ yasya iti lopena apahriyate aparaḥ ekādeśena . anackaḥ indraḥ saṃvṛttaḥ . tatra kaḥ vṛddheḥ prasaṅgaḥ . paśyati tu ācāryaḥ pūrvapadottarapadayoḥ tāvat kāryam bhavati na ekādeśe iti tataḥ na indrasya parasya iti pratiṣedham śāsti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३१३।५-८ रो व्,१८२-१८३ अदसः सोः भवेत् औत्वम् किम् सुलोपः विधीयते , ह्रस्वात् लुप्येत सम्बुद्धिः न हलः प्रकृतम् हि तत् । आपः एत्त्वम् भवेत् तस्मिन् न झलि इति अनुवर्तनात् , प्रत्ययस्थात् च कात् इत्त्वम् शीभावः च प्रसज्यते ।

KA III,313.5-8 Ro V,182-183 adasaḥ soḥ bhavet autvam kim sulopaḥ vidhīyate , hrasvāt lupyeta sambuddhiḥ na halaḥ prakṛtam hi tat . āpaḥ ettvam bhavet tasmin na jhali iti anuvartanāt , pratyayasthāt ca kāt ittvam śībhāvaḥ ca prasajyate .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३१३।१०-२२ रो व्,१८३।४-१८४।४ मृजेः वृद्धिविधौ क्विप्रतिषेधः । मृजेः वृद्धिविधौ क्व्यन्तस्य प्रतिषेधः वक्तव्यः । कंसपरिमृड्भ्याम् , कंसपरिमृड्भिः । धातोः स्वरूपग्रहणे वा तत्प्रत्ययविज्ञानात् सिद्धम् । अथ वा धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानात् सिद्धम् । धातुप्रत्यये कार्यम् भवति इति एषा परिभाषा कर्तव्या । कानि एतस्याः परिभाषायाः प्रयोजनानि । प्रयोजनम् सृजिदृशिमस्जिनशिहन्तिगिरत्यर्थम् । सृजि । रज्जुसृड्भ्याम् , रज्जुसृड्भिः । सृजि । दृशि । देवदृग्भ्याम् , देवदृग्भिः । दृशि । मस्जि । उदकमग्भ्याम् , उदकमग्भिः । मस्जि । नशि । प्रनड्भ्याम् , प्रनड्भिः । नशि । हन्ति । वार्त्रघ्नः , भ्रौणघ्नः । हन्ति । गिरति । देवगिरः । यदि स्वरूपग्रहणे इति उच्यते प्रसृब्भ्याम् , प्रसृब्भिः , अनुदात्तस्य च ऋदुपस्य अन्यतरस्याम् इति अम् प्राप्नोति । एवम् तर्हि इयम् परिभाषा कर्तव्या धातोः कार्यम् उच्यमानम् तत्प्रत्यये भवति इति । सा तर्हि एषा परिभाषा कर्तव्या । न कर्तव्या । आचार्यप्रवृत्तिः ज्ञापयति भवति एषा परिभाषा इति यत् अयम् भ्रौणहत्ये तत्वम् शास्ति ।

KA III,313.10-22 Ro V,183.4-184.4 mṛjeḥ vṛddhividhau kvipratiṣedhaḥ . mṛjeḥ vṛddhividhau kvyantasya pratiṣedhaḥ vaktavyaḥ . kaṃsaparimṛḍbhyām , kaṃsaparimṛḍbhiḥ . dhātoḥ svarūpagrahaṇe vā tatpratyayavijñānāt siddham . atha vā dhātoḥ svarūpagrahaṇe tatpratyaye kāryavijñānāt siddham . dhātupratyaye kāryam bhavati iti eṣā paribhāṣā kartavyā . kāni etasyāḥ paribhāṣāyāḥ prayojanāni . prayojanam sṛjidṛśimasjinaśihantigiratyartham . sṛji . rajjusṛḍbhyām , rajjusṛḍbhiḥ . sṛji . dṛśi . devadṛgbhyām , devadṛgbhiḥ . dṛśi . masji . udakamagbhyām , udakamagbhiḥ . masji . naśi . pranaḍbhyām , pranaḍbhiḥ . naśi . hanti . vārtraghnaḥ , bhrauṇaghnaḥ . hanti . girati . devagiraḥ . yadi svarūpagrahaṇe iti ucyate prasṛbbhyām , prasṛbbhiḥ , anudāttasya ca ṛdupasya anyatarasyām iti am prāpnoti . evam tarhi iyam paribhāṣā kartavyā dhātoḥ kāryam ucyamānam tatpratyaye bhavati iti . sā tarhi eṣā paribhāṣā kartavyā . na kartavyā . ācāryapravṛttiḥ jñāpayati bhavati eṣā paribhāṣā iti yat ayam bhrauṇahatye tatvam śāsti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३१३।२४-३१४।१४ रो व्,१८४।५-१८५।७ वृद्धौ अज्ग्रहणम् गोऽर्थम् । वृद्धौ अज्ग्रहणम् क्रियते गोतः वृधिः यथा स्यात् । गौः इति । न एतत् अस्ति प्रयोजनम् । णित्करणसामर्थ्यात् एव अत्र वृद्धिः भविष्यति । अथ योगविभागः किमर्थः न ञ्णिति अतः उपधायाः इति एव उच्येत । का रूपसिद्धः चायकः , लावकः , कारकः । गुणे कृते अयवः रपरत्वे च अतः उपधायाः इति एव सिद्धम् । योगविभागः सखिव्यञ्जनाद्यर्थः । योगविभागः क्रियते सख्यर्थः व्यञ्जनाद्यर्थः च । सख्यर्थः तावत् । सखायौ , सखायः । व्यञ्जनाद्यर्थः । जैत्रम् , यौत्रम् , च्यौत्रम् । योगविभागे च इदानीम् सखिव्यञ्जनाद्यर्थे क्रियमाणे अज्ग्रहणम् अपि कर्तव्यम् भवति । किम् प्रयोजनम् । गोर्थम् । ननु च उक्तम् णित्करणसामर्थ्यात् एव अत्र वृद्धिः भविष्यति इति । अस्ति अन्यत् णित्करणसय प्रयोजनम् । किम् । गावौ , गावः । अवादेशे कृते अतः उपधायाः इति वृद्धिः यथा स्यात् । यत् तु सौ णित्करणम् तत् अनवकाशम् तस्य अनवकाशत्वात् एव वृद्धिः भविष्यति । यथा एव खलु अपि णित्करणसामर्थ्यात् अनिकः अपि वृद्धिः प्रार्थ्यते एवम् तत्वम् अपि प्राप्नोति । तत्वम् अपि हि ञ्णिति इति उच्यते । तस्मात् अज्ग्रहणम् कर्तव्यम् ।

KA III,313.24-314.14 Ro V,184.5-185.7 vṛddhau ajgrahaṇam go'rtham . vṛddhau ajgrahaṇam kriyate gotaḥ vṛdhiḥ yathā syāt . gauḥ iti . na etat asti prayojanam . ṇitkaraṇasāmarthyāt eva atra vṛddhiḥ bhaviṣyati . atha yogavibhāgaḥ kimarthaḥ na ñṇiti ataḥ upadhāyāḥ iti eva ucyeta . kā rūpasiddhaḥ cāyakaḥ , lāvakaḥ , kārakaḥ . guṇe kṛte ayavaḥ raparatve ca ataḥ upadhāyāḥ iti eva siddham . yogavibhāgaḥ sakhivyañjanādyarthaḥ . yogavibhāgaḥ kriyate sakhyarthaḥ vyañjanādyarthaḥ ca . sakhyarthaḥ tāvat . sakhāyau , sakhāyaḥ . vyañjanādyarthaḥ . jaitram , yautram , cyautram . yogavibhāge ca idānīm sakhivyañjanādyarthe kriyamāṇe ajgrahaṇam api kartavyam bhavati . kim prayojanam . gortham . nanu ca uktam ṇitkaraṇasāmarthyāt eva atra vṛddhiḥ bhaviṣyati iti . asti anyat ṇitkaraṇasaya prayojanam . kim . gāvau , gāvaḥ . avādeśe kṛte ataḥ upadhāyāḥ iti vṛddhiḥ yathā syāt . yat tu sau ṇitkaraṇam tat anavakāśam tasya anavakāśatvāt eva vṛddhiḥ bhaviṣyati . yathā eva khalu api ṇitkaraṇasāmarthyāt anikaḥ api vṛddhiḥ prārthyate evam tatvam api prāpnoti . tatvam api hi ñṇiti iti ucyate . tasmāt ajgrahaṇam kartavyam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३१४।१६-३१५।२ रो व्,१८५-१८६ अज्ग्रहणम् कर्तव्यम् । ननु च क्रियते एव । द्वितीयम् कर्तव्यम् यथा अचामादिग्रहणम् अज्विशेषणम् विज्ञायेत । अचाम् आदेः अचः इति । अथ अक्रियमाणे अज्ग्रहणे कस्य अचामादिग्रहणम् विशेषणम् स्यात् । इग्विशेषणम् इति आह । अचाम् आदेः इकः इति । तत्र कः दोषः । इह एव स्यात् । ऐत्कायनः , औपगवः । इह न स्यात् । गार्ग्यः , वात्स्यः इति । तत् तर्हि अज्ग्रहणम् कर्तव्यम् । न कर्तव्यम् । प्रकृतम् अनुवर्तते । क्व प्रकृतम् । अचः ञ्णिति इति । यदि तत् अनुवर्तते अतः उपधायाः अचः इति अज्मात्रस्य उपधायाः वृद्धिः प्रसज्येत । छेदकः इति । अकारेण तपरेण अचम् विशेषयिष्यामः । अचः अतः इति । इह इदानीम् अचः इति एव अनुवर्तते अतः इति निवृत्तम् । अथ वा मण्डूकगतयः अधिकाराः । यथा मण्डूकाः उत्प्लुत्य उत्प्लुत्य गच्छन्ति तद्वत् अधिकाराः । अथ वा एकयोगः करिष्यते । अचः ञ्णिति अतः उपधायाः । ततः तद्धितेषु अचाम् आदेः इति । न च एकयोगे अनुवृत्तिः भवति ।

KA III,314.16-315.2 Ro V,185-186 ajgrahaṇam kartavyam . nanu ca kriyate eva . dvitīyam kartavyam yathā acāmādigrahaṇam ajviśeṣaṇam vijñāyeta . acām ādeḥ acaḥ iti . atha akriyamāṇe ajgrahaṇe kasya acāmādigrahaṇam viśeṣaṇam syāt . igviśeṣaṇam iti āha . acām ādeḥ ikaḥ iti . tatra kaḥ doṣaḥ . iha eva syāt . aitkāyanaḥ , aupagavaḥ . iha na syāt . gārgyaḥ , vātsyaḥ iti . tat tarhi ajgrahaṇam kartavyam . na kartavyam . prakṛtam anuvartate . kva prakṛtam . acaḥ ñṇiti iti . yadi tat anuvartate ataḥ upadhāyāḥ acaḥ iti ajmātrasya upadhāyāḥ vṛddhiḥ prasajyeta . chedakaḥ iti . akāreṇa tapareṇa acam viśeṣayiṣyāmaḥ . acaḥ ataḥ iti . iha idānīm acaḥ iti eva anuvartate ataḥ iti nivṛttam . atha vā maṇḍūkagatayaḥ adhikārāḥ . yathā maṇḍūkāḥ utplutya utplutya gacchanti tadvat adhikārāḥ . atha vā ekayogaḥ kariṣyate . acaḥ ñṇiti ataḥ upadhāyāḥ . tataḥ taddhiteṣu acām ādeḥ iti . na ca ekayoge anuvṛttiḥ bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३१५।३-१६ रो व्,१८६-१८८ तद्धितेषु अचामादिवृद्धौ अन्त्योपधलक्षणप्रतिषेधः । तद्धितेषु अचामादिवृद्धौ अन्त्योपधलक्षणायाः वृद्धेः प्रतिषेधः वक्तव्यः । क्रौष्टुः जागतः इति । ननु च अचामादिवृद्धिः अन्त्योपधलक्षणाम् वृद्धिम् बाधिष्यते । कथम् अन्यस्य उच्यमाना अन्यस्य बाधिका स्यात् । असति खलु अपि सम्भवे बाधनम् भवति अस्ति च सम्भवः यत् उभयम् स्यात् । लोकविज्ञानात् सिद्धम् । सति अपि सम्भवे बाधनम् भवति । तत् यथा । ब्राह्मणेभ्यः दधि दीयताम् तक्रम् कौण्डिन्याय इति सति अपि सम्भवे दधिदानस्य तक्रदानम् निवर्तकम् भवति । एवम् इह अपि सति अपि सम्भवे अचामादिवृद्धिः अन्त्योपधलक्षणाम् वृद्धिम् बाधिष्यते । विषमः उपन्यासः । न अप्राप्ते दधिदाने तक्रदानम् आरभ्यते तत् प्राप्ते आरभ्यमाणम् बाधकम् भविष्यति । इह पुनः अप्राप्तायाम् अन्त्योपधलक्षणायाम् वृद्धौ अचामादिवृद्धिः आरभ्यते । सुश्रुत् , सौश्रुतः इति । पुष्करसद्ग्रहणात् वा । अथ वा यत् अयम् अनुशतिकादिषु पुष्करसच्शब्दम् पठति तत् ज्ञापयति आचार्यः अचामादिवृद्धौ अन्त्योपधलक्षणा वृद्धिः न भवति इति ।

KA III,315.3-16 Ro V,186-188 taddhiteṣu acāmādivṛddhau antyopadhalakṣaṇapratiṣedhaḥ . taddhiteṣu acāmādivṛddhau antyopadhalakṣaṇāyāḥ vṛddheḥ pratiṣedhaḥ vaktavyaḥ . krauṣṭuḥ jāgataḥ iti . nanu ca acāmādivṛddhiḥ antyopadhalakṣaṇām vṛddhim bādhiṣyate . katham anyasya ucyamānā anyasya bādhikā syāt . asati khalu api sambhave bādhanam bhavati asti ca sambhavaḥ yat ubhayam syāt . lokavijñānāt siddham . sati api sambhave bādhanam bhavati . tat yathā . brāhmaṇebhyaḥ dadhi dīyatām takram kauṇḍinyāya iti sati api sambhave dadhidānasya takradānam nivartakam bhavati . evam iha api sati api sambhave acāmādivṛddhiḥ antyopadhalakṣaṇām vṛddhim bādhiṣyate . viṣamaḥ upanyāsaḥ . na aprāpte dadhidāne takradānam ārabhyate tat prāpte ārabhyamāṇam bādhakam bhaviṣyati . iha punaḥ aprāptāyām antyopadhalakṣaṇāyām vṛddhau acāmādivṛddhiḥ ārabhyate . suśrut , sauśrutaḥ iti . puṣkarasadgrahaṇāt vā . atha vā yat ayam anuśatikādiṣu puṣkarasacśabdam paṭhati tat jñāpayati ācāryaḥ acāmādivṛddhau antyopadhalakṣaṇā vṛddhiḥ na bhavati iti .

Sanskrit only: no published translation is held for this verse.