क्अ इइइ,३६१।१-३६४।१२ रो व्,२७९-२८८ सर्ववचनम् किमर्थम् । सर्ववचनम् अलोन्त्यनिवृत्त्यर्थम् । सर्वग्रहणम् क्रियते अलोन्त्यनिवृत्त्यर्थम् । अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य द्विर्वचनम् मा भूत् इति । क्व पुनः अलोन्त्यनिवृत्त्यर्थेन अर्थः सर्वग्रहणेन । नित्यवीप्सयोः इति । नित्यवीप्सयोः इति उच्यते न च अन्त्यस्य द्विर्वचनेन नित्यता वीप्सा वा गम्यते । इह तर्हि परेः वर्जने इति अन्त्यस्य अपि द्विर्वचनेन वर्ज्यमानता गम्येत । षष्ठीनिर्देशार्थम् च । षष्ठीनिर्देशार्थम् च सर्वग्रहणम् कर्तव्यम् । षष्ठीनिर्देशः यथा प्रकल्पेत । अनिर्देशे हि षष्ठ्यर्थाप्रसिद्धिः । अक्रियमाणे सर्वग्रहणे षष्ठ्यर्थस्य अप्रसिद्धिः स्यात् । कस्य । स्थानेयोगत्वस्य । क्व पुनः इह षष्ठीनिर्देशार्थेन अर्थः सर्वग्रहणेन यावता सर्वत्र एव षष्ठी उच्चार्यते । परेर्वर्जने प्रसमुपोदःपादपूरणे उपर्यध्यधसःसामीप्ये वाक्यादेरामन्त्रितस्य इति । इह न का चित् षष्ठी नित्यवीप्सयोः इति । ननु च एषा एव षष्ठी । न एषा षष्ठी । किम् तर्हि । अर्थनिर्देशः एषः । नित्ये च अर्थे वीप्सायाम् च इति । अलोन्त्यनिवृत्त्यर्थेन तावत् न अर्थः सर्वग्रहणेन । इदम् तावत् अयम् प्रष्टव्यः । नित्यवीप्सयोः द्वे भवतः इति उच्यते द्विशब्दः आदेशः कस्मात् न भवति । आचार्यप्रवृत्तिः ज्ञापयति न द्विशब्दः आदेशः भवति इति यत् अयम् तस्यपरमाम्रेडितम् अनुदात्तम्च इति आह । कथम् कृत्वा ज्ञापकम् । द्विशब्दः अयम् एकाच् तस्य एकाच्त्वात् तस्यपरमाम्रेडितम् अनुदात्तम्च इति एतत् न अस्ति । पश्यति तु आचार्यः न द्विशब्दः आदेशः भवति इति ततः तस्य परमाम्रेडितम् अनुदात्तम्च इति आह । यदि तर्हि न द्विशब्दः आदेशः भवति के तर्हि इदानीम् द्वे भवतः । द्विशब्देन यत् उच्यते । किम् पुनः तत् । द्विशब्दः अयम् सङ्ख्यापदम् सङ्ख्यायाः च सङ्ख्येयम् अर्थः । सङ्ख्येये द्वे भविष्यतः । के पुनः ते । पदे वाक्ये मात्रे वा । तत् यदा तावत् पदे वाक्ये वा तदा अनेकाल्त्वात् सर्वादेशः सिद्धः । यदा मात्रे अपि तदा अनेकाल्शित्सर्वस्य इति सर्वादेशः भविष्यति । यदा तर्हि अर्धमात्रे तदा सर्वादेशः न सिध्यति । न एषः दोषः । न च अर्धमात्रे द्विः उच्येते । किम् कारणम् । इह व्याकरेणे यः सर्वाल्पीयान् स्वरव्यवहारः सः मात्रया भवति न अर्धमात्रया व्यवहारः अस्ति । तेन अर्धमात्रे न भविष्यतः । एवम् अपि कुतः एतत् पदे द्वे भविष्यतः इति न पुनः वाक्ये स्याताम् मात्रे वा । नित्यवीप्सयोः द्वे भवतः इति उच्यते न च वाक्यद्विर्वचनेन मात्राद्विर्वचनेन वा नित्यता वीप्सा वा गम्यते । षष्ठीनिर्देशार्थम् एव तर्हि सर्वग्रहणम् कर्तव्यम् । न वा पदाधिकारात् । न वा वक्तव्यम् । किम् कारणम् । पदाधिकारात् । पदस्य इति प्रकृत्य द्विर्वचनम् वक्ष्यामि । तत् च समासतद्धितवाक्यनिवृत्त्यर्थम् । तत् च अवश्यम् पदग्रहणम् कर्तव्यम् समासनिवृत्त्यर्थम् तद्धितनिवृत्त्यर्थम् वाक्यनिवृत्त्यर्थम् च । समासनिवृत्त्यर्थम् तावत् । सप्तपर्णः अष्टापदम् । तद्धितनिवृत्त्यर्थम् । द्विपदिका त्रिपदिका । माषशः कार्षापणशः । वाक्यनिवृत्त्यर्थम् । ग्रामे ग्रामे पानीयम् । माषम् माषम् देहि । अथ क्रियमाणे अपि वै पदग्रहणे समासनिवृत्त्यर्थम् इति कथम् इदम् विज्ञायते । समसस्य निवृत्त्यर्थम् समासनिवृत्त्यर्थम् इति । आहोस्वित् समासे निवृत्त्यर्थम् समासनिवृत्त्यर्थम् इति । किम् च अतः । यदि विञायते समासस्य निवृत्त्यर्थम् समासनिवृत्त्यर्थम् इति सिद्धम् सप्तपर्णः सप्तपर्णौ सप्तपर्णाः इति सप्तपर्णाभ्याम् सप्तपर्णेभ्यः इति अत्र प्राप्नोति । अथ विज्ञायते समासे निवृत्त्यर्थम् समासनिवृत्त्यर्थम् इति सप्तपर्णः सप्तपर्णौ सप्तपर्णाः इति अत्र अपि प्राप्नोति । तथा तद्धितनिवृत्त्यर्थम् इति । कथम् इदम् विज्ञायते । तद्धितस्य निवृत्त्यर्थम् तद्धितनिवृत्त्यर्थम् इति । आहोस्वित् तद्धिते निवृत्त्यर्थम् तद्धितनिवृत्त्यर्थम् इति । किम् च अतः । यदि विज्ञायते तद्धितस्य निवृत्त्यर्थम् तद्धितनिवृत्त्यर्थम् इति सिद्धम् द्विपदिकाः त्रिपदिकाः द्विपदिकाभ्याम् त्रिपदिकाभ्याम् माषशः कार्षापणशः इति अत्र प्राप्नोति । अथ विज्ञायते तद्धिते निवृत्त्यर्थम् तद्धितनिवृत्त्यर्थम् इति द्विपदिकाः त्रिपदिकाः इति अत्र अपि प्राप्नोति । तथा वाक्यनिवृत्त्यर्थम् इति कथम् इदम् विज्ञायते । वाक्यस्य निवृत्त्यर्थम् वाक्यनिवृत्त्यर्थम् इति । आहोस्वित् वाक्ये निवृत्त्यर्थम् वाक्यनिवृत्त्यर्थम्
KA III,361.1-364.12 Ro V,279-288 sarvavacanam kimartham . sarvavacanam alontyanivṛttyartham . sarvagrahaṇam kriyate alontyanivṛttyartham . alaḥ antyasya vidhayaḥ bhavanti iti antyasya dvirvacanam mā bhūt iti . kva punaḥ alontyanivṛttyarthena arthaḥ sarvagrahaṇena . nityavīpsayoḥ iti . nityavīpsayoḥ iti ucyate na ca antyasya dvirvacanena nityatā vīpsā vā gamyate . iha tarhi pareḥ varjane iti antyasya api dvirvacanena varjyamānatā gamyeta . ṣaṣṭhīnirdeśārtham ca . ṣaṣṭhīnirdeśārtham ca sarvagrahaṇam kartavyam . ṣaṣṭhīnirdeśaḥ yathā prakalpeta . anirdeśe hi ṣaṣṭhyarthāprasiddhiḥ . akriyamāṇe sarvagrahaṇe ṣaṣṭhyarthasya aprasiddhiḥ syāt . kasya . sthāneyogatvasya . kva punaḥ iha ṣaṣṭhīnirdeśārthena arthaḥ sarvagrahaṇena yāvatā sarvatra eva ṣaṣṭhī uccāryate . parervarjane prasamupodaḥpādapūraṇe uparyadhyadhasaḥsāmīpye vākyāderāmantritasya iti . iha na kā cit ṣaṣṭhī nityavīpsayoḥ iti . nanu ca eṣā eva ṣaṣṭhī . na eṣā ṣaṣṭhī . kim tarhi . arthanirdeśaḥ eṣaḥ . nitye ca arthe vīpsāyām ca iti . alontyanivṛttyarthena tāvat na arthaḥ sarvagrahaṇena . idam tāvat ayam praṣṭavyaḥ . nityavīpsayoḥ dve bhavataḥ iti ucyate dviśabdaḥ ādeśaḥ kasmāt na bhavati . ācāryapravṛttiḥ jñāpayati na dviśabdaḥ ādeśaḥ bhavati iti yat ayam tasyaparamāmreḍitam anudāttamca iti āha . katham kṛtvā jñāpakam . dviśabdaḥ ayam ekāc tasya ekāctvāt tasyaparamāmreḍitam anudāttamca iti etat na asti . paśyati tu ācāryaḥ na dviśabdaḥ ādeśaḥ bhavati iti tataḥ tasya paramāmreḍitam anudāttamca iti āha . yadi tarhi na dviśabdaḥ ādeśaḥ bhavati ke tarhi idānīm dve bhavataḥ . dviśabdena yat ucyate . kim punaḥ tat . dviśabdaḥ ayam saṅkhyāpadam saṅkhyāyāḥ ca saṅkhyeyam arthaḥ . saṅkhyeye dve bhaviṣyataḥ . ke punaḥ te . pade vākye mātre vā . tat yadā tāvat pade vākye vā tadā anekāltvāt sarvādeśaḥ siddhaḥ . yadā mātre api tadā anekālśitsarvasya iti sarvādeśaḥ bhaviṣyati . yadā tarhi ardhamātre tadā sarvādeśaḥ na sidhyati . na eṣaḥ doṣaḥ . na ca ardhamātre dviḥ ucyete . kim kāraṇam . iha vyākareṇe yaḥ sarvālpīyān svaravyavahāraḥ saḥ mātrayā bhavati na ardhamātrayā vyavahāraḥ asti . tena ardhamātre na bhaviṣyataḥ . evam api kutaḥ etat pade dve bhaviṣyataḥ iti na punaḥ vākye syātām mātre vā . nityavīpsayoḥ dve bhavataḥ iti ucyate na ca vākyadvirvacanena mātrādvirvacanena vā nityatā vīpsā vā gamyate . ṣaṣṭhīnirdeśārtham eva tarhi sarvagrahaṇam kartavyam . na vā padādhikārāt . na vā vaktavyam . kim kāraṇam . padādhikārāt . padasya iti prakṛtya dvirvacanam vakṣyāmi . tat ca samāsataddhitavākyanivṛttyartham . tat ca avaśyam padagrahaṇam kartavyam samāsanivṛttyartham taddhitanivṛttyartham vākyanivṛttyartham ca . samāsanivṛttyartham tāvat . saptaparṇaḥ aṣṭāpadam . taddhitanivṛttyartham . dvipadikā tripadikā . māṣaśaḥ kārṣāpaṇaśaḥ . vākyanivṛttyartham . grāme grāme pānīyam . māṣam māṣam dehi . atha kriyamāṇe api vai padagrahaṇe samāsanivṛttyartham iti katham idam vijñāyate . samasasya nivṛttyartham samāsanivṛttyartham iti . āhosvit samāse nivṛttyartham samāsanivṛttyartham iti . kim ca ataḥ . yadi viñāyate samāsasya nivṛttyartham samāsanivṛttyartham iti siddham saptaparṇaḥ saptaparṇau saptaparṇāḥ iti saptaparṇābhyām saptaparṇebhyaḥ iti atra prāpnoti . atha vijñāyate samāse nivṛttyartham samāsanivṛttyartham iti saptaparṇaḥ saptaparṇau saptaparṇāḥ iti atra api prāpnoti . tathā taddhitanivṛttyartham iti . katham idam vijñāyate . taddhitasya nivṛttyartham taddhitanivṛttyartham iti . āhosvit taddhite nivṛttyartham taddhitanivṛttyartham iti . kim ca ataḥ . yadi vijñāyate taddhitasya nivṛttyartham taddhitanivṛttyartham iti siddham dvipadikāḥ tripadikāḥ dvipadikābhyām tripadikābhyām māṣaśaḥ kārṣāpaṇaśaḥ iti atra prāpnoti . atha vijñāyate taddhite nivṛttyartham taddhitanivṛttyartham iti dvipadikāḥ tripadikāḥ iti atra api prāpnoti . tathā vākyanivṛttyartham iti katham idam vijñāyate . vākyasya nivṛttyartham vākyanivṛttyartham iti . āhosvit vākye nivṛttyartham vākyanivṛttyartham
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.