Library·Patanjali: Vyakaranamahabhasya·8

Patanjali: Vyakaranamahabhasya 8

क्अ इइइ,३६१।१-३६४।१२ रो व्,२७९-२८८ सर्ववचनम् किमर्थम् । सर्ववचनम् अलोन्त्यनिवृत्त्यर्थम् । सर्वग्रहणम् क्रियते अलोन्त्यनिवृत्त्यर्थम् । अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य द्विर्वचनम् मा भूत् इति । क्व पुनः अलोन्त्यनिवृत्त्यर्थेन अर्थः सर्वग्रहणेन । नित्यवीप्सयोः इति । नित्यवीप्सयोः इति उच्यते न च अन्त्यस्य द्विर्वचनेन नित्यता वीप्सा वा गम्यते । इह तर्हि परेः वर्जने इति अन्त्यस्य अपि द्विर्वचनेन वर्ज्यमानता गम्येत । षष्ठीनिर्देशार्थम् च । षष्ठीनिर्देशार्थम् च सर्वग्रहणम् कर्तव्यम् । षष्ठीनिर्देशः यथा प्रकल्पेत । अनिर्देशे हि षष्ठ्यर्थाप्रसिद्धिः । अक्रियमाणे सर्वग्रहणे षष्ठ्यर्थस्य अप्रसिद्धिः स्यात् । कस्य । स्थानेयोगत्वस्य । क्व पुनः इह षष्ठीनिर्देशार्थेन अर्थः सर्वग्रहणेन यावता सर्वत्र एव षष्ठी उच्चार्यते । परेर्वर्जने प्रसमुपोदःपादपूरणे उपर्यध्यधसःसामीप्ये वाक्यादेरामन्त्रितस्य इति । इह न का चित् षष्ठी नित्यवीप्सयोः इति । ननु च एषा एव षष्ठी । न एषा षष्ठी । किम् तर्हि । अर्थनिर्देशः एषः । नित्ये च अर्थे वीप्सायाम् च इति । अलोन्त्यनिवृत्त्यर्थेन तावत् न अर्थः सर्वग्रहणेन । इदम् तावत् अयम् प्रष्टव्यः । नित्यवीप्सयोः द्वे भवतः इति उच्यते द्विशब्दः आदेशः कस्मात् न भवति । आचार्यप्रवृत्तिः ज्ञापयति न द्विशब्दः आदेशः भवति इति यत् अयम् तस्यपरमाम्रेडितम् अनुदात्तम्च इति आह । कथम् कृत्वा ज्ञापकम् । द्विशब्दः अयम् एकाच् तस्य एकाच्त्वात् तस्यपरमाम्रेडितम् अनुदात्तम्च इति एतत् न अस्ति । पश्यति तु आचार्यः न द्विशब्दः आदेशः भवति इति ततः तस्य परमाम्रेडितम् अनुदात्तम्च इति आह । यदि तर्हि न द्विशब्दः आदेशः भवति के तर्हि इदानीम् द्वे भवतः । द्विशब्देन यत् उच्यते । किम् पुनः तत् । द्विशब्दः अयम् सङ्ख्यापदम् सङ्ख्यायाः च सङ्ख्येयम् अर्थः । सङ्ख्येये द्वे भविष्यतः । के पुनः ते । पदे वाक्ये मात्रे वा । तत् यदा तावत् पदे वाक्ये वा तदा अनेकाल्त्वात् सर्वादेशः सिद्धः । यदा मात्रे अपि तदा अनेकाल्शित्सर्वस्य इति सर्वादेशः भविष्यति । यदा तर्हि अर्धमात्रे तदा सर्वादेशः न सिध्यति । न एषः दोषः । न च अर्धमात्रे द्विः उच्येते । किम् कारणम् । इह व्याकरेणे यः सर्वाल्पीयान् स्वरव्यवहारः सः मात्रया भवति न अर्धमात्रया व्यवहारः अस्ति । तेन अर्धमात्रे न भविष्यतः । एवम् अपि कुतः एतत् पदे द्वे भविष्यतः इति न पुनः वाक्ये स्याताम् मात्रे वा । नित्यवीप्सयोः द्वे भवतः इति उच्यते न च वाक्यद्विर्वचनेन मात्राद्विर्वचनेन वा नित्यता वीप्सा वा गम्यते । षष्ठीनिर्देशार्थम् एव तर्हि सर्वग्रहणम् कर्तव्यम् । न वा पदाधिकारात् । न वा वक्तव्यम् । किम् कारणम् । पदाधिकारात् । पदस्य इति प्रकृत्य द्विर्वचनम् वक्ष्यामि । तत् च समासतद्धितवाक्यनिवृत्त्यर्थम् । तत् च अवश्यम् पदग्रहणम् कर्तव्यम् समासनिवृत्त्यर्थम् तद्धितनिवृत्त्यर्थम् वाक्यनिवृत्त्यर्थम् च । समासनिवृत्त्यर्थम् तावत् । सप्तपर्णः अष्टापदम् । तद्धितनिवृत्त्यर्थम् । द्विपदिका त्रिपदिका । माषशः कार्षापणशः । वाक्यनिवृत्त्यर्थम् । ग्रामे ग्रामे पानीयम् । माषम् माषम् देहि । अथ क्रियमाणे अपि वै पदग्रहणे समासनिवृत्त्यर्थम् इति कथम् इदम् विज्ञायते । समसस्य निवृत्त्यर्थम् समासनिवृत्त्यर्थम् इति । आहोस्वित् समासे निवृत्त्यर्थम् समासनिवृत्त्यर्थम् इति । किम् च अतः । यदि विञायते समासस्य निवृत्त्यर्थम् समासनिवृत्त्यर्थम् इति सिद्धम् सप्तपर्णः सप्तपर्णौ सप्तपर्णाः इति सप्तपर्णाभ्याम् सप्तपर्णेभ्यः इति अत्र प्राप्नोति । अथ विज्ञायते समासे निवृत्त्यर्थम् समासनिवृत्त्यर्थम् इति सप्तपर्णः सप्तपर्णौ सप्तपर्णाः इति अत्र अपि प्राप्नोति । तथा तद्धितनिवृत्त्यर्थम् इति । कथम् इदम् विज्ञायते । तद्धितस्य निवृत्त्यर्थम् तद्धितनिवृत्त्यर्थम् इति । आहोस्वित् तद्धिते निवृत्त्यर्थम् तद्धितनिवृत्त्यर्थम् इति । किम् च अतः । यदि विज्ञायते तद्धितस्य निवृत्त्यर्थम् तद्धितनिवृत्त्यर्थम् इति सिद्धम् द्विपदिकाः त्रिपदिकाः द्विपदिकाभ्याम् त्रिपदिकाभ्याम् माषशः कार्षापणशः इति अत्र प्राप्नोति । अथ विज्ञायते तद्धिते निवृत्त्यर्थम् तद्धितनिवृत्त्यर्थम् इति द्विपदिकाः त्रिपदिकाः इति अत्र अपि प्राप्नोति । तथा वाक्यनिवृत्त्यर्थम् इति कथम् इदम् विज्ञायते । वाक्यस्य निवृत्त्यर्थम् वाक्यनिवृत्त्यर्थम् इति । आहोस्वित् वाक्ये निवृत्त्यर्थम् वाक्यनिवृत्त्यर्थम्

KA III,361.1-364.12 Ro V,279-288 sarvavacanam kimartham . sarvavacanam alontyanivṛttyartham . sarvagrahaṇam kriyate alontyanivṛttyartham . alaḥ antyasya vidhayaḥ bhavanti iti antyasya dvirvacanam mā bhūt iti . kva punaḥ alontyanivṛttyarthena arthaḥ sarvagrahaṇena . nityavīpsayoḥ iti . nityavīpsayoḥ iti ucyate na ca antyasya dvirvacanena nityatā vīpsā vā gamyate . iha tarhi pareḥ varjane iti antyasya api dvirvacanena varjyamānatā gamyeta . ṣaṣṭhīnirdeśārtham ca . ṣaṣṭhīnirdeśārtham ca sarvagrahaṇam kartavyam . ṣaṣṭhīnirdeśaḥ yathā prakalpeta . anirdeśe hi ṣaṣṭhyarthāprasiddhiḥ . akriyamāṇe sarvagrahaṇe ṣaṣṭhyarthasya aprasiddhiḥ syāt . kasya . sthāneyogatvasya . kva punaḥ iha ṣaṣṭhīnirdeśārthena arthaḥ sarvagrahaṇena yāvatā sarvatra eva ṣaṣṭhī uccāryate . parervarjane prasamupodaḥpādapūraṇe uparyadhyadhasaḥsāmīpye vākyāderāmantritasya iti . iha na kā cit ṣaṣṭhī nityavīpsayoḥ iti . nanu ca eṣā eva ṣaṣṭhī . na eṣā ṣaṣṭhī . kim tarhi . arthanirdeśaḥ eṣaḥ . nitye ca arthe vīpsāyām ca iti . alontyanivṛttyarthena tāvat na arthaḥ sarvagrahaṇena . idam tāvat ayam praṣṭavyaḥ . nityavīpsayoḥ dve bhavataḥ iti ucyate dviśabdaḥ ādeśaḥ kasmāt na bhavati . ācāryapravṛttiḥ jñāpayati na dviśabdaḥ ādeśaḥ bhavati iti yat ayam tasyaparamāmreḍitam anudāttamca iti āha . katham kṛtvā jñāpakam . dviśabdaḥ ayam ekāc tasya ekāctvāt tasyaparamāmreḍitam anudāttamca iti etat na asti . paśyati tu ācāryaḥ na dviśabdaḥ ādeśaḥ bhavati iti tataḥ tasya paramāmreḍitam anudāttamca iti āha . yadi tarhi na dviśabdaḥ ādeśaḥ bhavati ke tarhi idānīm dve bhavataḥ . dviśabdena yat ucyate . kim punaḥ tat . dviśabdaḥ ayam saṅkhyāpadam saṅkhyāyāḥ ca saṅkhyeyam arthaḥ . saṅkhyeye dve bhaviṣyataḥ . ke punaḥ te . pade vākye mātre vā . tat yadā tāvat pade vākye vā tadā anekāltvāt sarvādeśaḥ siddhaḥ . yadā mātre api tadā anekālśitsarvasya iti sarvādeśaḥ bhaviṣyati . yadā tarhi ardhamātre tadā sarvādeśaḥ na sidhyati . na eṣaḥ doṣaḥ . na ca ardhamātre dviḥ ucyete . kim kāraṇam . iha vyākareṇe yaḥ sarvālpīyān svaravyavahāraḥ saḥ mātrayā bhavati na ardhamātrayā vyavahāraḥ asti . tena ardhamātre na bhaviṣyataḥ . evam api kutaḥ etat pade dve bhaviṣyataḥ iti na punaḥ vākye syātām mātre vā . nityavīpsayoḥ dve bhavataḥ iti ucyate na ca vākyadvirvacanena mātrādvirvacanena vā nityatā vīpsā vā gamyate . ṣaṣṭhīnirdeśārtham eva tarhi sarvagrahaṇam kartavyam . na vā padādhikārāt . na vā vaktavyam . kim kāraṇam . padādhikārāt . padasya iti prakṛtya dvirvacanam vakṣyāmi . tat ca samāsataddhitavākyanivṛttyartham . tat ca avaśyam padagrahaṇam kartavyam samāsanivṛttyartham taddhitanivṛttyartham vākyanivṛttyartham ca . samāsanivṛttyartham tāvat . saptaparṇaḥ aṣṭāpadam . taddhitanivṛttyartham . dvipadikā tripadikā . māṣaśaḥ kārṣāpaṇaśaḥ . vākyanivṛttyartham . grāme grāme pānīyam . māṣam māṣam dehi . atha kriyamāṇe api vai padagrahaṇe samāsanivṛttyartham iti katham idam vijñāyate . samasasya nivṛttyartham samāsanivṛttyartham iti . āhosvit samāse nivṛttyartham samāsanivṛttyartham iti . kim ca ataḥ . yadi viñāyate samāsasya nivṛttyartham samāsanivṛttyartham iti siddham saptaparṇaḥ saptaparṇau saptaparṇāḥ iti saptaparṇābhyām saptaparṇebhyaḥ iti atra prāpnoti . atha vijñāyate samāse nivṛttyartham samāsanivṛttyartham iti saptaparṇaḥ saptaparṇau saptaparṇāḥ iti atra api prāpnoti . tathā taddhitanivṛttyartham iti . katham idam vijñāyate . taddhitasya nivṛttyartham taddhitanivṛttyartham iti . āhosvit taddhite nivṛttyartham taddhitanivṛttyartham iti . kim ca ataḥ . yadi vijñāyate taddhitasya nivṛttyartham taddhitanivṛttyartham iti siddham dvipadikāḥ tripadikāḥ dvipadikābhyām tripadikābhyām māṣaśaḥ kārṣāpaṇaśaḥ iti atra prāpnoti . atha vijñāyate taddhite nivṛttyartham taddhitanivṛttyartham iti dvipadikāḥ tripadikāḥ iti atra api prāpnoti . tathā vākyanivṛttyartham iti katham idam vijñāyate . vākyasya nivṛttyartham vākyanivṛttyartham iti . āhosvit vākye nivṛttyartham vākyanivṛttyartham

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३६३।२८-३६४।१३ रो व्,२८८-२९२ इहार्थम् एव तर्हि षष्ठीनिर्देशार्थम् अन्यतरत् कर्तव्यम् । षष्ठीनिर्दिष्टस्य स्थाने द्विर्वचनम् यथा स्यात् द्विःप्रयोगः मा भूत् इति । किम् च स्यात् । आम् पचसि देवदत्ता३ आमएकान्तरमामन्त्रितमनन्तिके इति एकान्तरता न स्यात् । इह च पौनःपुन्यम् पौनःपुनिकम् इति अप्रातिपदिकत्वात् तद्धितोत्पत्तिः न स्यात् । यदि तर्हि स्थाने द्विर्वचनम् राजा राजा वाक् वाक् पदस्य इति नलोपादीनि न सिध्यन्ति । इदम् इह सम्प्रधार्यम् । द्विर्वचनम् क्रियताम् नलोपादीनि इति किम् अत्र कर्तव्यम् । परत्वात् नलोपादीनि । पूर्वत्र असिद्धे नलोपादीनि सिद्धासिद्धयोः च न अस्ति सम्प्रधारणा । एवम् तर्हि पूर्वत्र असिद्धीयम् अद्विर्वचने इति वक्ष्यामि । तत् च अवश्यम् वक्तव्यम् । किम् प्रयोजनम् । विभाषिताः प्रयोजयन्ति । द्रोग्धा द्रोग्धा । द्रोढा द्रोढा इति । इह तर्हि बिसम् बिसम् मुसलम् मुसलम् आदेशप्रत्यययोः इति षत्वम् प्राप्नोति । आदेशः यः सकारः प्रतयः यः सकारः इति एवम् एतत् विज्ञायते । इह तर्हि नृभिः नृभिः रषाभ्यान्नोणःसमानपदे इति णत्वम् प्राप्नोति । समानपदे इति उच्यते समानम् एव यत् नित्यम् न च एतत् नित्यम् समानपदम् एव । किम् वक्तव्यम् एतत् । न हि । कथम् अनुच्यमानम् गंस्यते । समानग्रहणसामर्थ्यात् । यदि हि यत् समानम् च असमानम् च तत्र स्यात् समानग्रहणम् अनर्थकं स्यात् ।

KA III,363.28-364.13 Ro V,288-292 ihārtham eva tarhi ṣaṣṭhīnirdeśārtham anyatarat kartavyam . ṣaṣṭhīnirdiṣṭasya sthāne dvirvacanam yathā syāt dviḥprayogaḥ mā bhūt iti . kim ca syāt . ām pacasi devadattā3 āmaekāntaramāmantritamanantike iti ekāntaratā na syāt . iha ca paunaḥpunyam paunaḥpunikam iti aprātipadikatvāt taddhitotpattiḥ na syāt . yadi tarhi sthāne dvirvacanam rājā rājā vāk vāk padasya iti nalopādīni na sidhyanti . idam iha sampradhāryam . dvirvacanam kriyatām nalopādīni iti kim atra kartavyam . paratvāt nalopādīni . pūrvatra asiddhe nalopādīni siddhāsiddhayoḥ ca na asti sampradhāraṇā . evam tarhi pūrvatra asiddhīyam advirvacane iti vakṣyāmi . tat ca avaśyam vaktavyam . kim prayojanam . vibhāṣitāḥ prayojayanti . drogdhā drogdhā . droḍhā droḍhā iti . iha tarhi bisam bisam musalam musalam ādeśapratyayayoḥ iti ṣatvam prāpnoti . ādeśaḥ yaḥ sakāraḥ pratayaḥ yaḥ sakāraḥ iti evam etat vijñāyate . iha tarhi nṛbhiḥ nṛbhiḥ raṣābhyānnoṇaḥsamānapade iti ṇatvam prāpnoti . samānapade iti ucyate samānam eva yat nityam na ca etat nityam samānapadam eva . kim vaktavyam etat . na hi . katham anucyamānam gaṃsyate . samānagrahaṇasāmarthyāt . yadi hi yat samānam ca asamānam ca tatra syāt samānagrahaṇam anarthakaṃ syāt .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३६४।१४-२१ रो व्,२९२-२९४ अथ वा पुनः अस्तु द्विःप्रयोगः द्विर्वचनम् । ननु च उक्तम् आम् पचसि पचसि देवदत्ता३ आमः एकान्तरम् आमन्त्रितम् अनन्तिके इति एकान्तरता न प्राप्नोति । न एषः दोषः । सुप्तिङ्भ्याम् पदम् विशेषयिष्यामः । सुप्तिङन्तम्पदम् । यस्मात् सुप्तिङ्विधिः तदादि सुप्तिङन्तम् च । ननु च एकैकस्मात् एव अत्र सुप्तिङ्विधिः । समुदाये या वाक्यपरिसमाप्तिः तया पदसञ्ज्ञा । कुतः एतत् । शास्त्राहानेः । एवम् हि शास्त्रम् अहीनम् भवति । यत् अपि उच्यते इह पौनःपुन्यम् पौनःपुनिकम् इति अप्रातिपदिकत्वात् तद्धितोत्पत्तिः न प्राप्नोति इति मा भूत् एवम् । समर्थात् इति एवम् भविष्यति । अथ वा आचार्यप्रवृत्तिः ज्ञापयति भवति एवञ्जातीयकेभ्यः तद्धितोत्पत्तिः इति यत् अयम् कस्कादिषु कौतस्कुतशब्दम् पठति ।

KA III,364.14-21 Ro V,292-294 atha vā punaḥ astu dviḥprayogaḥ dvirvacanam . nanu ca uktam ām pacasi pacasi devadattā3 āmaḥ ekāntaram āmantritam anantike iti ekāntaratā na prāpnoti . na eṣaḥ doṣaḥ . suptiṅbhyām padam viśeṣayiṣyāmaḥ . suptiṅantampadam . yasmāt suptiṅvidhiḥ tadādi suptiṅantam ca . nanu ca ekaikasmāt eva atra suptiṅvidhiḥ . samudāye yā vākyaparisamāptiḥ tayā padasañjñā . kutaḥ etat . śāstrāhāneḥ . evam hi śāstram ahīnam bhavati . yat api ucyate iha paunaḥpunyam paunaḥpunikam iti aprātipadikatvāt taddhitotpattiḥ na prāpnoti iti mā bhūt evam . samarthāt iti evam bhaviṣyati . atha vā ācāryapravṛttiḥ jñāpayati bhavati evañjātīyakebhyaḥ taddhitotpattiḥ iti yat ayam kaskādiṣu kautaskutaśabdam paṭhati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३६४।२२-२६ रो व्,२९४-२९६ इह कस्मात् न भवति । हिमवान् खाण्डवः पारियात्रः समुद्रः इति । नित्ये द्वे भवतः इति प्राप्नोति । न एषः दोषः । अयम् नित्यशब्दः अस्ति एव कूटस्थेषु अविचालिषु भावेषु वर्तते । तत् यथा : नित्या द्यौः नित्या पृथिवी नित्यम् आकाशम् इति । अस्ति आभीक्ष्ण्ये वर्तते । तत् यथा : नित्यप्रहसितः नित्यप्रजल्पितः इति । तत् यः आभीक्ष्ण्ये वर्तते तस्य इदम् ग्रहणम् ।

KA III,364.22-26 Ro V,294-296 iha kasmāt na bhavati . himavān khāṇḍavaḥ pāriyātraḥ samudraḥ iti . nitye dve bhavataḥ iti prāpnoti . na eṣaḥ doṣaḥ . ayam nityaśabdaḥ asti eva kūṭastheṣu avicāliṣu bhāveṣu vartate . tat yathā : nityā dyauḥ nityā pṛthivī nityam ākāśam iti . asti ābhīkṣṇye vartate . tat yathā : nityaprahasitaḥ nityaprajalpitaḥ iti . tat yaḥ ābhīkṣṇye vartate tasya idam grahaṇam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३६५।१-२१ रो व्,२९७-३०० अथ किम् इदम् वीप्सा इति । आप्नोतेः अयम् विपूर्वाइ इच्छायाम् अर्थे सन् विधीयते । यदि एवम् चिकीर्षति जिहीर्षति इति अत्र अपि प्राप्नोति । न एषः दोषः । न एवम् विज्ञायते वीप्सायाम् अभिधेयायाम् इति । कथम् तर्हि । कर्तृविशेषणम् एतत् । वीप्सति इति वीप्सः । वीप्सः चेत् कर्ता भवति इति । कः पुनः वीप्सार्थः । अनवयवाभिधानम् वीप्सार्थः । अनवयवेन द्रव्याणाम् अभिधानम् एषः वीप्सार्थः । अनवयवाभिधानम् वीप्सार्थः इति चेत् जात्याख्यायाम् द्विर्वचनप्रसङ्गः । अनवयवाभिधानम् वीप्सार्थः इति चेत् जात्याख्यायाम् द्विर्वचनम् प्राप्नोति । व्रीहिभिः यवैः वा इति । न वा एकार्थत्वात् जातेः । न वा एषः दोषः । किम् कारणम् । एकार्थत्वात् जातेः । एकार्थः हि जातिः । एकम् अर्थम् प्रत्याययिष्यामि इति जातिशब्दः प्रयुज्यते । अनेकार्थाश्रयत्वात् च वीप्सायाः । अनेकार्थाश्रया च पुनः वीप्सा । अनेकम् अर्थम् सम्प्रत्याययिष्यामि इति वीप्सा प्रयुज्यते । एकार्थत्वात् जातेः अनेकार्थाश्रयत्वात् च वीप्सायाः जात्याख्यायाम् द्विर्वचनम् न भविष्यति । निवर्तकत्वाद्वा । अथ वा न अनेन द्विर्वचनम् निर्वर्त्यते । किम् तर्हि अद्विर्वचनम् अनेन निवर्त्यते । यावन्तः ते अर्थाः तावताम् शब्दानाम् प्रयोगः प्राप्नोति । तत्र अनेन निवृत्तिः क्रियते । नित्यवीप्सयोः अर्थयोः द्वे एव शब्दरूपे प्रयोक्तव्ये न अतिबहु प्रयोक्तव्यम् इति । सर्वपदसगतिग्रहणानर्थक्यम् च अर्थाभिधाने द्विर्वचनविधानात् । सर्वग्रहणम् च अनर्थकम् । किम् कारणम् । सर्वस्य एव हि द्विर्वचनेन अर्थः गम्यते न अवयवस्य । पदग्रहणम् च अनर्थकम् पदस्य एव हि द्विर्वचनेन अर्थः गम्यते न अगतिकस्य ।

KA III,365.1-21 Ro V,297-300 atha kim idam vīpsā iti . āpnoteḥ ayam vipūrvāi icchāyām arthe san vidhīyate . yadi evam cikīrṣati jihīrṣati iti atra api prāpnoti . na eṣaḥ doṣaḥ . na evam vijñāyate vīpsāyām abhidheyāyām iti . katham tarhi . kartṛviśeṣaṇam etat . vīpsati iti vīpsaḥ . vīpsaḥ cet kartā bhavati iti . kaḥ punaḥ vīpsārthaḥ . anavayavābhidhānam vīpsārthaḥ . anavayavena dravyāṇām abhidhānam eṣaḥ vīpsārthaḥ . anavayavābhidhānam vīpsārthaḥ iti cet jātyākhyāyām dvirvacanaprasaṅgaḥ . anavayavābhidhānam vīpsārthaḥ iti cet jātyākhyāyām dvirvacanam prāpnoti . vrīhibhiḥ yavaiḥ vā iti . na vā ekārthatvāt jāteḥ . na vā eṣaḥ doṣaḥ . kim kāraṇam . ekārthatvāt jāteḥ . ekārthaḥ hi jātiḥ . ekam artham pratyāyayiṣyāmi iti jātiśabdaḥ prayujyate . anekārthāśrayatvāt ca vīpsāyāḥ . anekārthāśrayā ca punaḥ vīpsā . anekam artham sampratyāyayiṣyāmi iti vīpsā prayujyate . ekārthatvāt jāteḥ anekārthāśrayatvāt ca vīpsāyāḥ jātyākhyāyām dvirvacanam na bhaviṣyati . nivartakatvādvā . atha vā na anena dvirvacanam nirvartyate . kim tarhi advirvacanam anena nivartyate . yāvantaḥ te arthāḥ tāvatām śabdānām prayogaḥ prāpnoti . tatra anena nivṛttiḥ kriyate . nityavīpsayoḥ arthayoḥ dve eva śabdarūpe prayoktavye na atibahu prayoktavyam iti . sarvapadasagatigrahaṇānarthakyam ca arthābhidhāne dvirvacanavidhānāt . sarvagrahaṇam ca anarthakam . kim kāraṇam . sarvasya eva hi dvirvacanena arthaḥ gamyate na avayavasya . padagrahaṇam ca anarthakam padasya eva hi dvirvacanena arthaḥ gamyate na agatikasya .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३६५।२२-३६६।११ रो व्,३००-३०२ किम् पुनः इदम् वीप्सायाम् सर्वम् अभिधीयते आहोस्वित् एकम् । कः च अत्र विशेषः । वीप्सायाम् सर्वाभिधाने वचनाप्रसिद्धिः । वीप्सायाम् सर्वाभिधाने वचनम् न सिध्यति । ग्रामः ग्रामः । जनपदः जनपदः । बहवः ते अर्थाः तत्र बहुषुबहुवचनम् इति बहुवचनम् प्राप्नोति । अस्तु तर्हि एकम् । एकाभिधाने असर्वद्रव्यगतिः । एकाभिधाने सर्वद्रव्यगतिः न सिध्यति । अस्तु तर्हि सर्वम् । ननु च उक्तम् वीप्सायाम् सर्वाभिधाने वचनाप्रसिद्धिः इति । न वा पदार्थत्वात् । न वा एषः दोषः । किम् कारणम् । पदार्थत्वात् । पदस्य अर्थः वीप्सा । सुबन्तम् च पदम् ङ्याप्प्रातिपदिकात् च एकत्वादिषु अर्थेषु स्वादयः विधीयन्ते न च एतत् प्रातिपदिकम् । यत् तर्हि प्रातिपदिकम् : दृषत् दृषत् समित् समित् इति । एतत् अपि प्रत्ययलक्षणेन सुबन्तम् न प्रातिपदिकम् । अपर आह । न वा पदार्थत्वात् । न वा एषः दोषः । किम् कारणम् । पदार्थत्वात् । पदस्य अर्थः वीप्सा सुबन्तम् च पदम् ङ्याप्प्रातिपदिकात् च एकत्वादिषु अर्थेषु स्वादयः विधीयन्ते न च एतत् प्रातिपदिकम् । यत् तर्हि प्रातिपदिकम् । दृषत् दृषत् समित् समित् इति । एतत् अपि प्रत्ययलक्षणेन सुबन्तम् न प्रातिपदिकम् ।

KA III,365.22-366.11 Ro V,300-302 kim punaḥ idam vīpsāyām sarvam abhidhīyate āhosvit ekam . kaḥ ca atra viśeṣaḥ . vīpsāyām sarvābhidhāne vacanāprasiddhiḥ . vīpsāyām sarvābhidhāne vacanam na sidhyati . grāmaḥ grāmaḥ . janapadaḥ janapadaḥ . bahavaḥ te arthāḥ tatra bahuṣubahuvacanam iti bahuvacanam prāpnoti . astu tarhi ekam . ekābhidhāne asarvadravyagatiḥ . ekābhidhāne sarvadravyagatiḥ na sidhyati . astu tarhi sarvam . nanu ca uktam vīpsāyām sarvābhidhāne vacanāprasiddhiḥ iti . na vā padārthatvāt . na vā eṣaḥ doṣaḥ . kim kāraṇam . padārthatvāt . padasya arthaḥ vīpsā . subantam ca padam ṅyāpprātipadikāt ca ekatvādiṣu artheṣu svādayaḥ vidhīyante na ca etat prātipadikam . yat tarhi prātipadikam : dṛṣat dṛṣat samit samit iti . etat api pratyayalakṣaṇena subantam na prātipadikam . apara āha . na vā padārthatvāt . na vā eṣaḥ doṣaḥ . kim kāraṇam . padārthatvāt . padasya arthaḥ vīpsā subantam ca padam ṅyāpprātipadikāt ca ekatvādiṣu artheṣu svādayaḥ vidhīyante na ca etat prātipadikam . yat tarhi prātipadikam . dṛṣat dṛṣat samit samit iti . etat api pratyayalakṣaṇena subantam na prātipadikam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३६६।१२-३६६।२३ रो व्,३०२-३०४ अथ इह कथम् भवितव्यम् । पचति पचतितराम् तिष्ठति । आहोस्वित् पचतितराम् पचतितराम् तिष्ठति इति । पचति पचतितराम् तिष्ठतीति भवितव्यम् । कथम् । द्विर्वचनम् क्रियताम् आतिशायिकः इति द्विर्वचनम् भविष्यति विप्रतिषेधेन । इह अपि तर्हि आतिशायिकात् द्विर्वचनम् स्यात् । आद्यतरम् आद्यतरम् आनय इति । अस्ति अत्र विशेषः । अन्तरङ्गः आतिशायिकः । का अन्तरङ्गता । ङ्याप्प्रातिपदिकात् आतिशायिकः पदस्य द्विर्वचनम् । आतिशायिकः अपि न अन्तरङ्गः । कथम् । समर्थात् तद्धितः असौ उत्पद्यते सामर्थ्यम् च सुबन्तेन । अथ वा स्पर्धायाम् आतिशायिकः विधीयते न च अन्तरेण प्रतियोगिनम् स्पर्धा गम्यते । एवम् तर्हि इह द्वौ अर्थौ वक्तव्यौ नित्यवीप्से च अतिशयः च न च एकस्य प्रयोक्तुः अनेकम् अर्थम् युगपत् वक्तुम् सम्भवः अस्ति । तत् एतत् प्रयोक्तरि अधीनम् भवति । एतस्मिन् च प्रयोक्तरि अधीने क्व चित् का चित् प्रसृततरा गतिः भवति । इह तावत् पचति पचतितराम् तिष्ठति इति एषा प्रसृततरा गतिः यत् नित्यम् उक्त्वा अतिशयः उच्यते । इह इदानीम् आद्यतरम् आद्यतरम् आनय इति एषा प्रसृततरा गतिः यत् अतिशयम् उक्त्वा वीप्साद्विर्वचनम् उच्यते ।

KA III,366.12-366.23 Ro V,302-304 atha iha katham bhavitavyam . pacati pacatitarām tiṣṭhati . āhosvit pacatitarām pacatitarām tiṣṭhati iti . pacati pacatitarām tiṣṭhatīti bhavitavyam . katham . dvirvacanam kriyatām ātiśāyikaḥ iti dvirvacanam bhaviṣyati vipratiṣedhena . iha api tarhi ātiśāyikāt dvirvacanam syāt . ādyataram ādyataram ānaya iti . asti atra viśeṣaḥ . antaraṅgaḥ ātiśāyikaḥ . kā antaraṅgatā . ṅyāpprātipadikāt ātiśāyikaḥ padasya dvirvacanam . ātiśāyikaḥ api na antaraṅgaḥ . katham . samarthāt taddhitaḥ asau utpadyate sāmarthyam ca subantena . atha vā spardhāyām ātiśāyikaḥ vidhīyate na ca antareṇa pratiyoginam spardhā gamyate . evam tarhi iha dvau arthau vaktavyau nityavīpse ca atiśayaḥ ca na ca ekasya prayoktuḥ anekam artham yugapat vaktum sambhavaḥ asti . tat etat prayoktari adhīnam bhavati . etasmin ca prayoktari adhīne kva cit kā cit prasṛtatarā gatiḥ bhavati . iha tāvat pacati pacatitarām tiṣṭhati iti eṣā prasṛtatarā gatiḥ yat nityam uktvā atiśayaḥ ucyate . iha idānīm ādyataram ādyataram ānaya iti eṣā prasṛtatarā gatiḥ yat atiśayam uktvā vīpsādvirvacanam ucyate .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३६६।२४-३६७।५ रो व्,३०४-३०५ परेः असमासे । परेः असमासे इति वक्तव्यम् । इह मा भूत् । परित्रिगर्तम् वृष्टः देवः । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । परेः वर्जने इति उच्यते न च अत्र परिः वर्जने वर्तते । कः तर्हि । समासः । परेर्वर्जने वावचनम् । परेर्वर्वने वा इति वक्तव्यम् । परि त्रिगर्तेभ्यः वृष्टः देवः । परि परि त्रिगर्तेभ्यः वृष्टः देवः ।

KA III,366.24-367.5 Ro V,304-305 pareḥ asamāse . pareḥ asamāse iti vaktavyam . iha mā bhūt . paritrigartam vṛṣṭaḥ devaḥ . tat tarhi vaktavyam . na vaktavyam . pareḥ varjane iti ucyate na ca atra pariḥ varjane vartate . kaḥ tarhi . samāsaḥ . parervarjane vāvacanam . parervarvane vā iti vaktavyam . pari trigartebhyaḥ vṛṣṭaḥ devaḥ . pari pari trigartebhyaḥ vṛṣṭaḥ devaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३६७।६-१३ रो व्,३०५-३०६ असूयाकुत्सनयोः कोपभर्त्सनयोः च एकार्थत्वात् पृथक्त्वनिर्देशानर्थक्यम् । असूया कुत्सनम् इति एकः अर्थः । कोपः भर्त्सनम् इति एकः अर्थः । असूयाकुत्सनयोः कोपभर्त्सनयोः च एकार्थत्वात् पृथक्त्वनिर्देशः अनर्थकः । न हि अनसूयन् कुत्सयति न च अपि अकुपितः भर्त्सयते । ननु च भोः अकुपिताः अपि दृश्यन्ते दारकान् भर्त्सयमानाः । अन्ततः ते ताम् शरीराकृतिम् कुर्वन्ति या कुपितस्य भवति । एवम् तर्हि आह । सामृतैः पाणिभिः घ्नन्ति गुरवः न विषोकितैः । लाडनाश्रयिणः दोषाः ताडनाश्रयिणः गुणाः । एकं बहुव्रीहिवत्

KA III,367.6-13 Ro V,305-306 asūyākutsanayoḥ kopabhartsanayoḥ ca ekārthatvāt pṛthaktvanirdeśānarthakyam . asūyā kutsanam iti ekaḥ arthaḥ . kopaḥ bhartsanam iti ekaḥ arthaḥ . asūyākutsanayoḥ kopabhartsanayoḥ ca ekārthatvāt pṛthaktvanirdeśaḥ anarthakaḥ . na hi anasūyan kutsayati na ca api akupitaḥ bhartsayate . nanu ca bhoḥ akupitāḥ api dṛśyante dārakān bhartsayamānāḥ . antataḥ te tām śarīrākṛtim kurvanti yā kupitasya bhavati . evam tarhi āha . sāmṛtaiḥ pāṇibhiḥ ghnanti guravaḥ na viṣokitaiḥ . lāḍanāśrayiṇaḥ doṣāḥ tāḍanāśrayiṇaḥ guṇāḥ . ekaṃ bahuvrīhivat

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३६७।१४-२२ रो व्,३०६-३०७ इह कस्मात् बहुव्रीहिवद्भावः न भवति । एकः इति । एकस्य द्विर्वचनसम्बन्धेन बहुव्रीहिवद्भावः उच्यते न च अत्र द्विर्वचनम् पश्यामः । एकस्य द्विर्वचनसम्बन्धेन इति चेत् अर्थनिर्देशः । एकस्य द्विर्वचनसम्बन्धेन इति चेत् अर्थनिर्देशः कर्तव्यः । द्विर्वचनम् अपि हि अत्र कस्मात् न भवति । तस्मात् वाच्यम् अस्मिन् अर्थे द्वे भवतः बहुव्रीहिवत् च इति । न वा वीप्साधिकारात् । न वा वक्तव्यम् । किम् कारणम् । वीप्साधिकारात् । नित्यवीप्सयोः इति वर्तते । क्अ इइइ,३६७।२२-३६८।११ रो व्,३०७-३०९ अथ बहुव्रीहिवत्त्वे किम् प्रयोजनम् । बहुव्रीहिवत्त्वे प्रयोजनम् सुब्लोपपुंवद्भावौ । सुब्लोपः । एकैकम् । पुंवद्भावः । गतगता । यदि एवम् सर्वनामस्वरसमासान्तेषु दोषः । सर्वनामस्वरसमासान्तेषु दोषः भवति । सर्वनामविधौ दोषः भवति । एकैकस्मै । नबहुव्रीहौ इति प्रतिषेधः प्राप्नोति । सर्वनाम । स्वर । नन सुसु । नञ्सुभ्याम् इति एषः स्वरः प्राप्नोति । स्वर । समासान्त । ऋगृक् पूःपूः । ऋक्पूरब्धूःपथामानक्षे इति समासान्तः प्राप्नोति । सर्वनामविधौ तावत् न दोषः । उक्तम् तत्र बहुव्रीहिग्रहणस्य प्रयोजनम् बहुव्रीहिः एव यः बुहुव्रीहिः तत्र प्रतिषेधः यथा स्यात् बहुव्रीहिवद्भावेन यः बहुव्रीहिः तत्र मा भूत् इति । स्वरसमासान्तयोः अपि प्रकृतम् समासग्रहणम् अनुवर्तते तेन एव बहुव्रीहिम् विशेषयिष्यामः । समासः यः बहुव्रीहिः इति ।

KA III,367.14-22 Ro V,306-307 iha kasmāt bahuvrīhivadbhāvaḥ na bhavati . ekaḥ iti . ekasya dvirvacanasambandhena bahuvrīhivadbhāvaḥ ucyate na ca atra dvirvacanam paśyāmaḥ . ekasya dvirvacanasambandhena iti cet arthanirdeśaḥ . ekasya dvirvacanasambandhena iti cet arthanirdeśaḥ kartavyaḥ . dvirvacanam api hi atra kasmāt na bhavati . tasmāt vācyam asmin arthe dve bhavataḥ bahuvrīhivat ca iti . na vā vīpsādhikārāt . na vā vaktavyam . kim kāraṇam . vīpsādhikārāt . nityavīpsayoḥ iti vartate . KA III,367.22-368.11 Ro V,307-309 atha bahuvrīhivattve kim prayojanam . bahuvrīhivattve prayojanam sublopapuṃvadbhāvau . sublopaḥ . ekaikam . puṃvadbhāvaḥ . gatagatā . yadi evam sarvanāmasvarasamāsānteṣu doṣaḥ . sarvanāmasvarasamāsānteṣu doṣaḥ bhavati . sarvanāmavidhau doṣaḥ bhavati . ekaikasmai . nabahuvrīhau iti pratiṣedhaḥ prāpnoti . sarvanāma . svara . nana susu . nañsubhyām iti eṣaḥ svaraḥ prāpnoti . svara . samāsānta . ṛgṛk pūḥpūḥ . ṛkpūrabdhūḥpathāmānakṣe iti samāsāntaḥ prāpnoti . sarvanāmavidhau tāvat na doṣaḥ . uktam tatra bahuvrīhigrahaṇasya prayojanam bahuvrīhiḥ eva yaḥ buhuvrīhiḥ tatra pratiṣedhaḥ yathā syāt bahuvrīhivadbhāvena yaḥ bahuvrīhiḥ tatra mā bhūt iti . svarasamāsāntayoḥ api prakṛtam samāsagrahaṇam anuvartate tena eva bahuvrīhim viśeṣayiṣyāmaḥ . samāsaḥ yaḥ bahuvrīhiḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३६८।१२-३६८।१५ रो व्,३१० कर्मधारयवत्त्वे कानि प्रयोजनानि । कर्मधारयवत्त्वे प्रयोजनम् सुब्लोपपुंवद्भावान्तोदात्तत्वानि । सुब्लोपः । पटुपटुः । पुंवद्भावः । पटुपट्वी । अन्तोदात्तत्वम् । पटुपटुः ।

KA III,368.12-368.15 Ro V,310 karmadhārayavattve kāni prayojanāni . karmadhārayavattve prayojanam sublopapuṃvadbhāvāntodāttatvāni . sublopaḥ . paṭupaṭuḥ . puṃvadbhāvaḥ . paṭupaṭvī . antodāttatvam . paṭupaṭuḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३६८।१६-३६९।८ रो व्,३१०-३१२ गुणवचनस्य इति किमर्थम् । अग्निः माणवकः । गौः वाहीकः । प्रकारे सर्वेषाम् गुणवचनत्वात् सर्वप्रसङ्गः । सर्वे हि शब्दाः प्रकारे वर्तमानाः गुणवचनाः सम्पद्यन्ते तेन इह अपि प्राप्नोति । अग्निः माणवकः । गौः वाहीकः इति । सिद्धम् तु प्रकृत्यर्थविशेषणत्वात् । सिद्धम् एतत् । कथम् । प्रकृत्यर्थविशेषणत्वात् । प्रकृत्यर्थः विशेष्यते । न एवम् विज्ञायते प्रकारे गुणवचनस्य इति । कथम् तर्हि । गुणवचनस्य शब्दस्य द्वे भवतः प्रकारे वर्तमानस्य इति । अथ वा प्रकारे गुणवचनस्य इति उच्यते सर्वः च शब्दः प्रकारे वर्तमानः गुणवचनः सम्पद्यते तत्र प्रकर्षगतिः विज्ञास्यते : साधीयः यः गुणवचनः इति । कः च साधीयः । यः प्रकारे च प्राक् च प्रकारात् । अथ वा प्रकारे गुणवचनस्य इति उच्यते सर्वः च शब्दः प्रकारे वर्तमानः गुणवचनः सम्पद्यते ते एवम् विज्ञास्यामः प्राक् प्रकारात् यः गुणवचनः इति ।

KA III,368.16-369.8 Ro V,310-312 guṇavacanasya iti kimartham . agniḥ māṇavakaḥ . gauḥ vāhīkaḥ . prakāre sarveṣām guṇavacanatvāt sarvaprasaṅgaḥ . sarve hi śabdāḥ prakāre vartamānāḥ guṇavacanāḥ sampadyante tena iha api prāpnoti . agniḥ māṇavakaḥ . gauḥ vāhīkaḥ iti . siddham tu prakṛtyarthaviśeṣaṇatvāt . siddham etat . katham . prakṛtyarthaviśeṣaṇatvāt . prakṛtyarthaḥ viśeṣyate . na evam vijñāyate prakāre guṇavacanasya iti . katham tarhi . guṇavacanasya śabdasya dve bhavataḥ prakāre vartamānasya iti . atha vā prakāre guṇavacanasya iti ucyate sarvaḥ ca śabdaḥ prakāre vartamānaḥ guṇavacanaḥ sampadyate tatra prakarṣagatiḥ vijñāsyate : sādhīyaḥ yaḥ guṇavacanaḥ iti . kaḥ ca sādhīyaḥ . yaḥ prakāre ca prāk ca prakārāt . atha vā prakāre guṇavacanasya iti ucyate sarvaḥ ca śabdaḥ prakāre vartamānaḥ guṇavacanaḥ sampadyate te evam vijñāsyāmaḥ prāk prakārāt yaḥ guṇavacanaḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३६९।९-१०-३७०।१९ रो व्,३१२-३१८ [आनुपूर्व्ये] । आनुपूर्व्ये द्वे भवतः इति वक्तव्यम् । मूले मूले स्थूलाः । अग्रे अग्रे सूक्ष्माः । स्वार्थे अवधार्यमाणे अनेकस्मिन् । स्वार्थे अवधार्यमाणे अनेकस्मिन् द्वे भवतः इति वक्तव्यम् । अस्मात् कार्षापणात् इह भवद्भ्याम् माषम् माषम् देहि । अवधार्यमाणे इति किमर्थम् । अस्मात् कार्षापणात् इह भवद्भ्याम् माषम् देहि द्वौ देहि त्रीन् देहि । अनेकस्मिन् इति किमर्थम् । अस्मात् कार्षापणात् इह भवद्भ्याम् माषम् देहि । माषम् एव देहि । किम् पुनः कारणम् न सिध्यति । अनवयवाभिधानम् वीप्सार्थः इति उच्यते अवयवाभिधानम् च अत्र गम्यते । आतः च अवयवाभिधानम् यः हि उच्यते अस्मात् कार्षापणात् इह भवद्भ्याम् माषम् माषम् देहि इति माषम् माषम् असौ दत्त्वा शेषम् पृच्छति किम् अनेन क्रियताम् इति। यः पुनः उच्यते इमम् कार्षापणम् इह भवद्भ्याम् माषम् माषम् देहि इति माषम् माषम् असौ दत्त्वा तूष्णीम् आस्ते । [चापले ।] चापले द्वे भवतः इति वक्तव्यम् । अहिः अहिः बुध्यस्व बुध्यस्व । न च अवश्यम् द्वे एव । यावद्भिः शब्दैः सः अर्थः गम्यते तावन्तः प्रयोकव्याः । अहिः अहिः अहिः बुध्यस्व बुध्यस्व बुध्यस्व इति ।क्रियासमभिहारे । क्रियासमभिहारे द्वे भवतः इति वक्तव्यम् । सः भवान् लुनीहि लुनीहि इति एव अयम् लुनाति । [आभीक्ष्ण्ये ।] आभीक्ष्ण्ये द्वे भवतः इति वक्तव्यम् । भुक्त्वा भुक्त्वा व्रजति । भोजम् भोजम् व्रजति । डाचि च । डाचि च द्वे भवतः इति वक्तव्यम् । पटपटायति मटमटायति । पूर्वप्रथमयोः अर्थातिशयविवक्षायाम् । पूर्वप्रथमयोः अर्थातिशयविवक्षायाम् द्वे भवतः इति वक्तव्यम् । पूर्वम् पूर्वम् पुष्प्यन्ति । प्रथमम् प्रथमम् पच्यन्ते । डतरडतमयोः समसम्प्रधारणायाम् स्त्रीनिगदे भावे । डतरडतमयोः समसम्प्रधारणायाम् स्त्रीनिगदे भावे द्वे भवतः इति वक्तव्यम् । उभौ इमौ आढ्यौ कतरा कतरा अनयोः आढ्यता । सर्वे इमे आढ्याः कतमा कतमा एषाम् इति । कर्मव्यतिहारे सर्वनाम्नः समासवत् च बहुलम् यदा न समासवत् प्रथमैकवचनम् तदा पूर्वपदस्य । कर्मव्यतिहारे सर्वनाम्नः द्वे भवतः इति वक्तव्यम् समासवत् च बहुलम् । यदा न समासवत् प्रथमैकवचनम् भवति तदा पूर्वपदस्य । अन्योऽन्यम् इमे ब्राह्मणाः भोजयन्ति । अन्योऽन्यस्य भोजयन्ति । इतरेतरम् भोजयन्ति । इतरेतरस्य भोजयन्ति । स्त्रीनपुंसकयोः उत्तरपदस्य वा अम्भावः । स्त्रीनपुंसकयोः उत्तरपदस्य वा अम्भावः वक्तव्यः । अन्योऽन्यम् इमे ब्राह्मण्यौ भोजयतः । अन्योऽन्याम् भोजयतः । इतरेतरम् भोजयतः । इतरेतराम् भोजयतः । अन्योऽन्यम् इमे ब्राह्मणकुले भोजयतः । अन्योऽन्याम् भोजयतः । इतरेतरम् भोजयतः । इतरेतराम् भोजयतः ।

KA III,369.9-10-370.19 Ro V,312-318 [ānupūrvye] . ānupūrvye dve bhavataḥ iti vaktavyam . mūle mūle sthūlāḥ . agre agre sūkṣmāḥ . svārthe avadhāryamāṇe anekasmin . svārthe avadhāryamāṇe anekasmin dve bhavataḥ iti vaktavyam . asmāt kārṣāpaṇāt iha bhavadbhyām māṣam māṣam dehi . avadhāryamāṇe iti kimartham . asmāt kārṣāpaṇāt iha bhavadbhyām māṣam dehi dvau dehi trīn dehi . anekasmin iti kimartham . asmāt kārṣāpaṇāt iha bhavadbhyām māṣam dehi . māṣam eva dehi . kim punaḥ kāraṇam na sidhyati . anavayavābhidhānam vīpsārthaḥ iti ucyate avayavābhidhānam ca atra gamyate . ātaḥ ca avayavābhidhānam yaḥ hi ucyate asmāt kārṣāpaṇāt iha bhavadbhyām māṣam māṣam dehi iti māṣam māṣam asau dattvā śeṣam pṛcchati kim anena kriyatām iti. yaḥ punaḥ ucyate imam kārṣāpaṇam iha bhavadbhyām māṣam māṣam dehi iti māṣam māṣam asau dattvā tūṣṇīm āste . [cāpale .] cāpale dve bhavataḥ iti vaktavyam . ahiḥ ahiḥ budhyasva budhyasva . na ca avaśyam dve eva . yāvadbhiḥ śabdaiḥ saḥ arthaḥ gamyate tāvantaḥ prayokavyāḥ . ahiḥ ahiḥ ahiḥ budhyasva budhyasva budhyasva iti .kriyāsamabhihāre . kriyāsamabhihāre dve bhavataḥ iti vaktavyam . saḥ bhavān lunīhi lunīhi iti eva ayam lunāti . [ābhīkṣṇye .] ābhīkṣṇye dve bhavataḥ iti vaktavyam . bhuktvā bhuktvā vrajati . bhojam bhojam vrajati . ḍāci ca . ḍāci ca dve bhavataḥ iti vaktavyam . paṭapaṭāyati maṭamaṭāyati . pūrvaprathamayoḥ arthātiśayavivakṣāyām . pūrvaprathamayoḥ arthātiśayavivakṣāyām dve bhavataḥ iti vaktavyam . pūrvam pūrvam puṣpyanti . prathamam prathamam pacyante . ḍataraḍatamayoḥ samasampradhāraṇāyām strīnigade bhāve . ḍataraḍatamayoḥ samasampradhāraṇāyām strīnigade bhāve dve bhavataḥ iti vaktavyam . ubhau imau āḍhyau katarā katarā anayoḥ āḍhyatā . sarve ime āḍhyāḥ katamā katamā eṣām iti . karmavyatihāre sarvanāmnaḥ samāsavat ca bahulam yadā na samāsavat prathamaikavacanam tadā pūrvapadasya . karmavyatihāre sarvanāmnaḥ dve bhavataḥ iti vaktavyam samāsavat ca bahulam . yadā na samāsavat prathamaikavacanam bhavati tadā pūrvapadasya . anyo'nyam ime brāhmaṇāḥ bhojayanti . anyo'nyasya bhojayanti . itaretaram bhojayanti . itaretarasya bhojayanti . strīnapuṃsakayoḥ uttarapadasya vā ambhāvaḥ . strīnapuṃsakayoḥ uttarapadasya vā ambhāvaḥ vaktavyaḥ . anyo'nyam ime brāhmaṇyau bhojayataḥ . anyo'nyām bhojayataḥ . itaretaram bhojayataḥ . itaretarām bhojayataḥ . anyo'nyam ime brāhmaṇakule bhojayataḥ . anyo'nyām bhojayataḥ . itaretaram bhojayataḥ . itaretarām bhojayataḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३७०।२०-३७१।२ रो व्,३१९ अत्यन्तसहचरिते लोकविज्ञाते द्वन्द्वम् इति उपसङ्ख्यानम् । अत्यन्तसहचरिते लोकविज्ञाते द्वन्द्वम् इति उपसङ्ख्यानम् कर्तव्यम् । द्वन्द्वम् स्कन्दविशाखौ । द्वन्द्वम् नारदपर्वतौ । अत्यन्तसहचरिते इति किमर्थम् । द्वौ युधिष्ठिरार्जुनौ । लोकविज्ञाते इति किमर्थम् । द्वौ देवदत्तयज्ञदत्तौ । क्अ इइइ,३७१।२-७ रो व्,३१९ अथ द्वन्द्वम् इति किम् निपात्यते । द्वन्द्वम् इति पूर्वपदस्य च अम्भावः उत्तरपदस्य च अत्वम् नपुंसकत्वम् च । पूर्वपदस्य च अम्भावः निपात्यते उत्तरपदस्य च अत्वम् नपुंसकत्वम् च । उक्तम् वा । किम् उक्तम् । लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य इति तत्र नपुंसकत्वम् अनिपात्यम् ।

KA III,370.20-371.2 Ro V,319 atyantasahacarite lokavijñāte dvandvam iti upasaṅkhyānam . atyantasahacarite lokavijñāte dvandvam iti upasaṅkhyānam kartavyam . dvandvam skandaviśākhau . dvandvam nāradaparvatau . atyantasahacarite iti kimartham . dvau yudhiṣṭhirārjunau . lokavijñāte iti kimartham . dvau devadattayajñadattau . KA III,371.2-7 Ro V,319 atha dvandvam iti kim nipātyate . dvandvam iti pūrvapadasya ca ambhāvaḥ uttarapadasya ca atvam napuṃsakatvam ca . pūrvapadasya ca ambhāvaḥ nipātyate uttarapadasya ca atvam napuṃsakatvam ca . uktam vā . kim uktam . liṅgam aśiṣyam lokāśrayatvāt liṅgasya iti tatra napuṃsakatvam anipātyam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३७१।८-३७२।७ रो व्,३२०-३२२ आ कुतः पदाधिकारः । पदाधिकारः प्राक् अपदान्ताधिकारात् । अपदान्तस्यमूर्धन्यः इति अतः प्राक् पदाधिकारः । अथ पदात् इति अधिकारः आ कुतः । पदात् प्राक् सुपि कुत्सनात् । पदात् इति अधिकारः प्राक् सुपि कुत्सनात् । कुत्सने च सुप्य् अगोत्रादौ इति अतः प्राक् । यणेकादेशस्वरः तु ऊर्ध्वम् पदाधिकारात् । यणेकादेशस्वरः तु ऊर्ध्वम् पदाधिकारात् कर्तव्यः । इह वचने हि अपदान्तस्य अप्राप्तिः । इह हि क्रियमाणे अपदान्तस्य अप्राप्तिः स्यात् । उदात्तस्वरितयोर् यणःस्वरितः अनुदात्तस्य इति इह एव स्यात् कुमार्यौ किशोर्यौ इह न स्यात् कुमार्यः किशोर्यः । एकादेशे उदात्तेनोदात्तः इह एव स्यात् वृक्षौ प्लक्षौ इह न स्यात् वृक्षाः प्लक्षाः । न वा पदाधिकारस्य विशेषणत्वात् । न वा ऊर्ध्वम् पदाधिकारात् कर्तव्यः यणेकादेशस्वरः । किम् कारणम् । पदाधिकारस्य विशेषणत्वात् । पदस्य इति न एषा स्थानषष्ठी । का तर्हि । विशेषणषष्ठी । किम् वक्तव्यम् एतत् । न हि । कथम् अनुच्यमानम् गंस्यते । प्रत्याख्यायते स्थनषष्ठी । अन्तग्रहणात् वा नलोपे । अथ वा यत् अयम् नलोपःप्रातिपदिकान्तस्य इति अन्तग्रहणम् करोति तत् ज्ञापयति आचार्यः विशेषणषष्ठी एषा न स्थानषष्ठी इति ।

KA III,371.8-372.7 Ro V,320-322 ā kutaḥ padādhikāraḥ . padādhikāraḥ prāk apadāntādhikārāt . apadāntasyamūrdhanyaḥ iti ataḥ prāk padādhikāraḥ . atha padāt iti adhikāraḥ ā kutaḥ . padāt prāk supi kutsanāt . padāt iti adhikāraḥ prāk supi kutsanāt . kutsane ca supy agotrādau iti ataḥ prāk . yaṇekādeśasvaraḥ tu ūrdhvam padādhikārāt . yaṇekādeśasvaraḥ tu ūrdhvam padādhikārāt kartavyaḥ . iha vacane hi apadāntasya aprāptiḥ . iha hi kriyamāṇe apadāntasya aprāptiḥ syāt . udāttasvaritayor yaṇaḥsvaritaḥ anudāttasya iti iha eva syāt kumāryau kiśoryau iha na syāt kumāryaḥ kiśoryaḥ . ekādeśe udāttenodāttaḥ iha eva syāt vṛkṣau plakṣau iha na syāt vṛkṣāḥ plakṣāḥ . na vā padādhikārasya viśeṣaṇatvāt . na vā ūrdhvam padādhikārāt kartavyaḥ yaṇekādeśasvaraḥ . kim kāraṇam . padādhikārasya viśeṣaṇatvāt . padasya iti na eṣā sthānaṣaṣṭhī . kā tarhi . viśeṣaṇaṣaṣṭhī . kim vaktavyam etat . na hi . katham anucyamānam gaṃsyate . pratyākhyāyate sthanaṣaṣṭhī . antagrahaṇāt vā nalope . atha vā yat ayam nalopaḥprātipadikāntasya iti antagrahaṇam karoti tat jñāpayati ācāryaḥ viśeṣaṇaṣaṣṭhī eṣā na sthānaṣaṣṭhī iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३७२।८-३७३।९ रो व्,३२२-३२४ सर्ववचनम् किमर्थम् । सर्ववचनम् अनादेः अनुदात्तार्थम् । सर्वग्रहणम् क्रियते अनादेः अपि अनुदात्तत्वम् यथा स्यात् इति । तिङतिङः इह एव स्यात् देवदत्तः : पचति इति इह न स्यात् : देवदत्तः करोति इति । सर्ववचनम् अनादेः अनुदात्तार्थम् इति चेत् लुटि प्रतिषेधात् सिद्धम् । सर्ववचनम् अनादेः अनुदात्तार्थम् इति चेत् तत् न । किम् कारणम् । लुटि प्रतिषेधात् सिद्धम् । यत् अयम् लुटि प्रतिषेधम् शास्ति नलुट् इति तत् ज्ञापयति आचार्यः अनादेः अपि अनुदात्तत्वम् भवति इति । कथम् कृत्वा ज्ञापकम् । न हि लुडन्तम् आद्युदात्तम् अस्ति । अलोऽन्त्यविधिप्रसङ्गः तु । अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य विधिः प्राप्नोति । यत्र हि आदिविधिः न अस्ति अलोऽन्त्यविधिना तत्र भवितव्यम् । तत्र कः दोषः । तिङतिङः इति इह एव स्यात् देवदत्तयज्ञदत्तौ कुरुतः इह न स्यात् देवदत्तः करोति इति । लृटि प्रतिषेधात् सिद्धम् । यत् अयम् लृटि प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः अनन्त्यस्य अपि अनुदात्तत्वम् भवति इति । कथम् कृत्वा ज्ञापकम् । न हि लृडन्तम् अन्तोदात्तम् अस्ति । ननु च इदम् अस्ति भोक्ष्ये इति । उक्तम् वा । किम् उक्तम् । न वा पदाधिकारस्य विशेषणत्वात् इति । इदम् तर्हि प्रयोजनम् युष्मदस्मदोःषष्ठीचतुर्थीद्वितीयास्थयोर्वाम्नावौ इति वाम्नौ आदयः सविभक्तिकस्य यथा स्युः इति । एतत् अपि न अस्ति प्रयोजनम् । पदस्य इति हि वर्तते विभक्त्यन्तम् च पदम् तत्र अन्तरेण सर्वग्रहणम् सविभक्तिकस्य भविष्यति । भवेत् सिद्धम् यत्र विभक्त्यन्तम् पदम् यत्र तु खलु विभक्तौ पदम् तत्र न सिध्यति । ग्रामः वाम् दीयते । ग्रामः नौ दीयते । जनपदः वाम् दीयते । जनपदः नौ दीयते । ननु च स्थग्रहणम् क्रियते तेन सविभक्तिकस्य एव भविष्यति । अस्ती अन्यत् स्थग्रहणस्य प्रयओजनम् । किम् । श्रूयमाणविभकिविशेषणम् यथा विज्ञायेत । यत्र विभक्तिः श्रूयते तत्र यथा स्यात् इह मा भूत् इति युष्मत्पुत्रः ददाति इति अस्मत्पुत्रः ददाति इति ।

KA III,372.8-373.9 Ro V,322-324 sarvavacanam kimartham . sarvavacanam anādeḥ anudāttārtham . sarvagrahaṇam kriyate anādeḥ api anudāttatvam yathā syāt iti . tiṅatiṅaḥ iha eva syāt devadattaḥ : pacati iti iha na syāt : devadattaḥ karoti iti . sarvavacanam anādeḥ anudāttārtham iti cet luṭi pratiṣedhāt siddham . sarvavacanam anādeḥ anudāttārtham iti cet tat na . kim kāraṇam . luṭi pratiṣedhāt siddham . yat ayam luṭi pratiṣedham śāsti naluṭ iti tat jñāpayati ācāryaḥ anādeḥ api anudāttatvam bhavati iti . katham kṛtvā jñāpakam . na hi luḍantam ādyudāttam asti . alo'ntyavidhiprasaṅgaḥ tu . alaḥ antyasya vidhayaḥ bhavanti iti antyasya vidhiḥ prāpnoti . yatra hi ādividhiḥ na asti alo'ntyavidhinā tatra bhavitavyam . tatra kaḥ doṣaḥ . tiṅatiṅaḥ iti iha eva syāt devadattayajñadattau kurutaḥ iha na syāt devadattaḥ karoti iti . lṛṭi pratiṣedhāt siddham . yat ayam lṛṭi pratiṣedham śāsti tat jñāpayati ācāryaḥ anantyasya api anudāttatvam bhavati iti . katham kṛtvā jñāpakam . na hi lṛḍantam antodāttam asti . nanu ca idam asti bhokṣye iti . uktam vā . kim uktam . na vā padādhikārasya viśeṣaṇatvāt iti . idam tarhi prayojanam yuṣmadasmadoḥṣaṣṭhīcaturthīdvitīyāsthayorvāmnāvau iti vāmnau ādayaḥ savibhaktikasya yathā syuḥ iti . etat api na asti prayojanam . padasya iti hi vartate vibhaktyantam ca padam tatra antareṇa sarvagrahaṇam savibhaktikasya bhaviṣyati . bhavet siddham yatra vibhaktyantam padam yatra tu khalu vibhaktau padam tatra na sidhyati . grāmaḥ vām dīyate . grāmaḥ nau dīyate . janapadaḥ vām dīyate . janapadaḥ nau dīyate . nanu ca sthagrahaṇam kriyate tena savibhaktikasya eva bhaviṣyati . astī anyat sthagrahaṇasya prayaojanam . kim . śrūyamāṇavibhakiviśeṣaṇam yathā vijñāyeta . yatra vibhaktiḥ śrūyate tatra yathā syāt iha mā bhūt iti yuṣmatputraḥ dadāti iti asmatputraḥ dadāti iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३७३।१०-१९ रो व्,३२४-३२५ समानवाक्ये निघातयुष्मदस्मदादेशाः । समानवाक्ये इति प्रकृत्य निघातयुष्मदस्मदादेशाः वक्तव्याः । किम् प्रयोजनम् । नानावाक्ये मा भूवन् इति । अयम् दण्डः हर अनेन । ओदनम् पच तव भविष्यति मम भविष्यति । पश्यार्थैः च प्रतिषेधः । पश्यार्थैः च प्रतिषेधः समानवाक्ये इति प्रकृत्य वक्तव्यः । इतरथा हि यत्र एव पश्यार्थानाम् युष्मदस्मदी साधनम् तत्र प्रतिषेधः स्यात् । ग्रामः त्वाम् सम्प्रेक्ष्य सन्दृश्य समीक्ष्य गतः । ग्रामः माम् सम्प्रेक्ष्य सन्दृश्य समीक्ष्य गतः। इह न स्यात् । ग्रामः तव स्वम् सम्प्रेक्ष्य सन्दृश्य समीक्ष्य गतः । ग्रामः मम स्वम् सम्प्रेक्ष्य सन्दृश्य समीक्ष्य गतः ।

KA III,373.10-19 Ro V,324-325 samānavākye nighātayuṣmadasmadādeśāḥ . samānavākye iti prakṛtya nighātayuṣmadasmadādeśāḥ vaktavyāḥ . kim prayojanam . nānāvākye mā bhūvan iti . ayam daṇḍaḥ hara anena . odanam paca tava bhaviṣyati mama bhaviṣyati . paśyārthaiḥ ca pratiṣedhaḥ . paśyārthaiḥ ca pratiṣedhaḥ samānavākye iti prakṛtya vaktavyaḥ . itarathā hi yatra eva paśyārthānām yuṣmadasmadī sādhanam tatra pratiṣedhaḥ syāt . grāmaḥ tvām samprekṣya sandṛśya samīkṣya gataḥ . grāmaḥ mām samprekṣya sandṛśya samīkṣya gataḥ. iha na syāt . grāmaḥ tava svam samprekṣya sandṛśya samīkṣya gataḥ . grāmaḥ mama svam samprekṣya sandṛśya samīkṣya gataḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३७३।२०-३७४।६ रो व्,३२६ युष्मदस्मदोः अन्यतरस्याम् अनन्वादेशे । युष्मदस्मदोः अन्यतरस्याम् अनन्वादेशे इति वक्तव्यम् । ग्रामे कम्बलः ते स्वम् । ग्रामे कम्बलः तव स्वम् । ग्रामे कम्बलः मे स्वम् । ग्रामे कम्बलः मम स्वम् । अनन्वादेशे इति किमर्थम् । अथो ग्रामे कम्बलः ते स्वम् । अथो ग्रामे कम्बलः मे स्वम् । अपरः आह : सर्वे एव वाम्नावादयः अनन्वादेशे विभाषा वक्तव्याः । कम्बलः ते स्वम् । कम्बलः तव स्वम् । कम्बलः मे स्वम् । कम्बलः मम स्वम् । अनन्वादेशे इति किमर्थम् । अथो कम्बलः ते स्वम् । अथो कम्बलः मे स्वम् । न तर्हि इदानीम् इदम् वक्तव्यम् सपूर्वायाः प्रथमायाः विभाषा इति । वक्तव्यम् च । किम् प्रयोजनम् । अन्वादेशार्थम् । अन्वादेशे विभाषा यथा स्यात् । अथो ग्रामे कम्बलः ते स्वम् । अथो ग्रामे कम्बलः तव स्वम् । अथो ग्रामे कम्बलः मे स्वम् । अथो ग्रामे कम्बलः मम स्वम् ।

KA III,373.20-374.6 Ro V,326 yuṣmadasmadoḥ anyatarasyām ananvādeśe . yuṣmadasmadoḥ anyatarasyām ananvādeśe iti vaktavyam . grāme kambalaḥ te svam . grāme kambalaḥ tava svam . grāme kambalaḥ me svam . grāme kambalaḥ mama svam . ananvādeśe iti kimartham . atho grāme kambalaḥ te svam . atho grāme kambalaḥ me svam . aparaḥ āha : sarve eva vāmnāvādayaḥ ananvādeśe vibhāṣā vaktavyāḥ . kambalaḥ te svam . kambalaḥ tava svam . kambalaḥ me svam . kambalaḥ mama svam . ananvādeśe iti kimartham . atho kambalaḥ te svam . atho kambalaḥ me svam . na tarhi idānīm idam vaktavyam sapūrvāyāḥ prathamāyāḥ vibhāṣā iti . vaktavyam ca . kim prayojanam . anvādeśārtham . anvādeśe vibhāṣā yathā syāt . atho grāme kambalaḥ te svam . atho grāme kambalaḥ tava svam . atho grāme kambalaḥ me svam . atho grāme kambalaḥ mama svam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३७४।७-२० रो व्,३२७ किम् इदम् तिङः गोत्रादिषु कुत्सनाभीक्ष्ण्यग्रहणम् पाठविशेषणम् । कुत्सनाभीक्ष्ण्ययोः अर्थयोः गोत्रादीनि भवन्ति तिङः पराणि अनुदात्तानि इति । आहोस्वित् अनुदात्तविशेषणम् । तिङः पराणि गोत्रादीनि कुत्सनाभीक्ष्ण्ययोः अर्थयोः अनुदात्तानि भवन्ति इति । तिङः गोत्रादिषु कुत्सनाभीक्ष्ण्यग्रहणम् पाठविशेषणम् । तिङः गोत्रादिषु कुत्सनाभीक्ष्ण्यग्रहणम् क्रियते पाठविशेषणम् । पाठः विशेष्यते । अनुदात्तविशेषणे हि अन्यत्र गोत्रादिग्रहणे कुत्सनाभीक्ष्ण्यग्रहणम् । अनुदात्तविशेषणे हि सति अन्यत्र गोत्रादिग्रहणे कुत्सनाभीक्ष्ण्यग्रहणम् कर्तव्यम् स्यात् । चनचिदिवगोत्रादितद्धिताम्रेडितेष्वगतेः इति कुत्सनाभीक्ष्ण्ययोः इति वक्तव्यम् स्यात् । अनुदात्तग्रहणम् वा । अथ वा यानि अनुदात्तानि इति वक्तव्यम् स्यात् । तस्मात् सुष्ठु उच्यते तिङः गोत्रादिषु कुत्सनाभीक्ष्ण्यग्रहणम् पाठविशेषणम् अनुदात्तविशेषणे हि अन्यत्र गोत्रादिग्रहणे कुत्सनाभीक्ष्ण्यग्रहणम् अनुदात्तग्रहणम् वा इति ।

KA III,374.7-20 Ro V,327 kim idam tiṅaḥ gotrādiṣu kutsanābhīkṣṇyagrahaṇam pāṭhaviśeṣaṇam . kutsanābhīkṣṇyayoḥ arthayoḥ gotrādīni bhavanti tiṅaḥ parāṇi anudāttāni iti . āhosvit anudāttaviśeṣaṇam . tiṅaḥ parāṇi gotrādīni kutsanābhīkṣṇyayoḥ arthayoḥ anudāttāni bhavanti iti . tiṅaḥ gotrādiṣu kutsanābhīkṣṇyagrahaṇam pāṭhaviśeṣaṇam . tiṅaḥ gotrādiṣu kutsanābhīkṣṇyagrahaṇam kriyate pāṭhaviśeṣaṇam . pāṭhaḥ viśeṣyate . anudāttaviśeṣaṇe hi anyatra gotrādigrahaṇe kutsanābhīkṣṇyagrahaṇam . anudāttaviśeṣaṇe hi sati anyatra gotrādigrahaṇe kutsanābhīkṣṇyagrahaṇam kartavyam syāt . canacidivagotrāditaddhitāmreḍiteṣvagateḥ iti kutsanābhīkṣṇyayoḥ iti vaktavyam syāt . anudāttagrahaṇam vā . atha vā yāni anudāttāni iti vaktavyam syāt . tasmāt suṣṭhu ucyate tiṅaḥ gotrādiṣu kutsanābhīkṣṇyagrahaṇam pāṭhaviśeṣaṇam anudāttaviśeṣaṇe hi anyatra gotrādigrahaṇe kutsanābhīkṣṇyagrahaṇam anudāttagrahaṇam vā iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३७४।२१-२५ रो व्,३२७-३२८ अतिङः इति किमर्थम् । पचति करोति । अतिङ्वचनम् अनर्थकम् समानवाक्याधिकारात् । अतिङ्वचनम् अनर्थकम् । किम् कारणम् । समानवाक्याधिकारात् । समानवाक्ये इति वर्तते न च समानवाक्ये द्वे तिङन्ते स्तः ।

KA III,374.21-25 Ro V,327-328 atiṅaḥ iti kimartham . pacati karoti . atiṅvacanam anarthakam samānavākyādhikārāt . atiṅvacanam anarthakam . kim kāraṇam . samānavākyādhikārāt . samānavākye iti vartate na ca samānavākye dve tiṅante staḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३७५।१-६ रो व्,३२८ निपातैः इति किमर्थम् । यत् कूजति शकटम् । यती कूजति शकटी । यन् रथः कूजति । निपातैः इति शक्यम् अवक्तुम् । कस्मात् न भवति । यत् कूजति शकटम् । यती कूजति शकटी । यन् रथः कूजति । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति । न एषा परिभाषा इह शक्या विज्ञातुम् । इह हि दोषः स्यात् । यावद्यथाभ्याम् इह न स्यात् यावत् अस्ति अत्र एषः सरः जनेभ्यः कृणवत् ।

KA III,375.1-6 Ro V,328 nipātaiḥ iti kimartham . yat kūjati śakaṭam . yatī kūjati śakaṭī . yan rathaḥ kūjati . nipātaiḥ iti śakyam avaktum . kasmāt na bhavati . yat kūjati śakaṭam . yatī kūjati śakaṭī . yan rathaḥ kūjati . lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti . na eṣā paribhāṣā iha śakyā vijñātum . iha hi doṣaḥ syāt . yāvadyathābhyām iha na syāt yāvat asti atra eṣaḥ saraḥ janebhyaḥ kṛṇavat .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३७५।७-९ रो व्,३२९ चण् णिद्विशिष्टः चेदर्थे । चण् णिद्विशिष्टः चेदर्थे द्रष्टव्यः । अयम् च वै मरिष्यति । अयम् चेत् मरिष्यति । न च पितृभ्यः पूर्वेभ्यः दास्यति । अप्रायश्चित्तिकृतौ च स्याताम् ।

KA III,375.7-9 Ro V,329 caṇ ṇidviśiṣṭaḥ cedarthe . caṇ ṇidviśiṣṭaḥ cedarthe draṣṭavyaḥ . ayam ca vai mariṣyati . ayam cet mariṣyati . na ca pitṛbhyaḥ pūrvebhyaḥ dāsyati . aprāyaścittikṛtau ca syātām .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३७५।१०-१३ रो व्,३२९ अनेकम् इति किम् उदाहरणम् । यदा हि असौ मत्तः भवति अथ यत् तपति । न एतत् अस्ति । एकम् अत्र हियुक्तम् अपरम् यद्युक्तम् ततः उभयोः अपि अनिघातः । इदम् तर्हि । अनृतम् हि मत्तः वदति पाप्मा एनम् विपुनाति । एकम् खलु अपि । अग्निः हि पूर्वम् उदजयत् तम् इन्द्रः अनूदजयत् इति ।

KA III,375.10-13 Ro V,329 anekam iti kim udāharaṇam . yadā hi asau mattaḥ bhavati atha yat tapati . na etat asti . ekam atra hiyuktam aparam yadyuktam tataḥ ubhayoḥ api anighātaḥ . idam tarhi . anṛtam hi mattaḥ vadati pāpmā enam vipunāti . ekam khalu api . agniḥ hi pūrvam udajayat tam indraḥ anūdajayat iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३७५।१४-१९ रो व्,३३० पूजायाम् इति वर्तमाने पुनः पूजाग्रहणम् किमर्थम् । अनिघातप्रतिषेधाभिसम्बद्धम् तत् । यदि तत् अनुवर्तेत इह अपि अनिघातप्रतिषेधः प्रसज्येत । इष्यते च अत्र निघातप्रतिषेधः । यथा पुनः तत्र यावत् यथा इति एताभ्याम् अनिघाते प्राप्ते अनिघातप्रतिषेधः उच्यते इह इदानीम् केन अनिघाते प्राप्ते अनिघातप्रतिषेधः उच्येत । इह अपि यद्वृत्तान्नित्यम् इति एवमादिभिः ।

KA III,375.14-19 Ro V,330 pūjāyām iti vartamāne punaḥ pūjāgrahaṇam kimartham . anighātapratiṣedhābhisambaddham tat . yadi tat anuvarteta iha api anighātapratiṣedhaḥ prasajyeta . iṣyate ca atra nighātapratiṣedhaḥ . yathā punaḥ tatra yāvat yathā iti etābhyām anighāte prāpte anighātapratiṣedhaḥ ucyate iha idānīm kena anighāte prāpte anighātapratiṣedhaḥ ucyeta . iha api yadvṛttānnityam iti evamādibhiḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३७५।२०-२२ रो व्,३३० किमर्थम् इदम् उच्यते न गत्यर्थलोटा लृट् इति एव सिद्धम् । नियमार्थः अयम् आरम्भः । एहि मन्ये प्रहासे एव यथा स्यात् । क्व मा भूत् । एहि मन्ये रथेन यास्यसि इति ।

KA III,375.20-22 Ro V,330 kimartham idam ucyate na gatyarthaloṭā lṛṭ iti eva siddham . niyamārthaḥ ayam ārambhaḥ . ehi manye prahāse eva yathā syāt . kva mā bhūt . ehi manye rathena yāsyasi iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३७६।१-१० रो व्,३३१ किम् इदम् अपूर्वग्रहणम् जातुविशेषणम् । जातुशब्दात् अपूर्वात् तिङन्तम् इति । आहोस्वित् तिङन्तविशेषणम् । जातुशब्दात् तिङन्तम् अपूर्वम् इति । जातुविशेषणम् इति आह । कथम् ज्ञायते । यत् अयम् किंवृत्तञ्चचिदुत्तरम् इति आह । कथम् कृत्वा ज्ञापकम् । अत्र अपि अपूर्वम् इति एतत् अनुवर्तते न च अस्ति सम्भवः यत् किंवृत्तम् च चिदुत्तरम् स्यात् तिङन्तम् च अपूर्वम् । अत्र अपि तिङन्तविशेषणम् एव । कथम् । किंवृत्तात् चिदुत्तरात् तिङन्तम् अपूर्वम् इति । यत् तर्हि आहोउताहोचानन्तरम् इति अनन्तरग्रहणम् करोति । एतस्य अपि अस्ति वचने प्रयोजनम् । किम् । शेषप्रकॢप्त्यर्थम् एतत् स्यात् । शेषेविभाषा कः च शेषः । सान्तरम् शेषः इति । अन्तरेण अपि अनन्तरग्रहणम् प्रकॢप्तः शेषः । कथम्। अपूर्वः इति वर्तते । शेषे विभाषा । कः च शेषः । सपूर्वः शेषः इति ।

KA III,376.1-10 Ro V,331 kim idam apūrvagrahaṇam jātuviśeṣaṇam . jātuśabdāt apūrvāt tiṅantam iti . āhosvit tiṅantaviśeṣaṇam . jātuśabdāt tiṅantam apūrvam iti . jātuviśeṣaṇam iti āha . katham jñāyate . yat ayam kiṃvṛttañcaciduttaram iti āha . katham kṛtvā jñāpakam . atra api apūrvam iti etat anuvartate na ca asti sambhavaḥ yat kiṃvṛttam ca ciduttaram syāt tiṅantam ca apūrvam . atra api tiṅantaviśeṣaṇam eva . katham . kiṃvṛttāt ciduttarāt tiṅantam apūrvam iti . yat tarhi āhoutāhocānantaram iti anantaragrahaṇam karoti . etasya api asti vacane prayojanam . kim . śeṣaprakḷptyartham etat syāt . śeṣevibhāṣā kaḥ ca śeṣaḥ . sāntaram śeṣaḥ iti . antareṇa api anantaragrahaṇam prakḷptaḥ śeṣaḥ . katham. apūrvaḥ iti vartate . śeṣe vibhāṣā . kaḥ ca śeṣaḥ . sapūrvaḥ śeṣaḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३७७।१-१७ रो व्,३३२-३३३ लृटः प्रकृतिभावे कर्तुः अन्यत्वे उपसङ्ख्यानम् कारकान्यत्वात् । लृटः प्रकृतिभावे कर्तुः यत् कारकम् अन्यत् तस्य अन्यत्वे उपसङ्ख्यानम् कर्तव्यम् । आगच्छ देवदत्त ग्रामम् ओदनम् भोक्ष्यसे । किम् पुनः कारणम् न सिध्यति । कारकान्यत्वात् । न चेत् कारकम् सर्वान्यत् इति उच्यते सर्वान्यत् च अत्र कारकम् । किम् पुनः कारणम् सर्वान्यत्प्रतिषेधेन आश्रीयते न पुनः असर्वान्यद्विधानेन आश्रीयेत । कर्ता च अत्र असर्वान्यः ततः कर्तृसामान्यात् सिद्धम् । कर्तृसामान्यात् सिद्धम् इति चेत् तद्भेदे अन्यसामान्ये प्रकृतिभावप्रसङ्गः । कर्तृसामान्यात् सिद्धम् इति चेत् तद्भेदे कर्तृभेदे अन्यस्मिन् कारकसामान्ये प्रकृतिभावः प्राप्नोति । आहर देवदत्त शालीन् यज्ञदत्त एनान् भोक्ष्यते । एवम् तर्हि व्यक्तम् एव पठितव्यम् न चेत् कर्ता सर्वान्यः इति । न चेत् कर्ता सर्वान्यः इति चेत् अन्याभिधाने प्रतिषेधम् एके । न चेत् कर्ता सर्वान्यः इति चेत् अन्याभिधाने प्रतिषेधम् एके इच्छन्ति । उह्यन्ताम् देवदत्तेन शालयः यज्ञदत्तेन भोक्ष्यन्ते इति प्राप्नोति भोक्ष्यन्ते इति च इष्यते । सिद्धम् तु तिङोः एकद्रव्याभिधानात् । सिद्धम् एतत् । कथम् । तिङोः एकद्रव्याभिधानात् । यत्र तिङ्भ्याम् एकम् द्रव्यम् अभिधीयते तत्र इति वक्तव्यम् ।

KA III,377.1-17 Ro V,332-333 lṛṭaḥ prakṛtibhāve kartuḥ anyatve upasaṅkhyānam kārakānyatvāt . lṛṭaḥ prakṛtibhāve kartuḥ yat kārakam anyat tasya anyatve upasaṅkhyānam kartavyam . āgaccha devadatta grāmam odanam bhokṣyase . kim punaḥ kāraṇam na sidhyati . kārakānyatvāt . na cet kārakam sarvānyat iti ucyate sarvānyat ca atra kārakam . kim punaḥ kāraṇam sarvānyatpratiṣedhena āśrīyate na punaḥ asarvānyadvidhānena āśrīyeta . kartā ca atra asarvānyaḥ tataḥ kartṛsāmānyāt siddham . kartṛsāmānyāt siddham iti cet tadbhede anyasāmānye prakṛtibhāvaprasaṅgaḥ . kartṛsāmānyāt siddham iti cet tadbhede kartṛbhede anyasmin kārakasāmānye prakṛtibhāvaḥ prāpnoti . āhara devadatta śālīn yajñadatta enān bhokṣyate . evam tarhi vyaktam eva paṭhitavyam na cet kartā sarvānyaḥ iti . na cet kartā sarvānyaḥ iti cet anyābhidhāne pratiṣedham eke . na cet kartā sarvānyaḥ iti cet anyābhidhāne pratiṣedham eke icchanti . uhyantām devadattena śālayaḥ yajñadattena bhokṣyante iti prāpnoti bhokṣyante iti ca iṣyate . siddham tu tiṅoḥ ekadravyābhidhānāt . siddham etat . katham . tiṅoḥ ekadravyābhidhānāt . yatra tiṅbhyām ekam dravyam abhidhīyate tatra iti vaktavyam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३७७।१८-३७८।७ रो व्,३३४-३३६ कस्य अयम् प्रतिषेधः । आमः एकान्तरे ऐकश्रुत्यप्रतिषेधः । आमः एकान्तरे ऐकश्रुत्यस्य अयम् प्रतिषेधः । कथम् पुनः अप्रकृतस्य असंशब्दितस्य ऐकश्रुत्यस्य प्रतिषेधः शक्यः विज्ञातुम् । अनन्तिके इति उच्यते । अनन्तिकम् च किम् । दूरम् । दूरात् सम्बुद्धौ एकश्रुतिः उच्यते । अस्ति प्रयोजनम् एतत् । किम् तर्हि इति । निघातप्रसङ्गः तु । निघातः तु प्राप्नोति । आम् भोः देवदत्त३ । आमन्त्रितस्य अनुदात्तत्वम् प्राप्नोति । सिद्धम् तु प्रतिषेधाधिकारे प्रतिषेधवचनात् । सिद्धम् एतत् । कथम् । प्रतिषेधाधिकारे प्रतिषेधवचनसामर्थ्यात् निघातः न भविष्यति । न एव वा पुनः अत्र ऐकश्रुत्यम् प्राप्नोति । किम् कारणम् । अनन्तिके इति उच्यते अन्यत् च दूरम् अन्यत् अनन्तिकम् । यदि एवम् प्लुतः अपि तर्हि न प्राप्नोति प्लुतः अपि हि दूरात् इति उच्यते । इष्टम् एव एतत् सङ्गृहीतम् । आम् भोः देवदत्त इति एव भवितव्यम् ।

KA III,377.18-378.7 Ro V,334-336 kasya ayam pratiṣedhaḥ . āmaḥ ekāntare aikaśrutyapratiṣedhaḥ . āmaḥ ekāntare aikaśrutyasya ayam pratiṣedhaḥ . katham punaḥ aprakṛtasya asaṃśabditasya aikaśrutyasya pratiṣedhaḥ śakyaḥ vijñātum . anantike iti ucyate . anantikam ca kim . dūram . dūrāt sambuddhau ekaśrutiḥ ucyate . asti prayojanam etat . kim tarhi iti . nighātaprasaṅgaḥ tu . nighātaḥ tu prāpnoti . ām bhoḥ devadatta3 . āmantritasya anudāttatvam prāpnoti . siddham tu pratiṣedhādhikāre pratiṣedhavacanāt . siddham etat . katham . pratiṣedhādhikāre pratiṣedhavacanasāmarthyāt nighātaḥ na bhaviṣyati . na eva vā punaḥ atra aikaśrutyam prāpnoti . kim kāraṇam . anantike iti ucyate anyat ca dūram anyat anantikam . yadi evam plutaḥ api tarhi na prāpnoti plutaḥ api hi dūrāt iti ucyate . iṣṭam eva etat saṅgṛhītam . ām bhoḥ devadatta iti eva bhavitavyam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३७८।८-१९ रो व्,३३६-३३८ किमर्थम् इदम् उच्यते । यदादैः एव सर्वैः एतैः अनिघातकारणैः योगे अनिघातः उच्यते । यथा एव पूर्वैः योगे एवम् परैः अपि । अतः उत्तरम् पठति । यद्धितुपरस्य छन्दसि अनिघातः अन्यपरप्रतिषेधार्थः । यद्धितुपरस्य छन्दसि अनिघातः उच्यते अन्यपरप्रतिषेधार्थः । अन्यपरस्य प्रतिषेधः मा भूत् इति । जाये स्वः रोहाव एहि । अथ इदानीम् रोहाव इति अनेन युक्ते एहि इति अस्य कस्मात् न भवति । लोट् च गत्यर्थलोटा युक्तः इति प्राप्नोति । न रुहिः गत्यर्थः । कथम् ज्ञायते । यत् अयम् गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च इति पृथक् रुहिग्रहणम् करोति । यदि न रुहिः गत्यर्थः आरोहन्ति हस्तिनम् मनुष्याः आरोहयति हस्ती स्थलम् मनुष्यान् गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणिकर्तासणौ इति कर्मसञ्ज्ञा न प्राप्नोति । तस्मात् न एतत् शक्यम् वक्तुम् न रुहिः गत्यर्थः इति । कस्मात् तर्हि रोहाव इति अनेन युक्ते एहि इति अस्य न भवति । छान्दसत्वात् ।

KA III,378.8-19 Ro V,336-338 kimartham idam ucyate . yadādaiḥ eva sarvaiḥ etaiḥ anighātakāraṇaiḥ yoge anighātaḥ ucyate . yathā eva pūrvaiḥ yoge evam paraiḥ api . ataḥ uttaram paṭhati . yaddhituparasya chandasi anighātaḥ anyaparapratiṣedhārthaḥ . yaddhituparasya chandasi anighātaḥ ucyate anyaparapratiṣedhārthaḥ . anyaparasya pratiṣedhaḥ mā bhūt iti . jāye svaḥ rohāva ehi . atha idānīm rohāva iti anena yukte ehi iti asya kasmāt na bhavati . loṭ ca gatyarthaloṭā yuktaḥ iti prāpnoti . na ruhiḥ gatyarthaḥ . katham jñāyate . yat ayam gatyarthākarmakaśliṣaśīṅsthāsavasajanaruhajīryatibhyaśca iti pṛthak ruhigrahaṇam karoti . yadi na ruhiḥ gatyarthaḥ ārohanti hastinam manuṣyāḥ ārohayati hastī sthalam manuṣyān gatibuddhipratyavasānārthaśabdakarmākarmakāṇāmaṇikartāsaṇau iti karmasañjñā na prāpnoti . tasmāt na etat śakyam vaktum na ruhiḥ gatyarthaḥ iti . kasmāt tarhi rohāva iti anena yukte ehi iti asya na bhavati . chāndasatvāt .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३७८।२०-३७९।४ रो व्,३३८ आम्रेडितेषु अगतेः सगतिः अपि तिङ् इति अत्र गतिग्रहणे उपसर्गग्रहङम् । आम्रेडितेषु अगतेः सगतिरपितिङ् इति अत्र गतिग्रहणे उपसर्गग्रहणम् द्रष्टव्यम् । इह मा भूत् । शुक्लीकरोति चन । क्र्ष्णीकरोति चन । यत्काष्ठा शुक्लीकरोति । यत्काष्ठा कृष्णीकरोति । अपर आह । सर्वत्र एव आष्टमिके गतिग्रहणे उपसर्गग्रहणम् द्रष्तव्यम् गतिर्गतौतिङिचोदात्तवतिवर्जम् इति ।

KA III,378.20-379.4 Ro V,338 āmreḍiteṣu agateḥ sagatiḥ api tiṅ iti atra gatigrahaṇe upasargagrahaṅam . āmreḍiteṣu agateḥ sagatirapitiṅ iti atra gatigrahaṇe upasargagrahaṇam draṣṭavyam . iha mā bhūt . śuklīkaroti cana . krṣṇīkaroti cana . yatkāṣṭhā śuklīkaroti . yatkāṣṭhā kṛṣṇīkaroti . apara āha . sarvatra eva āṣṭamike gatigrahaṇe upasargagrahaṇam draṣtavyam gatirgatautiṅicodāttavativarjam iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३७९।५-१३ रो व्,३३९ यद्वृत्तात् इति उच्यते तत्र इदम् न सिध्यति यः पचति यम् पचति इति । वृत्तग्रहणेन तद्विभक्त्यन्तम् प्रतीयात् । कथम् यतरः पचति यतमः पचति इति । डतरडतमौ च प्रतीयात् । कथम् यदा ददाति इति । एषः अपि विभक्तिसञ्ज्ञः । कथम् यावत् अस्ति अत्र एषः सरः जनेभ्यः कृणवत् । यावद्यथाभ्याम् इति एवम् भविष्यति । कथम् यद्र्यङ् वायुः पवते यत्कामाः ते जुहुमः । एवम् तर्हि यत् अस्मिन् वर्तते यद्वृत्तम् यद्वृत्तात् इति एवम् भविष्यति । वा याथाकाम्ये । वा याथाकाम्ये इति वक्तव्यम् । यत्र क्व चन यजते देवयजने एव यजते ।

KA III,379.5-13 Ro V,339 yadvṛttāt iti ucyate tatra idam na sidhyati yaḥ pacati yam pacati iti . vṛttagrahaṇena tadvibhaktyantam pratīyāt . katham yataraḥ pacati yatamaḥ pacati iti . ḍataraḍatamau ca pratīyāt . katham yadā dadāti iti . eṣaḥ api vibhaktisañjñaḥ . katham yāvat asti atra eṣaḥ saraḥ janebhyaḥ kṛṇavat . yāvadyathābhyām iti evam bhaviṣyati . katham yadryaṅ vāyuḥ pavate yatkāmāḥ te juhumaḥ . evam tarhi yat asmin vartate yadvṛttam yadvṛttāt iti evam bhaviṣyati . vā yāthākāmye . vā yāthākāmye iti vaktavyam . yatra kva cana yajate devayajane eva yajate .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३७९।१४-१९ रो व्,३४० पूजितस्य अनुदात्तत्वे काष्ठादिग्रहणम् । पूजितस्य अनुदात्तत्वे काष्ठादिग्रहणम् कर्तव्यम् । काष्ठादिभ्यः पूजनात् इति वक्तव्यम् । इह मा भूत् । शोभनः अध्यापकः । मलोपवचनम् च । मलोपः च वक्तव्यः । दारुणाध्यापकः दारुणाभिरूपः ।

KA III,379.14-19 Ro V,340 pūjitasya anudāttatve kāṣṭhādigrahaṇam . pūjitasya anudāttatve kāṣṭhādigrahaṇam kartavyam . kāṣṭhādibhyaḥ pūjanāt iti vaktavyam . iha mā bhūt . śobhanaḥ adhyāpakaḥ . malopavacanam ca . malopaḥ ca vaktavyaḥ . dāruṇādhyāpakaḥ dāruṇābhirūpaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३७९।२०-३८०।१० रो व्,३४०-३४१ सगतिग्रहणम् किमर्थम् । सगतिग्रहणम् अपदत्वात् । सगतिग्रहणम् क्रियते अपदत्वात् । पदस्य इति वर्तते न हि सगतिकम् पदम् भवति । उत्तरार्थम् च । उत्तरार्थम् च सगतिग्रहणम् क्रियते । कुत्सने च सुपि अगोत्रादौ सगतिः अपि । प्रपचति पूति । अथ अपिग्रहणम् किमर्थम् । अगतिकस्य अपि यथा स्यात् । यत् काष्ठा पचति । न एतत् अस्ति प्रयोजनम् । सिद्धम् पूर्वेण अगतिकस्य । न सिध्यति । मलोपाभिसम्बद्धम् तत् । यदि तत् अनुवर्तेत इह अपि मलोपः प्रसज्येत । दारुणम् पचति इति । उत्तरार्थम् च अपिग्रहणम् क्रियते । कुत्सने च सुपि अगोत्रादौ अगतिः अपि इति । पचति पूति इति ।

KA III,379.20-380.10 Ro V,340-341 sagatigrahaṇam kimartham . sagatigrahaṇam apadatvāt . sagatigrahaṇam kriyate apadatvāt . padasya iti vartate na hi sagatikam padam bhavati . uttarārtham ca . uttarārtham ca sagatigrahaṇam kriyate . kutsane ca supi agotrādau sagatiḥ api . prapacati pūti . atha apigrahaṇam kimartham . agatikasya api yathā syāt . yat kāṣṭhā pacati . na etat asti prayojanam . siddham pūrveṇa agatikasya . na sidhyati . malopābhisambaddham tat . yadi tat anuvarteta iha api malopaḥ prasajyeta . dāruṇam pacati iti . uttarārtham ca apigrahaṇam kriyate . kutsane ca supi agotrādau agatiḥ api iti . pacati pūti iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३८०।११-१६ रो व्,३४१-३४२ तिङ्निघातात् पूजनात् पूजितम् अनुदात्तम् विप्रतिषेधेन । तिङ्निघातात् पूजनात् पूजितम् अनुदात्तम् इति एतत् भवति विप्रतिषेधेन । तिङ्निघातस्य अवकाशः । देवदत्तः पचति । पूजनात् पूजितम् अनुदात्तम् इति अस्य अवकाशः । काष्टाध्यापकः । इह उभयम् प्राप्नोति । काष्ठा पचति । पूजनात् पूजितम् इति एतत् भवति विप्रतिषेधेन । कः पुनः अत्र विशेषः तेन वा सति अनेन वा । अयम् अस्ति विशेषः । सापवादकः सः विधिः अयम् पुनः निरपवादकः । यदि हि तेन स्यात् इह न स्यात् । यत् काष्ठा पचति ।

KA III,380.11-16 Ro V,341-342 tiṅnighātāt pūjanāt pūjitam anudāttam vipratiṣedhena . tiṅnighātāt pūjanāt pūjitam anudāttam iti etat bhavati vipratiṣedhena . tiṅnighātasya avakāśaḥ . devadattaḥ pacati . pūjanāt pūjitam anudāttam iti asya avakāśaḥ . kāṣṭādhyāpakaḥ . iha ubhayam prāpnoti . kāṣṭhā pacati . pūjanāt pūjitam iti etat bhavati vipratiṣedhena . kaḥ punaḥ atra viśeṣaḥ tena vā sati anena vā . ayam asti viśeṣaḥ . sāpavādakaḥ saḥ vidhiḥ ayam punaḥ nirapavādakaḥ . yadi hi tena syāt iha na syāt . yat kāṣṭhā pacati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३८०।१७-२५ रो व्,३४२-३४४ सुपि कुत्सने क्रियायाः मकारलोपः अतिङि इति च उक्तार्थम् । क्रियायाः कुत्सने इति वक्तव्यम् । कर्तुः कुत्सने मा भूत् । पचति पुतिः । पूतिः च चानुबन्धः । पूतिः च चानुबन्धः द्रष्टव्यः । पचति पूति । विभाषितम् च अपि बह्वर्थम् । विभाषितम् च अपि बह्वर्थम् द्रष्टव्यम् । पचन्ति पुति । पचन्ति पुति । सुपि कुत्सने क्रियायाः मकारलोपः अतिङि इति च उक्तार्थम् । पूतिः च चानुबन्धः । विभाषितम् च अपि बह्वर्थम् ।

KA III,380.17-25 Ro V,342-344 supi kutsane kriyāyāḥ makāralopaḥ atiṅi iti ca uktārtham . kriyāyāḥ kutsane iti vaktavyam . kartuḥ kutsane mā bhūt . pacati putiḥ . pūtiḥ ca cānubandhaḥ . pūtiḥ ca cānubandhaḥ draṣṭavyaḥ . pacati pūti . vibhāṣitam ca api bahvartham . vibhāṣitam ca api bahvartham draṣṭavyam . pacanti puti . pacanti puti . supi kutsane kriyāyāḥ makāralopaḥ atiṅi iti ca uktārtham . pūtiḥ ca cānubandhaḥ . vibhāṣitam ca api bahvartham .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३८१।१-२३ रो व्,३४४-३४७ गतौ इति किमर्थम् । प्रपचति प्रकरोति । गतेः अनुदात्तत्वे गतिग्रहणानर्थक्यम् तिङि अवधारणात् । गतेः अनुदात्तत्वे गतिग्रहणम् अनर्थकम् । किम् कारणम् । तिङि अवधारणात् । तिङिच उदात्तवति इति एतत् नियमार्थम् भविष्यति । तिङि उदात्तवति एव गतिः अनुदात्तः भवति न अन्यत्र इति । छन्दोर्थम् तर्हि गतिग्रहणम् कर्तव्यम् । छन्दसि गतौ परतः अनुदात्तत्वम् यथा स्यात् मन्द्रशब्दे मा भूत् । अ मन्द्रैः इन्द्र हरिभिः याहि मयुररोमभिः । छन्दोर्थम् इति चेत् न अगतित्वात् । छन्दोर्थम् इति चेत् तत् न । किम् कारणम् । अगतित्वात् । यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः न च अत्र आङः मन्द्रशब्दम् प्रति क्रियायोगः । किम् तर्हि याहिशब्दम् प्रति । इह अपि तर्हि न प्राप्नोति । अभ्युद्धरति उपसमादधाति इति । अत्र अपि न अभेः उदम् प्रति क्रियायोगः । किम् तर्हि हरतिम् प्रति क्रियायोगः । न एषः दोषः । उदम् प्रति क्रियायोगः । कथम् । उद्धरतिक्रियाम् विशिनष्टि । उदा विशिष्टाम् अभिः विशिनष्टि । तत्र यत्क्रियायुक्ताः इति भवति एव सङ्घातम् प्रति क्रियायोगः । इह अपि तर्हि मन्द्रसाधना क्रिया आङा व्यज्यते । आ याहि मन्द्रैः इति । ननु पूर्वम् धातुः उपसर्गेण युज्यते पश्चात् साधनेन इति । न एतत् सारम् । पूर्वम् धातुः साधनेन युज्यते पश्चात् उपसर्गेण । किम् कारणम् । साधनम् हि क्रियाम् निर्वर्तयति ताम् उपसर्गः विशिनष्टि अभिनिर्वृत्तस्य च अर्थस्य उपसर्गेण विशेषः शक्यः वक्तुम् । सत्यम् एवम् एतत् । यः तु असौ धातूपसर्गयोः अभिसम्बन्धः तम् अभ्यन्तरे कृत्वा धातुः साधनेन युज्यते । अवश्यम् च एतत् एवम् विज्ञेयम् । यः हि मन्यते पूर्वम् धातुः साधनेन युज्यते पश्चात् उपसर्गेण इति आस्यते गुरुणा इति अकर्मकः उपास्यते गुरुः इति केन सकर्मकः स्यात् । गतिना तु विशिष्टस्य गतिः एव विशेषकः । साधने केन ते न स्यात् बाह्यम् आभ्यन्तरः हि सः ।

KA III,381.1-23 Ro V,344-347 gatau iti kimartham . prapacati prakaroti . gateḥ anudāttatve gatigrahaṇānarthakyam tiṅi avadhāraṇāt . gateḥ anudāttatve gatigrahaṇam anarthakam . kim kāraṇam . tiṅi avadhāraṇāt . tiṅica udāttavati iti etat niyamārtham bhaviṣyati . tiṅi udāttavati eva gatiḥ anudāttaḥ bhavati na anyatra iti . chandortham tarhi gatigrahaṇam kartavyam . chandasi gatau parataḥ anudāttatvam yathā syāt mandraśabde mā bhūt . a mandraiḥ indra haribhiḥ yāhi mayuraromabhiḥ . chandortham iti cet na agatitvāt . chandortham iti cet tat na . kim kāraṇam . agatitvāt . yatkriyāyuktāḥ tam prati gatyupasargasañjñe bhavataḥ na ca atra āṅaḥ mandraśabdam prati kriyāyogaḥ . kim tarhi yāhiśabdam prati . iha api tarhi na prāpnoti . abhyuddharati upasamādadhāti iti . atra api na abheḥ udam prati kriyāyogaḥ . kim tarhi haratim prati kriyāyogaḥ . na eṣaḥ doṣaḥ . udam prati kriyāyogaḥ . katham . uddharatikriyām viśinaṣṭi . udā viśiṣṭām abhiḥ viśinaṣṭi . tatra yatkriyāyuktāḥ iti bhavati eva saṅghātam prati kriyāyogaḥ . iha api tarhi mandrasādhanā kriyā āṅā vyajyate . ā yāhi mandraiḥ iti . nanu pūrvam dhātuḥ upasargeṇa yujyate paścāt sādhanena iti . na etat sāram . pūrvam dhātuḥ sādhanena yujyate paścāt upasargeṇa . kim kāraṇam . sādhanam hi kriyām nirvartayati tām upasargaḥ viśinaṣṭi abhinirvṛttasya ca arthasya upasargeṇa viśeṣaḥ śakyaḥ vaktum . satyam evam etat . yaḥ tu asau dhātūpasargayoḥ abhisambandhaḥ tam abhyantare kṛtvā dhātuḥ sādhanena yujyate . avaśyam ca etat evam vijñeyam . yaḥ hi manyate pūrvam dhātuḥ sādhanena yujyate paścāt upasargeṇa iti āsyate guruṇā iti akarmakaḥ upāsyate guruḥ iti kena sakarmakaḥ syāt . gatinā tu viśiṣṭasya gatiḥ eva viśeṣakaḥ . sādhane kena te na syāt bāhyam ābhyantaraḥ hi saḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३८१।२४-३८२।१५ रो व्,३४७-३४९ तिङ्ग्रहणम् किमर्थम् । तिङ्ग्रहणम् उदात्तवतः परिमाणार्थम् । तिङ्ग्रहणम् क्रियते उदात्तवतः परिमाणार्थम् । तिङि उदात्तवति यथा स्यात् मन्द्रशब्दे मा भूत् । आ मन्द्रैः इन्द्र हरिभिः याहि । यद्योगात् गतिः । यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः न च आङः मन्द्रशब्दम् प्रति क्रियायोगः । किम् तर्हि याहिशब्दम् प्रति । यद्योगात् गतिः इति चेत् प्रत्ययोदात्तत्वे अप्रसिद्धिः । यद्योगात् गतिः इति चेत् प्रत्ययोदात्तत्वे अप्रसिद्धिः स्यात् । यत्प्रकरोति । तस्मात् तिङ्ग्रहणम् कर्तव्यम् । यदि तिङ्ग्रहणम् क्रियते आमन्ते न प्राप्नोति । प्रपचतितराम् । प्रजल्पतितराम् । असति पुनः तिङ्ग्रहणे क्रियाप्रधानम् आख्यातम् तस्मात् अतिशये तरप् उत्पद्यते तरबन्तात् स्वार्थे आम् तत्र यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः इति भवति एतम् सङ्घातम् प्रति क्रियायोगः । तस्मात् न अर्थः तिङ्ग्रहणेन । कस्मात् न भवति । अ मन्द्रैः इन्द्र हरिभिः याहि मयुररोमभिः । यद्योगात् गतिः इति । ननु च उक्तम् यद्योगात् गतिः इति चेत् प्रत्ययोदात्तत्वे अप्रसिद्धिः इति । न एषः दोषः । यद्क्रियायुक्ताः इति न एवम् विज्ञायते यस्य क्रिया यत्क्रिया यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः इति । कथम् तर्हि । या क्रिया यत्क्रिया यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः इति ।

KA III,381.24-382.15 Ro V,347-349 tiṅgrahaṇam kimartham . tiṅgrahaṇam udāttavataḥ parimāṇārtham . tiṅgrahaṇam kriyate udāttavataḥ parimāṇārtham . tiṅi udāttavati yathā syāt mandraśabde mā bhūt . ā mandraiḥ indra haribhiḥ yāhi . yadyogāt gatiḥ . yatkriyāyuktāḥ tam prati gatyupasargasañjñe bhavataḥ na ca āṅaḥ mandraśabdam prati kriyāyogaḥ . kim tarhi yāhiśabdam prati . yadyogāt gatiḥ iti cet pratyayodāttatve aprasiddhiḥ . yadyogāt gatiḥ iti cet pratyayodāttatve aprasiddhiḥ syāt . yatprakaroti . tasmāt tiṅgrahaṇam kartavyam . yadi tiṅgrahaṇam kriyate āmante na prāpnoti . prapacatitarām . prajalpatitarām . asati punaḥ tiṅgrahaṇe kriyāpradhānam ākhyātam tasmāt atiśaye tarap utpadyate tarabantāt svārthe ām tatra yatkriyāyuktāḥ tam prati gatyupasargasañjñe bhavataḥ iti bhavati etam saṅghātam prati kriyāyogaḥ . tasmāt na arthaḥ tiṅgrahaṇena . kasmāt na bhavati . a mandraiḥ indra haribhiḥ yāhi mayuraromabhiḥ . yadyogāt gatiḥ iti . nanu ca uktam yadyogāt gatiḥ iti cet pratyayodāttatve aprasiddhiḥ iti . na eṣaḥ doṣaḥ . yadkriyāyuktāḥ iti na evam vijñāyate yasya kriyā yatkriyā yatkriyāyuktāḥ tam prati gatyupasargasañjñe bhavataḥ iti . katham tarhi . yā kriyā yatkriyā yatkriyāyuktāḥ tam prati gatyupasargasañjñe bhavataḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३८२।१६-३८२।१८ रो व्,३४९ वत्करणम् किमर्थम् । स्वाश्रयम् अपि यथा स्यात् । आम् भोः देवदत्त इति अत्र आमएकान्तरमामन्त्रितमनन्तिके इति एकान्तरता यथा स्यात् ।

KA III,382.16-382.18 Ro V,349 vatkaraṇam kimartham . svāśrayam api yathā syāt . ām bhoḥ devadatta iti atra āmaekāntaramāmantritamanantike iti ekāntaratā yathā syāt .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३८२।१९-३८२।२५ रो व्,३४९-३५० पूर्वम् प्रति विद्यमानवत्त्वात् उत्तरत्र आनन्तर्याप्रसिद्धिः । पूर्वम् प्रति विद्यमानवत्त्वात् उत्तरत्र आनन्तर्यस्य अप्रसिद्धिः स्यात् । इमम् मे गङ्गे यमुने सरस्वति । गङ्गेशब्दः अयम् यमुनेशब्दम् प्रति अविद्यमानवत् भवति । तत्र आमन्त्रितस्य पदात् परस्य इति अनुदात्तत्वम् न स्यात् । सिद्धम् तु पदपूर्वस्य इति वचनात् । सिद्धम् एतत् । कथम् । पदपूर्वस्य इति वचनात् । पदपूर्वस्य च आमन्त्रितस्य अविद्यमानवद्भावः भवति इति वक्तव्यम् ।

KA III,382.19-382.25 Ro V,349-350 pūrvam prati vidyamānavattvāt uttaratra ānantaryāprasiddhiḥ . pūrvam prati vidyamānavattvāt uttaratra ānantaryasya aprasiddhiḥ syāt . imam me gaṅge yamune sarasvati . gaṅgeśabdaḥ ayam yamuneśabdam prati avidyamānavat bhavati . tatra āmantritasya padāt parasya iti anudāttatvam na syāt . siddham tu padapūrvasya iti vacanāt . siddham etat . katham . padapūrvasya iti vacanāt . padapūrvasya ca āmantritasya avidyamānavadbhāvaḥ bhavati iti vaktavyam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३८३।१-३८३।२० रो व्,३५०-३५२ कानि पुनः अस्य योगस्य प्रयोजनानि । अविद्यमानवत्त्वे प्रयोजनम् आमन्त्रितयुष्मदस्मत्तिङ्निघाताः । आमन्त्रितस्य पदात् परस्य अनुदात्तः भवति इति इह एव भवति पचसि देवदत्त । देवदत्त यज्ञदत्त इति अत्र न भवति अविद्यमानवत्त्वात् आमन्त्रितस्य । युष्मदस्मदोःषष्ठीचतुर्थीद्वितीयास्थयोर्वाम्नावौ इति इह एव भवति ग्रामः वाम् स्वम् जनपदः नौ स्वम् । देवदत्तयज्ञदत्तौ युवयोः स्वम् इति अत्र न भवति अविद्यमानवत्त्वात् आमन्त्रितस्य । तिङतिङः इति इह एव भवति देवदत्तः पचति । देवदत्त पचसि इति अत्र न भवति अविद्यमानवत्त्वात् आमन्त्रितस्य । पूजायाम् अनन्तरप्रतिषेधः । पूजायाम् अनन्तरप्रतिषेधः प्रयोजनम् । यावत् पचति शोभनम् । यावत् देवदत्त पचति इति अत्र अपि सिद्धम् भवति । जातु अपूर्वम् । जातु अपूर्वम् प्रयोजनम् । जातु पचति । देवदत्त जातु पचसि इति अत्र अपि सिद्धम् भवति । आहो उताहो च अनन्तरविधौ । आहो उताहो च अनन्तरविधौ प्रयोजनम् । आहो पचसि । आहो देवदत्त पचसि इति अत्र अपि सिद्धम् भवति । उताहो पचसि । उताहो देवदत्त पचसि इति अत्र अपि सिद्धम् भवति । आमः एकान्तरविधौ । आमः एकान्तरविधौ प्रयोजनम् । आम् पचसि देवदत्त । आम् भोः पचसि देवदत्त अत्र अपि सिद्धम् भवति ।

KA III,383.1-383.20 Ro V,350-352 kāni punaḥ asya yogasya prayojanāni . avidyamānavattve prayojanam āmantritayuṣmadasmattiṅnighātāḥ . āmantritasya padāt parasya anudāttaḥ bhavati iti iha eva bhavati pacasi devadatta . devadatta yajñadatta iti atra na bhavati avidyamānavattvāt āmantritasya . yuṣmadasmadoḥṣaṣṭhīcaturthīdvitīyāsthayorvāmnāvau iti iha eva bhavati grāmaḥ vām svam janapadaḥ nau svam . devadattayajñadattau yuvayoḥ svam iti atra na bhavati avidyamānavattvāt āmantritasya . tiṅatiṅaḥ iti iha eva bhavati devadattaḥ pacati . devadatta pacasi iti atra na bhavati avidyamānavattvāt āmantritasya . pūjāyām anantarapratiṣedhaḥ . pūjāyām anantarapratiṣedhaḥ prayojanam . yāvat pacati śobhanam . yāvat devadatta pacati iti atra api siddham bhavati . jātu apūrvam . jātu apūrvam prayojanam . jātu pacati . devadatta jātu pacasi iti atra api siddham bhavati . āho utāho ca anantaravidhau . āho utāho ca anantaravidhau prayojanam . āho pacasi . āho devadatta pacasi iti atra api siddham bhavati . utāho pacasi . utāho devadatta pacasi iti atra api siddham bhavati . āmaḥ ekāntaravidhau . āmaḥ ekāntaravidhau prayojanam . ām pacasi devadatta . ām bhoḥ pacasi devadatta atra api siddham bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३८३।२१-२४ रो व्,३५२ इह कस्मात् न भवति । अघ्न्ये देवि सरस्वति इडे कव्ये विहव्ये एतनि ते अघ्न्ये नमानि । योगविभागः करिष्यते । न आमन्त्रिते समानाधिकरणे सामान्यवचनम् । ततः विभाषितम् विशेषवचने इति ।

KA III,383.21-24 Ro V,352 iha kasmāt na bhavati . aghnye devi sarasvati iḍe kavye vihavye etani te aghnye namāni . yogavibhāgaḥ kariṣyate . na āmantrite samānādhikaraṇe sāmānyavacanam . tataḥ vibhāṣitam viśeṣavacane iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३८४।१-८ रो व्,३५३ इह कस्मात् न भवति । ब्रह्मण वैयाकरण । बहुवचनम् इति वक्ष्यामि । सामान्यवचनम् इति शक्यम् अवक्तुम् । कथम् । विभाषितम् विशेषवचने इति उच्यते तेन यत् प्रति विशेषवचनम् इति एतत् भवति तस्य भविष्यति । किम् च प्रति एतत् भवति । सामान्यवचनम् । अपरः आह : विशेषवचने इति शक्यम् अवक्तुम् । कथम् । सामान्यवचनम् विभाषितम् इति उच्यते तेन यत् प्रति सामान्यवचनम् इति एतत् भवति । किम् च प्रति एतत् भवति । विशेषवचनम् । सामान्यवचनम् विभाषितम् विशेषवचने इति ।

KA III,384.1-8 Ro V,353 iha kasmāt na bhavati . brahmaṇa vaiyākaraṇa . bahuvacanam iti vakṣyāmi . sāmānyavacanam iti śakyam avaktum . katham . vibhāṣitam viśeṣavacane iti ucyate tena yat prati viśeṣavacanam iti etat bhavati tasya bhaviṣyati . kim ca prati etat bhavati . sāmānyavacanam . aparaḥ āha : viśeṣavacane iti śakyam avaktum . katham . sāmānyavacanam vibhāṣitam iti ucyate tena yat prati sāmānyavacanam iti etat bhavati . kim ca prati etat bhavati . viśeṣavacanam . sāmānyavacanam vibhāṣitam viśeṣavacane iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३८५।१-२१ रो व्,३५४-३५६ या इयम् सपादसप्ताध्यायी अनुक्रान्ता एतस्याम् अयम् पादोनः अध्यायः असिद्धः वेदितव्यः । यदि सपादायाम् सप्ताध्याय्याम् अयम् पादोनः अध्यायः असिद्धः इति उच्यते यः इह सप्तमीनिर्देशाः पञ्चमीनिर्देशाः च उच्यन्ते षष्ठीनिर्देशाः च उच्यन्ते ते अपि असिद्धाः स्यूः । तत्र कः दोषः । झलोझलि ह्रस्वादङ्गात् संयोगान्तस्यलोपः इति एतेषाम् निर्देशानाम् असिद्धत्वात् तस्मिन्नितिनिर्देष्टेपूर्वस्य तस्मादित्युत्तरस्य षष्ठीस्थानेयोगा इति एताः परिभाषाः न प्रकल्पेरन् । न एषः दोषः । यदि अपि इदम् तत्र असिद्धम् तत् तु इह सिद्धम् । कथम् । कार्यकालम् सञ्ज्ञापरिभाषम् यत्र कार्यम् तत्र द्रष्टव्यम् । झलोझलि । ह्रस्वादङ्गात् । संयोगान्तस्यलोपः । उपस्थितम् इदम् भवति तस्मिन्नितिनिर्दिष्टेपूर्वस्य तस्मादित्युत्तरस्य षष्ठीस्थानेयोगा इति । यदि कार्यकालम् सञ्ज्ञापरिभाषम् इति उच्यते इयम् अपि परिभाषा अस्ति विप्रतिषेधे परम् इति सा अपि इह उपतिष्ठेत । तत्र कः दोषः । विस्फोर्यम् अवगोर्यम् इति गुणात् दीर्घत्वम् स्यात् विप्रतिषेधेन । अतः उत्तरम् पठति । पूर्वत्रासिद्धे न अस्ति विप्रतिषेधः अभावात् उत्तरस्य । पूर्वत्रासिद्धे न अस्ति विप्रतिषेधः । किम् कारणम् । अभावात् उत्तरस्य । द्वयोः हि सावकाशयोः समवस्थितयोः विप्रतिषेधः भवति न च पूर्वत्रासिद्धे परम् पूर्वम् प्रति भवति । यदि एवम् दोग्धा दोग्धुम् घत्वस्य असिद्धत्वात् ढत्वम् प्राप्नोति काष्ठतट् कूटतट् संयोगादिलोप्स्य असिद्धत्वात् संयोगान्तलोपः प्राप्नोति । अपवादः वचनप्रामाण्यात् । अनवकाशौ एतौ वचनप्रामाण्यात् भविष्यतः । तस्मात् कार्यकालम् सञ्ज्ञापरिभाषम् इति न दोषः ।

KA III,385.1-21 Ro V,354-356 yā iyam sapādasaptādhyāyī anukrāntā etasyām ayam pādonaḥ adhyāyaḥ asiddhaḥ veditavyaḥ . yadi sapādāyām saptādhyāyyām ayam pādonaḥ adhyāyaḥ asiddhaḥ iti ucyate yaḥ iha saptamīnirdeśāḥ pañcamīnirdeśāḥ ca ucyante ṣaṣṭhīnirdeśāḥ ca ucyante te api asiddhāḥ syūḥ . tatra kaḥ doṣaḥ . jhalojhali hrasvādaṅgāt saṃyogāntasyalopaḥ iti eteṣām nirdeśānām asiddhatvāt tasminnitinirdeṣṭepūrvasya tasmādityuttarasya ṣaṣṭhīsthāneyogā iti etāḥ paribhāṣāḥ na prakalperan . na eṣaḥ doṣaḥ . yadi api idam tatra asiddham tat tu iha siddham . katham . kāryakālam sañjñāparibhāṣam yatra kāryam tatra draṣṭavyam . jhalojhali . hrasvādaṅgāt . saṃyogāntasyalopaḥ . upasthitam idam bhavati tasminnitinirdiṣṭepūrvasya tasmādityuttarasya ṣaṣṭhīsthāneyogā iti . yadi kāryakālam sañjñāparibhāṣam iti ucyate iyam api paribhāṣā asti vipratiṣedhe param iti sā api iha upatiṣṭheta . tatra kaḥ doṣaḥ . visphoryam avagoryam iti guṇāt dīrghatvam syāt vipratiṣedhena . ataḥ uttaram paṭhati . pūrvatrāsiddhe na asti vipratiṣedhaḥ abhāvāt uttarasya . pūrvatrāsiddhe na asti vipratiṣedhaḥ . kim kāraṇam . abhāvāt uttarasya . dvayoḥ hi sāvakāśayoḥ samavasthitayoḥ vipratiṣedhaḥ bhavati na ca pūrvatrāsiddhe param pūrvam prati bhavati . yadi evam dogdhā dogdhum ghatvasya asiddhatvāt ḍhatvam prāpnoti kāṣṭhataṭ kūṭataṭ saṃyogādilopsya asiddhatvāt saṃyogāntalopaḥ prāpnoti . apavādaḥ vacanaprāmāṇyāt . anavakāśau etau vacanaprāmāṇyāt bhaviṣyataḥ . tasmāt kāryakālam sañjñāparibhāṣam iti na doṣaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३८६।१-११ रो व्,३५६-३५७ पूर्वत्रासिद्धम् अधिकारः । पूर्वत्रासिद्धम् इति अधिकारः अयम् द्रष्टव्यः । किम् प्रयोजनम् । परस्य परस्य पूर्वत्र पूर्वत्र असिद्धविज्ञानार्थम् । परः परः योगः पूर्वम् पूर्वम् योगम् प्रति असिद्धः यथा स्यात् । अनधिकारे हि समुदाये असिद्धविज्ञानम् । अनधिकारे हि सति समुदायस्य समुदाये असिद्धत्वम् विज्ञायेत । तत्र कः दोषः । तत्र अयथेष्टप्रसङ्गः । तत्र अयथेष्टम् प्रसज्येत । योधुङ्मान् गुडलिण्मान् इति । घत्वढत्वयोः कृतयोः झयः इति वत्वम् प्रसज्येत । तस्मात् अधिकारः । तस्मात् अधिकारः अयम् द्रष्टव्यः ।

KA III,386.1-11 Ro V,356-357 pūrvatrāsiddham adhikāraḥ . pūrvatrāsiddham iti adhikāraḥ ayam draṣṭavyaḥ . kim prayojanam . parasya parasya pūrvatra pūrvatra asiddhavijñānārtham . paraḥ paraḥ yogaḥ pūrvam pūrvam yogam prati asiddhaḥ yathā syāt . anadhikāre hi samudāye asiddhavijñānam . anadhikāre hi sati samudāyasya samudāye asiddhatvam vijñāyeta . tatra kaḥ doṣaḥ . tatra ayatheṣṭaprasaṅgaḥ . tatra ayatheṣṭam prasajyeta . yodhuṅmān guḍaliṇmān iti . ghatvaḍhatvayoḥ kṛtayoḥ jhayaḥ iti vatvam prasajyeta . tasmāt adhikāraḥ . tasmāt adhikāraḥ ayam draṣṭavyaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३८६।१२-२१ रो व्,३५७-३५८ असिद्धवचनम् किमर्थम् । असिद्धवचने उक्तम् । किम् उक्तम् । तत्र तावत् उक्तम् षत्वतुकोः असिद्धवचनम् आदेशलक्षणप्रतिषेधार्थम् उत्सर्गलक्षणभावार्थम् च इति । एवम् इह अपि पूर्वत्रासिद्धवचनम् आदेशलक्षणप्रतिषेधार्थम् उत्सर्गलक्षणभावार्थम् च । आदेशलक्षणप्रतिषेधार्थम् तावत् । राजभिः तक्षभिः राजभ्याम् तक्षभ्याम् राजसु तक्षसु इति नलोपे कृते अतः इति ऐस्भावादयः प्राप्नुवन्ति । असिद्धत्वात् न भवन्ति । उत्सर्गलक्षणभावार्थम् च । अमुष्मै अमुष्मात् अमुष्य अमुष्मिन् इति अत्र मुभावे कृते अतः इति स्मायादयः न प्राप्नुवन्ति । असिद्धत्वात् भवन्ति । सुपर्वाणौ सुपर्वाणः । णत्वे कृते नोपधायाः इति दीर्घत्वम् न प्रप्नोति । असिद्धत्वात् भवति ।

KA III,386.12-21 Ro V,357-358 asiddhavacanam kimartham . asiddhavacane uktam . kim uktam . tatra tāvat uktam ṣatvatukoḥ asiddhavacanam ādeśalakṣaṇapratiṣedhārtham utsargalakṣaṇabhāvārtham ca iti . evam iha api pūrvatrāsiddhavacanam ādeśalakṣaṇapratiṣedhārtham utsargalakṣaṇabhāvārtham ca . ādeśalakṣaṇapratiṣedhārtham tāvat . rājabhiḥ takṣabhiḥ rājabhyām takṣabhyām rājasu takṣasu iti nalope kṛte ataḥ iti aisbhāvādayaḥ prāpnuvanti . asiddhatvāt na bhavanti . utsargalakṣaṇabhāvārtham ca . amuṣmai amuṣmāt amuṣya amuṣmin iti atra mubhāve kṛte ataḥ iti smāyādayaḥ na prāpnuvanti . asiddhatvāt bhavanti . suparvāṇau suparvāṇaḥ . ṇatve kṛte nopadhāyāḥ iti dīrghatvam na prapnoti . asiddhatvāt bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३८६।२२-३८७।३ रो व्,३५८ सुब्विधिम् प्रति नलोपः असिद्धः भवति इति उच्यते । भवेत् इह राजभिः तक्षभिः इति नलोपे कृते अतः इति ऐस्भावः न स्यात् । इह तु खलु राजभ्याम् तक्षभ्याम् राजसु तक्षसु इति नलोपे कृते दीर्घत्वैत्त्वे प्राप्नुतः। न एषः दोषः । सुब्विधिः इति सर्वविभक्त्यन्तः समासः : सुपः विधिः सुब्विधिः , सुपि विधिः सुब्विधिः इति ।

KA III,386.22-387.3 Ro V,358 subvidhim prati nalopaḥ asiddhaḥ bhavati iti ucyate . bhavet iha rājabhiḥ takṣabhiḥ iti nalope kṛte ataḥ iti aisbhāvaḥ na syāt . iha tu khalu rājabhyām takṣabhyām rājasu takṣasu iti nalope kṛte dīrghatvaittve prāpnutaḥ. na eṣaḥ doṣaḥ . subvidhiḥ iti sarvavibhaktyantaḥ samāsaḥ : supaḥ vidhiḥ subvidhiḥ , supi vidhiḥ subvidhiḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३८७।४-१८ रो व्,३५९-३६१ अथ सञ्ज्ञाविधौ किम् उदाहरणम् । पञ्च सप्त । पञ्च सप्त इति अत्र नलोपे कृते ष्णान्ताषट् इति षट्सञ्ज्ञा न प्राप्नोति । असिद्धत्वात् भवति । सञ्ज्ञाग्रहणानर्थक्यम् च तन्निमित्तत्वात् लोपस्य । सञ्ज्ञाग्रहणम् च अनर्थकम् । किम् कारणम् । तन्निमित्तत्वात् लोपस्य । न अकृतायाम् षट्सञ्ज्ञायाम् जश्शसोः लुक् न च अकृते लुकि पदसञ्ज्ञा न च अकृतायाम् पदसञ्ज्ञायाम् नलोपः प्राप्नोति । तत् एतत् आनुपूर्व्या सिद्धम् भवति । इदम् तर्हि प्रयोजनम् पञ्चभिः सप्तभिः इति षट्त्रिचतुर्भ्योहलादिः झल्युपोत्तमम् इति एषः स्वरः यथा स्यात् । स्वरे अवधारणात् च । स्वरे अवधारणात् च सञ्ज्ञाग्रहणम् अनर्थकम् । स्वरे अवधारणम् क्रियते स्वरविधिम् प्रति इति । तुग्विधौ किम् उदाहरणम् । वृत्रहभ्याम् वृत्रहभिः । नलोपे कृते ह्रस्वस्यपितिकृतितुक् इति तुक् प्राप्नोति । असिद्धत्वात् न भवति । तुग्विधौ च उक्तम् । किम् उक्तम् । सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति । इदम् तर्हि प्रयोजनम् । कृति इति वक्ष्यामि । इह मा भूत् । ब्रह्महच्छत्रम् भ्रूणहच्छाया । न एषः सन्निपातलक्षणः ।

KA III,387.4-18 Ro V,359-361 atha sañjñāvidhau kim udāharaṇam . pañca sapta . pañca sapta iti atra nalope kṛte ṣṇāntāṣaṭ iti ṣaṭsañjñā na prāpnoti . asiddhatvāt bhavati . sañjñāgrahaṇānarthakyam ca tannimittatvāt lopasya . sañjñāgrahaṇam ca anarthakam . kim kāraṇam . tannimittatvāt lopasya . na akṛtāyām ṣaṭsañjñāyām jaśśasoḥ luk na ca akṛte luki padasañjñā na ca akṛtāyām padasañjñāyām nalopaḥ prāpnoti . tat etat ānupūrvyā siddham bhavati . idam tarhi prayojanam pañcabhiḥ saptabhiḥ iti ṣaṭtricaturbhyohalādiḥ jhalyupottamam iti eṣaḥ svaraḥ yathā syāt . svare avadhāraṇāt ca . svare avadhāraṇāt ca sañjñāgrahaṇam anarthakam . svare avadhāraṇam kriyate svaravidhim prati iti . tugvidhau kim udāharaṇam . vṛtrahabhyām vṛtrahabhiḥ . nalope kṛte hrasvasyapitikṛtituk iti tuk prāpnoti . asiddhatvāt na bhavati . tugvidhau ca uktam . kim uktam . sannipātalakṣaṇaḥ vidhiḥ animittam tadvighātasya iti . idam tarhi prayojanam . kṛti iti vakṣyāmi . iha mā bhūt . brahmahacchatram bhrūṇahacchāyā . na eṣaḥ sannipātalakṣaṇaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३८७।१९ रो व्,३६१-३६२ इह ने यत् कार्यम् प्राप्नोति तत् प्रति मुभावः न असिद्धः इति उच्यते नाभावः च एव तावत् न प्राप्नोति । एवम् तर्हि न मु टादेशे । न मु टादेशे इति वक्तव्यम् । किम् इदम् टादेशः इति । टायाः आदेशः टादेशः इति । यदि तर्हि टायाः आदेशे इति उच्यते टायाम् आदेशे अप्रसिद्धिः । तत्र कः दोषः । अमुना इति अत्र मुभावस्य असिद्धत्वात् अतोदीर्घोयञि सुपिच इति दीर्घत्वम् प्रसज्येत । न एषः दोषः । सर्वविभक्त्यन्तः समासः : टायाः आदेशः टादेशः , टायाम् आदेशः टादेशः इति । सिध्यति । सूत्रम् तर्हि भिद्यते । यथान्यासम् एव अस्तु । ननु च उक्तम् ने यत् कार्यम् प्राप्नोति तस्मिन् मुभावः न असिद्धः इति उच्यते नाभावः च एव तावत् न प्राप्नोति इति । न एषः दोषः । इह इङ्गितेन चेष्टितेन निमिषितेन महता वा सूत्रनिबन्धेन आचार्याणाम् अभिप्रायः लक्ष्यते । एतत् एव ज्ञापयति भवति अत्र नाभावः इति यत् अयम् ने परतः असिद्धत्वप्रतिषेधम् शास्ति । अथ वा द्विगताः अपि हेतवः भवन्ति । तत् यथा । आम्राः च सिक्ताः पितरः च प्रीणिताः भवन्ति । तथा वाक्यानि अपि द्विगतानि दृश्यन्ते । श्वेतः धावति । अलम्बुसानाम् याता इति । अथ वा वृद्धकुमारीवाक्यवत् इदम् द्रष्टव्यम् । तत् यथा । वृद्धकुमारी इन्द्रेण उक्ता वरम् वृणीष्व इति सा वरम् अवृणीत पुत्राः मे बहुक्षीरघृतम् ओदनम् कांस्यपात्र्याम् भुञ्जीरन् इति । न च तावत् अस्याः पतिः भवति कुतः पुत्राः कुतः गावः कुतः धान्यम् । तत्र्स् अनया एकेन वाक्येन पतिः पुत्राः गावः धान्यम् इति सर्वम् सङ्गृहीतम् भवति । एवम् इह अपि ने असिद्धत्वप्रतिषेधम् ब्रुवता नाभावः अपि सङ्गृहीतः भवति ।

KA III,387.19 Ro V,361-362 iha ne yat kāryam prāpnoti tat prati mubhāvaḥ na asiddhaḥ iti ucyate nābhāvaḥ ca eva tāvat na prāpnoti . evam tarhi na mu ṭādeśe . na mu ṭādeśe iti vaktavyam . kim idam ṭādeśaḥ iti . ṭāyāḥ ādeśaḥ ṭādeśaḥ iti . yadi tarhi ṭāyāḥ ādeśe iti ucyate ṭāyām ādeśe aprasiddhiḥ . tatra kaḥ doṣaḥ . amunā iti atra mubhāvasya asiddhatvāt atodīrghoyañi supica iti dīrghatvam prasajyeta . na eṣaḥ doṣaḥ . sarvavibhaktyantaḥ samāsaḥ : ṭāyāḥ ādeśaḥ ṭādeśaḥ , ṭāyām ādeśaḥ ṭādeśaḥ iti . sidhyati . sūtram tarhi bhidyate . yathānyāsam eva astu . nanu ca uktam ne yat kāryam prāpnoti tasmin mubhāvaḥ na asiddhaḥ iti ucyate nābhāvaḥ ca eva tāvat na prāpnoti iti . na eṣaḥ doṣaḥ . iha iṅgitena ceṣṭitena nimiṣitena mahatā vā sūtranibandhena ācāryāṇām abhiprāyaḥ lakṣyate . etat eva jñāpayati bhavati atra nābhāvaḥ iti yat ayam ne parataḥ asiddhatvapratiṣedham śāsti . atha vā dvigatāḥ api hetavaḥ bhavanti . tat yathā . āmrāḥ ca siktāḥ pitaraḥ ca prīṇitāḥ bhavanti . tathā vākyāni api dvigatāni dṛśyante . śvetaḥ dhāvati . alambusānām yātā iti . atha vā vṛddhakumārīvākyavat idam draṣṭavyam . tat yathā . vṛddhakumārī indreṇa uktā varam vṛṇīṣva iti sā varam avṛṇīta putrāḥ me bahukṣīraghṛtam odanam kāṃsyapātryām bhuñjīran iti . na ca tāvat asyāḥ patiḥ bhavati kutaḥ putrāḥ kutaḥ gāvaḥ kutaḥ dhānyam . tatrs anayā ekena vākyena patiḥ putrāḥ gāvaḥ dhānyam iti sarvam saṅgṛhītam bhavati . evam iha api ne asiddhatvapratiṣedham bruvatā nābhāvaḥ api saṅgṛhītaḥ bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३८८।१६-३८९।६ रो व्,३६२-३६४ यण्स्वरः यणादेशे स्वरितयणः स्वरितार्थम् । यण्स्वरः यणादेशे सिद्धः वक्तव्यः । किम् प्रयोजनम् । स्वरितयणः स्वरितार्थम् । स्वरितयणः स्वरितत्वम् यथा स्यात् । खलप्वि अटति । खल्प्वि अश्नाति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । आह अयम् स्वरितयणः इति न च अस्ति सिद्धः स्वरितः तत्र आश्रयात् सिद्धत्वम् भविष्यति । आश्रयात् सिद्धत्वम् इति चेत् उदात्तात् स्वरिते दोषः । आश्रयात् सिद्धत्वम् इति चेत् उदात्तात् स्वरिते दोषः भवति । दध्याश । मध्वाश । एवम् तर्हि योगविभागः करिष्यते । उदात्तयणः परस्य अनुदात्तस्य स्वरितः भवति । ततः स्वरितयणः । स्वरितयणः च परस्य अनुदात्तस्य स्वरितः भवति । उदात्तयणः इति एव । अथ वा स्वरितग्रहणम् न करिष्यते । केन इदानीम् स्वरितयणः परस्य अनुदात्तस्य स्वरितः भविष्यति । उदात्तयणः इति एव । ननु च स्वरितयणा व्यवहितत्वात् न प्राप्नोति । स्वरविधौ व्यञ्जनम् अविद्यमानवत् इति न अस्ति व्यवधानम् । अथ वा न एवम् विज्ञायते स्वरितस्य यण् स्वरितयण् स्वरितयणः इति । कथम् तर्हि । स्वरिते यण् स्वरितयण् स्वरितयणः इति ।

KA III,388.16-389.6 Ro V,362-364 yaṇsvaraḥ yaṇādeśe svaritayaṇaḥ svaritārtham . yaṇsvaraḥ yaṇādeśe siddhaḥ vaktavyaḥ . kim prayojanam . svaritayaṇaḥ svaritārtham . svaritayaṇaḥ svaritatvam yathā syāt . khalapvi aṭati . khalpvi aśnāti . tat tarhi vaktavyam . na vaktavyam . āha ayam svaritayaṇaḥ iti na ca asti siddhaḥ svaritaḥ tatra āśrayāt siddhatvam bhaviṣyati . āśrayāt siddhatvam iti cet udāttāt svarite doṣaḥ . āśrayāt siddhatvam iti cet udāttāt svarite doṣaḥ bhavati . dadhyāśa . madhvāśa . evam tarhi yogavibhāgaḥ kariṣyate . udāttayaṇaḥ parasya anudāttasya svaritaḥ bhavati . tataḥ svaritayaṇaḥ . svaritayaṇaḥ ca parasya anudāttasya svaritaḥ bhavati . udāttayaṇaḥ iti eva . atha vā svaritagrahaṇam na kariṣyate . kena idānīm svaritayaṇaḥ parasya anudāttasya svaritaḥ bhaviṣyati . udāttayaṇaḥ iti eva . nanu ca svaritayaṇā vyavahitatvāt na prāpnoti . svaravidhau vyañjanam avidyamānavat iti na asti vyavadhānam . atha vā na evam vijñāyate svaritasya yaṇ svaritayaṇ svaritayaṇaḥ iti . katham tarhi . svarite yaṇ svaritayaṇ svaritayaṇaḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३८९।७-१५ रो व्,३६४-३६५ स्वरितग्रहणम् शक्यम् अकर्तुम् । कथम् । अनुदात्ते परतः पदादौ वा उदात्तः इति एव सिद्धम् । केन इदानीम् स्वरितः भविष्यति । गाङ्गे अनूपे इति । आन्तर्यतः उदात्तानुदात्तयोः एकादेशः स्वरितः भविष्यति । इदम् तर्हि प्रयोजनम् तेन वर्ज्यमानता मा भूत् । अथ क्रियमाणे अपि स्वरितग्रहणे यः सिद्धः स्वरितः तेन वर्ज्यमानता कस्मात् न भवति । कन्या अनूपे इति । बहिरङ्गलक्षणत्वात् । असिद्धम् बहिरङ्गम् अन्तरङ्गे इति एवम् न भविष्यति । यथा एव तर्हि क्रियमाणे स्वरितग्रहणे यः सिद्धः स्वरितः तेन वर्ज्यमानता न भवति एवम् अक्रियमाणे अपि न भविष्यति । तस्मात् न अर्थः स्वरितग्रहणेन । बहिरङ्गलक्षणत्वात् सिद्धम् ।

KA III,389.7-15 Ro V,364-365 svaritagrahaṇam śakyam akartum . katham . anudātte parataḥ padādau vā udāttaḥ iti eva siddham . kena idānīm svaritaḥ bhaviṣyati . gāṅge anūpe iti . āntaryataḥ udāttānudāttayoḥ ekādeśaḥ svaritaḥ bhaviṣyati . idam tarhi prayojanam tena varjyamānatā mā bhūt . atha kriyamāṇe api svaritagrahaṇe yaḥ siddhaḥ svaritaḥ tena varjyamānatā kasmāt na bhavati . kanyā anūpe iti . bahiraṅgalakṣaṇatvāt . asiddham bahiraṅgam antaraṅge iti evam na bhaviṣyati . yathā eva tarhi kriyamāṇe svaritagrahaṇe yaḥ siddhaḥ svaritaḥ tena varjyamānatā na bhavati evam akriyamāṇe api na bhaviṣyati . tasmāt na arthaḥ svaritagrahaṇena . bahiraṅgalakṣaṇatvāt siddham .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३८९।१६-३९४।४ रो व्,३६५-३७५ एकादेशस्वरः अन्तरङ्गः । एकादेशस्वरः अन्तरङ्गः सिद्धः वक्तव्यः । किम् प्रयोजनम् । अयवायावेकादेशशतृस्वरैकाननुदात्तसर्वानुदात्तार्थम् । अय् । वृक्षे इदम् प्लक्षे इदम् । उदात्तानुदात्तयोः एकादेशः । तस्य एकादेशे उदात्तेनोदात्तः इति एतत् भवति । तस्य सिद्धत्वम् वक्तव्यम् आन्तर्यतः उदात्तस्य उदात्तः अयादेशः यथा स्यात् । अवादेशः न अस्ति । आय् । कुमार्यै इदम् । उदात्तानुदात्तयोः एकादेशः । तस्य एकादेशे उदात्तेनोदात्तः इति एतत् भवति । तस्य सिद्धत्वम् वक्तव्यम् आन्तर्यतः उदात्तस्य उदात्तः आयादेशः यथा स्यात् । न एतत् अस्ति प्रयोजनम् । एकादेशे कृते उदात्तयणोहल्पूर्वात् इति उदात्तत्वम् भविष्यति । इदम् इह सम्प्रधार्यम् । उदात्तत्वम् क्रियताम् एकादेशः इति किम् अत्र कर्तव्यम् । परत्वात् उदात्तत्वम् । नित्यः एकादेशः । कृते अपि उदात्तत्वे प्राप्नोति अकृते अपि प्राप्नोति । एकादेशः अपि अनित्यः । अन्यथास्वरस्य कृते उदात्तत्वे प्राप्नोति अन्यथास्वरस्य अकृते स्वरभिन्नस्य च प्राप्नुवन् विधिः अनित्यः भवति । अन्तरङ्गः तर्हि एकादेशः । का अन्तरङ्गता । वर्णौ आश्रित्य एकादेशः पदस्य उदात्तत्वम् । एवम् तर्हि इदम् इह सम्प्रधार्यम् । आट् क्रियताम् उदात्तत्वम् इति किम् अत्र कर्तव्यम् । परत्वात् आडागमः । नित्यम् उदात्तत्वम् । कृते अपि आटि प्राप्नोति अकृते अपि प्राप्नोति । आट् अपि नित्यः । कृते अपि उदात्तत्वे प्राप्नोति अकृते अपि प्राप्नोति । अनित्यः आट् । अन्यथास्वरस्य कृते उदात्तत्वे प्राप्नोति अन्यथास्वरस्य अकृते स्वरभिन्नस्य च प्राप्नुवन् विधिः अनित्यः भवति । उदात्तत्वम् अपि अनित्यम् । अन्यस्य कृते आटि प्राप्नोति अन्यस्य अकृते प्राप्नोति शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति । उभयोः अनित्ययोः परत्वात् आडागमः आटि कृते अन्तरङ्गः एकादेशः । आव् । वृक्षविदम् । उदात्तानुदात्तयोः एकादेशः । तस्य एकादेशे उदात्तेन उदात्तः इति एतत् भवति । तस्य सिद्धत्वम् वक्तव्यम् आन्तर्यतः उदात्तस्य उदात्तः आवादेशः यथा स्यात् । एकादेशस्वर । गाङ्गे अनूपे इति । उदात्तानुदात्तयोः एकादेशः । तस्य एकादेशे उदात्तेन उदात्तः इति एतत् भवति । तस्य सिद्धत्वम् वक्तव्यम् स्वरितोवानुदात्तेपदादौ इति एतत् यथा स्यात् । शतृस्वर । तुदति नुदति । उदात्तानुदात्तयोः एकादेशः । तस्य एकादेशे उदात्तेन उदात्तः इति एतत् भवति । तस्य सिद्धत्वम् वक्तव्यम् शतुः अनुमः नद्यजादिः अन्तोदात्तात् इति एषः स्वरः यथा स्यात् । न एतत् अस्ति प्रयोजनम् । आचार्यप्रवृत्तिः ज्ञापयति सिद्धः एकादेशस्वरः शतृस्वरः इति यत् अयम् अनुमः इति प्रतिषेधम् शास्ति । कथम् कृत्वा ज्ञापकम् । न हि अन्तरेण उदात्तानुदात्तोः एकादेशम् शत्रन्तम् सनुम्कम् अन्तोदात्तम् अस्ति । ननु च इदम् अस्ति यन्ती वन्ती । एतत् अपि निघाते कृते न अन्तरेण उदात्तानुदात्तयोः एकादेशम् शत्रन्तम् सनुम्कम् अन्तोदात्तम् अस्ति । इदम् इह सम्प्रधार्यम् । निघातः क्रियताम् एकादेशः इति किम् अत्र कर्तव्यम् । परत्वात् निघातः । नित्यः एकादेशः । कृते अपि निघाते प्राप्नोति अकृते अपि प्राप्नोति । एकादेशः अपि अनित्यः । अन्यथास्वरस्य कृते निघाते प्राप्नोति अन्यथास्वरस्य अकृते निघाते स्वरभिन्नस्य च प्राप्नुवन् विधिः अनित्यः भवति । अन्तरङ्गः तर्हि एकादेशः । का अन्तरङ्गता । वर्णौ आश्रित्य एकादेशः पदस्य निघातः । निघातः अपि अन्तरङ्गः । कथम् । उक्तम् एतत् पदग्रहणम् परिमाणार्थम् इति । उभयोः अन्तरङ्गयोः परत्वात् निघातः निघाते कृते एतत् अपि न अन्तरेण उदात्तानुदात्तयोः एकादेशम् अन्तोदात्तम् भवति । शतृस्वर । एकानुदात्त । तुदन्ति लिखन्ति। उदात्तानुदात्तयोः एकादेशः । तस्य एकादेशे उदात्तेन उदात्तः इति एतत् भवति । तस्य सिद्धत्वम् वक्तव्यम् तेन वर्ज्यमानता यथा स्यात् । सर्वानुदात्त । ब्राह्मणाः तुदन्ति । ब्राह्मणाः लिखन्ति । उदात्तानुदात्तयोः एकादेशः । तस्य एकादेशे उदात्तेनोदात्तः इति एतत् भवति । तस्य सिद्धत्वम् वक्तव्यम् । किम् प्रयोजनम् । तिङतिङः इति निघातः यथा स्यात् । किम् उच्यते अन्तरङ्गः इति । यः हि बहिरङ्गः असिद्धः एव असौ भवति । प्रपचतिति । सोमसुत् पचतिति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । सर्वत्र एव नुम्प्रतिषेधः ज्ञापकः सिद्धः एकादेशस्वरः अन्तरङ्गः इति । संयोगान्तलोपः रोः उत्त्वे हरिवः मेदिनम् त्वा । संयोगान्तलोपः रोः उत्त्वे सिद्धः वक्तव्यः । किम् प्रयोजनम् । हरिवः मेदिनम् त्वा । संयोगान्तलोपस्य असिद्धत्वात् हशि इति उत्त्वम् न प्राप्नोति । प्लुतिः च । प्लुतिः च उत्त्वे सिद्धा वक्तव्या । सुस्रोत३ अत्र नु असि इति अत्र प्लुतेः असिद्धत्वात् अतः अति इति उत्त्वम् प्राप्नोति । अप्लुतात् अप्लुते इति एतत् न वक्तव्यम् भवति । न एतत् अस्ति

KA III,389.16-394.4 Ro V,365-375 ekādeśasvaraḥ antaraṅgaḥ . ekādeśasvaraḥ antaraṅgaḥ siddhaḥ vaktavyaḥ . kim prayojanam . ayavāyāvekādeśaśatṛsvaraikānanudāttasarvānudāttārtham . ay . vṛkṣe idam plakṣe idam . udāttānudāttayoḥ ekādeśaḥ . tasya ekādeśe udāttenodāttaḥ iti etat bhavati . tasya siddhatvam vaktavyam āntaryataḥ udāttasya udāttaḥ ayādeśaḥ yathā syāt . avādeśaḥ na asti . āy . kumāryai idam . udāttānudāttayoḥ ekādeśaḥ . tasya ekādeśe udāttenodāttaḥ iti etat bhavati . tasya siddhatvam vaktavyam āntaryataḥ udāttasya udāttaḥ āyādeśaḥ yathā syāt . na etat asti prayojanam . ekādeśe kṛte udāttayaṇohalpūrvāt iti udāttatvam bhaviṣyati . idam iha sampradhāryam . udāttatvam kriyatām ekādeśaḥ iti kim atra kartavyam . paratvāt udāttatvam . nityaḥ ekādeśaḥ . kṛte api udāttatve prāpnoti akṛte api prāpnoti . ekādeśaḥ api anityaḥ . anyathāsvarasya kṛte udāttatve prāpnoti anyathāsvarasya akṛte svarabhinnasya ca prāpnuvan vidhiḥ anityaḥ bhavati . antaraṅgaḥ tarhi ekādeśaḥ . kā antaraṅgatā . varṇau āśritya ekādeśaḥ padasya udāttatvam . evam tarhi idam iha sampradhāryam . āṭ kriyatām udāttatvam iti kim atra kartavyam . paratvāt āḍāgamaḥ . nityam udāttatvam . kṛte api āṭi prāpnoti akṛte api prāpnoti . āṭ api nityaḥ . kṛte api udāttatve prāpnoti akṛte api prāpnoti . anityaḥ āṭ . anyathāsvarasya kṛte udāttatve prāpnoti anyathāsvarasya akṛte svarabhinnasya ca prāpnuvan vidhiḥ anityaḥ bhavati . udāttatvam api anityam . anyasya kṛte āṭi prāpnoti anyasya akṛte prāpnoti śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati . ubhayoḥ anityayoḥ paratvāt āḍāgamaḥ āṭi kṛte antaraṅgaḥ ekādeśaḥ . āv . vṛkṣavidam . udāttānudāttayoḥ ekādeśaḥ . tasya ekādeśe udāttena udāttaḥ iti etat bhavati . tasya siddhatvam vaktavyam āntaryataḥ udāttasya udāttaḥ āvādeśaḥ yathā syāt . ekādeśasvara . gāṅge anūpe iti . udāttānudāttayoḥ ekādeśaḥ . tasya ekādeśe udāttena udāttaḥ iti etat bhavati . tasya siddhatvam vaktavyam svaritovānudāttepadādau iti etat yathā syāt . śatṛsvara . tudati nudati . udāttānudāttayoḥ ekādeśaḥ . tasya ekādeśe udāttena udāttaḥ iti etat bhavati . tasya siddhatvam vaktavyam śatuḥ anumaḥ nadyajādiḥ antodāttāt iti eṣaḥ svaraḥ yathā syāt . na etat asti prayojanam . ācāryapravṛttiḥ jñāpayati siddhaḥ ekādeśasvaraḥ śatṛsvaraḥ iti yat ayam anumaḥ iti pratiṣedham śāsti . katham kṛtvā jñāpakam . na hi antareṇa udāttānudāttoḥ ekādeśam śatrantam sanumkam antodāttam asti . nanu ca idam asti yantī vantī . etat api nighāte kṛte na antareṇa udāttānudāttayoḥ ekādeśam śatrantam sanumkam antodāttam asti . idam iha sampradhāryam . nighātaḥ kriyatām ekādeśaḥ iti kim atra kartavyam . paratvāt nighātaḥ . nityaḥ ekādeśaḥ . kṛte api nighāte prāpnoti akṛte api prāpnoti . ekādeśaḥ api anityaḥ . anyathāsvarasya kṛte nighāte prāpnoti anyathāsvarasya akṛte nighāte svarabhinnasya ca prāpnuvan vidhiḥ anityaḥ bhavati . antaraṅgaḥ tarhi ekādeśaḥ . kā antaraṅgatā . varṇau āśritya ekādeśaḥ padasya nighātaḥ . nighātaḥ api antaraṅgaḥ . katham . uktam etat padagrahaṇam parimāṇārtham iti . ubhayoḥ antaraṅgayoḥ paratvāt nighātaḥ nighāte kṛte etat api na antareṇa udāttānudāttayoḥ ekādeśam antodāttam bhavati . śatṛsvara . ekānudātta . tudanti likhanti. udāttānudāttayoḥ ekādeśaḥ . tasya ekādeśe udāttena udāttaḥ iti etat bhavati . tasya siddhatvam vaktavyam tena varjyamānatā yathā syāt . sarvānudātta . brāhmaṇāḥ tudanti . brāhmaṇāḥ likhanti . udāttānudāttayoḥ ekādeśaḥ . tasya ekādeśe udāttenodāttaḥ iti etat bhavati . tasya siddhatvam vaktavyam . kim prayojanam . tiṅatiṅaḥ iti nighātaḥ yathā syāt . kim ucyate antaraṅgaḥ iti . yaḥ hi bahiraṅgaḥ asiddhaḥ eva asau bhavati . prapacatiti . somasut pacatiti . tat tarhi vaktavyam . na vaktavyam . sarvatra eva numpratiṣedhaḥ jñāpakaḥ siddhaḥ ekādeśasvaraḥ antaraṅgaḥ iti . saṃyogāntalopaḥ roḥ uttve harivaḥ medinam tvā . saṃyogāntalopaḥ roḥ uttve siddhaḥ vaktavyaḥ . kim prayojanam . harivaḥ medinam tvā . saṃyogāntalopasya asiddhatvāt haśi iti uttvam na prāpnoti . plutiḥ ca . plutiḥ ca uttve siddhā vaktavyā . susrota3 atra nu asi iti atra pluteḥ asiddhatvāt ataḥ ati iti uttvam prāpnoti . aplutāt aplute iti etat na vaktavyam bhavati . na etat asti

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३९४।५-९ रो व्,३७५ अन्तग्रहणम् किमर्थम् । नलोपे अन्तग्रहणम् पदाधिकारस्य विशेषणत्वात् । नलोपे अन्तग्रहणम् क्रियते । किम् कारणम् । पदाधिकारस्य विशेषणत्वात् । पदाधिकारः विशेषणम् । कथम् । पदस्य इति न एषा स्थानषष्ठी । का तर्हि । विशेषणषष्ठी ।

KA III,394.5-9 Ro V,375 antagrahaṇam kimartham . nalope antagrahaṇam padādhikārasya viśeṣaṇatvāt . nalope antagrahaṇam kriyate . kim kāraṇam . padādhikārasya viśeṣaṇatvāt . padādhikāraḥ viśeṣaṇam . katham . padasya iti na eṣā sthānaṣaṣṭhī . kā tarhi . viśeṣaṇaṣaṣṭhī .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३९४।१०-१९ रो व्,३७५-३७६ अह्नः नलोपप्रतिषेधः । अह्नः नलोपप्रतिषेधः वक्तव्यः । अहोभ्याम् अहोभिः इति । सः तर्हि प्रतिषेधः वक्तव्यः । न वक्तव्यः । रुः अत्र बाधकः भविष्यति । असिद्धः रुः तस्य असिद्धत्वात् नलोपः प्राप्नोति । अनवकाशः रुः नलोपम् बाधिष्यते । सावकाशः रुः । कः अवकाशः । अनन्त्यः अकारः । आचार्यप्रवृत्तिः ज्ञापयति न अनन्त्यस्य रुः भवति इति यत् अयम् अहन्ग्रहणम् करोति । अहन्ग्रहणात् इति चेत् सम्बुद्ध्यर्थम् वचनम् । अहन्ग्रहणात् इति चेत् सम्बुद्ध्यर्थम् एतत् स्यात् । हे अहः इति । यत् तर्हि रुत्वम् शास्ति । एतत् अपि सम्बुद्ध्यर्थम् एव स्यात् । हे दीर्घाहः अत्र । यत् तर्हि रूपरात्रिरथन्तरेषु उपसङ्ख्यानम् करोति तत् ज्ञापयति आचार्यः न अनन्त्यस्य रुः भवति इति । कथम् कृत्वा ज्ञापकम् । न हि अस्ति विशेषः रूपरात्रिरथन्तरेषु अनन्त्यस्य रौ वा रे वा ।

KA III,394.10-19 Ro V,375-376 ahnaḥ nalopapratiṣedhaḥ . ahnaḥ nalopapratiṣedhaḥ vaktavyaḥ . ahobhyām ahobhiḥ iti . saḥ tarhi pratiṣedhaḥ vaktavyaḥ . na vaktavyaḥ . ruḥ atra bādhakaḥ bhaviṣyati . asiddhaḥ ruḥ tasya asiddhatvāt nalopaḥ prāpnoti . anavakāśaḥ ruḥ nalopam bādhiṣyate . sāvakāśaḥ ruḥ . kaḥ avakāśaḥ . anantyaḥ akāraḥ . ācāryapravṛttiḥ jñāpayati na anantyasya ruḥ bhavati iti yat ayam ahangrahaṇam karoti . ahangrahaṇāt iti cet sambuddhyartham vacanam . ahangrahaṇāt iti cet sambuddhyartham etat syāt . he ahaḥ iti . yat tarhi rutvam śāsti . etat api sambuddhyartham eva syāt . he dīrghāhaḥ atra . yat tarhi rūparātrirathantareṣu upasaṅkhyānam karoti tat jñāpayati ācāryaḥ na anantyasya ruḥ bhavati iti . katham kṛtvā jñāpakam . na hi asti viśeṣaḥ rūparātrirathantareṣu anantyasya rau vā re vā .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३९४।२०-३९५।१८ रो व्,३७७-३७८ न ङिसम्बुद्ध्योः अनुत्तरपदे । न ङिसम्बुद्ध्योः अनुत्तरपदे इति वक्तव्यम् । इह मा भूत् । चर्मणि तिला अस्य चर्मतिलः इति । राजन् वृन्दारक राजवृन्दारक इति । वा नपुंसकानाम् । वा नपुंसकानाम् इति वक्तव्यम् । हे चर्म हे चर्मन् । हे वर्म हे वर्मन् । तत् तर्हि अनुत्तरपदे इति वक्तव्यम् । न वक्तव्यम् । न ङिसम्बुद्ध्योः इति उच्यते न च अत्र ङिसम्बुद्धी पश्यामः । प्रत्ययलक्षणेन । न लुमता तस्मिन् इति प्रत्ययलक्षणस्य प्रतिषेधः । न क्वचित् ङिः लोपेन लुप्यते सर्वत्र लुमता एव । यथा एव इह भवति आर्द्रे चर्मन् लोहिते चर्मन् इति एवम् इह अपि स्यात् चर्मणि तिला अस्य चर्मतिलः इति । तस्मात् उपसङ्ख्यानम् कर्तव्यम् । एवम् तर्हि ङ्यर्थेन तावत् न अर्थः । भत्वात् तु ङौ प्रतिषेधानर्थक्यम् । ङौ प्रतिषेधः अनर्थकः । किम् कारणम् । भत्वात् । भसञ्ज्ञा अत्र भविष्यति । यदि तर्हि भसञ्ज्ञा अत्र भवति रथन्तरे सामन् इति अत्र अल्लोपः अनः इति अल्लोपः प्राप्नोति । न एषः दोषः । उक्तम् उभयसञ्ज्ञानि अपि छन्दांसि दृश्यन्ते तद् यथा सः सुष्टुभा सः ऋक्वता गणेन पदत्वात् कुत्वम् भत्वात् जश्त्वम् न भवति । एवम् इह अपि पदत्वात् अल्लोपः न भत्वात् नलोपः न भविष्यति । तस्मात् न अर्थः ङिग्रहणेन । सम्बुद्ध्यर्थेन च अपि न अर्थः । कथम् । सम्बुद्ध्यन्तानाम् असमासः । राजवृन्दारक इति । किम् वक्तव्यम् एतत् । न हि । कथम् अनुच्यमानम् गंस्यते । इह समानार्थेन वाक्येन भवितव्यम् समासेन च यः च इह अर्थः वाक्येन गम्यते न असौ जातु चित् समासेन गम्यते । अवयवसम्बोधनम् वाक्येन गम्यते समुदायसम्बोधनम् समासेन । वा नपुंसकानाम् इति एतत् वक्तव्यम् एव ।

KA III,394.20-395.18 Ro V,377-378 na ṅisambuddhyoḥ anuttarapade . na ṅisambuddhyoḥ anuttarapade iti vaktavyam . iha mā bhūt . carmaṇi tilā asya carmatilaḥ iti . rājan vṛndāraka rājavṛndāraka iti . vā napuṃsakānām . vā napuṃsakānām iti vaktavyam . he carma he carman . he varma he varman . tat tarhi anuttarapade iti vaktavyam . na vaktavyam . na ṅisambuddhyoḥ iti ucyate na ca atra ṅisambuddhī paśyāmaḥ . pratyayalakṣaṇena . na lumatā tasmin iti pratyayalakṣaṇasya pratiṣedhaḥ . na kvacit ṅiḥ lopena lupyate sarvatra lumatā eva . yathā eva iha bhavati ārdre carman lohite carman iti evam iha api syāt carmaṇi tilā asya carmatilaḥ iti . tasmāt upasaṅkhyānam kartavyam . evam tarhi ṅyarthena tāvat na arthaḥ . bhatvāt tu ṅau pratiṣedhānarthakyam . ṅau pratiṣedhaḥ anarthakaḥ . kim kāraṇam . bhatvāt . bhasañjñā atra bhaviṣyati . yadi tarhi bhasañjñā atra bhavati rathantare sāman iti atra allopaḥ anaḥ iti allopaḥ prāpnoti . na eṣaḥ doṣaḥ . uktam ubhayasañjñāni api chandāṃsi dṛśyante tad yathā saḥ suṣṭubhā saḥ ṛkvatā gaṇena padatvāt kutvam bhatvāt jaśtvam na bhavati . evam iha api padatvāt allopaḥ na bhatvāt nalopaḥ na bhaviṣyati . tasmāt na arthaḥ ṅigrahaṇena . sambuddhyarthena ca api na arthaḥ . katham . sambuddhyantānām asamāsaḥ . rājavṛndāraka iti . kim vaktavyam etat . na hi . katham anucyamānam gaṃsyate . iha samānārthena vākyena bhavitavyam samāsena ca yaḥ ca iha arthaḥ vākyena gamyate na asau jātu cit samāsena gamyate . avayavasambodhanam vākyena gamyate samudāyasambodhanam samāsena . vā napuṃsakānām iti etat vaktavyam eva .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३९६।१-५ रो व्,३७८-३७९ नार्मते प्रतिषेधः । नार्मते प्रतिषेधः वक्तव्यः । नृमतः नार्मतः इति । उक्तम् वा । किम् उक्तम् । निष्ठामतुपोः तावत् उक्तम् न वा पदाधिकारस्य विशेषणत्वात् इति । नार्मते अपि उक्तम् न वा बहिरङ्गलक्षणत्वात् इति ।

KA III,396.1-5 Ro V,378-379 nārmate pratiṣedhaḥ . nārmate pratiṣedhaḥ vaktavyaḥ . nṛmataḥ nārmataḥ iti . uktam vā . kim uktam . niṣṭhāmatupoḥ tāvat uktam na vā padādhikārasya viśeṣaṇatvāt iti . nārmate api uktam na vā bahiraṅgalakṣaṇatvāt iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३९६।६-१३ रो व्,३७९ किम् अयम् एकयोगः आहोस्वित् नानायोगौ । किम् च अतः । यदि एकयोगः हीवती कपीवती अत्र न प्राप्नोति । अथ नानायोगौ इक्षुमती द्रुमती अत्र अपि प्राप्नोति । यथा इच्छसि तथा अस्तु । अस्तु तावत् एकयोगः । कथम् अहीवती कपीवती । आचार्यप्रवृत्तिः ज्ञापयति भवति एवञ्जातीयकानाम् वत्वम् इति यत् अयम् अन्तोऽवत्याः ईवत्याः इति आह । अथ वा पुनः अस्तु नानायोगौ । ननु च उक्तम् इक्षुमती द्रुमती अत्र अपि प्राप्नोति इति । यवादिषु पाथः करिष्यते ।

KA III,396.6-13 Ro V,379 kim ayam ekayogaḥ āhosvit nānāyogau . kim ca ataḥ . yadi ekayogaḥ hīvatī kapīvatī atra na prāpnoti . atha nānāyogau ikṣumatī drumatī atra api prāpnoti . yathā icchasi tathā astu . astu tāvat ekayogaḥ . katham ahīvatī kapīvatī . ācāryapravṛttiḥ jñāpayati bhavati evañjātīyakānām vatvam iti yat ayam anto'vatyāḥ īvatyāḥ iti āha . atha vā punaḥ astu nānāyogau . nanu ca uktam ikṣumatī drumatī atra api prāpnoti iti . yavādiṣu pāthaḥ kariṣyate .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३९६।१४-३९७।२ रो व्,३७९-३८० छन्दसि इरः इति उच्यते तत्र ते विश्वकर्माणम् ते सप्तर्षिमन्तम् इति अत्र अपि प्राप्नोति । न एषः दोषः । न एवम् विज्ञायते छन्दसि इरः इति । कथम् तर्हि । छन्दसि ईरः इति । एवम् अपि त्विषीमान् पतीमान् इति अत्र अपि प्राप्नोति । न एषः दोषः । विहितविशेषणम् ईकारग्रहङम् । ईकारान्तात् यः विहितः इति । एवम् अपि सूरम् ते द्यावापृथिवीमन्तम् इति अत्र अपि प्राप्नोति । इह च न प्राप्नोति त्रिवतीः याज्यानुवाक्याः भवन्ति इति । एवम् तर्हि परिगणनम् कर्तव्यम् । त्रिहर्यधिपत्यग्निरे । त्रिवतीः याज्यानुवाक्याः भवन्ति । त्रि । हरि । हरिवः मेदिनम् त्वा । हरि । अधिपति । अधिपतिवतीः जुहोति । अधिपति । अग्नि । चरुः अग्निवान् इव । अग्नि । रे । आ रेवन् एतु नो विश इति । यदि तर्हि परिगणनम् क्रियते सरस्वतीवान् भारतीवान् अपूपवान् दधिवान् चरुः इति अत्र न प्राप्नोति । एवम् तर्हि छन्दसि इरः बहुलम् इति वक्तव्यम् ।

KA III,396.14-397.2 Ro V,379-380 chandasi iraḥ iti ucyate tatra te viśvakarmāṇam te saptarṣimantam iti atra api prāpnoti . na eṣaḥ doṣaḥ . na evam vijñāyate chandasi iraḥ iti . katham tarhi . chandasi īraḥ iti . evam api tviṣīmān patīmān iti atra api prāpnoti . na eṣaḥ doṣaḥ . vihitaviśeṣaṇam īkāragrahaṅam . īkārāntāt yaḥ vihitaḥ iti . evam api sūram te dyāvāpṛthivīmantam iti atra api prāpnoti . iha ca na prāpnoti trivatīḥ yājyānuvākyāḥ bhavanti iti . evam tarhi parigaṇanam kartavyam . triharyadhipatyagnire . trivatīḥ yājyānuvākyāḥ bhavanti . tri . hari . harivaḥ medinam tvā . hari . adhipati . adhipativatīḥ juhoti . adhipati . agni . caruḥ agnivān iva . agni . re . ā revan etu no viśa iti . yadi tarhi parigaṇanam kriyate sarasvatīvān bhāratīvān apūpavān dadhivān caruḥ iti atra na prāpnoti . evam tarhi chandasi iraḥ bahulam iti vaktavyam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३९७।३-३९८।१० रो व्,३८०-३८२ यदि पुनः अयम् नुट् पूर्वान्तः क्रियेत । अनः नुकि विनामरुविधिप्रतिषेधः । अनः नुकि सति विनामः विधेयः । अक्षण्वान् । पदान्तस्य न इति प्रतिषेधः प्राप्नोति । रुः च प्रतिषेध्यः । सुपथिन्तरः । नश्छव्यप्रशान् इति रुः प्राप्नोति । अस्तु तर्हि परादिः । परादौ वत्वप्रतिषेधः अवग्रहः च । यदि परादिः वत्वस्य प्रतिषेधः वक्तव्यः । अक्षण्वान् । मादुपधायाश्चमतोर्वोऽयवादिभ्यः इति वत्वम् प्राप्नोति । अवग्रहः च अनिष्टे देशे प्राप्नोति । अक्षण्वान् । अस्तु तर्हि पूर्वान्तः । ननु च उक्तम् अनः नुकि विनामरुविधिप्रतिषेधः इति । भत्वात् सिद्धम् । भसञ्ज्ञा वक्तव्या । यदि तर्हि भसञ्ज्ञा अल्लोपोऽनः इति अल्लोपः प्राप्नोति । अनः तु प्रकृतिभावे मतुब्ग्रहणम् छन्दसि । अनः तु प्रकृतिभावे मतुब्ग्रहणम् छन्दसि वक्तव्यम् । इह तर्हि सुपथिन्तरः नान्तस्य टिः तद्धिते लुप्यते इति लोपः प्राप्नोति । घग्रहणम् च । घग्रहणम् च कर्तव्यम् । तत् तर्हि इदम् बहु वक्तव्यम् । नुक् वक्तव्यः । भसञ्ज्ञा च वक्तव्या । अनः तु प्रकृतिभावे मतुब्ग्रहणम् छन्दसि वक्तव्यम् । घग्रहणम् च कर्तव्यम् इति । न कर्तव्यम् । यत् तावत् उच्यते नुक् वक्तव्यः इति नुकः एषः परिहारः भत्वात् सिद्धम् इति । भसञ्ज्ञा वक्तव्या इति क्रियते न्यासे एव अयस्मयादीनि छन्दसि इति । यत् अपि उच्यते अनः तु प्रकृतिभावे मतुब्ग्रहणम् छन्दसि घग्रहणम् च कर्तव्यम् इति न कर्तव्यम् । उभयसञ्ज्ञानि अपि हि छन्दांसि दृश्यन्ते । तत् यथा । सः सुष्टुभा स ऋक्वता गणेन । पदत्वात् कुत्वम् भत्वात् जश्त्वम् न भवति । एवम् इह अपि पदत्वात् अल्लोपटिलोपौ न भत्वात् विनामरुविधिप्रतिषेधौ भविष्यतः । सिध्यति । सूत्रम् तर्हि भिद्यते । यथान्यासम् एव अस्तु । ननु च उक्तम् परादौ वत्वप्रतिषेधः अवग्रहः च इति । यत् तावत् उच्यते वत्वप्रतिषेधः इति निर्दिश्यमानस्य आदेशाः भवन्ति इति एवम् न भविष्यति । यः तर्हि निर्दिश्यते तस्य न प्राप्नोति । किम् कारणम् । नुटा व्यवहितत्वात् । असिद्धः नुट् तस्य असिद्धत्वात् भविष्यति । अवग्रहे अपि न लक्षणेन पदकाराः अनुवर्त्याः पदकारैः नाम लक्षणम् अनुवर्त्यम् । यथालक्षणम् पदम् कर्तव्यम् ।

KA III,397.3-398.10 Ro V,380-382 yadi punaḥ ayam nuṭ pūrvāntaḥ kriyeta . anaḥ nuki vināmaruvidhipratiṣedhaḥ . anaḥ nuki sati vināmaḥ vidheyaḥ . akṣaṇvān . padāntasya na iti pratiṣedhaḥ prāpnoti . ruḥ ca pratiṣedhyaḥ . supathintaraḥ . naśchavyapraśān iti ruḥ prāpnoti . astu tarhi parādiḥ . parādau vatvapratiṣedhaḥ avagrahaḥ ca . yadi parādiḥ vatvasya pratiṣedhaḥ vaktavyaḥ . akṣaṇvān . mādupadhāyāścamatorvo'yavādibhyaḥ iti vatvam prāpnoti . avagrahaḥ ca aniṣṭe deśe prāpnoti . akṣaṇvān . astu tarhi pūrvāntaḥ . nanu ca uktam anaḥ nuki vināmaruvidhipratiṣedhaḥ iti . bhatvāt siddham . bhasañjñā vaktavyā . yadi tarhi bhasañjñā allopo'naḥ iti allopaḥ prāpnoti . anaḥ tu prakṛtibhāve matubgrahaṇam chandasi . anaḥ tu prakṛtibhāve matubgrahaṇam chandasi vaktavyam . iha tarhi supathintaraḥ nāntasya ṭiḥ taddhite lupyate iti lopaḥ prāpnoti . ghagrahaṇam ca . ghagrahaṇam ca kartavyam . tat tarhi idam bahu vaktavyam . nuk vaktavyaḥ . bhasañjñā ca vaktavyā . anaḥ tu prakṛtibhāve matubgrahaṇam chandasi vaktavyam . ghagrahaṇam ca kartavyam iti . na kartavyam . yat tāvat ucyate nuk vaktavyaḥ iti nukaḥ eṣaḥ parihāraḥ bhatvāt siddham iti . bhasañjñā vaktavyā iti kriyate nyāse eva ayasmayādīni chandasi iti . yat api ucyate anaḥ tu prakṛtibhāve matubgrahaṇam chandasi ghagrahaṇam ca kartavyam iti na kartavyam . ubhayasañjñāni api hi chandāṃsi dṛśyante . tat yathā . saḥ suṣṭubhā sa ṛkvatā gaṇena . padatvāt kutvam bhatvāt jaśtvam na bhavati . evam iha api padatvāt allopaṭilopau na bhatvāt vināmaruvidhipratiṣedhau bhaviṣyataḥ . sidhyati . sūtram tarhi bhidyate . yathānyāsam eva astu . nanu ca uktam parādau vatvapratiṣedhaḥ avagrahaḥ ca iti . yat tāvat ucyate vatvapratiṣedhaḥ iti nirdiśyamānasya ādeśāḥ bhavanti iti evam na bhaviṣyati . yaḥ tarhi nirdiśyate tasya na prāpnoti . kim kāraṇam . nuṭā vyavahitatvāt . asiddhaḥ nuṭ tasya asiddhatvāt bhaviṣyati . avagrahe api na lakṣaṇena padakārāḥ anuvartyāḥ padakāraiḥ nāma lakṣaṇam anuvartyam . yathālakṣaṇam padam kartavyam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३९८।११-१५ रो व्,३८२ ईत् रथिनः । रथिनः ईत् वक्तव्यः । रथीतरः । भूरिदाव्नः तुट् । भुरिदाव्नः तुट् वक्तव्यः । भूरिदावत्तरः जनः ।

KA III,398.11-15 Ro V,382 īt rathinaḥ . rathinaḥ īt vaktavyaḥ . rathītaraḥ . bhūridāvnaḥ tuṭ . bhuridāvnaḥ tuṭ vaktavyaḥ . bhūridāvattaraḥ janaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३९८।१६-२३ रो व्,३८२-३८३ कृपणादीनाम् प्रतिषेधः वक्तव्यः । कृपणः कृपाणः कृपीटम् । वालमूललघ्वलमड्गुलीनाम् वा लः रम् आपद्यते इति वक्तव्यम् । अश्ववालः अश्ववारः । मूलदेवः मूरदेवः । वरुणस्य लघुस्यदः वरुणस्य रघुस्यदः । अलम् भक्ताय अरम् भक्ताय । सुबाहुः स्वङ्गुलिः सुबाहुः स्वङ्गुरिः । सञ्ज्ञाछन्दसोः वा कपिलकादीनाम् इति वक्तव्यम् । कपिरकः कपिलकः । तिल्विरीकः तिल्विलीकः । रोमाणि लोमानि । पांसुरम् पांसुलम् । कर्म कल्म । शुक्रः शुक्लः ।

KA III,398.16-23 Ro V,382-383 kṛpaṇādīnām pratiṣedhaḥ vaktavyaḥ . kṛpaṇaḥ kṛpāṇaḥ kṛpīṭam . vālamūlalaghvalamaḍgulīnām vā laḥ ram āpadyate iti vaktavyam . aśvavālaḥ aśvavāraḥ . mūladevaḥ mūradevaḥ . varuṇasya laghusyadaḥ varuṇasya raghusyadaḥ . alam bhaktāya aram bhaktāya . subāhuḥ svaṅguliḥ subāhuḥ svaṅguriḥ . sañjñāchandasoḥ vā kapilakādīnām iti vaktavyam . kapirakaḥ kapilakaḥ . tilvirīkaḥ tilvilīkaḥ . romāṇi lomāni . pāṃsuram pāṃsulam . karma kalma . śukraḥ śuklaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३९९।१-१९ रो व्,३८३-३८४ किम् इदम् अयतिग्रहणम् रेफविशेषणम् : अयतिपरस्य रेफस्य लः भवति सः चेत् उपसर्गस्य भवति इति । आहोस्वित् उपसर्गविशेषणम् : अयतिपरस्य उपसर्गस्य यः रेफः तस्य लः भवति इति । कः च अत्र विशेषः । रेफस्य अयतौ इति चेत् परेः उपसङ्ख्यानम् । रेफस्य अयतौ इति चेत् परेः उपसङ्ख्यानम् कर्तव्यम् । पल्ययते । वचनात् भविष्यति । अस्ति वचने प्रयोजनम् । किम् । प्लायते पलायते । अस्तु तर्हि उपसर्गविशेषणम् । उपसर्गस्य इति चेत् एकादेशे अप्रसिद्धिः । उपसर्गस्य इति चेत् एकादेशे अप्रसिद्धिः भवति । प्लायते पलायते । एकादेशे कृते व्यपवर्गाभावात् न प्राप्नोति । अन्तादिवत् भावेन व्यपवर्गः । उभयतः आश्रये न अन्तादिवत् । एवम् तर्हि एकादेशः पूर्वविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यपवर्गः । प्रतिषिध्यते अत्र स्थानिवद्भावः पूर्वत्रासिद्धे न स्थानिवत् इति । दोषाः एव एते तस्याः परिभाषायाः तस्य दोषः संयोगादिलोपलत्वणत्वेषु इति । अथ वा पुनः अस्तु रेफविशेषणम् । ननु च उक्तम् रेफस्य अयतौ इति चेत् परेः उपसङ्ख्यानम् इति । वचनात् भविष्यति । ननु च उक्तम् अस्ति वचने प्रयोजनम् किम् प्लायते पलायते इति । अत्र अपि अकारेण व्यवहितत्वात् न प्राप्नोति । एकादेशे कृते न अस्ति व्यवधानम् । एकादेशः पूर्वविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यवधानम् एव । प्रतिषिध्यते अत्र स्थानिवद्भावः पूर्वत्रासिद्धे न स्थानिवत् इति । दोषाः एव एते तस्याः परिभाषायाः तस्य दोषः संयोगादिलोपलत्वणत्वेषु इति ।

KA III,399.1-19 Ro V,383-384 kim idam ayatigrahaṇam rephaviśeṣaṇam : ayatiparasya rephasya laḥ bhavati saḥ cet upasargasya bhavati iti . āhosvit upasargaviśeṣaṇam : ayatiparasya upasargasya yaḥ rephaḥ tasya laḥ bhavati iti . kaḥ ca atra viśeṣaḥ . rephasya ayatau iti cet pareḥ upasaṅkhyānam . rephasya ayatau iti cet pareḥ upasaṅkhyānam kartavyam . palyayate . vacanāt bhaviṣyati . asti vacane prayojanam . kim . plāyate palāyate . astu tarhi upasargaviśeṣaṇam . upasargasya iti cet ekādeśe aprasiddhiḥ . upasargasya iti cet ekādeśe aprasiddhiḥ bhavati . plāyate palāyate . ekādeśe kṛte vyapavargābhāvāt na prāpnoti . antādivat bhāvena vyapavargaḥ . ubhayataḥ āśraye na antādivat . evam tarhi ekādeśaḥ pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt vyapavargaḥ . pratiṣidhyate atra sthānivadbhāvaḥ pūrvatrāsiddhe na sthānivat iti . doṣāḥ eva ete tasyāḥ paribhāṣāyāḥ tasya doṣaḥ saṃyogādilopalatvaṇatveṣu iti . atha vā punaḥ astu rephaviśeṣaṇam . nanu ca uktam rephasya ayatau iti cet pareḥ upasaṅkhyānam iti . vacanāt bhaviṣyati . nanu ca uktam asti vacane prayojanam kim plāyate palāyate iti . atra api akāreṇa vyavahitatvāt na prāpnoti . ekādeśe kṛte na asti vyavadhānam . ekādeśaḥ pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt vyavadhānam eva . pratiṣidhyate atra sthānivadbhāvaḥ pūrvatrāsiddhe na sthānivat iti . doṣāḥ eva ete tasyāḥ paribhāṣāyāḥ tasya doṣaḥ saṃyogādilopalatvaṇatveṣu iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३९९।२०-४००।२ रो व्,३८५ णौ उपसङ्ख्यानम् कर्तव्यम् । इह अपि यथा स्यात् । निगार्यते निगाल्यते । किम् पुनः कारणम् न सिध्यति । अचि इति उच्यते न च अत्र अजादिम् पश्यामः । प्रत्ययलक्षणेन । वर्णाश्रये न अस्ति प्रत्ययलक्षणम् । एवम् तर्हि स्थानिवद्भावात् भविष्यति । प्रतिषिध्यते अत्र स्थानिवद्भावः पूर्वत्रासिद्धे न स्थानिवत् इति । अतः उत्तरम् पठति । गिरतेः लत्वे णौ उक्तम् । किम् उक्तम् । तस्य दोषः संयोगादिलोपलत्वणत्वेषु इति ।

KA III,399.20-400.2 Ro V,385 ṇau upasaṅkhyānam kartavyam . iha api yathā syāt . nigāryate nigālyate . kim punaḥ kāraṇam na sidhyati . aci iti ucyate na ca atra ajādim paśyāmaḥ . pratyayalakṣaṇena . varṇāśraye na asti pratyayalakṣaṇam . evam tarhi sthānivadbhāvāt bhaviṣyati . pratiṣidhyate atra sthānivadbhāvaḥ pūrvatrāsiddhe na sthānivat iti . ataḥ uttaram paṭhati . girateḥ latve ṇau uktam . kim uktam . tasya doṣaḥ saṃyogādilopalatvaṇatveṣu iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४००।३-४ रो व्,३८५ योगे च इति वक्तव्यम् । इह अपि यथा स्यात् । परियोगः पलियोगः ।

KA III,400.3-4 Ro V,385 yoge ca iti vaktavyam . iha api yathā syāt . pariyogaḥ paliyogaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४००।५-२४ रो व्,३८५-३८७ सङि लत्वसलोपसंयोगादिलोपकुत्वदीर्घत्वानि । सङि इति प्रकृत्य लत्वसलोपसंयोगादिलोपकुत्वदीर्घत्वानि वक्तव्यानि । किम् प्रयोजनम् । प्रयोजनम् गिरौ गिरः पयः धावति द्विष्टराम् दृषत्स्थानम् काष्ठशक्स्थाता क्रुञ्चा धुर्यः इति । गिऋऔ गिरः इति अत्र अचिविभाषा इति लत्वम् प्राप्नोति । सङि इति वचनात् न भवति । न एतत् अस्ति प्रयोजनम् । उक्तम् एतत् धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानात् सिद्धम् इति । पयः धावति इति अत्र धिच इति सलोपः प्राप्नोति सङि इति वचनात् न भवति । एतत् अपि न अस्ति प्रयोजनम् । वक्ष्यति एतत् धिसकारे सिचः लोपः इति । द्विष्टराम् इति अत्र ह्रस्वात् अङ्गात् इति सलोपः प्राप्नोति सङि इति वचनात् न भवति । एतत् अपि न अस्ति प्रयोजनम् । अत्र अपि सिचः इति एव अनुवर्तिष्यते । दृषत्स्थानम् इति अत्र झलोझलि इति सलोपः प्राप्नोति सङि इति वचनात् न भवति । एतत् अपि न अस्ति प्रयोजनम् । अत्र अपि सिचः इति एव अनुवर्तिष्यते । काष्ठशक्स्थाता इति अत्र स्कोःसंयोगाद्योरन्तेच इति ककारलोपः प्राप्नोति सङि इति वचनात् न भवति । एतत् अपि न अस्ति प्रयोजनम् । काष्ठशक् एव न अस्ति कुतः यः काष्ठशकि तिष्ठेत् । क्रुञ्चा इति अत्र चोःकुः झलि इति कुत्वम् प्राप्नोति सङि इति वचनात् न भवति । एतत् अपि न अस्ति प्रयोजनम् । निपातनात् एतत् सिद्धम् । किम् निपातनम् । ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चाम् इति । धुर्यः इति अत्र हलिच इति दीर्घत्वम् प्राप्नोति सङि इति वचनात् न भवति । एतत् अपि न अस्ति प्रयोजनम् । नभकुर्छुराम् इति प्रतिषेधः भविष्यति ।

KA III,400.5-24 Ro V,385-387 saṅi latvasalopasaṃyogādilopakutvadīrghatvāni . saṅi iti prakṛtya latvasalopasaṃyogādilopakutvadīrghatvāni vaktavyāni . kim prayojanam . prayojanam girau giraḥ payaḥ dhāvati dviṣṭarām dṛṣatsthānam kāṣṭhaśaksthātā kruñcā dhuryaḥ iti . giṛau giraḥ iti atra acivibhāṣā iti latvam prāpnoti . saṅi iti vacanāt na bhavati . na etat asti prayojanam . uktam etat dhātoḥ svarūpagrahaṇe tatpratyaye kāryavijñānāt siddham iti . payaḥ dhāvati iti atra dhica iti salopaḥ prāpnoti saṅi iti vacanāt na bhavati . etat api na asti prayojanam . vakṣyati etat dhisakāre sicaḥ lopaḥ iti . dviṣṭarām iti atra hrasvāt aṅgāt iti salopaḥ prāpnoti saṅi iti vacanāt na bhavati . etat api na asti prayojanam . atra api sicaḥ iti eva anuvartiṣyate . dṛṣatsthānam iti atra jhalojhali iti salopaḥ prāpnoti saṅi iti vacanāt na bhavati . etat api na asti prayojanam . atra api sicaḥ iti eva anuvartiṣyate . kāṣṭhaśaksthātā iti atra skoḥsaṃyogādyoranteca iti kakāralopaḥ prāpnoti saṅi iti vacanāt na bhavati . etat api na asti prayojanam . kāṣṭhaśak eva na asti kutaḥ yaḥ kāṣṭhaśaki tiṣṭhet . kruñcā iti atra coḥkuḥ jhali iti kutvam prāpnoti saṅi iti vacanāt na bhavati . etat api na asti prayojanam . nipātanāt etat siddham . kim nipātanam . ṛtvigdadhṛksragdiguṣṇigañcuyujikruñcām iti . dhuryaḥ iti atra halica iti dīrghatvam prāpnoti saṅi iti vacanāt na bhavati . etat api na asti prayojanam . nabhakurchurām iti pratiṣedhaḥ bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४०१।१-९ रो व्,३८७-३८८ संयोगान्तस्य लोपे यणः प्रतिषेधः । संयोगान्तस्य लोपे यणः प्रतिषेधः वक्तव्यः । दधि अत्र मधु अत्र इति । संयोगादिलोपे च यणः प्रतिषेधः वक्तव्यः । काकी अर्थम् वासी अर्थम् । न वा झलः लोपात् । न वा वक्तव्यः । किम् कारणम् । झलः लोपात् । झलः लोपः संयोगान्तलोपः वक्तव्यः । बहिरङ्गलक्षणत्वात् वा । अथ वा बहिरङ्गः यणादेशः अन्तरङ्गः लोपः असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

KA III,401.1-9 Ro V,387-388 saṃyogāntasya lope yaṇaḥ pratiṣedhaḥ . saṃyogāntasya lope yaṇaḥ pratiṣedhaḥ vaktavyaḥ . dadhi atra madhu atra iti . saṃyogādilope ca yaṇaḥ pratiṣedhaḥ vaktavyaḥ . kākī artham vāsī artham . na vā jhalaḥ lopāt . na vā vaktavyaḥ . kim kāraṇam . jhalaḥ lopāt . jhalaḥ lopaḥ saṃyogāntalopaḥ vaktavyaḥ . bahiraṅgalakṣaṇatvāt vā . atha vā bahiraṅgaḥ yaṇādeśaḥ antaraṅgaḥ lopaḥ asiddham bahiraṅgam antaraṅge .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४०१।१०-४०२।२ रो व्,३८८-३८९ संयोगान्तलोपे सग्रहणम् । संयोगान्तलोपे सग्रहणम् कर्तव्यम् । संयोगान्तलोपः सस्य च इति वक्तव्यम् । इह अपि यथा स्यात् । श्रेयान् भूयान् ज्यायान् । किम् पुनः कारणम् न सिध्यति । परत्वात् रुः प्राप्नोति । असिद्धः रुः तस्य असिद्धत्वात् लोपः भविष्यति । न सिध्यति । किम् कारणम् । रुविधानस्य अनवकाशत्वात् । अनवकासः रुः लोपम् बाधेत । सावकाशः रुः । कः अवकाशः । पयः शिरः । ननु च अत्र अपि जश्त्वम् प्राप्नोति । सः यथा एव रुः जश्त्वम् बाधते एवम् लोपम् अपि बाधेत । न बाधते । किम् कारणम् । येन नाप्राप्ते तस्य बाधनम् भवति न च अप्राप्ते जश्त्वे रुः आरभ्यते लोपे पुनः प्राप्ते च अप्राप्ते च । योगविभागात् सिद्धम् । अथ वा योगविभागः करिष्यते । एवम् वक्ष्यामि । संयोगान्तस्य लोपः अरात् । संयोगान्तस्य लोपः भवति अरात् । ततः सस्य । सस्य च लोपः भवति संयोगान्तस्य । किम् अर्थम् पुनः इदम् उच्यते । प्रतिषिद्धार्थम् रुबाधनार्थम् च । अथ वा यत् एतत् रात् सस्य इति सग्रहणम् तत् पुरस्तात् अपक्रक्ष्यते । संयोगान्तस्य लोपः । ततः सस्य । सस्य च संयोगान्तस्य लोपः भवति । ततः रात् । रात् सस्य एव संयोगान्तस्य लोपः भवति । अथ वा रात् सस्य इति अत्र संयोगान्तस्य लोपः इति एतत् अनुवर्तिष्यते ।

KA III,401.10-402.2 Ro V,388-389 saṃyogāntalope sagrahaṇam . saṃyogāntalope sagrahaṇam kartavyam . saṃyogāntalopaḥ sasya ca iti vaktavyam . iha api yathā syāt . śreyān bhūyān jyāyān . kim punaḥ kāraṇam na sidhyati . paratvāt ruḥ prāpnoti . asiddhaḥ ruḥ tasya asiddhatvāt lopaḥ bhaviṣyati . na sidhyati . kim kāraṇam . ruvidhānasya anavakāśatvāt . anavakāsaḥ ruḥ lopam bādheta . sāvakāśaḥ ruḥ . kaḥ avakāśaḥ . payaḥ śiraḥ . nanu ca atra api jaśtvam prāpnoti . saḥ yathā eva ruḥ jaśtvam bādhate evam lopam api bādheta . na bādhate . kim kāraṇam . yena nāprāpte tasya bādhanam bhavati na ca aprāpte jaśtve ruḥ ārabhyate lope punaḥ prāpte ca aprāpte ca . yogavibhāgāt siddham . atha vā yogavibhāgaḥ kariṣyate . evam vakṣyāmi . saṃyogāntasya lopaḥ arāt . saṃyogāntasya lopaḥ bhavati arāt . tataḥ sasya . sasya ca lopaḥ bhavati saṃyogāntasya . kim artham punaḥ idam ucyate . pratiṣiddhārtham rubādhanārtham ca . atha vā yat etat rāt sasya iti sagrahaṇam tat purastāt apakrakṣyate . saṃyogāntasya lopaḥ . tataḥ sasya . sasya ca saṃyogāntasya lopaḥ bhavati . tataḥ rāt . rāt sasya eva saṃyogāntasya lopaḥ bhavati . atha vā rāt sasya iti atra saṃyogāntasya lopaḥ iti etat anuvartiṣyate .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४०२।३-४०३।२४ रो व्,३८९-३९१ धि सकारे सिचः लोपः । धि सकारे सिचः लोपः वक्तव्यः । किम् प्रयोजनम् । चकाद्धि इति प्रयोजनम् । इह मा भूत् । चकाद्धि पलितम् शिरः । यदि तर्हि सिचः लोपः इति उच्यते । आशाध्वम् तु कथम् ते स्यात् । आशाध्वम् इति अत्र न प्राप्नोति । जश्त्वम् सस्य भविष्यति । जश्त्वम् अत्र सकारस्य भविष्यति । सर्वत्र एवम् प्रसिद्धम् स्यात् । सर्वत्र एवम् जश्त्वेन सिद्धम् स्यात् । इह अपि आयन्ध्वम् अरन्ध्वम् इति जश्त्वेन एव सिद्धम् । श्रुतिः च अपि न भिद्यते । श्रुतिकृतः च अपि न कः चित् भेदः भवति । लुङः च अपि न मूर्धन्ये ग्रहणम् । तत्र अयम् अपि अर्थः इणःषीध्वंलुङ्लिटान्धोऽङ्गात् इति अत्र लुङ्ग्रहणम् न कर्तव्यम् । इह अपि अच्योड्ढ्वम् अप्लोड्ढ्वम् इति षत्वे सिचः धस्य ष्टुत्वे च कृते जश्त्वेन सिद्धम् । सेटि दुष्यति । सेटि दोषः भवति । इदम् एव रूपम् स्यात् अलविड्ढ्वम् इदम् न स्यात् अलविध्वम् इति । तस्मात् सिचः ग्रहणम् कर्तव्यम् । यदि तर्हि सिचः ग्रहणम् क्रियते । घसिभस्योः न सिध्येत् तु । घसिभस्योः न सिध्यति । सग्धिः च मे सपीतिः च मे, बब्धाम् ते हरी धानाः इति अत्र न प्राप्नोति । तस्मात् सिज्ग्रहणम् न तत् । तस्मात् धिच इति अत्र सिचः ग्रहणम् न कर्तव्यम् । कथम् चकाद्धि पलितम् शिरः इति । एवम् तर्हि सिज्ग्रहणम् कर्तव्यम् । कथम् सग्धिः च मे सपीतिः च मे , बब्धम् ते हरी धानाः इति । इह तावत् सग्धिः इति न एतत् घसेः रूपम् । किम् तर्हि सघेः एतत् रूपम् । बब्धाम् ते हरी धानाः इति न एतत् भसेः रूपम् । किम् तर्हि बन्धेः एतत् रूपम् । छान्दसः वर्णलोपः वा यथा इष्कर्तारमध्वरे । अथ वा छान्दसः वर्णलोपः भविष्यति यथा इष्कर्तारमध्वरे । तत् यथा । तुभ्येदम् अग्ने । तुभ्यम् इदम् अग्ने इति प्राप्ते । आम्बानाम् चरुः । नाम्बानाम् चरुः इति प्राप्ते । आव्याधिनीः उगणाः । आव्याधिनीः सुगणाः इति प्राप्ते । इष्कर्तारम् अध्वरस्य । निष्कर्तारम् इति प्राप्ते । शिवा उद्रस्य भेषजी । शिवा रुद्रस्य भेषजीति प्राप्ते । तस्मात् सिज्ग्रहणम् कर्तव्यम् । न कर्तव्यम् । यत् एतत् रात्सस्य इति सकारग्रहणम् तत् सिचः ग्रहणम् विज्ञास्यते । कथम् । रात्सस्य इति उच्यते न च अन्यः रेफात् परः सकारः अस्ति अन्यत् अतः सिचः । ननु च अयम् अस्ति मातुः पितुः इति । तस्मात् सिचः ग्रहणम् कर्तव्यम् । न कर्तव्यम् । कस्मात् न भवति चकाद्धि पलितम् शिरः इति । इष्टम् एव एतत् सङ्गृहीतम् । चकाधि इति एव भवितव्यम् । धि सकारे सिचः लोपः । चकाद्धि इति प्रयोजनम् । आशाध्वम् तु कथम् ते स्यात् । जश्त्वम् सस्य भविष्यति । सर्वत्र एवम् प्रसिद्धम् स्यात् । श्रुतिः च अपि न भिद्यते । लुङः च अपि न मूर्धन्ये ग्रहणम् । सेटि दुष्यति । घसिभस्योः न सिध्येत् तु । तस्मात् सिज्ग्रहणम् न तत् । छान्दसः वर्णलोपः वा यथा इष्कर्तारमध्वरे । दादेर् धातोर् घः

KA III,402.3-403.24 Ro V,389-391 dhi sakāre sicaḥ lopaḥ . dhi sakāre sicaḥ lopaḥ vaktavyaḥ . kim prayojanam . cakāddhi iti prayojanam . iha mā bhūt . cakāddhi palitam śiraḥ . yadi tarhi sicaḥ lopaḥ iti ucyate . āśādhvam tu katham te syāt . āśādhvam iti atra na prāpnoti . jaśtvam sasya bhaviṣyati . jaśtvam atra sakārasya bhaviṣyati . sarvatra evam prasiddham syāt . sarvatra evam jaśtvena siddham syāt . iha api āyandhvam arandhvam iti jaśtvena eva siddham . śrutiḥ ca api na bhidyate . śrutikṛtaḥ ca api na kaḥ cit bhedaḥ bhavati . luṅaḥ ca api na mūrdhanye grahaṇam . tatra ayam api arthaḥ iṇaḥṣīdhvaṃluṅliṭāndho'ṅgāt iti atra luṅgrahaṇam na kartavyam . iha api acyoḍḍhvam aploḍḍhvam iti ṣatve sicaḥ dhasya ṣṭutve ca kṛte jaśtvena siddham . seṭi duṣyati . seṭi doṣaḥ bhavati . idam eva rūpam syāt alaviḍḍhvam idam na syāt alavidhvam iti . tasmāt sicaḥ grahaṇam kartavyam . yadi tarhi sicaḥ grahaṇam kriyate . ghasibhasyoḥ na sidhyet tu . ghasibhasyoḥ na sidhyati . sagdhiḥ ca me sapītiḥ ca me, babdhām te harī dhānāḥ iti atra na prāpnoti . tasmāt sijgrahaṇam na tat . tasmāt dhica iti atra sicaḥ grahaṇam na kartavyam . katham cakāddhi palitam śiraḥ iti . evam tarhi sijgrahaṇam kartavyam . katham sagdhiḥ ca me sapītiḥ ca me , babdham te harī dhānāḥ iti . iha tāvat sagdhiḥ iti na etat ghaseḥ rūpam . kim tarhi sagheḥ etat rūpam . babdhām te harī dhānāḥ iti na etat bhaseḥ rūpam . kim tarhi bandheḥ etat rūpam . chāndasaḥ varṇalopaḥ vā yathā iṣkartāramadhvare . atha vā chāndasaḥ varṇalopaḥ bhaviṣyati yathā iṣkartāramadhvare . tat yathā . tubhyedam agne . tubhyam idam agne iti prāpte . āmbānām caruḥ . nāmbānām caruḥ iti prāpte . āvyādhinīḥ ugaṇāḥ . āvyādhinīḥ sugaṇāḥ iti prāpte . iṣkartāram adhvarasya . niṣkartāram iti prāpte . śivā udrasya bheṣajī . śivā rudrasya bheṣajīti prāpte . tasmāt sijgrahaṇam kartavyam . na kartavyam . yat etat rātsasya iti sakāragrahaṇam tat sicaḥ grahaṇam vijñāsyate . katham . rātsasya iti ucyate na ca anyaḥ rephāt paraḥ sakāraḥ asti anyat ataḥ sicaḥ . nanu ca ayam asti mātuḥ pituḥ iti . tasmāt sicaḥ grahaṇam kartavyam . na kartavyam . kasmāt na bhavati cakāddhi palitam śiraḥ iti . iṣṭam eva etat saṅgṛhītam . cakādhi iti eva bhavitavyam . dhi sakāre sicaḥ lopaḥ . cakāddhi iti prayojanam . āśādhvam tu katham te syāt . jaśtvam sasya bhaviṣyati . sarvatra evam prasiddham syāt . śrutiḥ ca api na bhidyate . luṅaḥ ca api na mūrdhanye grahaṇam . seṭi duṣyati . ghasibhasyoḥ na sidhyet tu . tasmāt sijgrahaṇam na tat . chāndasaḥ varṇalopaḥ vā yathā iṣkartāramadhvare . dāder dhātor ghaḥ

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४०३।२५-४०४।२ रो व्,३९२ इह दोग्धा दोग्धुम् इति घत्वस्य असिद्धत्वात् ढत्वम् प्राप्नोति । न एषः दोषः । उक्तम् एतत् अपवादः वचनप्रामाण्यात् इति । अथ वा एवम् वक्ष्यामि । हः ढः अदादेः । हः ढः भवति अदादेः । ततः धातोः घः इति । दादेः इति अनुवर्तते न इति निवृत्तम् ।

KA III,403.25-404.2 Ro V,392 iha dogdhā dogdhum iti ghatvasya asiddhatvāt ḍhatvam prāpnoti . na eṣaḥ doṣaḥ . uktam etat apavādaḥ vacanaprāmāṇyāt iti . atha vā evam vakṣyāmi . haḥ ḍhaḥ adādeḥ . haḥ ḍhaḥ bhavati adādeḥ . tataḥ dhātoḥ ghaḥ iti . dādeḥ iti anuvartate na iti nivṛttam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४०४।३-८ रो व्,३९२-३९३ दादेः इति उच्यते तत्र इदम् न सिध्यति । अधोक् । क्व तर्हि स्यात् । मा स्म धोक्। न एषः दोषः । धातोः इति न एषा दादिसमानाधिकरणा षष्ठी । दादेः धातोः इति । का तर्हि । अवयवयोगा एषा षष्ठी । धातोः यः दादिः अवयवः इति । सा च अवश्यम् अवयवयोगा षष्ठी विज्ञेया उत्तरार्था । किम् प्रयोजनम् । एकाचः बशः भष् झषन्तस्य स्ध्वोः इति इह अपि यथा स्यात् : गर्दभयतेः अप्रत्ययः गर्धप् इति । यदि अवयवयोगा षष्ठी दोग्धा दोग्धुम् इति अत्र न प्राप्नोति । एषः अपि व्यपदेशिवद्भावेन धातोः दादिः अवयवः भवति ।

KA III,404.3-8 Ro V,392-393 dādeḥ iti ucyate tatra idam na sidhyati . adhok . kva tarhi syāt . mā sma dhok. na eṣaḥ doṣaḥ . dhātoḥ iti na eṣā dādisamānādhikaraṇā ṣaṣṭhī . dādeḥ dhātoḥ iti . kā tarhi . avayavayogā eṣā ṣaṣṭhī . dhātoḥ yaḥ dādiḥ avayavaḥ iti . sā ca avaśyam avayavayogā ṣaṣṭhī vijñeyā uttarārthā . kim prayojanam . ekācaḥ baśaḥ bhaṣ jhaṣantasya sdhvoḥ iti iha api yathā syāt : gardabhayateḥ apratyayaḥ gardhap iti . yadi avayavayogā ṣaṣṭhī dogdhā dogdhum iti atra na prāpnoti . eṣaḥ api vyapadeśivadbhāvena dhātoḥ dādiḥ avayavaḥ bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४०४।९-११ रो व्,३९३ हृग्रहोः भः छन्दसि हस्य । हृग्रहोः छन्दसि हस्य भत्वम् वक्तव्यम् । गर्दभेन सम्भरति । मरुत् अस्य ग्रभीता । सामिधेन्यः जभ्रिरे । उद्ग्राभम् च निग्राभम् च ब्रह्म देवाः अवीवृधन् ।

KA III,404.9-11 Ro V,393 hṛgrahoḥ bhaḥ chandasi hasya . hṛgrahoḥ chandasi hasya bhatvam vaktavyam . gardabhena sambharati . marut asya grabhītā . sāmidhenyaḥ jabhrire . udgrābham ca nigrābham ca brahma devāḥ avīvṛdhan .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४०४।१२-२४ रो व्,३९३ किमर्थः चकारः । स्ध्वोः इति एतत् अनुकृष्यते । न एतत् अस्ति प्रयोजनम् । सिद्धम् स्ध्वोः पूर्वेण एव । न सिध्यति । किम् कारणम् । अबशादित्वात् । ननु च जश्त्वे कृते बशादिः । असिद्धम् जश्त्वम् तस्य असिद्धत्वात् न बशादिः । एवम् तर्हि सिद्धकाण्डे पठितम् अभ्यासजश्त्वचर्त्वम् एत्त्वतुकोः इति । एत्त्वतुकोः ग्रहणम् न करिष्यते । अभ्यासजश्त्वचर्त्वम् सिद्धम् इति एव । एवम् अपि अझषन्तत्वात् न प्राप्नोति । लोपे कृते झषन्तः । स्थानिवद्भावात् न झषन्तः । अतः उत्तरम् पठति । दधः तथोः अनुकर्षणानर्थक्यम् स्थानिवत्प्रतिषेधात् । दधः तथोः अनुकर्षणम् अनर्थकम् । किम् कारणम् । स्थानिवत्प्रतिषेधात् । प्रतिषिध्यते अत्र स्थनिवद्भावः पूर्वत्रासिद्धे न स्थानिवत् इति । स च अवश्यम् प्रतिषेधः आश्रयितव्यः । इतरथा हि अलोपे प्रतिषेधः । यः हि मन्यते अनुकर्षणसामर्थ्यात् मे अत्र भवति अलोपे तेन प्रतिषेधः वक्तव्यः स्यात् : दधाति दधासि ।

KA III,404.12-24 Ro V,393 kimarthaḥ cakāraḥ . sdhvoḥ iti etat anukṛṣyate . na etat asti prayojanam . siddham sdhvoḥ pūrveṇa eva . na sidhyati . kim kāraṇam . abaśāditvāt . nanu ca jaśtve kṛte baśādiḥ . asiddham jaśtvam tasya asiddhatvāt na baśādiḥ . evam tarhi siddhakāṇḍe paṭhitam abhyāsajaśtvacartvam ettvatukoḥ iti . ettvatukoḥ grahaṇam na kariṣyate . abhyāsajaśtvacartvam siddham iti eva . evam api ajhaṣantatvāt na prāpnoti . lope kṛte jhaṣantaḥ . sthānivadbhāvāt na jhaṣantaḥ . ataḥ uttaram paṭhati . dadhaḥ tathoḥ anukarṣaṇānarthakyam sthānivatpratiṣedhāt . dadhaḥ tathoḥ anukarṣaṇam anarthakam . kim kāraṇam . sthānivatpratiṣedhāt . pratiṣidhyate atra sthanivadbhāvaḥ pūrvatrāsiddhe na sthānivat iti . sa ca avaśyam pratiṣedhaḥ āśrayitavyaḥ . itarathā hi alope pratiṣedhaḥ . yaḥ hi manyate anukarṣaṇasāmarthyāt me atra bhavati alope tena pratiṣedhaḥ vaktavyaḥ syāt : dadhāti dadhāsi .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४०५।१-२ रो व्,३९४ तथोः च अपि ग्रहणम् शक्यम् अकर्तुम् । कथम् । झलि झषन्तस्य इति उच्यते तथोः च अयम् झलि झषन्तः भवति न अन्यत्र ।

KA III,405.1-2 Ro V,394 tathoḥ ca api grahaṇam śakyam akartum . katham . jhali jhaṣantasya iti ucyate tathoḥ ca ayam jhali jhaṣantaḥ bhavati na anyatra .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४०५।३-७ रो व्,३९४ अथ अपि एतत् न अस्ति पूर्वत्रासिद्धे न स्थानिवत् इति एवम् अपि न एव अर्थः अनुकर्षणार्थेन चकारेण न अपि तथोः ग्रहणेन । आनन्तर्यम् इह आश्रीयते झलि झषन्तस्य इति । क्व चित् च सन्निपातकृतम् आनन्तर्यम् शास्त्रकृतम् अनानन्तर्यम् क्व चित् न एव सन्निपातकृतम् न अपि शास्त्रकृतम् । लोपे सन्निपातकृतम् आनन्तर्यम् शास्त्रकृतम् अनानन्तर्यम् अलोपे न एव सन्निपातकृतम् न अपि शास्त्रकृतम् । यत्र कुतः चित् एव आनन्तर्यम् तत् आश्रयिष्यामः ।

KA III,405.3-7 Ro V,394 atha api etat na asti pūrvatrāsiddhe na sthānivat iti evam api na eva arthaḥ anukarṣaṇārthena cakāreṇa na api tathoḥ grahaṇena . ānantaryam iha āśrīyate jhali jhaṣantasya iti . kva cit ca sannipātakṛtam ānantaryam śāstrakṛtam anānantaryam kva cit na eva sannipātakṛtam na api śāstrakṛtam . lope sannipātakṛtam ānantaryam śāstrakṛtam anānantaryam alope na eva sannipātakṛtam na api śāstrakṛtam . yatra kutaḥ cit eva ānantaryam tat āśrayiṣyāmaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४०५।८-१२ रो व्,३९४ अधः इति किमर्थम् । धत्तः । धत्थः । अधः इति शक्यम् अकर्तुम् । कस्मात् न भवति धत्तः धत्थः इति । जश्त्वे योगविभागः करिष्यते । इदम् अस्ति दधस्तथोश्च इति । ततः वक्ष्यामि झलाम् जशः । झलाम् जशः भवन्ति दधः तथोः । ततः अन्ते । अन्ते च झलाम् जशः भवन्ति । तत्र जश्त्वे कृते अझषन्तत्वात् न भविष्यति ।

KA III,405.8-12 Ro V,394 adhaḥ iti kimartham . dhattaḥ . dhatthaḥ . adhaḥ iti śakyam akartum . kasmāt na bhavati dhattaḥ dhatthaḥ iti . jaśtve yogavibhāgaḥ kariṣyate . idam asti dadhastathośca iti . tataḥ vakṣyāmi jhalām jaśaḥ . jhalām jaśaḥ bhavanti dadhaḥ tathoḥ . tataḥ ante . ante ca jhalām jaśaḥ bhavanti . tatra jaśtve kṛte ajhaṣantatvāt na bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४०६।१-१० रो व्,३९५ रदाभ्याम् इति किमर्थम् । चरितम् मुदितम् । ननु च रदाभ्याम् इति उच्यमाने अपि अत्र प्राप्नोति । अत्र अपि रेफदकाराभ्याम् परा निष्ठा । न रेफदकाराभ्याम् निष्ठा विशेष्यते । किम् तर्हि । तकारः विशेष्यते । रफदकाराभ्याम् उत्तरस्य तकारस्य नः भवति स चेत् निष्ठायाः इति । अथ पूर्वग्रहणम् किमर्थम् । निष्ठादेशे पूर्वग्रहणम् परस्य आदेशप्रतिषेधार्थम् । निष्ठादेशे पूर्वग्रहणम् क्रियते परस्य आदेशः मा भूत् इति । भिन्नवद्भ्याम् भिन्नवद्भिः । पञ्चमीनिर्दिष्टात् हि परस्य । पञ्चमीनिर्दिष्टात् हि परस्य इति परस्य प्राप्नोति ।

KA III,406.1-10 Ro V,395 radābhyām iti kimartham . caritam muditam . nanu ca radābhyām iti ucyamāne api atra prāpnoti . atra api rephadakārābhyām parā niṣṭhā . na rephadakārābhyām niṣṭhā viśeṣyate . kim tarhi . takāraḥ viśeṣyate . raphadakārābhyām uttarasya takārasya naḥ bhavati sa cet niṣṭhāyāḥ iti . atha pūrvagrahaṇam kimartham . niṣṭhādeśe pūrvagrahaṇam parasya ādeśapratiṣedhārtham . niṣṭhādeśe pūrvagrahaṇam kriyate parasya ādeśaḥ mā bhūt iti . bhinnavadbhyām bhinnavadbhiḥ . pañcamīnirdiṣṭāt hi parasya . pañcamīnirdiṣṭāt hi parasya iti parasya prāpnoti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४०६।११-४०७।७ रो व्,३९६-३९७ वृद्धिनिमित्तात् प्रतिषेधः । वृद्धिनिमित्तात् प्रतिषेधः वक्तव्यः । किम् प्रयोजनम् । प्रयोजनम् कार्तिक्षैतिफौल्लयः । कार्तिः इति वृद्धौ कृतायाम् रदाभ्याम् इति नत्वम् प्राप्नोति । क्षैतिः इति वृद्धौ कृतायाम् क्षियोदीर्घात् इति नत्वम् प्राप्नोति । फौल्लिः इति वृद्धौ कृतायाम् उदुपधत्वसन्नियोगेन लत्वम् उच्यमानम् न प्राप्नोति । अथ उच्यमाने अपि प्रतिषेधे वृद्धिनिमित्तात् इति कथम् इदम् विज्ञायते । वृद्धिः एव निमित्तम् वृद्धिनिमित्तम् वृद्धिनिमित्तात् इति । आहोस्वित् वृद्धिः निमित्तम् अस्य सः अयम् वृद्धिनिमित्तः वृद्धिनिमित्तात् इति । किम् च अतः । यदि विज्ञायते वृद्धिः एव निमित्तम् वृद्धिनिमित्तम् वृद्धिनिमित्तात् इति क्षैतिः सङ्गृहीतः कार्तिः असङ्गृहीतः । अथ विज्ञायते वृद्धिः निमित्तम् अस्य सः अयम् वृद्धिनिमित्तः वृद्धिनिमित्तात् इति कार्तिः सङ्गृहीतः क्षैतिः असङ्गृहीतः । उभयथा च फौल्लिः असङ्गृहीतः । यथा इच्छसि तथा अस्तु । अस्तु तावत् वृद्धिः एव निमित्तम् वृद्धिनिमित्तम् वृद्धिनिमित्तात् इति । ननु च उक्तम् क्षैतिः सङ्ग्र्हीतः कार्तिः असङ्गृहीतः इति । कार्तिः च सङ्गृहीतः । कथम् । वृद्धिः भवति गुणः भवति इति रेफशिराः गुणवृद्धिसञ्ज्ञकः अभिनिर्वर्तते । अथ वा पुनः अस्तु वृद्धिः निमित्तम् अस्य सः अयम् वृद्धिनिमित्तः वृद्धिनिमित्तात् इति । ननु च उक्तम् कार्तिः सङ्गृहीतः क्षैतिः असङ्गृहीतः इति । क्षैतिः च सङ्गृहीतः । कथम् । यत् तत् वृद्धिशास्त्रम् तस्मिन् वृद्धिशब्दः वर्तते । सः तर्हि प्रतिषेधः वक्तव्यः । न वा बहिरङ्गलक्षणत्वात् । न वा वक्तव्यम् । किम् कारणम् । बहिरङ्गलक्षणत्वात् । बहिरङ्गा वृद्धिः । अन्तरङ्गम् नत्वम् । असिद्धम् बहिरङ्गम् अन्तरङ्गे । एवम् च कृत्वा लत्वम् अपि सिद्धम् भवति फौल्लिः इति ।

KA III,406.11-407.7 Ro V,396-397 vṛddhinimittāt pratiṣedhaḥ . vṛddhinimittāt pratiṣedhaḥ vaktavyaḥ . kim prayojanam . prayojanam kārtikṣaitiphaullayaḥ . kārtiḥ iti vṛddhau kṛtāyām radābhyām iti natvam prāpnoti . kṣaitiḥ iti vṛddhau kṛtāyām kṣiyodīrghāt iti natvam prāpnoti . phaulliḥ iti vṛddhau kṛtāyām udupadhatvasanniyogena latvam ucyamānam na prāpnoti . atha ucyamāne api pratiṣedhe vṛddhinimittāt iti katham idam vijñāyate . vṛddhiḥ eva nimittam vṛddhinimittam vṛddhinimittāt iti . āhosvit vṛddhiḥ nimittam asya saḥ ayam vṛddhinimittaḥ vṛddhinimittāt iti . kim ca ataḥ . yadi vijñāyate vṛddhiḥ eva nimittam vṛddhinimittam vṛddhinimittāt iti kṣaitiḥ saṅgṛhītaḥ kārtiḥ asaṅgṛhītaḥ . atha vijñāyate vṛddhiḥ nimittam asya saḥ ayam vṛddhinimittaḥ vṛddhinimittāt iti kārtiḥ saṅgṛhītaḥ kṣaitiḥ asaṅgṛhītaḥ . ubhayathā ca phaulliḥ asaṅgṛhītaḥ . yathā icchasi tathā astu . astu tāvat vṛddhiḥ eva nimittam vṛddhinimittam vṛddhinimittāt iti . nanu ca uktam kṣaitiḥ saṅgrhītaḥ kārtiḥ asaṅgṛhītaḥ iti . kārtiḥ ca saṅgṛhītaḥ . katham . vṛddhiḥ bhavati guṇaḥ bhavati iti rephaśirāḥ guṇavṛddhisañjñakaḥ abhinirvartate . atha vā punaḥ astu vṛddhiḥ nimittam asya saḥ ayam vṛddhinimittaḥ vṛddhinimittāt iti . nanu ca uktam kārtiḥ saṅgṛhītaḥ kṣaitiḥ asaṅgṛhītaḥ iti . kṣaitiḥ ca saṅgṛhītaḥ . katham . yat tat vṛddhiśāstram tasmin vṛddhiśabdaḥ vartate . saḥ tarhi pratiṣedhaḥ vaktavyaḥ . na vā bahiraṅgalakṣaṇatvāt . na vā vaktavyam . kim kāraṇam . bahiraṅgalakṣaṇatvāt . bahiraṅgā vṛddhiḥ . antaraṅgam natvam . asiddham bahiraṅgam antaraṅge . evam ca kṛtvā latvam api siddham bhavati phaulliḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४०७।८-१८ रो व्,३९७-३९८ ऋकारल्वादिभ्यः क्तिन्निष्ठावत् । ऋकारल्वादिभ्यः क्तिन् निष्ठावत् भवति इति वक्तव्यम् । कीर्णिः गीर्णिः । लूनिः धूनिः । दुग्वोः दीर्घः च । दुग्वोः दीर्घः च इति वक्तव्यम् । आदूनः विगूनः । पूञः विनाशे । पूञः विनाशे इति वक्तव्यम् । पूनाः यवाः । विनाशे इति किमर्थम् । पूतम् धान्यम् । सिनोतेः ग्रासकर्मकर्तृकस्य । सिनोतेः ग्रासकर्मकर्तृकस्य इति वक्तव्यम् । सिनः ग्रासः । ग्रासकर्मकर्तृकस्य इति किमर्थम् । सिता पाशेन सूकरी ।

KA III,407.8-18 Ro V,397-398 ṛkāralvādibhyaḥ ktinniṣṭhāvat . ṛkāralvādibhyaḥ ktin niṣṭhāvat bhavati iti vaktavyam . kīrṇiḥ gīrṇiḥ . lūniḥ dhūniḥ . dugvoḥ dīrghaḥ ca . dugvoḥ dīrghaḥ ca iti vaktavyam . ādūnaḥ vigūnaḥ . pūñaḥ vināśe . pūñaḥ vināśe iti vaktavyam . pūnāḥ yavāḥ . vināśe iti kimartham . pūtam dhānyam . sinoteḥ grāsakarmakartṛkasya . sinoteḥ grāsakarmakartṛkasya iti vaktavyam . sinaḥ grāsaḥ . grāsakarmakartṛkasya iti kimartham . sitā pāśena sūkarī .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४०७।१९-४०८।१० रो व्,३९८-३९९ दीर्घात् इति किमर्थम् । अक्षितम् असि मा मे क्षेष्ठाः । दीर्घात् इति शक्यम् अकर्तुम् । कस्मात् न भवति अक्षितम् असि मा मे क्षेष्ठाः इति । निर्देशात् एव इदम् अभिव्यक्तम् दीर्घस्य ग्रहणम् इति । यदि ह्रस्वस्य ग्रहणम् स्यात् क्षेः इति एव ब्रूयात् । न अत्र निर्देशः प्रमाणं शक्यम् कर्तुम् । यथा एव अत्र अप्राप्ता विभक्तिः एवम् इयङादेशः अपि । न अत्र अप्राप्ता विभक्तिः । सिद्धा अत्र विभक्तिः प्रातिपदिकात् इति । कथम् प्रातिपदिकसञ्ज्ञा । अर्थवत् प्रातिपदिकम् इति । ननु च अधातुः इति प्रतिषेधः प्राप्नोति । न एषः धातुः धातोः एषः अनुकरणः । यदि अनुकरणः इयङादेशः न प्राप्नोति । प्रकृतिवत् अनुकरणम् भवति इति एवम् इयङादेशः भविष्यति । यदि प्रकृतिवत् अनुकरणम् भवति इति उच्यते स्वाद्युत्पत्तिः न प्राप्नोति । एवम् तर्हि आतिदेशिकानाम् स्वाश्रयाणि अपि न निवर्तन्ते । अथ अपि एतत् न अस्ति आतिदेशिकानाम् स्वाश्रयाणि अपि न निवर्तन्ते इति एवम् अपि न दोषः । अवश्यम् अत्र सर्वतः नैर्देशिकी विभक्तिः वक्तव्या । तत् यथा । नेर्विशः परिव्यवेभ्यःक्रियः विपराभ्याञ्जेः इति । अथ अपि एतत् न अस्ति प्रकृतिवत् अनुकरणम् भवति इति एवम् अपि न दोषः । धातोः अजादौ यत् रूपम् तत् अनुक्रियते ।

KA III,407.19-408.10 Ro V,398-399 dīrghāt iti kimartham . akṣitam asi mā me kṣeṣṭhāḥ . dīrghāt iti śakyam akartum . kasmāt na bhavati akṣitam asi mā me kṣeṣṭhāḥ iti . nirdeśāt eva idam abhivyaktam dīrghasya grahaṇam iti . yadi hrasvasya grahaṇam syāt kṣeḥ iti eva brūyāt . na atra nirdeśaḥ pramāṇaṃ śakyam kartum . yathā eva atra aprāptā vibhaktiḥ evam iyaṅādeśaḥ api . na atra aprāptā vibhaktiḥ . siddhā atra vibhaktiḥ prātipadikāt iti . katham prātipadikasañjñā . arthavat prātipadikam iti . nanu ca adhātuḥ iti pratiṣedhaḥ prāpnoti . na eṣaḥ dhātuḥ dhātoḥ eṣaḥ anukaraṇaḥ . yadi anukaraṇaḥ iyaṅādeśaḥ na prāpnoti . prakṛtivat anukaraṇam bhavati iti evam iyaṅādeśaḥ bhaviṣyati . yadi prakṛtivat anukaraṇam bhavati iti ucyate svādyutpattiḥ na prāpnoti . evam tarhi ātideśikānām svāśrayāṇi api na nivartante . atha api etat na asti ātideśikānām svāśrayāṇi api na nivartante iti evam api na doṣaḥ . avaśyam atra sarvataḥ nairdeśikī vibhaktiḥ vaktavyā . tat yathā . nerviśaḥ parivyavebhyaḥkriyaḥ viparābhyāñjeḥ iti . atha api etat na asti prakṛtivat anukaraṇam bhavati iti evam api na doṣaḥ . dhātoḥ ajādau yat rūpam tat anukriyate .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४०८।११-४०९।२ रो व्,४००-४०१ अञ्चेः नत्वे व्यक्तप्रतिषेधः । अञ्चेः नत्वे व्यक्तस्य प्रतिषेधः वक्तव्यः । व्यक्तम् अनृतम् कथयति इति । अञ्जिविज्ञानात् सिद्धम् । न एतत् अञ्चेः रूपम् । अञ्जेः एतत् रूपम् । अञ्चत्यर्थः वै गम्यते । कः पुनः अञ्चत्यर्थः । अञ्चतिः प्रकाशने वर्तते । अञ्चितम् गच्छति । प्रकाशयति आत्मानम् इति गम्यते । न वै लोके अञ्चितम् गच्छति इति प्रकाशनम् गम्यते । किम् तर्हि । समाधानम् गम्यते । समाहितः भूत्वा गच्छति इति । एवम् तर्हि अञ्चतेः अङ्कः अङ्कः च प्रकाशनम् । अङ्किताः गावः इति उच्यते अन्याभ्यः गोभ्यः प्रकाश्यन्ते । अञ्चत्यर्थः इति चेत् अञ्जेः तदर्थत्वात् सिद्धम् । अञ्चत्यर्थः इति चेत् अञ्जिः अपि अञ्चत्यर्थे वर्तते । कथम् पुनः अन्यः नाम अन्यस्य अर्थे वर्तते । कथम् अञ्जिः अञ्चत्यर्थे वर्तते । अनेकार्थाः अपि धातवः भवन्ति । अस्ति पुनः क्व चित् अन्यत्र अपि अञ्जिः अञ्चत्यर्थे वर्तते । अस्ति इति आह । अञ्जेः अञ्जनम् अञ्जनम् च प्रकाशनम् । अङ्क्तेषिणी इति उच्यते यत् तत् सितम् च असितम् च एतत् प्रकाशयति । तथा अञ्जेः व्यञ्जनम् व्यञ्जनम् च प्रकाशनम् । यत् तत् स्नेहेन मधुरेण च जडीकृतानाम् इन्द्रियाणाम् स्वस्मिन् आत्मनि व्यवस्थापनम् सः रागः तत् व्यञ्जनम् । अन्वर्थम् खलु अपि निर्वचनम् । व्यज्यते अनेन इति व्यञ्जनम् इति ।

KA III,408.11-409.2 Ro V,400-401 añceḥ natve vyaktapratiṣedhaḥ . añceḥ natve vyaktasya pratiṣedhaḥ vaktavyaḥ . vyaktam anṛtam kathayati iti . añjivijñānāt siddham . na etat añceḥ rūpam . añjeḥ etat rūpam . añcatyarthaḥ vai gamyate . kaḥ punaḥ añcatyarthaḥ . añcatiḥ prakāśane vartate . añcitam gacchati . prakāśayati ātmānam iti gamyate . na vai loke añcitam gacchati iti prakāśanam gamyate . kim tarhi . samādhānam gamyate . samāhitaḥ bhūtvā gacchati iti . evam tarhi añcateḥ aṅkaḥ aṅkaḥ ca prakāśanam . aṅkitāḥ gāvaḥ iti ucyate anyābhyaḥ gobhyaḥ prakāśyante . añcatyarthaḥ iti cet añjeḥ tadarthatvāt siddham . añcatyarthaḥ iti cet añjiḥ api añcatyarthe vartate . katham punaḥ anyaḥ nāma anyasya arthe vartate . katham añjiḥ añcatyarthe vartate . anekārthāḥ api dhātavaḥ bhavanti . asti punaḥ kva cit anyatra api añjiḥ añcatyarthe vartate . asti iti āha . añjeḥ añjanam añjanam ca prakāśanam . aṅkteṣiṇī iti ucyate yat tat sitam ca asitam ca etat prakāśayati . tathā añjeḥ vyañjanam vyañjanam ca prakāśanam . yat tat snehena madhureṇa ca jaḍīkṛtānām indriyāṇām svasmin ātmani vyavasthāpanam saḥ rāgaḥ tat vyañjanam . anvartham khalu api nirvacanam . vyajyate anena iti vyañjanam iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४०९।३-६ रो व्,४०१-४०२ अवाताभिधाने । अवाताभिधाने इति वक्तव्यम् । इह अपि यथा स्यात् । निर्वाणः अग्निः वातेन । निर्वाणः प्रदीपः वातेन इति ।

KA III,409.3-6 Ro V,401-402 avātābhidhāne . avātābhidhāne iti vaktavyam . iha api yathā syāt . nirvāṇaḥ agniḥ vātena . nirvāṇaḥ pradīpaḥ vātena iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४०९।७-१६ रो व्,४०२-४०३ अनुपसर्गात् इति उच्यते तत्र इदम् न सिध्यति परिकृशम् इति । कृशेः कः एषः विहितः इगुपधात् । न एतत् निष्ठान्तम् । किम् तर्हि कृशः एषः इगुपधात् कः विहितः । स्वरे हि दोषः भवति परिकृशे । न एवम् शक्यम् । इह हि परिकृशः इति स्वरे दोषः स्यात् । अन्तस्थाथघञ्क्ताजबित्रकाणाम् । इति एषः स्वरः प्रसज्येत । पदस्य लोपः विहितः इति मतम् । एवम् तर्हि पदस्य लोपः द्रष्टव्यः । पर्यागतः कार्श्येन परिकृशः । जगती अनूना भवति हि रुचिरा ।

KA III,409.7-16 Ro V,402-403 anupasargāt iti ucyate tatra idam na sidhyati parikṛśam iti . kṛśeḥ kaḥ eṣaḥ vihitaḥ igupadhāt . na etat niṣṭhāntam . kim tarhi kṛśaḥ eṣaḥ igupadhāt kaḥ vihitaḥ . svare hi doṣaḥ bhavati parikṛśe . na evam śakyam . iha hi parikṛśaḥ iti svare doṣaḥ syāt . antasthāthaghañktājabitrakāṇām . iti eṣaḥ svaraḥ prasajyeta . padasya lopaḥ vihitaḥ iti matam . evam tarhi padasya lopaḥ draṣṭavyaḥ . paryāgataḥ kārśyena parikṛśaḥ . jagatī anūnā bhavati hi rucirā .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४०९।१७-२४ रो व्,४०३ फलेः लत्वे उत्पूर्वस्य उपसङ्ख्यानम् । फलेः लत्वे उत्पूर्वस्य उपसङ्ख्यानम् कर्तव्यम् : उत्फुल्लः अनृतम् कथयति । अत्यल्पम् इदम् उच्यते उत्पूर्वात् इति । उत्फुल्लसम्फुल्लयोः इति वक्तव्यम् : उत्फुल्लः , सम्फुल्लः । कृशेः कः एषः विहितः इगुपधात् । स्वरे हि दोषः भवति परिकृशे । पदस्य लोपः विहितः इति मतम् । जगति अनूना भवति हि रुचिरा ।

KA III,409.17-24 Ro V,403 phaleḥ latve utpūrvasya upasaṅkhyānam . phaleḥ latve utpūrvasya upasaṅkhyānam kartavyam : utphullaḥ anṛtam kathayati . atyalpam idam ucyate utpūrvāt iti . utphullasamphullayoḥ iti vaktavyam : utphullaḥ , samphullaḥ . kṛśeḥ kaḥ eṣaḥ vihitaḥ igupadhāt . svare hi doṣaḥ bhavati parikṛśe . padasya lopaḥ vihitaḥ iti matam . jagati anūnā bhavati hi rucirā .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४१०।१-११ रो व्,४०३-४०४ किम् अयम् विधिः आहोस्वित् प्रतिषेधः । किम् च अतः । यदि तावत् विधिः नकारग्रहणम् कर्तव्यम् । न कर्तव्यम् । प्रकृतम् अनुवर्तते । क्व प्रकृतम् । रदाभ्यान्निष्ठातोनःपूर्वस्यचदः इति । तत् वा अनेकेन निपातनेन व्यवच्छिन्नम् न शक्यम् अनुवर्तयितुम् । अथ प्रतिषेधः ह्रीग्रहणम् अनर्थकम् न हि एतस्मात् विधिः अस्ति । यथा इच्छसि तथा अस्तु । अस्तु तावत् विधिः । ननु च उक्तम् नकारग्रहणम् कर्तव्यम् । न कर्तव्यम् । प्रकृतम् अनुवर्तते । क्व प्रकृतम् । रदाभ्यान्निष्ठातोनःपूर्वस्यचदः इति । तत् वा अनेकेन निपातनेन व्यवच्छिन्नम् न शक्यम् अनुवर्तयितुम् इति । सम्बन्धम् अनुवर्तिष्यते । अथ वा क्रियते न्यासे एव । द्विनकारकः निर्देशः । नुदविदोन्दत्राघ्राह्रीभ्यः अन्यतरस्याम् न् न ध्याख्यापॄमूर्छिमदाम् इति । अथ वा पुनः अस्तु प्रतिषेधः । ननु च उक्तम् ह्रीग्रहणम् अनर्थकम् न हि एतस्मात् विधिः अस्ति इति । न अनर्थकम् । एतत् एव ज्ञापयति आचार्यः भवति एतस्मात् विधिः इति यत् अयम् ह्रीग्रहणम् करोति ।

KA III,410.1-11 Ro V,403-404 kim ayam vidhiḥ āhosvit pratiṣedhaḥ . kim ca ataḥ . yadi tāvat vidhiḥ nakāragrahaṇam kartavyam . na kartavyam . prakṛtam anuvartate . kva prakṛtam . radābhyānniṣṭhātonaḥpūrvasyacadaḥ iti . tat vā anekena nipātanena vyavacchinnam na śakyam anuvartayitum . atha pratiṣedhaḥ hrīgrahaṇam anarthakam na hi etasmāt vidhiḥ asti . yathā icchasi tathā astu . astu tāvat vidhiḥ . nanu ca uktam nakāragrahaṇam kartavyam . na kartavyam . prakṛtam anuvartate . kva prakṛtam . radābhyānniṣṭhātonaḥpūrvasyacadaḥ iti . tat vā anekena nipātanena vyavacchinnam na śakyam anuvartayitum iti . sambandham anuvartiṣyate . atha vā kriyate nyāse eva . dvinakārakaḥ nirdeśaḥ . nudavidondatrāghrāhrībhyaḥ anyatarasyām n na dhyākhyāpṝmūrchimadām iti . atha vā punaḥ astu pratiṣedhaḥ . nanu ca uktam hrīgrahaṇam anarthakam na hi etasmāt vidhiḥ asti iti . na anarthakam . etat eva jñāpayati ācāryaḥ bhavati etasmāt vidhiḥ iti yat ayam hrīgrahaṇam karoti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४१०।१२-४११।२ रो व्,४०४-४०५ बहवः इमे विदयः पठ्यन्ते । तत्र न ज्ञायते कस्य नित्यम् नत्वम् कस्य विभाषा कस्य प्रतिषेधः कस्य इट् इति । अतः उत्तरम् पठति । यस्य विदेः श्नशकौ तपरत्वे तनवचने तद् उ वाप्रतिषेधौ । श्नविकरणस्य विभाषा शविकरणस्य प्रतिषेधः । श्यविकरणात् नविधिः छिदितुल्यः । श्यन्विकरणात् विदेः नविधिः छिदिना तुल्यः । लुग्विकरणः वलि पर्यवपन्नः । लुग्विकरणः विदिः वलादौ पर्यवपन्नः । एष एवार्थः । ययोः विद्योः श्नशौ उक्तौ तयोः नत्वस्य वानञौ । ययोः तु श्यँल्लुकौ ताभ्याम् छिदिवच् च इट् च इष्यते । अपरः आह : वेत्तेः तु विदितः निष्ठा । विद्यतेः विन्नः इष्यते । विन्त्तेः विन्नः च वित्तः च वित्तः भोगेषु विन्दतेः । भित्तं शकलम् ।

KA III,410.12-411.2 Ro V,404-405 bahavaḥ ime vidayaḥ paṭhyante . tatra na jñāyate kasya nityam natvam kasya vibhāṣā kasya pratiṣedhaḥ kasya iṭ iti . ataḥ uttaram paṭhati . yasya videḥ śnaśakau taparatve tanavacane tad u vāpratiṣedhau . śnavikaraṇasya vibhāṣā śavikaraṇasya pratiṣedhaḥ . śyavikaraṇāt navidhiḥ chiditulyaḥ . śyanvikaraṇāt videḥ navidhiḥ chidinā tulyaḥ . lugvikaraṇaḥ vali paryavapannaḥ . lugvikaraṇaḥ vidiḥ valādau paryavapannaḥ . eṣa evārthaḥ . yayoḥ vidyoḥ śnaśau uktau tayoḥ natvasya vānañau . yayoḥ tu śya~llukau tābhyām chidivac ca iṭ ca iṣyate . aparaḥ āha : vetteḥ tu viditaḥ niṣṭhā . vidyateḥ vinnaḥ iṣyate . vintteḥ vinnaḥ ca vittaḥ ca vittaḥ bhogeṣu vindateḥ . bhittaṃ śakalam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४११।३-८ रो व्,४०५-४०६ भित्तम् शकलम् इति उच्यते तत्र इदम् न सिध्यति भित्तम् भिन्नम् इति । न एषः दोषः । सर्वत्र एव अत्र भिदिः विदारणसामान्ये वर्तते तत्र अवश्यम् विशेषार्थिना विशेषः अनुप्रयोक्तव्यः । भिन्नम् किम् भित्तम् इति । तत्वम् अभिधायकम् चेत् शकलस्य अनर्थकः प्रयोगः स्यात् । शकलेन च अपि अभिहिते न भवति तत्वम् निगमयामः । क्विन् प्रत्ययस्य कुः ।

KA III,411.3-8 Ro V,405-406 bhittam śakalam iti ucyate tatra idam na sidhyati bhittam bhinnam iti . na eṣaḥ doṣaḥ . sarvatra eva atra bhidiḥ vidāraṇasāmānye vartate tatra avaśyam viśeṣārthinā viśeṣaḥ anuprayoktavyaḥ . bhinnam kim bhittam iti . tatvam abhidhāyakam cet śakalasya anarthakaḥ prayogaḥ syāt . śakalena ca api abhihite na bhavati tatvam nigamayāmaḥ . kvin pratyayasya kuḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४११।९-१८ रो व्,४०७ प्रत्ययग्रहणम् किमर्थम् न क्विनः कुः इति एव उच्येत । क्विनः कुः इति इयति उच्यमाने वकारस्य एव कुत्वम् प्रसज्येत । ननु च लोपे कृते न भविष्यति । अनवकाशम् कुत्वम् लोपम् बाधेत । सावकाशम् कुत्वम् । कः अवकाशः । अनन्त्यः । कथम् पुनः सति अन्त्ये अनन्त्यस्य कुत्वम् स्यात् । आचार्यप्रवृत्तिः ज्ञापयति नान्त्यस्य कुत्वम् भवति इति यत् अयम् क्विनः कुः इति कवर्गनिर्देशम् करोति । इतरथा हि तद्गुणम् एव अयम् निर्दिशेत् । इदम् तर्हि प्रयोजनम् येभ्यः क्विन्प्रत्ययः विधीयते तेषाम् अन्यप्रत्ययान्तानाम् अपि पदान्ते कुत्वम् यथा स्यात् । मा नः अस्राक् । मा नः अद्राक् । क्विनः कुः इति वक्तव्ये प्रत्ययग्रहणम् कृतम् । क्विन्प्रत्ययस्य सर्वत्र पदान्ते कुत्वम् इष्यते ।

KA III,411.9-18 Ro V,407 pratyayagrahaṇam kimartham na kvinaḥ kuḥ iti eva ucyeta . kvinaḥ kuḥ iti iyati ucyamāne vakārasya eva kutvam prasajyeta . nanu ca lope kṛte na bhaviṣyati . anavakāśam kutvam lopam bādheta . sāvakāśam kutvam . kaḥ avakāśaḥ . anantyaḥ . katham punaḥ sati antye anantyasya kutvam syāt . ācāryapravṛttiḥ jñāpayati nāntyasya kutvam bhavati iti yat ayam kvinaḥ kuḥ iti kavarganirdeśam karoti . itarathā hi tadguṇam eva ayam nirdiśet . idam tarhi prayojanam yebhyaḥ kvinpratyayaḥ vidhīyate teṣām anyapratyayāntānām api padānte kutvam yathā syāt . mā naḥ asrāk . mā naḥ adrāk . kvinaḥ kuḥ iti vaktavye pratyayagrahaṇam kṛtam . kvinpratyayasya sarvatra padānte kutvam iṣyate .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४११।१९-२२ रो व्,४०८ रुविधौ अह्नः रूपरात्रिरथन्तरेषु उपसङ्ख्यानम् । रुविधौ अह्नः रूपरात्रिरथन्तरेषु उपसङ्ख्यानम् कर्तव्यम् । अहोरूपम् अहोरात्रः अहोरथन्तरम् साम ।

KA III,411.19-22 Ro V,408 ruvidhau ahnaḥ rūparātrirathantareṣu upasaṅkhyānam . ruvidhau ahnaḥ rūparātrirathantareṣu upasaṅkhyānam kartavyam . ahorūpam ahorātraḥ ahorathantaram sāma .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४१२।१-९ रो व्,४०८-४०९ असुपि रादेशे उपसर्जनसमासे प्रतिषेधः अलुकि । असुपि रादेशे उपसर्जनसमासे अलुकि प्रतिषेधः वक्तव्यः । दीर्घाहा निदाघः इति । सिद्धम् तु सुपि प्रतिषेधात् । सिद्धम् एतत् । कथम् । सुपि प्रतिषेधात् । प्रसज्य अयम् प्रतिषेधः सुपि न इति । इह अपि तर्हि न प्राप्नोति । अहन् ददाति । अहन् भुङ्क्ते इति । लुकि च उक्तम् । किम् उक्तम् । अह्नः रविधौ लुमता लुप्ते प्रत्ययलक्षणम् न भवति इति ।

KA III,412.1-9 Ro V,408-409 asupi rādeśe upasarjanasamāse pratiṣedhaḥ aluki . asupi rādeśe upasarjanasamāse aluki pratiṣedhaḥ vaktavyaḥ . dīrghāhā nidāghaḥ iti . siddham tu supi pratiṣedhāt . siddham etat . katham . supi pratiṣedhāt . prasajya ayam pratiṣedhaḥ supi na iti . iha api tarhi na prāpnoti . ahan dadāti . ahan bhuṅkte iti . luki ca uktam . kim uktam . ahnaḥ ravidhau lumatā lupte pratyayalakṣaṇam na bhavati iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४१२।१०-१५ रो व्,४०९ छन्दसि भाषायाम् च प्रचेतसः राजनि उपसङ्ख्यानम् । छन्दसि भाषायाम् च प्रचेतसः राजनि उपसङ्ख्यानम् कर्तव्यम् । प्रचेतः राजन् । प्रचेतर् राजन् । अहरादीनाम् पत्यादिषु उपसङ्ख्यानम् कर्तव्यम् । अहर्पतिः अहःपतिः । अहर्पुत्रः अहःपुत्रः । गीर्पतिः गीःपतिः ।

KA III,412.10-15 Ro V,409 chandasi bhāṣāyām ca pracetasaḥ rājani upasaṅkhyānam . chandasi bhāṣāyām ca pracetasaḥ rājani upasaṅkhyānam kartavyam . pracetaḥ rājan . pracetar rājan . aharādīnām patyādiṣu upasaṅkhyānam kartavyam . aharpatiḥ ahaḥpatiḥ . aharputraḥ ahaḥputraḥ . gīrpatiḥ gīḥpatiḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४१२।१६-४१३।१० रो व्,४०९-४१० इह कस्मात् न भवति । पपिवान् तस्थिवान् इति । सस्य इति वर्तते । एवम् अपि अत्र प्राप्नोति । लोपे कृते न भविष्यति । अनवकाशम् दत्वम् लोपम् बाधेत । सावकाशम् दत्वम् । कः अवकाशः । पपिवद्भ्याम् पपिवद्भिः इति । अत्र अपि रुः प्राप्नोति । तत् यथा एव रुम् बाधते एवम् लोपम् अपि बाधेत । न बाधते । किम् कारणम् । येन न अप्राप्ते तस्य बाधनम् भवति न च अप्राप्ते रौ दत्वम् आरभ्यते लोपे पुनः प्राप्ते च अप्राप्ते च । यदि तर्हि सस्य इति वर्तते अनडुद्भ्याम् अनडुद्भिः इति अत्र न प्राप्नोति । वचनात् अनडुहि भविष्यति । यदि एवम् । अनडुहः दत्वे नकारप्रतिषेधः । अनडुहः दत्वे नकारस्य प्रतिषेधः वक्तव्यः । अनड्वान् । सिद्धम् तु प्रतिपदविधानात् नुमः । सिद्धम् एतत् । कथम् । नुमः प्रतिपदविधानसामर्थ्यात् दत्वम् न भविष्यति । यदि तर्हि यत् यत् अनडुहः प्राप्तम् तत् तत् नुमः प्रतिपदविधानसामर्थ्यात् बाध्यते रुत्वम् अपि न प्राप्नोति । अनड्वान् तत्र इति । न एषः दोषः । यम् विधिम् प्रति उपदेशः अनर्थकः सः विधिः बाध्यते यस्य तु विधेः निमित्तम् एव न असौ बाध्यते । दत्वम् च प्रति नुमः प्रतिपदविधिः अनर्थकः रोः पुनः निमित्तम् एव ।

KA III,412.16-413.10 Ro V,409-410 iha kasmāt na bhavati . papivān tasthivān iti . sasya iti vartate . evam api atra prāpnoti . lope kṛte na bhaviṣyati . anavakāśam datvam lopam bādheta . sāvakāśam datvam . kaḥ avakāśaḥ . papivadbhyām papivadbhiḥ iti . atra api ruḥ prāpnoti . tat yathā eva rum bādhate evam lopam api bādheta . na bādhate . kim kāraṇam . yena na aprāpte tasya bādhanam bhavati na ca aprāpte rau datvam ārabhyate lope punaḥ prāpte ca aprāpte ca . yadi tarhi sasya iti vartate anaḍudbhyām anaḍudbhiḥ iti atra na prāpnoti . vacanāt anaḍuhi bhaviṣyati . yadi evam . anaḍuhaḥ datve nakārapratiṣedhaḥ . anaḍuhaḥ datve nakārasya pratiṣedhaḥ vaktavyaḥ . anaḍvān . siddham tu pratipadavidhānāt numaḥ . siddham etat . katham . numaḥ pratipadavidhānasāmarthyāt datvam na bhaviṣyati . yadi tarhi yat yat anaḍuhaḥ prāptam tat tat numaḥ pratipadavidhānasāmarthyāt bādhyate rutvam api na prāpnoti . anaḍvān tatra iti . na eṣaḥ doṣaḥ . yam vidhim prati upadeśaḥ anarthakaḥ saḥ vidhiḥ bādhyate yasya tu vidheḥ nimittam eva na asau bādhyate . datvam ca prati numaḥ pratipadavidhiḥ anarthakaḥ roḥ punaḥ nimittam eva .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४१३।११-१९ रो व्,४११ किमर्थम् इदम् उच्यते न हलि इति एव सिद्धम् । न सिध्यति । धातोः इति तत्र वर्तते तत्र रेफवकाराभ्याम् धातुः विशेष्यते । रेफवकारान्तस्य धातोः इति । किम् पुनः कारणम् पूर्वस्मिन् योगे रेफवकाराभ्याम् धातुः विशेष्यते । इह मा भूत् । अग्निः वायुः इति । एवम् तर्हि पूर्वस्मिन् योगे यत् धातुग्रहणम् तत् उत्तरत्र निवृत्तम् । एवम् अपि कुर्कुरः मुर्मुरः इति अत्र अपि प्राप्नोति । एवम् तर्हि अनुवर्तते तत्र धातुग्रहणम् न तु रेफवकाराभ्याम् धातुः विशेष्यते । किम् तर्हि । इक् विशेष्यते । रेफवकारान्तस्य इकः धातोः इति । एवम् अपि कुर्कुरीयति मुर्मुरीयति इति अत्र प्राप्नोति । तस्मात् धातुः एव विशेष्यः धातौ च विशेष्यमाणे उपधायाम् च इति वक्तव्यम् ।

KA III,413.11-19 Ro V,411 kimartham idam ucyate na hali iti eva siddham . na sidhyati . dhātoḥ iti tatra vartate tatra rephavakārābhyām dhātuḥ viśeṣyate . rephavakārāntasya dhātoḥ iti . kim punaḥ kāraṇam pūrvasmin yoge rephavakārābhyām dhātuḥ viśeṣyate . iha mā bhūt . agniḥ vāyuḥ iti . evam tarhi pūrvasmin yoge yat dhātugrahaṇam tat uttaratra nivṛttam . evam api kurkuraḥ murmuraḥ iti atra api prāpnoti . evam tarhi anuvartate tatra dhātugrahaṇam na tu rephavakārābhyām dhātuḥ viśeṣyate . kim tarhi . ik viśeṣyate . rephavakārāntasya ikaḥ dhātoḥ iti . evam api kurkurīyati murmurīyati iti atra prāpnoti . tasmāt dhātuḥ eva viśeṣyaḥ dhātau ca viśeṣyamāṇe upadhāyām ca iti vaktavyam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४१३।२०-४१४।७ रो व्,४११-४१२ उपधादीर्घत्वे अभ्यासजिव्रिचतुर्णाम् प्रतिषेधः । उपधादीर्घत्वे अभ्यासजिवृइचतुर्णाम् प्रतिषेधः वक्तव्यः । रिर्यतुः रिर्युः । संविव्यतुः संविव्युः । जिव्रः । चतुर्यिता चतुर्यितुम् । उणादिप्रतिषेधः च । उणादीनाम् च प्रतिषेधः वक्तव्यः । किर्योः गिर्योः इति । अभ्यासप्रतिषेधः तावत् न वक्तव्यः । हलि इति उच्यते न च अत्र हलादिम् पश्यामः । यणादेशे कृते प्राप्नोति । स्थानिवद्भावात् न भविष्यति । प्रतिषिध्यते अत्र स्थानिवद्भावः दीर्घविधिम् प्रति न स्थानिवत् इति । न एषः अस्ति प्रतिषेधः । उक्तम् एतत् प्रतिषेधे स्वरदिर्घयलोपेषु लोपाजादेशः इति । जिव्रिप्रतिषेधः च न वक्तव्यः । उणादयः अव्युत्पन्नानि प्रातिपदिकानि । चतुर्यिता चतुर्यितुम् इति सुपि न इति वर्तते । यदि एवम् गीर्भ्याम् गीर्भिः इति अप्रसिद्धिः । न सुपः विभक्तिविपरिणामात् गीर्भ्याम् गीर्भिः इति अदोषः । उणादिप्रतिषेधः वक्तव्यः इति परिहृतम् एतत् उणादयः अव्युत्पन्नानि प्रातिपदिकानि इति ।

KA III,413.20-414.7 Ro V,411-412 upadhādīrghatve abhyāsajivricaturṇām pratiṣedhaḥ . upadhādīrghatve abhyāsajivṛicaturṇām pratiṣedhaḥ vaktavyaḥ . riryatuḥ riryuḥ . saṃvivyatuḥ saṃvivyuḥ . jivraḥ . caturyitā caturyitum . uṇādipratiṣedhaḥ ca . uṇādīnām ca pratiṣedhaḥ vaktavyaḥ . kiryoḥ giryoḥ iti . abhyāsapratiṣedhaḥ tāvat na vaktavyaḥ . hali iti ucyate na ca atra halādim paśyāmaḥ . yaṇādeśe kṛte prāpnoti . sthānivadbhāvāt na bhaviṣyati . pratiṣidhyate atra sthānivadbhāvaḥ dīrghavidhim prati na sthānivat iti . na eṣaḥ asti pratiṣedhaḥ . uktam etat pratiṣedhe svaradirghayalopeṣu lopājādeśaḥ iti . jivripratiṣedhaḥ ca na vaktavyaḥ . uṇādayaḥ avyutpannāni prātipadikāni . caturyitā caturyitum iti supi na iti vartate . yadi evam gīrbhyām gīrbhiḥ iti aprasiddhiḥ . na supaḥ vibhaktivipariṇāmāt gīrbhyām gīrbhiḥ iti adoṣaḥ . uṇādipratiṣedhaḥ vaktavyaḥ iti parihṛtam etat uṇādayaḥ avyutpannāni prātipadikāni iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४१४।८-१९ रो व्,४१२-४१३ अदसः अनोस्रेः । अदसः अनोस्रेः इति वक्तव्यम् । किम् इदम् अनोस्रेः इति । अनोकारस्य असकारस्य अरेफकस्य इति । अनोकारस्य । अदः अत्र । असकारस्य । अदस्यते । अरेफकस्य । अदः । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । क्रियते न्यासे एव । अविभक्तिकः निर्देशः । अदस् , ओ , इति । ओकारात् परः पतिषेधः पूर्वभूतः । ततः सकारः । ततः रेफः इति । अथ वा न एवम् विज्ञायते अदसः असकारस्य इति । कथम् तर्हि । अकारः अस्य सकारस्य सः अयम् असिः असेः इति । यदि एवम् अमुमुयङ् इति न सिध्यति अदद्र्यङ् इति प्राप्नोति । अदमुयङ् इति भवितव्यम् अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति इति । अदसः अद्रेः पृथक् मुत्वम् केचित् इच्छन्ति लत्ववत् । केचित् अन्त्यसदेशस्य । न इति एके । असेः हि दृश्यते ।

KA III,414.8-19 Ro V,412-413 adasaḥ anosreḥ . adasaḥ anosreḥ iti vaktavyam . kim idam anosreḥ iti . anokārasya asakārasya arephakasya iti . anokārasya . adaḥ atra . asakārasya . adasyate . arephakasya . adaḥ . tat tarhi vaktavyam . na vaktavyam . kriyate nyāse eva . avibhaktikaḥ nirdeśaḥ . adas , o , iti . okārāt paraḥ patiṣedhaḥ pūrvabhūtaḥ . tataḥ sakāraḥ . tataḥ rephaḥ iti . atha vā na evam vijñāyate adasaḥ asakārasya iti . katham tarhi . akāraḥ asya sakārasya saḥ ayam asiḥ aseḥ iti . yadi evam amumuyaṅ iti na sidhyati adadryaṅ iti prāpnoti . adamuyaṅ iti bhavitavyam anantyavikāre antyasadeśasya kāryam bhavati iti . adasaḥ adreḥ pṛthak mutvam kecit icchanti latvavat . kecit antyasadeśasya . na iti eke . aseḥ hi dṛśyate .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४१४।२०-२४ रो व्,४१३ तत्र पदाधिकारात् अपदान्तस्य अप्राप्तिः । तत्र पदाधिकारात् अपदान्तस्य न प्राप्नोति । अमुया अमुयोः इति । सिद्धम् तु सकारप्रतिषेधात् । सिद्धम् एतत् । कथम् । सकारप्रतिषेधात् । यत् अयम् असेः इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः अपदान्तस्य अपि भवति इति ।

KA III,414.20-24 Ro V,413 tatra padādhikārāt apadāntasya aprāptiḥ . tatra padādhikārāt apadāntasya na prāpnoti . amuyā amuyoḥ iti . siddham tu sakārapratiṣedhāt . siddham etat . katham . sakārapratiṣedhāt . yat ayam aseḥ iti pratiṣedham śāsti tat jñāpayati ācāryaḥ apadāntasya api bhavati iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४१५।१-४ रो व्,४१४ अथ दाद्ग्रहणम् किमर्थम् । दाद्ग्रहणम् अन्त्यप्रतिषेधार्थम् । दाद्ग्रहणम् क्रियते अन्त्यप्रतिषेधार्थम् । अलः अन्त्यस्य मा भूत् इति । अमुया अमुयोः इति ।

KA III,415.1-4 Ro V,414 atha dādgrahaṇam kimartham . dādgrahaṇam antyapratiṣedhārtham . dādgrahaṇam kriyate antyapratiṣedhārtham . alaḥ antyasya mā bhūt iti . amuyā amuyoḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४१५।५-१० रो व्,४१४ ईत्त्वम् बहुवचनान्तस्य । ईत्त्वम् बहुवचनान्तस्य इति वक्तव्यम् । बहुवचने इति इयति उच्यमाने इह एव स्यात् । अमीभिः अमीषु। इह न स्यात् । अमी अत्र । अमी आसते । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । न इदम् पारिभाषिकस्य बहुवचनस्य ग्रहणम् । किम् तर्हि । अन्वर्थग्रहणम् एतत् । बहूनाम् अर्थानाम् वचनम् बहुवचनम् बहुवचने इति ।

KA III,415.5-10 Ro V,414 īttvam bahuvacanāntasya . īttvam bahuvacanāntasya iti vaktavyam . bahuvacane iti iyati ucyamāne iha eva syāt . amībhiḥ amīṣu. iha na syāt . amī atra . amī āsate . tat tarhi vaktavyam . na vaktavyam . na idam pāribhāṣikasya bahuvacanasya grahaṇam . kim tarhi . anvarthagrahaṇam etat . bahūnām arthānām vacanam bahuvacanam bahuvacane iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४१५।११-४१६।६ रो व्,४१४-४१६ वाक्याधिकारः किमर्थः । वाक्याधिकारः पदनिवृत्त्यर्थः । वाक्याधिकारः क्रियते पदनिवृत्त्यर्थः । पदाधिकारः निवर्त्यते । न हि काकः वाश्यते इति अधिकाराः निवर्तन्ते । दोषः खलु अपि स्यात् यदि वाक्याधिकारः पदाधिकारम् निवर्तयेत् । इष्यन्ते एव उत्तरत्र पदकार्याणि तानि न सिध्यन्ति । नश्छव्यप्रशान् इति । पदनिवृत्त्यर्थम् इति न एवम् विज्ञायते पदस्य निवृत्त्यर्थम् पदनिवृत्त्यर्थम् इति । किम् तर्हि। पदे निवृत्त्यर्थम् पदनिवृत्त्यर्थम् इति । वाक्ये यावन्ति पदानि तेषाम् सर्वेषाम् टेः प्लुतः प्राप्नोति । इष्यते च वाक्यपदयोः अन्त्यस्य स्यात् इति तत् च अन्तरेण यत्नम् न सिध्यति इति एवमर्थः वाक्याधिकारः । अथ टिग्रहणम् किमर्थम् । टिग्रहणम् अलः अन्त्यनियमे व्यञ्जनान्तार्थम् । टिग्रहणम् क्रियते अलः अन्त्यनियमे व्यञ्जनान्तस्य अपि यथा स्यात् । अग्निचि३त् सोमसु३त् । अस्ति प्रयोजनम् एतत् । किम् तर्हि इति । सर्वादेशप्रसङ्गः तु । सर्वादेशः तु टेः प्लुतः प्राप्नोति । किम् कारणम् । अचः इति वचनात् अन्त्यस्य न अन्त्यस्य इति वचनात् अचः न उच्यते च प्लुतः सः सर्वादेशः प्राप्नोति । उक्तम् वा । किम् उक्तम् । ह्रस्वः दीर्घः प्लुतः इति यत्र ब्रूयात् अचः इति एतत् तत्र उपस्थितम् द्रष्टव्यम् इति ।

KA III,415.11-416.6 Ro V,414-416 vākyādhikāraḥ kimarthaḥ . vākyādhikāraḥ padanivṛttyarthaḥ . vākyādhikāraḥ kriyate padanivṛttyarthaḥ . padādhikāraḥ nivartyate . na hi kākaḥ vāśyate iti adhikārāḥ nivartante . doṣaḥ khalu api syāt yadi vākyādhikāraḥ padādhikāram nivartayet . iṣyante eva uttaratra padakāryāṇi tāni na sidhyanti . naśchavyapraśān iti . padanivṛttyartham iti na evam vijñāyate padasya nivṛttyartham padanivṛttyartham iti . kim tarhi. pade nivṛttyartham padanivṛttyartham iti . vākye yāvanti padāni teṣām sarveṣām ṭeḥ plutaḥ prāpnoti . iṣyate ca vākyapadayoḥ antyasya syāt iti tat ca antareṇa yatnam na sidhyati iti evamarthaḥ vākyādhikāraḥ . atha ṭigrahaṇam kimartham . ṭigrahaṇam alaḥ antyaniyame vyañjanāntārtham . ṭigrahaṇam kriyate alaḥ antyaniyame vyañjanāntasya api yathā syāt . agnici3t somasu3t . asti prayojanam etat . kim tarhi iti . sarvādeśaprasaṅgaḥ tu . sarvādeśaḥ tu ṭeḥ plutaḥ prāpnoti . kim kāraṇam . acaḥ iti vacanāt antyasya na antyasya iti vacanāt acaḥ na ucyate ca plutaḥ saḥ sarvādeśaḥ prāpnoti . uktam vā . kim uktam . hrasvaḥ dīrghaḥ plutaḥ iti yatra brūyāt acaḥ iti etat tatra upasthitam draṣṭavyam iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४१६।७-१५ रो व्,४१६-४१७ अशूद्रे इति किमर्थम् । कुशली असि तुषजक । अत्यल्पम् इदम् उच्यते : असूद्रे इति । अशूद्रस्त्र्यसूयकेषु । अशूद्रस्त्र्यसूयकेषु इति वक्तव्यम् । तत्र शूद्रे उदाहृतम् । स्त्रियाम् : गार्गी अहम् , भोः आयुष्मती भव गार्गि । असूयके : स्थाली अहम् , भोः आयुष्मान् एधि स्थालि३न् । न एषा मम सञ्ज्ञा स्थाली इति । किम् तर्हि दण्डिन्यायः मम विवक्षितः । सः वक्तव्यः । स्थाली अहम् भोः आयुष्मान् एधि स्थालिन् । न मम दण्डिन्यायः विवक्षितः । किम् तर्हि सञ्ज्ञा मम एषा । असूयकः त्वम् असि जाल्म न त्वम् प्रत्यभिवादम् अर्हसि भिद्यस्व वृषल स्थालिन् ।

KA III,416.7-15 Ro V,416-417 aśūdre iti kimartham . kuśalī asi tuṣajaka . atyalpam idam ucyate : asūdre iti . aśūdrastryasūyakeṣu . aśūdrastryasūyakeṣu iti vaktavyam . tatra śūdre udāhṛtam . striyām : gārgī aham , bhoḥ āyuṣmatī bhava gārgi . asūyake : sthālī aham , bhoḥ āyuṣmān edhi sthāli3n . na eṣā mama sañjñā sthālī iti . kim tarhi daṇḍinyāyaḥ mama vivakṣitaḥ . saḥ vaktavyaḥ . sthālī aham bhoḥ āyuṣmān edhi sthālin . na mama daṇḍinyāyaḥ vivakṣitaḥ . kim tarhi sañjñā mama eṣā . asūyakaḥ tvam asi jālma na tvam pratyabhivādam arhasi bhidyasva vṛṣala sthālin .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४१६।१६-२२ रो व्,४१७ भोराजन्यविशाम् वा । भोराजन्यविशाम् वा इति वक्तव्यम् । देवदत्तः अहम् भोः आयुष्मान् एधि देवदत्त भो३ः । देवदत्त भोः । भोः । राजन्य । इन्द्रवर्मा अहम् भोः आयुष्मान् एधि इन्द्रवर्म३न् । इन्द्रवर्मन् । राजन्य । विट् । इन्द्रपालितः अहम् भोः आयुष्मान् एधि इन्द्रपालित३ । इन्द्रपालित । अपरः आह : । सर्वस्य एव नाम्नः प्रत्यभिवादे भोःशब्दः आदेशः वक्तव्यः । देवदत्तः अहम् भोः आयुष्मान् एधि भो३ः । आयुष्मान् एधि देवदत्त३ इति वा ।

KA III,416.16-22 Ro V,417 bhorājanyaviśām vā . bhorājanyaviśām vā iti vaktavyam . devadattaḥ aham bhoḥ āyuṣmān edhi devadatta bho3ḥ . devadatta bhoḥ . bhoḥ . rājanya . indravarmā aham bhoḥ āyuṣmān edhi indravarma3n . indravarman . rājanya . viṭ . indrapālitaḥ aham bhoḥ āyuṣmān edhi indrapālita3 . indrapālita . aparaḥ āha : . sarvasya eva nāmnaḥ pratyabhivāde bhoḥśabdaḥ ādeśaḥ vaktavyaḥ . devadattaḥ aham bhoḥ āyuṣmān edhi bho3ḥ . āyuṣmān edhi devadatta3 iti vā .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४१६।२३-४१७।५ रो व्,४१७-४१८ इह कस्मात् न भवति । देवदत्त कुशली असि इति । इह किम् चित् उच्यते किम् चित् प्रत्युच्यते । अप्रधानम् उच्यते प्रधानम् प्रत्युच्यते । तत्र प्रधानस्थस्य टिसञ्ज्ञकस्य प्लुत्या भवितव्यम् न च अत्र प्रधानस्थम् टिसञ्ज्ञम् । इह अपि तर्हि न प्राप्नोति । आधेयः अग्नि३ः न आधेय३ः इति । न एतत् विचार्यते आधेयः न आधेयः अग्निः चेत् भवति इति । किम् तर्हि । इह अग्निसाधना क्रिया विचार्यते आधेयः अग्निः न आधेयः इति । यदि एवम् द्वितीयः अग्निशब्दस्य प्रयोगः प्राप्नोति । उक्तार्थानाम् अप्रयोगः इति न भविष्यति । यदि एवम् आधेयशब्दस्य अपि तर्हि द्वितीयस्य प्रयोगः न प्राप्नोति उक्तार्थानाम् अप्रयोगः नाम भवति इति । न एषः दोषः । उक्तार्थानाम् अपि प्रयोगः दृश्यते । तत् यथा । अपूपौ द्वौ आनय । ब्राह्मणौ द्वौ आनय इति ।

KA III,416.23-417.5 Ro V,417-418 iha kasmāt na bhavati . devadatta kuśalī asi iti . iha kim cit ucyate kim cit pratyucyate . apradhānam ucyate pradhānam pratyucyate . tatra pradhānasthasya ṭisañjñakasya plutyā bhavitavyam na ca atra pradhānastham ṭisañjñam . iha api tarhi na prāpnoti . ādheyaḥ agni3ḥ na ādheya3ḥ iti . na etat vicāryate ādheyaḥ na ādheyaḥ agniḥ cet bhavati iti . kim tarhi . iha agnisādhanā kriyā vicāryate ādheyaḥ agniḥ na ādheyaḥ iti . yadi evam dvitīyaḥ agniśabdasya prayogaḥ prāpnoti . uktārthānām aprayogaḥ iti na bhaviṣyati . yadi evam ādheyaśabdasya api tarhi dvitīyasya prayogaḥ na prāpnoti uktārthānām aprayogaḥ nāma bhavati iti . na eṣaḥ doṣaḥ . uktārthānām api prayogaḥ dṛśyate . tat yathā . apūpau dvau ānaya . brāhmaṇau dvau ānaya iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४१७।६-१४ रो व्,४१९ दूरात् हूते इति उच्यते दूरशब्दः च अयम् अनवस्थितपदार्थकः । तत् एव हि कम् चित् प्रति दूरम् कम् चित् प्रति अन्तिकम् भवति । एवम् हि कः चित् कम् चित् आह । एषः पार्श्वतः करकः तम् आनय इति । सः आह । उत्थाय गृहाण दूरम् न शक्ष्यामि इति । अपरः आह : दूरम् मथुरायाः पाटलिपुत्रम् इति । सः आह । न दूरम् इदम् अन्तिकम् इति । एवम् एषः दूरशब्दः अनवस्थितपदार्थकः तस्य अनवस्थितपदार्थकत्वात् न ज्ञायते कस्याम् अवस्थायाम् प्लुत्या भवितव्यम् इति । एवम् तर्हि ह्वयतिना अयम् निर्देशः क्रियते । ह्वयतिप्रसङ्गे यत् दूरम् । किम् पुनः तत् । तत्र प्राकृतात् प्रयत्नात् प्रयत्नविशेषे उपादीयमाने सन्देहः भवति श्रोष्यति न श्रोष्यति इति तत् दूरम् इह अवगम्यते ।

KA III,417.6-14 Ro V,419 dūrāt hūte iti ucyate dūraśabdaḥ ca ayam anavasthitapadārthakaḥ . tat eva hi kam cit prati dūram kam cit prati antikam bhavati . evam hi kaḥ cit kam cit āha . eṣaḥ pārśvataḥ karakaḥ tam ānaya iti . saḥ āha . utthāya gṛhāṇa dūram na śakṣyāmi iti . aparaḥ āha : dūram mathurāyāḥ pāṭaliputram iti . saḥ āha . na dūram idam antikam iti . evam eṣaḥ dūraśabdaḥ anavasthitapadārthakaḥ tasya anavasthitapadārthakatvāt na jñāyate kasyām avasthāyām plutyā bhavitavyam iti . evam tarhi hvayatinā ayam nirdeśaḥ kriyate . hvayatiprasaṅge yat dūram . kim punaḥ tat . tatra prākṛtāt prayatnāt prayatnaviśeṣe upādīyamāne sandehaḥ bhavati śroṣyati na śroṣyati iti tat dūram iha avagamyate .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४१७।१५-२४ रो व्,४१९-४२० हैहेग्रहणम् किमर्थम् । हैहेप्रयोगे हैहेग्रहणम् हैहयोः प्लुत्यर्थम् । हैहेप्रयोगे ःऐहेग्रहणम् क्रियते हैहयोः प्लुतिः यथा स्यात् । देवदत्त है३ । देवदत्त हे३ । अक्रियमाणे हि हैहेग्रहणे तयोः प्रयोगे अन्यस्य स्यात् । अथ प्रयोगग्रहणम् किमर्थम् । प्रयोगग्रहणम् अर्थवद्ग्रहणे अनर्थकार्थम् । प्रयोगग्रहणम् क्रियते अर्थवद्ग्रहणे अनर्थकयोः अपि यथा स्यात् । देवदत्त है३ । देवदत्त हे३ । अथ पुनः हैहेग्रहणम् किमर्थम् । पुनः हैहेग्रहणम् अनन्त्यार्थम् । पुनः हैहेग्रहणम् क्रियते अनन्त्ययोः अपि यथा स्यात् । है३ देवदत्त । हे३ देवदत्त इति ।

KA III,417.15-24 Ro V,419-420 haihegrahaṇam kimartham . haiheprayoge haihegrahaṇam haihayoḥ plutyartham . haiheprayoge ḥaihegrahaṇam kriyate haihayoḥ plutiḥ yathā syāt . devadatta hai3 . devadatta he3 . akriyamāṇe hi haihegrahaṇe tayoḥ prayoge anyasya syāt . atha prayogagrahaṇam kimartham . prayogagrahaṇam arthavadgrahaṇe anarthakārtham . prayogagrahaṇam kriyate arthavadgrahaṇe anarthakayoḥ api yathā syāt . devadatta hai3 . devadatta he3 . atha punaḥ haihegrahaṇam kimartham . punaḥ haihegrahaṇam anantyārtham . punaḥ haihegrahaṇam kriyate anantyayoḥ api yathā syāt . hai3 devadatta . he3 devadatta iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४१८।१-१० रो व्,४२०-४२१ गुरोः प्लुतविधाने लघोः अन्त्यस्य प्लुतप्रसङ्गः अन्येन विहितत्वात् । गुरोः प्लुतविधाने लघोः अन्त्यस्य प्लुतः प्राप्नोति । दे३वदत्त । किम् कारणम् । अन्येन विहितत्वात् । अन्येन हि लक्षणेन लघोः अन्त्यस्य प्लुतः विधीयते दूराद्धूतेच इति । न वा अनन्त्यस्य अपि इति वचनम् उभयनिर्देशार्थम् । न वा एषः दोषः । किम् कारणम् । अनन्त्यस्य अपि इति वचनम् उभयनिर्देशार्थम् भविष्यति । अनन्त्यस्य अपि गुरोः अन्त्यस्य अपि टेः इति । ननु च एतत् गुर्वपेक्षम् स्यात् । अनन्त्यस्य अपि गुरोः अन्त्यस्य अपि गुरोः इति । न इति आह । द्व्यपेक्षम् एतत् । अनन्त्यस्य अपि गुरोः अन्त्यस्य अपि टेः इति ।

KA III,418.1-10 Ro V,420-421 guroḥ plutavidhāne laghoḥ antyasya plutaprasaṅgaḥ anyena vihitatvāt . guroḥ plutavidhāne laghoḥ antyasya plutaḥ prāpnoti . de3vadatta . kim kāraṇam . anyena vihitatvāt . anyena hi lakṣaṇena laghoḥ antyasya plutaḥ vidhīyate dūrāddhūteca iti . na vā anantyasya api iti vacanam ubhayanirdeśārtham . na vā eṣaḥ doṣaḥ . kim kāraṇam . anantyasya api iti vacanam ubhayanirdeśārtham bhaviṣyati . anantyasya api guroḥ antyasya api ṭeḥ iti . nanu ca etat gurvapekṣam syāt . anantyasya api guroḥ antyasya api guroḥ iti . na iti āha . dvyapekṣam etat . anantyasya api guroḥ antyasya api ṭeḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४१८।१०-२४ रो व्,४२१-४२२ अथ प्राग्वचनम् किमर्थम् । प्राग्वचनम् विभाषार्थम् । प्राग्वचनम् क्रियते विभाषा यथा स्यात् । प्राग्वचनानर्थक्यम् च एकैकस्य इति वचनात् । प्राग्वचनम् अनर्थकम् । किम् कारणम् । एकैकस्य इति वचनात् । एकैकग्रहणम् क्रियते तत् विभाषार्थम् भविष्यति । अस्ति अन्यत् एकैकग्रहणस्य प्रयोजनम् । किम् । युगपत् प्लुतः मा भूत् इति । अनुदात्तम् पदम् एकवर्जम् इति वचनात् न अस्ति यौगपद्येन सम्भवः । असिद्धः प्लुतः तस्य असिद्धत्वात् नियमः न प्राप्नोति । न एषः दोषः । यदि अपि इदम् तत्र असिद्धम् तत् तु इह सिद्धम् । कथम् । कार्यकालम् सञ्ज्ञापरिभाषम् इति यत्र कार्यम् तत्र उपस्थितम् द्रष्टव्यम् । गुरोः अनृतः अनन्त्यस्य अपि एकैकस्य प्राचाम् । उपस्थितम् इदम् भवति अनुदात्तम्पदमेकवर्जम् इति । इह अपि तर्हि समावेशः न प्राप्नोति । देवदत्त३ । सिद्धासिद्धौ एतौ । यौ हि सिद्धौ एव असिद्धौ एव वा तयोः नियमः । यः तर्हि स्वरितप्लुतः तेन समावेशः प्राप्नोति । स्वरितमाम्रेडितेऽसूयासम्मतिकोपकुत्सनेषु इति । स्वरिते अपि उदात्तः अस्ति । यः तर्हि अनुदात्तप्लुतः तेन समावेशः प्राप्नोति । अनुदात्तम्प्रश्नान्ताभिपूजितयोः इति । तस्मात् प्राग्वचनम् कर्तव्यम् ।

KA III,418.10-24 Ro V,421-422 atha prāgvacanam kimartham . prāgvacanam vibhāṣārtham . prāgvacanam kriyate vibhāṣā yathā syāt . prāgvacanānarthakyam ca ekaikasya iti vacanāt . prāgvacanam anarthakam . kim kāraṇam . ekaikasya iti vacanāt . ekaikagrahaṇam kriyate tat vibhāṣārtham bhaviṣyati . asti anyat ekaikagrahaṇasya prayojanam . kim . yugapat plutaḥ mā bhūt iti . anudāttam padam ekavarjam iti vacanāt na asti yaugapadyena sambhavaḥ . asiddhaḥ plutaḥ tasya asiddhatvāt niyamaḥ na prāpnoti . na eṣaḥ doṣaḥ . yadi api idam tatra asiddham tat tu iha siddham . katham . kāryakālam sañjñāparibhāṣam iti yatra kāryam tatra upasthitam draṣṭavyam . guroḥ anṛtaḥ anantyasya api ekaikasya prācām . upasthitam idam bhavati anudāttampadamekavarjam iti . iha api tarhi samāveśaḥ na prāpnoti . devadatta3 . siddhāsiddhau etau . yau hi siddhau eva asiddhau eva vā tayoḥ niyamaḥ . yaḥ tarhi svaritaplutaḥ tena samāveśaḥ prāpnoti . svaritamāmreḍite'sūyāsammatikopakutsaneṣu iti . svarite api udāttaḥ asti . yaḥ tarhi anudāttaplutaḥ tena samāveśaḥ prāpnoti . anudāttampraśnāntābhipūjitayoḥ iti . tasmāt prāgvacanam kartavyam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४१९।१-५ रो व्,४२२ ये यज्ञकर्मणि इति अतिप्रसङ्गः । ये यज्ञकर्मणि इति अतिप्रसङ्गः भवति । इह अपि प्राप्नोति । ये देवासः दिव्येकादश स्थ इति । सिद्धम् तु ये यजामहे इति ब्रूह्यादिषु उपसङ्ख्यानात् । सिद्धम् एतत् । कथम् । येयजामहेशब्दः ब्रूह्यादिषु उपसङ्ख्येयः ।

KA III,419.1-5 Ro V,422 ye yajñakarmaṇi iti atiprasaṅgaḥ . ye yajñakarmaṇi iti atiprasaṅgaḥ bhavati . iha api prāpnoti . ye devāsaḥ divyekādaśa stha iti . siddham tu ye yajāmahe iti brūhyādiṣu upasaṅkhyānāt . siddham etat . katham . yeyajāmaheśabdaḥ brūhyādiṣu upasaṅkhyeyaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४१९।६-९ रो व्,४२३ प्रणवः इति उच्यते कः प्रणवः नाम । पादस्य वा अर्धर्चस्य वा अन्त्यम् अक्षरम् उपसंहृत्य तदाद्यक्षरशेषस्य स्थाने त्रिमात्रम् ओङ्कारम् त्रिमात्रम् ओकारम् वा विदधति तम् प्रणवः इति आचक्षते । अथ टिग्रहणम् किमर्थम् । टिग्रहणम् सर्वादेशार्थम् । यदा ओकारः तदा सर्वादेशः यथा स्यात् । यदा ओङ्कारः तदा अनेकाल्शित्सर्वस्य इति सर्वादेशः भविष्यति ।

KA III,419.6-9 Ro V,423 praṇavaḥ iti ucyate kaḥ praṇavaḥ nāma . pādasya vā ardharcasya vā antyam akṣaram upasaṃhṛtya tadādyakṣaraśeṣasya sthāne trimātram oṅkāram trimātram okāram vā vidadhati tam praṇavaḥ iti ācakṣate . atha ṭigrahaṇam kimartham . ṭigrahaṇam sarvādeśārtham . yadā okāraḥ tadā sarvādeśaḥ yathā syāt . yadā oṅkāraḥ tadā anekālśitsarvasya iti sarvādeśaḥ bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,५१९।१३-१६ रो व्,४२४ अन्तग्रहणम् किमर्थम् । याज्या नाम ऋचः वाक्यसमुदायः तत्र यावन्ति वाक्यानि सर्वेषाम् टेः प्लुतः प्राप्नोति । इष्यते च अन्त्यस्य स्यात् इति तत् च अन्तरेण यत्नम् न सिध्यति इति एवमर्थम् अन्तग्रहणम् ।

KA III,519.13-16 Ro V,424 antagrahaṇam kimartham . yājyā nāma ṛcaḥ vākyasamudāyaḥ tatra yāvanti vākyāni sarveṣām ṭeḥ plutaḥ prāpnoti . iṣyate ca antyasya syāt iti tat ca antareṇa yatnam na sidhyati iti evamartham antagrahaṇam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४१९।१७-४२०।४ रो व्,४२४ अग्नीत्प्रेषणे इति अतिप्रसङ्गः । अग्नीत्प्रेषणे इति अतिप्रसङ्गः भवति । इह अपि प्राप्नोति । अग्नीदग्नीन्विहर । सिद्धम् तु ओश्रावये परस्य च इति वचनात् । सिद्धम् एतत् । कथम् । ओश्रावये परस्य इति वक्तव्यम् । ओ३ श्रा३वय । आ३ श्रा३वय । अपरः आह : ओश्रावयाश्रावययोः इति वक्तव्यम् । ओ३ श्रा३वय । अ३ श्र३वय ।

KA III,419.17-420.4 Ro V,424 agnītpreṣaṇe iti atiprasaṅgaḥ . agnītpreṣaṇe iti atiprasaṅgaḥ bhavati . iha api prāpnoti . agnīdagnīnvihara . siddham tu ośrāvaye parasya ca iti vacanāt . siddham etat . katham . ośrāvaye parasya iti vaktavyam . o3 śrā3vaya . ā3 śrā3vaya . aparaḥ āha : ośrāvayāśrāvayayoḥ iti vaktavyam . o3 śrā3vaya . a3 śra3vaya .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४२०।५-८ रो व्,४२४-४२५ बहुलम् अन्यत्र इति वक्तव्यम् । उद्धर३ उद्धर । आहर३ आहर । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । योगविभागः करिष्यते । अग्नीत्प्रेषणे परस्य च विभाषा । ततः पृष्ठप्रतिवचने हेः । विभाषा इति एव । अपरः आह : सर्वः एव प्लुतः साहसम् अनिच्छता विभाषा वक्तव्यः ।

KA III,420.5-8 Ro V,424-425 bahulam anyatra iti vaktavyam . uddhara3 uddhara . āhara3 āhara . tat tarhi vaktavyam . na vaktavyam . yogavibhāgaḥ kariṣyate . agnītpreṣaṇe parasya ca vibhāṣā . tataḥ pṛṣṭhaprativacane heḥ . vibhāṣā iti eva . aparaḥ āha : sarvaḥ eva plutaḥ sāhasam anicchatā vibhāṣā vaktavyaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४२०।९-१२ रो व्,४२५ भर्त्सने पर्यायेण । भर्त्सने पर्यायेण इति वक्तव्यम् । चौर३ चौर । चौर चौर३ । कुशील३ कुशील । कुशील कुशील३ ।

KA III,420.9-12 Ro V,425 bhartsane paryāyeṇa . bhartsane paryāyeṇa iti vaktavyam . caura3 caura . caura caura3 . kuśīla3 kuśīla . kuśīla kuśīla3 .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४२०।१३-१६ रो व्,४२५ असूयादिषु वावचनम् । असूयादिषु वा इति वक्तव्यम् । कन्ये३ कन्ये । कन्ये कन्ये । शक्तिके३ शक्तिके । शक्तिके शक्तिके ।

KA III,420.13-16 Ro V,425 asūyādiṣu vāvacanam . asūyādiṣu vā iti vaktavyam . kanye3 kanye . kanye kanye . śaktike3 śaktike . śaktike śaktike .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४२०।१७-४२१।१४ रो व्,४२६-४२७ किमर्थम् इदम् उच्यते । ऐचोः उभयविवृद्धिप्रसङ्गात् इदुतोः प्लुतवचनम् । ऐचोः उभयविऋद्धिप्रसङ्गात् इदुतोः प्लुतः उच्यते । किम् उच्यते उभयविवृद्धिप्रसङ्गात् इति यदा नित्याः शब्दाः नित्येषु च शब्देषु कूटस्थैः अविचालिभिः वर्णैः भवितव्यम् अनपायोपजनविकारिभिः । न एषः दोषः । उभयविवृद्धिप्रसङ्गात् इति न एवम् विज्ञायते उभयोः विवृद्धिः उभयविवृद्धिः उभयविवृद्धिप्रसङ्गात् इति । कथम् तर्हि । उभयोः विवृद्धिः अस्मिन् सः अयम् उभयविवृद्धिः उभयविवृद्धिप्रसङ्गात् इति । इमौ ऐचौ समाहारवर्णौ मात्रा अवर्णस्य मात्रा इवर्णोवर्णयोः इति तयोः प्लुतः उच्यमाने उभयविवृद्धिः प्राप्नोति । तत् यथा । अभिवर्धमानः गर्भः सर्वाङ्गपरिपूर्णः वर्धते । अस्ति प्रयोजनम् एतत् । किम् तर्हि इति । तत्र अयथेष्टप्रसङ्गः । तत्र अयथेष्टम् प्रसज्येत । चतुर्मात्रः प्लुतः प्राप्नोति । सिद्धम् तु इदुतोः दीर्घवचनात् । सिद्धम् एतत् । कथम् । इदुतोः दीर्घः भवति इति वक्तव्यम् । तत् एतत् कथम् कृत्वा सिद्धम् भवति । यदि समः प्रविभागः मात्रा अवर्णस्य मात्रा इवर्णोवर्णयोः । अथ हि अर्धमात्रा अवर्णस्य अध्यर्धमात्रा इवर्णोवर्णयोः अर्धतृतीयमात्रः प्राप्नोति । अथ हि अध्यर्धमात्रा अवर्णस्य अर्धमात्रा इवर्णोवर्णयोः अर्धचतुर्थमात्रः प्राप्नोति । सूत्रम् च भिद्यते । यथान्यासम् एव अस्तु । ननु च उक्तम् तत्र अयथेष्टप्रसङ्गः इति । तत्र सौर्यभगवता उक्तम् अनिष्टिज्ञः वाडवः पठति । इष्यते एव चतुर्मात्रः प्लुतः ।

KA III,420.17-421.14 Ro V,426-427 kimartham idam ucyate . aicoḥ ubhayavivṛddhiprasaṅgāt idutoḥ plutavacanam . aicoḥ ubhayaviṛddhiprasaṅgāt idutoḥ plutaḥ ucyate . kim ucyate ubhayavivṛddhiprasaṅgāt iti yadā nityāḥ śabdāḥ nityeṣu ca śabdeṣu kūṭasthaiḥ avicālibhiḥ varṇaiḥ bhavitavyam anapāyopajanavikāribhiḥ . na eṣaḥ doṣaḥ . ubhayavivṛddhiprasaṅgāt iti na evam vijñāyate ubhayoḥ vivṛddhiḥ ubhayavivṛddhiḥ ubhayavivṛddhiprasaṅgāt iti . katham tarhi . ubhayoḥ vivṛddhiḥ asmin saḥ ayam ubhayavivṛddhiḥ ubhayavivṛddhiprasaṅgāt iti . imau aicau samāhāravarṇau mātrā avarṇasya mātrā ivarṇovarṇayoḥ iti tayoḥ plutaḥ ucyamāne ubhayavivṛddhiḥ prāpnoti . tat yathā . abhivardhamānaḥ garbhaḥ sarvāṅgaparipūrṇaḥ vardhate . asti prayojanam etat . kim tarhi iti . tatra ayatheṣṭaprasaṅgaḥ . tatra ayatheṣṭam prasajyeta . caturmātraḥ plutaḥ prāpnoti . siddham tu idutoḥ dīrghavacanāt . siddham etat . katham . idutoḥ dīrghaḥ bhavati iti vaktavyam . tat etat katham kṛtvā siddham bhavati . yadi samaḥ pravibhāgaḥ mātrā avarṇasya mātrā ivarṇovarṇayoḥ . atha hi ardhamātrā avarṇasya adhyardhamātrā ivarṇovarṇayoḥ ardhatṛtīyamātraḥ prāpnoti . atha hi adhyardhamātrā avarṇasya ardhamātrā ivarṇovarṇayoḥ ardhacaturthamātraḥ prāpnoti . sūtram ca bhidyate . yathānyāsam eva astu . nanu ca uktam tatra ayatheṣṭaprasaṅgaḥ iti . tatra sauryabhagavatā uktam aniṣṭijñaḥ vāḍavaḥ paṭhati . iṣyate eva caturmātraḥ plutaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४२१।१५-४२२।२ रो व्,४२७-४२८ एचः प्लुतविकारे पदान्तग्रहणम् । एचः प्लुतविकारे पदान्तग्रहणम् कर्तव्यम् इह मा भूत् : भद्रम् करोषि गौ३ः इति । विषयपरिगणनम् च । विषयपरिगणनम् च कर्तव्यम् । प्रश्नान्ताभिपूजितविचार्यमाणप्रत्यभिवादयाज्यान्तेषु इति वक्तव्यम् । प्रश्नान्त । अगम३ः पूर्व३न् ग्राम३न् अग्निभूत३इ । पट३उ । प्रश्नान्त । अभिपूजित । सिद्धः असि माणवक अग्निभूत३इ । पट३उ । अभिपूजित । विचार्यमाण । होतव्यम् दीक्षितस्य गृह३इ । विचार्यमाण । प्रत्यभिवाद । आयुष्मान् एधि अग्निभूत३इ । प्रत्यभिवाद । याज्यान्त । उक्षन्नाय वशन्नाय सोमपृष्ठाय वेधसे । स्तोमैः विधेम अग्नय३इ ।

KA III,421.15-422.2 Ro V,427-428 ecaḥ plutavikāre padāntagrahaṇam . ecaḥ plutavikāre padāntagrahaṇam kartavyam iha mā bhūt : bhadram karoṣi gau3ḥ iti . viṣayaparigaṇanam ca . viṣayaparigaṇanam ca kartavyam . praśnāntābhipūjitavicāryamāṇapratyabhivādayājyānteṣu iti vaktavyam . praśnānta . agama3ḥ pūrva3n grāma3n agnibhūta3i . paṭa3u . praśnānta . abhipūjita . siddhaḥ asi māṇavaka agnibhūta3i . paṭa3u . abhipūjita . vicāryamāṇa . hotavyam dīkṣitasya gṛha3i . vicāryamāṇa . pratyabhivāda . āyuṣmān edhi agnibhūta3i . pratyabhivāda . yājyānta . ukṣannāya vaśannāya somapṛṣṭhāya vedhase . stomaiḥ vidhema agnaya3i .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४२२।३-५ रो व्,४२८ आमन्त्रिते छन्दसि उपसङ्ख्यानम् । आमन्त्रिते छन्दसि उपसङ्ख्यानम् कर्तव्यम् । अग्न३इ पत्नीव३ः सजुः देवेन त्वष्ट्रा सोमम् पिब ।

KA III,422.3-5 Ro V,428 āmantrite chandasi upasaṅkhyānam . āmantrite chandasi upasaṅkhyānam kartavyam . agna3i patnīva3ḥ sajuḥ devena tvaṣṭrā somam piba .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४२२।६-१० रो व्,४२८-४२९ अथ कयोः इमौ य्वौ उच्येते । इदुतोः इति आह । तत् इदुतोः ग्रहणम् कर्तव्यम् । न कर्तव्यम् । प्र्कृतम् अनुवर्तते । क्व प्रकृतम् । पूर्वस्य अर्धस्य अदुत्तरस्य इदुतौ इति । तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः । अचि इति एषा सप्तमी इदुतौ इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मिन्नितिनिर्दिष्टेपूर्वस्य इति ।

KA III,422.6-10 Ro V,428-429 atha kayoḥ imau yvau ucyete . idutoḥ iti āha . tat idutoḥ grahaṇam kartavyam . na kartavyam . prkṛtam anuvartate . kva prakṛtam . pūrvasya ardhasya aduttarasya idutau iti . tat vai prathamānirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ . aci iti eṣā saptamī idutau iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati tasminnitinirdiṣṭepūrvasya iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४२२।११-४२३।४ रो व्,४२९-४३० किमर्थम् इदम् उच्यते न इकः यण् अचि इति एव सिद्धम् । न सिध्यति । असिद्धः प्लुतः प्लुतविकारौ च इमौ । सिद्धः प्लुतः स्वरसन्धिषु । कथम् ज्ञायते । यत् अयम् प्लुतः प्रकृत्या इति प्लुतस्य प्रकृतिभावम् शास्ति । कथम् कृत्वा ज्ञापकम् । सतः हि कार्यिणः कार्येण भवितव्यम् । इदम् तर्हि प्रयोजनम् दीर्घशाकलप्रतिषेधार्थम् । दीर्घत्वम् शाकलम् च मा भूत् इति । अग्ना३यिन्द्रम् । पटा३वुदकम् । एतत् अपि न अस्ति प्रयोजनम् । आरभ्यते प्लुतपूर्वस्य यणादेशः प्लुतपुर्वस्य दीर्घशाकलप्रतिषेधार्थम् इति । तत् न वक्तव्यम् भवति । अवश्यम् तत् वक्तव्यम् यौ प्लुतपूर्वौ इदुतौ अप्लुतविकारौ तदर्थम् । भो३यिन्द्र । भो३यिह इति । यदि तर्हि तस्य निबन्धनम् अस्ति तत् एव वक्तव्यम् इदम् न वक्तव्यम् । इदम् अपि अवश्यम् वक्तव्यम् स्वरार्थम् । तेन हि सति उदात्तस्वरितयोर्यणःस्वरितोऽनुदात्तस्य इति एषः स्वरः प्रसज्येत । अनेन पुनः सति असिद्धत्वात् न भविष्यति । यदि तर्हि अस्य निबन्धनम् अस्ति इदम् एव वक्तव्यम् तत् न वक्तव्यम् । ननु च उक्तम् तत् अपि अवश्यम् वक्तव्यम् यौ प्लुतपूर्वौ इदुतौ अप्लुतविकारौ तदर्थम् भो३यिन्द्र भो३यिह इति । छान्दसम् एतत् दृष्टानुविधिः छन्दसि भवति । यत् तर्हि न छान्दसम् । भो३यिन्द्रम् साम गायति । एषः अपि छन्दसि दृष्टस्य अनुप्रयोगः इति । किम् नु यणा भवति इह न सिद्धम् य्वौ इदुतोः यत् अयम् विदधाति । तौ च मम स्वरसन्धिषु सिद्धौ शाकलदीर्घविधी तु निवर्त्यौ ।१। इक् तु यदा भवति प्लुतपूर्वः तस्य यणम् विदधाति अपवादम् । तेन तयोः च न शाकलदीर्घौ यण्स्वरबाधनम् एव तु हेतुः ।

KA III,422.11-423.4 Ro V,429-430 kimartham idam ucyate na ikaḥ yaṇ aci iti eva siddham . na sidhyati . asiddhaḥ plutaḥ plutavikārau ca imau . siddhaḥ plutaḥ svarasandhiṣu . katham jñāyate . yat ayam plutaḥ prakṛtyā iti plutasya prakṛtibhāvam śāsti . katham kṛtvā jñāpakam . sataḥ hi kāryiṇaḥ kāryeṇa bhavitavyam . idam tarhi prayojanam dīrghaśākalapratiṣedhārtham . dīrghatvam śākalam ca mā bhūt iti . agnā3yindram . paṭā3vudakam . etat api na asti prayojanam . ārabhyate plutapūrvasya yaṇādeśaḥ plutapurvasya dīrghaśākalapratiṣedhārtham iti . tat na vaktavyam bhavati . avaśyam tat vaktavyam yau plutapūrvau idutau aplutavikārau tadartham . bho3yindra . bho3yiha iti . yadi tarhi tasya nibandhanam asti tat eva vaktavyam idam na vaktavyam . idam api avaśyam vaktavyam svarārtham . tena hi sati udāttasvaritayoryaṇaḥsvarito'nudāttasya iti eṣaḥ svaraḥ prasajyeta . anena punaḥ sati asiddhatvāt na bhaviṣyati . yadi tarhi asya nibandhanam asti idam eva vaktavyam tat na vaktavyam . nanu ca uktam tat api avaśyam vaktavyam yau plutapūrvau idutau aplutavikārau tadartham bho3yindra bho3yiha iti . chāndasam etat dṛṣṭānuvidhiḥ chandasi bhavati . yat tarhi na chāndasam . bho3yindram sāma gāyati . eṣaḥ api chandasi dṛṣṭasya anuprayogaḥ iti . kim nu yaṇā bhavati iha na siddham yvau idutoḥ yat ayam vidadhāti . tau ca mama svarasandhiṣu siddhau śākaladīrghavidhī tu nivartyau .1. ik tu yadā bhavati plutapūrvaḥ tasya yaṇam vidadhāti apavādam . tena tayoḥ ca na śākaladīrghau yaṇsvarabādhanam eva tu hetuḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४२४।१-६ रो व्,४३१ मतुवसः रादेशे वनः उपसङ्ख्यानम् । मतुवसः रादेशे वनः उपसङ्ख्यानम् कर्तव्यम् । यः त्वा आयन्तम् वसुना प्रातरित्वः । इभाषा भवद्भगवदघवताम् ओत् च अवस्य । छन्दसि भाषायाम् च भवत् भगवत् अघवत् इति एतेषाम् विभाषा रुः वक्तव्यः ओत् च अवस्य वक्तव्यः । भोः , भवन् । भगोः , भगवन् । अघोः , अघवन् इति ।

KA III,424.1-6 Ro V,431 matuvasaḥ rādeśe vanaḥ upasaṅkhyānam . matuvasaḥ rādeśe vanaḥ upasaṅkhyānam kartavyam . yaḥ tvā āyantam vasunā prātaritvaḥ . ibhāṣā bhavadbhagavadaghavatām ot ca avasya . chandasi bhāṣāyām ca bhavat bhagavat aghavat iti eteṣām vibhāṣā ruḥ vaktavyaḥ ot ca avasya vaktavyaḥ . bhoḥ , bhavan . bhagoḥ , bhagavan . aghoḥ , aghavan iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४२४।६-१० रो व्,४३१-४३२ सम्बुद्धौ इति उच्यते तत्र इदम् न सिध्यति । भोः ब्राह्मणाः इति । तथा विभक्तौ लिङ्गविशिष्टग्रहणम् न इति इह न प्राप्नोति । भोः ब्राह्मणि । न एषः दोषः । अव्ययम् एषः भोःशब्दः न एषा भवतः प्रवृत्तिः । कथम् अव्ययत्वम् । विभक्तिस्वरप्रतिरूपकाः च निपाताः भवन्ति इति निपातसञ्ज्ञा निपातः अव्ययम् इति अव्ययसञ्ज्ञा ।

KA III,424.6-10 Ro V,431-432 sambuddhau iti ucyate tatra idam na sidhyati . bhoḥ brāhmaṇāḥ iti . tathā vibhaktau liṅgaviśiṣṭagrahaṇam na iti iha na prāpnoti . bhoḥ brāhmaṇi . na eṣaḥ doṣaḥ . avyayam eṣaḥ bhoḥśabdaḥ na eṣā bhavataḥ pravṛttiḥ . katham avyayatvam . vibhaktisvarapratirūpakāḥ ca nipātāḥ bhavanti iti nipātasañjñā nipātaḥ avyayam iti avyayasañjñā .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४२५।९-२३ रो व्,४३४-४३५ ढलोपे अपदान्तग्रहणम् । ढलोपे अपदान्तग्रहणम् कर्तव्यम् । इह मा भूत् । श्वलिट् ढौकते । गुडलिट् ढौकते । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । जश्त्वम् अत्र बाधकम् भविष्यति । जश्भावात् इति चेत् उत्तरत्र ढस्य अभावात् अपवादप्रसङ्गः । जश्भावात् इति चेत् उत्तरत्र ढकारस्य अभावात् असिद्धत्वात् अपवादः अयम् विज्ञायते । कस्य । जश्त्वस्य । तस्मात् सिद्धवचनम् । तस्मात् सिद्धत्वम् वक्तव्यम् । कस्य । ष्टुत्वस्य । सङ्ग्रहणम् वा । सङ्ग्रहणम् वा कर्तव्यम् । सङि ढः इति वक्तव्यम् । तत्तर्हि वक्तव्यम् । न वक्तव्यम् । आनन्तर्यम् इह आश्रीयते ढकारस्य ढकारे इति । क्व चित् च सन्निपातकृतम् आनन्तर्यम् शास्त्रकृतम् अनानन्तर्यम् क्व चित् च न एव सन्निपातकृतम् न अपि शास्त्रकृतम् । ष्टुत्वे सन्निपातकृतम् आनन्तर्यम् जश्त्वे न एव सन्निपातकृतम् न अपि शास्त्रकृतम् । यत्र कुतः चित् एव आनन्तर्यम् तत् आश्रयिष्यामः ।

KA III,425.9-23 Ro V,434-435 ḍhalope apadāntagrahaṇam . ḍhalope apadāntagrahaṇam kartavyam . iha mā bhūt . śvaliṭ ḍhaukate . guḍaliṭ ḍhaukate . tat tarhi vaktavyam . na vaktavyam . jaśtvam atra bādhakam bhaviṣyati . jaśbhāvāt iti cet uttaratra ḍhasya abhāvāt apavādaprasaṅgaḥ . jaśbhāvāt iti cet uttaratra ḍhakārasya abhāvāt asiddhatvāt apavādaḥ ayam vijñāyate . kasya . jaśtvasya . tasmāt siddhavacanam . tasmāt siddhatvam vaktavyam . kasya . ṣṭutvasya . saṅgrahaṇam vā . saṅgrahaṇam vā kartavyam . saṅi ḍhaḥ iti vaktavyam . tattarhi vaktavyam . na vaktavyam . ānantaryam iha āśrīyate ḍhakārasya ḍhakāre iti . kva cit ca sannipātakṛtam ānantaryam śāstrakṛtam anānantaryam kva cit ca na eva sannipātakṛtam na api śāstrakṛtam . ṣṭutve sannipātakṛtam ānantaryam jaśtve na eva sannipātakṛtam na api śāstrakṛtam . yatra kutaḥ cit eva ānantaryam tat āśrayiṣyāmaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४२६।१-१९ रो व्,४३५-४३९ विसर्जनीयः अनुत्तरपदे । विसर्जनीयः अनुत्तरपदे इति वक्तव्यम् । इह मा भूत् । नार्कुटः नार्पत्यः इति । न वा बहिरङ्गलक्षणत्वात् । न वा वक्तव्यम् । किम् कारणम् । बहिरङलक्षणत्वात् । बहिरङ्गः रेफः । अन्तरङ्गः विसर्जनीयः । असिद्धम् बहिरङ्गम् अन्तरङ्गे । न एषः युक्तः परिहारः । अन्तरङ्गम् बहिरङ्गम् इति प्रतिद्वन्द्वभाविनौ एतौ पक्षौ । सति अन्तरङ्गे बहिरङ्गम् सति बहिरङ्गे अन्तर्गम् । न च अत्र अन्तरङ्गबहिरङ्गयोः युगपत् समवस्थानम् अस्ति । किम् कारणम् । असिद्धत्वात् । न च अनभिनिर्वृत्ते बहिरङ्गे अन्तरङ्गम् प्राप्नोति । तत्र निमित्तम् एव बहिरङ्गम् अन्तरङ्गस्य । अनिमित्तम् बहिरङ्गम् अन्तरङ्गस्य । किम् कारणम् । असिद्धत्वात् । कथम् असिद्धत्वम् यावता पूर्वत्र असिद्धम् इति असिद्धा परिभाषा । असिद्धम् बहिरङ्गम् अन्तरङ्गे । कथम् । कार्यकालम् सञ्ज्ञापरिभाषम् इति खरवसानयोर्विसर्जनीयः उपस्थितम् इदम् भवति असिद्धम् बहिरङ्गम् अन्तरङ्गे इति । एवम् एषा सिद्धा परिभाषा भवति । कुतः नु खलु एतत् द्वयोः परिभाषयोः सावकाशयोः समवस्थितयोः पूर्वत्र असिद्धम् इति च असिद्धम् बहिरङ्गम् अन्तरङ्गे इति च पूर्वत्रासिद्धम् इति एताम् उपमृद्य असिद्धम् बहिरङ्गम् अन्तरङ्गे इति एतया व्यवस्था भविष्यति न पुनः असिद्धम् बहिरङ्गम् अन्तरङ्गे इति एताम् उपमृद्य पुर्वत्रासिद्धम् इति एतया व्यवस्था स्यात् । अतः किम् । अतः अयुक्तः परिहारः न वा बहिरङ्गलक्षणत्वात् इति ।

KA III,426.1-19 Ro V,435-439 visarjanīyaḥ anuttarapade . visarjanīyaḥ anuttarapade iti vaktavyam . iha mā bhūt . nārkuṭaḥ nārpatyaḥ iti . na vā bahiraṅgalakṣaṇatvāt . na vā vaktavyam . kim kāraṇam . bahiraṅalakṣaṇatvāt . bahiraṅgaḥ rephaḥ . antaraṅgaḥ visarjanīyaḥ . asiddham bahiraṅgam antaraṅge . na eṣaḥ yuktaḥ parihāraḥ . antaraṅgam bahiraṅgam iti pratidvandvabhāvinau etau pakṣau . sati antaraṅge bahiraṅgam sati bahiraṅge antargam . na ca atra antaraṅgabahiraṅgayoḥ yugapat samavasthānam asti . kim kāraṇam . asiddhatvāt . na ca anabhinirvṛtte bahiraṅge antaraṅgam prāpnoti . tatra nimittam eva bahiraṅgam antaraṅgasya . animittam bahiraṅgam antaraṅgasya . kim kāraṇam . asiddhatvāt . katham asiddhatvam yāvatā pūrvatra asiddham iti asiddhā paribhāṣā . asiddham bahiraṅgam antaraṅge . katham . kāryakālam sañjñāparibhāṣam iti kharavasānayorvisarjanīyaḥ upasthitam idam bhavati asiddham bahiraṅgam antaraṅge iti . evam eṣā siddhā paribhāṣā bhavati . kutaḥ nu khalu etat dvayoḥ paribhāṣayoḥ sāvakāśayoḥ samavasthitayoḥ pūrvatra asiddham iti ca asiddham bahiraṅgam antaraṅge iti ca pūrvatrāsiddham iti etām upamṛdya asiddham bahiraṅgam antaraṅge iti etayā vyavasthā bhaviṣyati na punaḥ asiddham bahiraṅgam antaraṅge iti etām upamṛdya purvatrāsiddham iti etayā vyavasthā syāt . ataḥ kim . ataḥ ayuktaḥ parihāraḥ na vā bahiraṅgalakṣaṇatvāt iti .

Sanskrit only: no published translation is held for this verse.