क्अ इइइ,३७०।२०-३७१।२ रो व्,३१९ अत्यन्तसहचरिते लोकविज्ञाते द्वन्द्वम् इति उपसङ्ख्यानम् । अत्यन्तसहचरिते लोकविज्ञाते द्वन्द्वम् इति उपसङ्ख्यानम् कर्तव्यम् । द्वन्द्वम् स्कन्दविशाखौ । द्वन्द्वम् नारदपर्वतौ । अत्यन्तसहचरिते इति किमर्थम् । द्वौ युधिष्ठिरार्जुनौ । लोकविज्ञाते इति किमर्थम् । द्वौ देवदत्तयज्ञदत्तौ । क्अ इइइ,३७१।२-७ रो व्,३१९ अथ द्वन्द्वम् इति किम् निपात्यते । द्वन्द्वम् इति पूर्वपदस्य च अम्भावः उत्तरपदस्य च अत्वम् नपुंसकत्वम् च । पूर्वपदस्य च अम्भावः निपात्यते उत्तरपदस्य च अत्वम् नपुंसकत्वम् च । उक्तम् वा । किम् उक्तम् । लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य इति तत्र नपुंसकत्वम् अनिपात्यम् ।
KA III,370.20-371.2 Ro V,319 atyantasahacarite lokavijñāte dvandvam iti upasaṅkhyānam . atyantasahacarite lokavijñāte dvandvam iti upasaṅkhyānam kartavyam . dvandvam skandaviśākhau . dvandvam nāradaparvatau . atyantasahacarite iti kimartham . dvau yudhiṣṭhirārjunau . lokavijñāte iti kimartham . dvau devadattayajñadattau . KA III,371.2-7 Ro V,319 atha dvandvam iti kim nipātyate . dvandvam iti pūrvapadasya ca ambhāvaḥ uttarapadasya ca atvam napuṃsakatvam ca . pūrvapadasya ca ambhāvaḥ nipātyate uttarapadasya ca atvam napuṃsakatvam ca . uktam vā . kim uktam . liṅgam aśiṣyam lokāśrayatvāt liṅgasya iti tatra napuṃsakatvam anipātyam .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.