क्अ इइइ,३७६।१-१० रो व्,३३१ किम् इदम् अपूर्वग्रहणम् जातुविशेषणम् । जातुशब्दात् अपूर्वात् तिङन्तम् इति । आहोस्वित् तिङन्तविशेषणम् । जातुशब्दात् तिङन्तम् अपूर्वम् इति । जातुविशेषणम् इति आह । कथम् ज्ञायते । यत् अयम् किंवृत्तञ्चचिदुत्तरम् इति आह । कथम् कृत्वा ज्ञापकम् । अत्र अपि अपूर्वम् इति एतत् अनुवर्तते न च अस्ति सम्भवः यत् किंवृत्तम् च चिदुत्तरम् स्यात् तिङन्तम् च अपूर्वम् । अत्र अपि तिङन्तविशेषणम् एव । कथम् । किंवृत्तात् चिदुत्तरात् तिङन्तम् अपूर्वम् इति । यत् तर्हि आहोउताहोचानन्तरम् इति अनन्तरग्रहणम् करोति । एतस्य अपि अस्ति वचने प्रयोजनम् । किम् । शेषप्रकॢप्त्यर्थम् एतत् स्यात् । शेषेविभाषा कः च शेषः । सान्तरम् शेषः इति । अन्तरेण अपि अनन्तरग्रहणम् प्रकॢप्तः शेषः । कथम्। अपूर्वः इति वर्तते । शेषे विभाषा । कः च शेषः । सपूर्वः शेषः इति ।
KA III,376.1-10 Ro V,331 kim idam apūrvagrahaṇam jātuviśeṣaṇam . jātuśabdāt apūrvāt tiṅantam iti . āhosvit tiṅantaviśeṣaṇam . jātuśabdāt tiṅantam apūrvam iti . jātuviśeṣaṇam iti āha . katham jñāyate . yat ayam kiṃvṛttañcaciduttaram iti āha . katham kṛtvā jñāpakam . atra api apūrvam iti etat anuvartate na ca asti sambhavaḥ yat kiṃvṛttam ca ciduttaram syāt tiṅantam ca apūrvam . atra api tiṅantaviśeṣaṇam eva . katham . kiṃvṛttāt ciduttarāt tiṅantam apūrvam iti . yat tarhi āhoutāhocānantaram iti anantaragrahaṇam karoti . etasya api asti vacane prayojanam . kim . śeṣaprakḷptyartham etat syāt . śeṣevibhāṣā kaḥ ca śeṣaḥ . sāntaram śeṣaḥ iti . antareṇa api anantaragrahaṇam prakḷptaḥ śeṣaḥ . katham. apūrvaḥ iti vartate . śeṣe vibhāṣā . kaḥ ca śeṣaḥ . sapūrvaḥ śeṣaḥ iti .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.