क्अ इइइ,३८७।४-१८ रो व्,३५९-३६१ अथ सञ्ज्ञाविधौ किम् उदाहरणम् । पञ्च सप्त । पञ्च सप्त इति अत्र नलोपे कृते ष्णान्ताषट् इति षट्सञ्ज्ञा न प्राप्नोति । असिद्धत्वात् भवति । सञ्ज्ञाग्रहणानर्थक्यम् च तन्निमित्तत्वात् लोपस्य । सञ्ज्ञाग्रहणम् च अनर्थकम् । किम् कारणम् । तन्निमित्तत्वात् लोपस्य । न अकृतायाम् षट्सञ्ज्ञायाम् जश्शसोः लुक् न च अकृते लुकि पदसञ्ज्ञा न च अकृतायाम् पदसञ्ज्ञायाम् नलोपः प्राप्नोति । तत् एतत् आनुपूर्व्या सिद्धम् भवति । इदम् तर्हि प्रयोजनम् पञ्चभिः सप्तभिः इति षट्त्रिचतुर्भ्योहलादिः झल्युपोत्तमम् इति एषः स्वरः यथा स्यात् । स्वरे अवधारणात् च । स्वरे अवधारणात् च सञ्ज्ञाग्रहणम् अनर्थकम् । स्वरे अवधारणम् क्रियते स्वरविधिम् प्रति इति । तुग्विधौ किम् उदाहरणम् । वृत्रहभ्याम् वृत्रहभिः । नलोपे कृते ह्रस्वस्यपितिकृतितुक् इति तुक् प्राप्नोति । असिद्धत्वात् न भवति । तुग्विधौ च उक्तम् । किम् उक्तम् । सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति । इदम् तर्हि प्रयोजनम् । कृति इति वक्ष्यामि । इह मा भूत् । ब्रह्महच्छत्रम् भ्रूणहच्छाया । न एषः सन्निपातलक्षणः ।
KA III,387.4-18 Ro V,359-361 atha sañjñāvidhau kim udāharaṇam . pañca sapta . pañca sapta iti atra nalope kṛte ṣṇāntāṣaṭ iti ṣaṭsañjñā na prāpnoti . asiddhatvāt bhavati . sañjñāgrahaṇānarthakyam ca tannimittatvāt lopasya . sañjñāgrahaṇam ca anarthakam . kim kāraṇam . tannimittatvāt lopasya . na akṛtāyām ṣaṭsañjñāyām jaśśasoḥ luk na ca akṛte luki padasañjñā na ca akṛtāyām padasañjñāyām nalopaḥ prāpnoti . tat etat ānupūrvyā siddham bhavati . idam tarhi prayojanam pañcabhiḥ saptabhiḥ iti ṣaṭtricaturbhyohalādiḥ jhalyupottamam iti eṣaḥ svaraḥ yathā syāt . svare avadhāraṇāt ca . svare avadhāraṇāt ca sañjñāgrahaṇam anarthakam . svare avadhāraṇam kriyate svaravidhim prati iti . tugvidhau kim udāharaṇam . vṛtrahabhyām vṛtrahabhiḥ . nalope kṛte hrasvasyapitikṛtituk iti tuk prāpnoti . asiddhatvāt na bhavati . tugvidhau ca uktam . kim uktam . sannipātalakṣaṇaḥ vidhiḥ animittam tadvighātasya iti . idam tarhi prayojanam . kṛti iti vakṣyāmi . iha mā bhūt . brahmahacchatram bhrūṇahacchāyā . na eṣaḥ sannipātalakṣaṇaḥ .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.