क्अ इइइ,४१४।८-१९ रो व्,४१२-४१३ अदसः अनोस्रेः । अदसः अनोस्रेः इति वक्तव्यम् । किम् इदम् अनोस्रेः इति । अनोकारस्य असकारस्य अरेफकस्य इति । अनोकारस्य । अदः अत्र । असकारस्य । अदस्यते । अरेफकस्य । अदः । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । क्रियते न्यासे एव । अविभक्तिकः निर्देशः । अदस् , ओ , इति । ओकारात् परः पतिषेधः पूर्वभूतः । ततः सकारः । ततः रेफः इति । अथ वा न एवम् विज्ञायते अदसः असकारस्य इति । कथम् तर्हि । अकारः अस्य सकारस्य सः अयम् असिः असेः इति । यदि एवम् अमुमुयङ् इति न सिध्यति अदद्र्यङ् इति प्राप्नोति । अदमुयङ् इति भवितव्यम् अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति इति । अदसः अद्रेः पृथक् मुत्वम् केचित् इच्छन्ति लत्ववत् । केचित् अन्त्यसदेशस्य । न इति एके । असेः हि दृश्यते ।
KA III,414.8-19 Ro V,412-413 adasaḥ anosreḥ . adasaḥ anosreḥ iti vaktavyam . kim idam anosreḥ iti . anokārasya asakārasya arephakasya iti . anokārasya . adaḥ atra . asakārasya . adasyate . arephakasya . adaḥ . tat tarhi vaktavyam . na vaktavyam . kriyate nyāse eva . avibhaktikaḥ nirdeśaḥ . adas , o , iti . okārāt paraḥ patiṣedhaḥ pūrvabhūtaḥ . tataḥ sakāraḥ . tataḥ rephaḥ iti . atha vā na evam vijñāyate adasaḥ asakārasya iti . katham tarhi . akāraḥ asya sakārasya saḥ ayam asiḥ aseḥ iti . yadi evam amumuyaṅ iti na sidhyati adadryaṅ iti prāpnoti . adamuyaṅ iti bhavitavyam anantyavikāre antyasadeśasya kāryam bhavati iti . adasaḥ adreḥ pṛthak mutvam kecit icchanti latvavat . kecit antyasadeśasya . na iti eke . aseḥ hi dṛśyate .
Sanskrit only: no published translation is held for this verse.