क्अ इइइ,४६५।१६-४६७।३ रो व्,५०९-५१२ किमर्थम् इदम् उच्यते । अकारः अयम् अक्षरसमाम्नाये विवृतः उपदिष्टः तस्य संवृतताप्रत्यापत्तिः क्रियते । किम् पुनः कारणम् विवृतः उपदिश्यते । आदेशार्थम् सवर्णार्थम् अकारः विवृतः स्मृतः । आकारस्य तथा ह्रस्वः तदर्थम् पाणिनेः अ अ । आदेशार्थम् तावत् । वृक्षाभ्याम् , देवदत्ता३ । आन्तर्यतः विवृतस्य विवृतौ दीर्घप्लुतौ यथा स्याताम् । सवर्णार्थम् च । अकारः सवर्णग्रहणेन आकारम् अपि यथा गृह्णीयात् । आकारस्य तथा ह्रस्वः । तथा च अतिखट्वः , अतिमालः इति अत्र आकारस्य ह्रस्वः उच्यमानः विवृतः प्राप्नोति सः संवृतः स्यात् इति एवमर्था प्रयापत्तिः । अस्ति प्रयोजनम् एतत् । किम् तर्हि इति । अकारस्य प्रत्यापत्तौ दीर्घप्रतिषेधः । अकारस्य प्रत्यापत्तौ दीर्घस्य प्रतिषेधः वक्तव्यः । खट्वा माला । न एषः दोषः । यथा एव प्रकृतितः सवर्णग्रहणम् एवम् आदेशतः अपि भवितव्यम् तत्र आन्तर्यतः ह्रस्वस्य ह्रस्वः दीर्घस्य दीर्घः भविष्यति । आदेशस्य च अनण्त्वात् न सवर्णग्रहणम् । आदेशस्य च अनण्त्वात् सवर्णानाम् ग्रहणम् न प्राप्नोति । केषाम् । उदात्तानुदात्तस्वरितानुनासिकानाम् । सिद्धम् तु तपरनिर्देशात् । सिद्धम् एतत् । कथम् । तपरनिर्देशात् । तपरनिर्देशः कर्तव्यः । अत् अ* इति । अपरः आह : अकारस्य प्रत्यापत्तौ दीर्घप्रतिषेधः । अकारस्य प्रत्यापत्तौ दीर्घस्य प्रतिषेधः वक्तव्यः : खट्वा माला । न एषः दोषः । दीर्घोच्चारणसामर्थ्यात् न भविष्यति । इदम् तर्हि प्रयोजनम् । वृक्षाभ्याम् प्लक्षाभ्याम् । अत्र अपि दीर्घवचनसामर्थ्यात् न भविष्यति । इदम् तर्हि । अपि काकः श्येनायते । ननु च अत्र अपि दीर्घवचनसमर्थ्यात् एव न भविष्यति । अस्ति अन्यत् दीर्घवचने प्रयोजनम् । किम् । दधीयति मधूयति । अत्र एव च एषः दोषः आदेशस्य च अनण्त्वात् सवर्णानाम् ग्रहणम् न प्राप्नोति । केषाम् । उदात्तानुदात्तस्वरितानुनासिकानाम् । सिद्धम् तु तपरनिर्देशात् । सिद्धम् एतत् । कथम् । तपरनिर्देशात् । तपरनिर्देशः कर्तव्यः । अत् अत् इति । एकशेषनिर्देशात् वा स्वरभिन्नानाम् भगवतः पाणिनेः सिद्धम् । एकशेषनिर्देशात् वा स्वरभिन्नानम् भगवतः पाणिनेः आचार्यस्य सिद्धम् । एकशेषनिर्देसः अयम् । अ , अ , अ इति ।
KA III,465.16-467.3 Ro V,509-512 kimartham idam ucyate . akāraḥ ayam akṣarasamāmnāye vivṛtaḥ upadiṣṭaḥ tasya saṃvṛtatāpratyāpattiḥ kriyate . kim punaḥ kāraṇam vivṛtaḥ upadiśyate . ādeśārtham savarṇārtham akāraḥ vivṛtaḥ smṛtaḥ . ākārasya tathā hrasvaḥ tadartham pāṇineḥ a a . ādeśārtham tāvat . vṛkṣābhyām , devadattā3 . āntaryataḥ vivṛtasya vivṛtau dīrghaplutau yathā syātām . savarṇārtham ca . akāraḥ savarṇagrahaṇena ākāram api yathā gṛhṇīyāt . ākārasya tathā hrasvaḥ . tathā ca atikhaṭvaḥ , atimālaḥ iti atra ākārasya hrasvaḥ ucyamānaḥ vivṛtaḥ prāpnoti saḥ saṃvṛtaḥ syāt iti evamarthā prayāpattiḥ . asti prayojanam etat . kim tarhi iti . akārasya pratyāpattau dīrghapratiṣedhaḥ . akārasya pratyāpattau dīrghasya pratiṣedhaḥ vaktavyaḥ . khaṭvā mālā . na eṣaḥ doṣaḥ . yathā eva prakṛtitaḥ savarṇagrahaṇam evam ādeśataḥ api bhavitavyam tatra āntaryataḥ hrasvasya hrasvaḥ dīrghasya dīrghaḥ bhaviṣyati . ādeśasya ca anaṇtvāt na savarṇagrahaṇam . ādeśasya ca anaṇtvāt savarṇānām grahaṇam na prāpnoti . keṣām . udāttānudāttasvaritānunāsikānām . siddham tu taparanirdeśāt . siddham etat . katham . taparanirdeśāt . taparanirdeśaḥ kartavyaḥ . at a* iti . aparaḥ āha : akārasya pratyāpattau dīrghapratiṣedhaḥ . akārasya pratyāpattau dīrghasya pratiṣedhaḥ vaktavyaḥ : khaṭvā mālā . na eṣaḥ doṣaḥ . dīrghoccāraṇasāmarthyāt na bhaviṣyati . idam tarhi prayojanam . vṛkṣābhyām plakṣābhyām . atra api dīrghavacanasāmarthyāt na bhaviṣyati . idam tarhi . api kākaḥ śyenāyate . nanu ca atra api dīrghavacanasamarthyāt eva na bhaviṣyati . asti anyat dīrghavacane prayojanam . kim . dadhīyati madhūyati . atra eva ca eṣaḥ doṣaḥ ādeśasya ca anaṇtvāt savarṇānām grahaṇam na prāpnoti . keṣām . udāttānudāttasvaritānunāsikānām . siddham tu taparanirdeśāt . siddham etat . katham . taparanirdeśāt . taparanirdeśaḥ kartavyaḥ . at at iti . ekaśeṣanirdeśāt vā svarabhinnānām bhagavataḥ pāṇineḥ siddham . ekaśeṣanirdeśāt vā svarabhinnānam bhagavataḥ pāṇineḥ ācāryasya siddham . ekaśeṣanirdesaḥ ayam . a , a , a iti .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.